Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ८

प्रातर्-अर्चा-समापनः

8.401

श्लोक

एवं कृत्वा तु कृष्णस्य यः कुर्याद् द्विः प्रदक्षिणाम् । सप्त-द्वीपवती-पुण्यं लभते तु पदे पदे । पठन् नाम-सहस्रं तु नामान्य् एवाथ केवलम् ॥ ४०१ ॥

8.402

श्लोक

विष्णुं प्रदक्षिणी-कुर्वाण् यस् तत्रावर्तते पुनः । तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥ ४०२ ॥

8.403

श्लोक

प्रदक्षिणा-त्रयं कुर्याद् यो विष्णोर् मनुजेश्वर । सर्व-पाप-विनिर्मुक्तो देवेन्द्रत्वं समश्नुते ॥ ४०३ ॥

8.404

श्लोक

भक्त्या कुर्वन्ति ये विष्णोह् प्रदक्षिणा-चतुष्टयम् । तेऽपि यन्ति परं स्थानम् सर्व-लोकोत्तमोत्तमम् ॥ ४०४ ॥

8.405

श्लोक

तत् ख्यातं यत् सु-धर्मस्य पूर्वस्मिन् गृध्र-जन्मनि । कृष्ण-प्रदक्षिणाभ्यासान् महा-सिद्धिर् अभूद् इति ॥ ४०५ ॥

8.406

श्लोक

एक-हस्त-प्रणामश् च एका चैव प्रदक्षिणा । अकाले दर्शनं विष्णोर् हन्ति पुण्यं पुरा-कृतम् ॥ ४०६ ॥

8.407

श्लोक

कृष्णस्य पुरतो नैव सूर्यस्यैव प्रदक्षिणाम् । कुर्याद् भ्रमरिका-रूपां वैमुख्य-पदनीं प्रभोः ॥ ४०७ ॥

8.408

श्लोक

प्रदक्षिणां न कर्तव्यं विमुखत्वाच् च कारणात् ॥ ४०८ ॥

8.409

श्लोक

ततः श्री-कृष्ण-पादाब्जे दास्येनैव समर्पयेत् । त्रिभिर् मन्त्रैः स्व-कर्माणि सर्वाण्य् आत्मानम् अप्य् अथ ॥ ४०९ ॥

8.410

श्लोक

इतः पूर्वं प्राण-बुद्धि-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं श्री-कृष्णार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये समर्पयामीति । ॐ तत् सत् ॥ ४१० ॥

8.411

श्लोक

विरागी चेत् कर्म-फले न किञ्चिद् अपि कारयेत् । अर्पयेत् स्व-कृतं कर्म प्रीयताम् इति मे हरिः ॥ ४११ ॥

8.412

श्लोक

प्रीणातु भगवान् ईशः कर्मणानेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणम् इदं परम् ॥ ४१२ ॥

8.413

श्लोक

यद् वा फलानां सन्न्यासं प्रकुर्यात् परमेश्वरे । कर्मणाम् एतद् अप्य् आहुर् ब्रह्मार्पणम् अनुत्तमम् ॥ ४१३ ॥

8.414

श्लोक

दक्षेण पाणिनार्घ्य-स्थं गृहीत्वा चुलुकोदकम् । निधाय कृष्ण-पादाब्ज-समीपे प्रार्थयेद् इदम् ॥ ४१४ ॥

8.415

श्लोक

पाद-त्रय-क्रमाक्रान्त त्रैलोकेश्वर केशव । त्वत्-प्रसादाद् इदं तोयं पाद्यं तेऽस्तु जनार्दन ॥ ४१५ ॥

8.416

श्लोक

पर-लोक-फल-प्रेप्सुः कुर्यात् कर्माण्य् अतन्द्रितः । हरेर् निवेदयेत् तानि तत् सर्वं त्व् अक्षयं भवेत् ॥ ४१६ ॥

8.417

श्लोक

कृष्णार्पित-फलाः कृष्णं स्व-धर्मेण यजन्ति ये । विष्णु-भक्त्य्-अर्थिनो धन्यास् तेभ्योऽपीह नमो नमः ॥ ४१७ ॥

8.418

श्लोक

अहं भगवतोऽंशोऽस्मि सदा दासोऽस्मि सर्वथा । तत्-कृपापेक्षको नित्यम् इ त्य् आत्मानं समर्पयेत् ॥ ४१८ ॥

8.419

श्लोक

सत्य् अपि भेदापगमे नाथ तवाहं न मामकीनस् त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ ४१९ ॥

8.420

श्लोक

स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥ ४२० ॥

8.421

श्लोक

मयात्म-भूयाय च कल्पते वै ॥ ४२१ ॥

8.422

श्लोक

जपस्य पुरतः कृत्वा प्राणायाम-त्रयं बुधः । मन्त्रार्थ-स्मृति-पूर्वं च जपेद् अष्टोत्तरं शतम् । मूलं लेख्येन विधिना सदैव जप-मालया ॥ ४२२ ॥

8.423

श्लोक

शक्तौऽष्टाधिक-साहस्रम् जपेत् तं चार्पयन् जपम् । प्राणायामांश् च कृत्वा त्रीन् दद्यात् कृष्ण-करे जलम् ॥ ४२३ ॥

8.424

श्लोक

गुह्यातिगुह्य-गोप्ता त्वं गृहाणास्मत्-कृतं जपम् । सिद्धिर् भवतु मे देव त्वत्-प्रसादात् त्वयि स्थिते ॥ ४२४ ॥

8.425

श्लोक

जप-प्रकारो योऽपेक्ष्यो मालादि-नियमात्मकः । पुरश्चर्या-प्रसङ्गे तु स विलिख्यतेऽग्रतः ॥ ४२५ ॥

8.426

श्लोक

अर्पितं तं च सञ्चिन्त्य स्वीकृतं प्रभुणाखिलम् । पुनः स्तुत्वा यथा-शक्ति प्रणम्य प्रार्थयेद् इदम् ॥ ४२६ ॥

8.427

श्लोक

मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं जनार्दन । यत् पूजितं मया देव परिपूर्णं तद् अस्तु मे ॥ ४२७ ॥

8.428

श्लोक

यद् दत्तं भक्ति-मात्रेण पत्रं पुष्पं फलं जलम् । आवेदितं निवेद्यं तु तद् गृहाणानुकम्पया ॥ ४२८ ॥

8.429

श्लोक

विधि-हीनं मन्त्र-हीनं यत् किञ्चिद् उपपादितम् । क्रिया-मन्त्र-विहीनं वा तत् सर्वं क्षन्तुम् अर्हसि ॥ ४२९ ॥

8.430

श्लोक

अज्ञानाद् अथवा ज्ञानाद् अशुभं यन् मया कृतम् । क्षन्तुम् अर्हसि तत् सर्वं दास्येनैव गृहाण माम् ॥ ४३० ॥

8.431

श्लोक

स्थितिः सेवा गतिर् यात्रा स्मृतिश् चिन्ता स्तुतिर् वचः । भूयात् सर्वात्मना विष्णो मदीयं त्वयि चेष्टितम् ॥ ४३१ ॥

8.432

श्लोक

कृष्ण राम मुकुन्द वामन वासुदेव जगद्-गुरो । मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् ॥ ४३२ ॥

8.433

श्लोक

देव-दानव-नारदादि-वन्द्य दया-निधे । देवकी-सुत देहि मे तव पाद-भक्तिम् अचलाम् ॥ ४३३ ॥

8.434

श्लोक

नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् । तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि ॥ ४३४ ॥

8.435

श्लोक

या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ ४३५ ॥

8.436

श्लोक

त्वय्य् एव भक्तिर् अतुलाव्यभिचारिणी च ॥ ४३६ ॥

8.437

श्लोक

युवतीनां यथा यूनि यूनां च युवतौ यथा । मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि ॥ ४३७ ॥

8.438

श्लोक

ततोऽपराधान् श्री-कृष्णं क्षमा-शीलं क्षमापयेत् । सकाकु कीर्तयन् श्लोकान् उत्तमान् साम्प्रदायिकान् ॥ ४३८ ॥

8.439

श्लोक

अपराध-सहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽहम् इति मां मत्वा क्षमस्व मधुसूदन ॥ ४३९ ॥

8.440

श्लोक

प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति । इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्य् अहम् ॥ ४४० ॥

8.441

श्लोक

यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे । देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः ॥ ४४१ ॥

8.442

श्लोक

उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् । एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् ॥ ४४२ ॥

8.443

श्लोक

पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् । शयनं भक्षणं चापि मिथ्या-भाषणम् एव च ॥ ४४३ ॥

8.444

श्लोक

उच्चैर् भाषा मिथो जल्पो रोदनानि च विग्रहः । निग्रहानुग्रहौ चैव नृषु च क्रूर-भाषणम् ॥ ४४४ ॥

8.445

श्लोक

कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः । अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम् ॥ ४४५ ॥

8.446

श्लोक

शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् । तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥ ४४६ ॥

8.447

श्लोक

विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके । पृष्ठीकृत्यासनं चैव परेषाम् अभिवादनम् ॥ ४४७ ॥

8.448

श्लोक

गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा । अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥ ४४८ ॥

8.449

श्लोक

द्वात्रिंशद्-अपराधा ये कीर्त्यन्ते वसुधे मया । वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ ४४९ ॥

8.450

श्लोक

ये वै न वर्जयन्त्य् एतान् अपराधान् मयोदितान् । सर्व-धर्म-परिभ्रष्टाः पच्यन्ते नरके चिरम् ॥ ४५० ॥

8.451

श्लोक

राजान्न-भक्षणं चैवम् आपद्य् अपि भयावहम् । ध्वान्तागारे हरेः स्पर्शः परं सुकृत-नाशनः ॥ ४५१ ॥

8.452

श्लोक

तथैव विधिम् उल्लङ्घ्य सहसा स्पर्शनं हरेः । द्वारोद्घाटो विना वाद्यं क्रोड-मांस-निवेदनम् ॥ ४५२ ॥

8.453

श्लोक

पादुकाभ्यां तथा विष्णोर् मन्दिरायोपसर्पणम् । कुक्कुरोच्छिष्ट-कलनं मौन-भङ्गोऽच्युतार्चने ॥ ४५३ ॥

8.454

श्लोक

तथा पूजन-काले विड्-उत्सर्गाय सर्पणम् । श्राद्धादिकम् अकृत्वा च नवान्नस्य च भक्षणम् ॥ ४५४ ॥

8.455

श्लोक

अदत्त्वा गन्ध-माल्यादि धूपनं मधुघातिनः । अकर्मण्य् अप्रसूनेन पूजनं च हरेस् तथा ॥ ४५५ ॥

8.456

श्लोक

अकृत्वा दन्त-काष्ठं च कृत्वा निधूवनं तथा । स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥ ४५६ ॥

8.457

श्लोक

रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् । परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥ ४५७ ॥

8.458

श्लोक

क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्य् अजीर्ण-युक् । भक्षयित्वा क्रोड-मांसं पिन्याकं जाल-पादकम् ॥ ४५८ ॥

8.459

श्लोक

तथा कुसुम्भ-शाकं च तैलाभ्यङ्गं विधाय च । हरेः स्पर्शो हरेः कर्म-करणं पातकावहम् ॥ ४५९ ॥

8.460

श्लोक

मम शास्त्रं बहिष्कृत्य अस्माकं यः प्रपद्यते । मुक्त्वा च मम शास्त्राणि शास्त्रम् अन्यत् प्रभाषसे ॥ ४६० ॥

8.461

श्लोक

मद्यपस् तु समासाद्य प्रविशेद् भवनं मम ॥ ४६१ ॥

8.462

श्लोक

यो मे कुसुम्भ-शाकेन प्रापणं कुरुते नरः ॥ ४६२ ॥

8.463

श्लोक

मम दृष्टेर् अभिमुखं ताम्बूलं चर्वयेत् तु यः । कुरूवकः पलाशस्थैः पुष्पैः कुर्यान् ममार्चनम् ॥ ४६३ ॥

8.464

श्लोक

ममार्चाम् आसुरे काले यः करोति विमूढ-धीः । पीठासनोपविष्टो यः पूजयेद् वा निरासनः ॥ ४६४ ॥

8.465

श्लोक

वाम-हस्तेन मां धृत्वा स्नापयेद् वा विमूढ-धीः । पूजा पर्युषितैः पुष्पैः ष्ठीवनं गर्व-कल्पनम् ॥ ४६५ ॥

8.466

श्लोक

तिर्यक्-पुण्ड्र-धरो भूत्वा यः करोति ममार्चनम् । याचितैः पत्र-पुष्पाद्यैर् यः करोति ममार्चनम् ॥ ४६६ ॥

8.467

श्लोक

अप्रक्षालित-पादो यः प्रविशेन् मम मन्दिरम् । अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत् ॥ ४६७ ॥

8.468

श्लोक

अवैष्णवेषु पश्यत्सु मम पूजां करोति यः । अपूजयित्वा विघ्नेशं सम्भाष्य च कपालिनम् ॥ ४६८ ॥

8.469

श्लोक

नरः पूजां तु यः कुर्यात् स्नपनं च नखाम्भसा । अमौनी धर्म-लिप्ताङ्गो मम पूजां करोति यः ॥ ४६९ ॥

8.470

श्लोक

ज्ञेयाः परेऽपि बहवोऽपराधाः सद्-असम्मतैः । आचारैः शास्त्र-विहित-निषिद्धातिक्रमादिभिः । तत्रापि सर्वथा कृष्ण-निर्माल्यं तु न लङ्घयेत् ॥ ४७० ॥

8.471

श्लोक

अतः परं तु निर्माल्यं न लङ्घय महीपते । नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ॥ ४७१ ॥

8.472

श्लोक

कृष्णस्य परितोषेप्सुर् न तच्-छपथम् आचरेत् । नाना-देवस्य निर्माल्यम् उपयुञ्जीत न क्वचित् ॥ ४७२ ॥

8.473

श्लोक

आपाद्य् अपि च कष्टायां देवेश-शपथं नरः । न करोति हि यो ब्रह्मंस् तस्य तुष्यति केशवः ॥ ४७३ ॥

8.474

श्लोक

न धारयति निर्माल्यम् अन्य-देव-धृतं तु यः । भुङ्क्ते न चान्य-नैवेद्यं तस्य तुष्यति केशवः ॥ ४७४ ॥

8.475

श्लोक

संवत्सरस्य मध्ये तु तीर्थे शौकरके मम । कृतोपवासः स्नानेन गङ्गायां शुद्धिम् आप्नुयात् ॥ ४७५ ॥

8.476

श्लोक

मथुरायां तथाप्य् एवं सापराधः शुचि भवेत् ॥ ४७६ ॥

8.477

श्लोक

अनयोस् तीर्थयोर् एकं यः सेवेत सुकृती नरः ॥ सहस्र-जन्म-जनितान् अपराधान् जहाति सः ॥ ४७७ ॥

8.478

श्लोक

अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै । द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ ४७८ ॥

8.479

श्लोक

तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः । अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ ४७९ ॥

8.480

श्लोक

द्वादश्यां जागरे विष्णोर् यः पठेत् तुलसी-स्तवम् । द्वात्रिंशद्-अपराधानि क्षमते तस्य केशवः ॥ ४८० ॥

8.481

श्लोक

यः करोति हरेः पूजां कृष्ण-शत्राङ्कितो नरः । अपराध-सहस्राणि नित्यं हरति केशवः ॥ ४८१ ॥

8.482

श्लोक

ततो भगवता दत्तं मन्यमानो दयालुना । महा-प्रसाद इत्य् उक्त्वा शेषं शिरसि धारयेत् ॥ ४८२ ॥

8.483

श्लोक

अम्बरीष हरेर् लग्नं नीरं पुष्पं विलेपनम् । भक्त्या न धत्ते शिरसा श्वपचाद् अधिको हि सः ॥ ४८३ ॥

8.484

श्लोक

कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने । सर्व-रोगैर् तथा पापैर् मुक्तो भवति नारद ॥ ४८४ ॥

8.485

श्लोक

विष्णोर् निर्माल्य-शेषेण यो गात्रं परिमार्जयेत् । दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः ॥ ४८५ ॥

8.486

श्लोक

मुखे शिरसि देहे तु विष्णूत्तिर्नं तु यो वहेत् । तुलसीं मुनि-शार्दूल न तस्य स्पृशते कलिः ॥ ४८६ ॥

8.487

श्लोक

विष्णु-मूर्ति-स्थितं पुष्पं शिरसा यो वहेन् नरः । अपर्यूषित-पापस् तु यावद् युग-चतुष्टयम् ॥ ४८७ ॥

8.488

श्लोक

किं करिष्यति सु-स्नातो गङ्गायां भूसुरोत्तम । यो वहेत् शिरसा नित्यं तुलसीं विष्णु-सेवितां ॥ ४८८ ॥

8.489

श्लोक

विष्णु-पादाब्ज-संलग्नाम् अहो-रात्रोषितां शुभाम् । तुलसीं धारयेद् यो वै तस्य पुण्यम् अनन्तकम् ॥ ४८९ ॥

8.490

श्लोक

अहो-रत्रं शिरे यस्य तुलसी विष्णु-सेविता । न स लिप्यति पापेन पद्म-पत्रम् इवाम्भसा ॥ ४९० ॥

8.491

श्लोक

विष्णोः शिरः-परिभ्रष्टम् भक्त्या यस् तुलसीं वहेत् । सिध्यान्ति सर्व-कार्याणि मनसा चिन्तितानि च ॥ ४९१ ॥

8.492

श्लोक

प्रमार्जयति यो देहम् तुलस्या वैष्णवो नरः । सर्व-तीर्थ-मयं देहं तत्-क्षनात् द्विज जायते ॥ ४९२ ॥

8.493

श्लोक

हरेर् मूर्त्य्-अवशेषं तु तुलसी-काष्ठ-चन्दनम् । निर्माल्यं तु वहेद् यस् तु कोटि-तीर्थ-फलं लभेत् ॥ ४९३ ॥

8.494

श्लोक

भोजननान्तरं विष्णोर् अर्पितं तुलसी-दलम् । तत्-क्षनात् पाप-निर्मोक्तस् चान्द्रायण-शताधिकः ॥ ४९४ ॥

8.495

श्लोक

कौतुकं शृणु मे देवि विष्णोर् निर्माल्य-वह्निना । तापितं नाशम् आयाति ब्रह्म-हत्यादि-पातकम् ॥ ४९५ ॥

8.496

श्लोक

त्वयोपयुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चितः । उच्छिस्त-भोजिनो दासास् तव मायां जयेम हि ॥ ४९६ ॥

8.497

श्लोक

पादोदक-रता ये च हरेर् निर्माल्य-धारकाः । विष्णु-भक्ति-रता ये वै ते तु त्याज्यः सु-दुरतः ॥ ४९७ ॥

8.498

श्लोक

विसर्जनं तु चेत् कार्यं विसृज्य-वरणानि तत् । देवे तन्-मुद्रया प्रार्थ्य देवं हृदि विसर्जयेत् ॥ ४९८ ॥

8.499

श्लोक

पूजितोऽसि मया भक्त्या भगवन् कमल-पते । स लक्ष्मीको मम स्वान्तं विश विश्रान्ति-हेतवे ॥ ४९९ ॥

8.500

श्लोक

प्रार्थ्यैवं पादुके दत्त्वा सङ्गम् उद्वासयेद् धरिम् । प्राणायामं षड्-अङ्गं च कृत्वा मुद्रां विसर्जनीम् ॥ ५०० ॥