Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १५

दिव्याविर्भावः

15.1

श्लोक

यस्माज्जलविहारादि-महोत्सवपरम्परा । सिध्येद्दीनतरस्यापि तं श्रीचैतन्यमाश्रये ॥ १ ॥

15.2

श्लोक

आरभ्य राकां वैशाखीं ज्येष्ठीं यावन्महोत्सवम् । कुर्यात् सम्पूजयन्नित्यं कृष्णं जलविहारिणम् ॥ २ ॥

15.3

श्लोक

तत्रौष्ण्यतारतम्याद्धि कृष्णं तोयस्थमाचरेत् । वैशाखेऽपि तथाषाढे श्रावणेऽप्यभ्रवर्जिते ॥ ३ ॥

15.4

श्लोक

उत्तापेऽर्कांशुतो जाते शीतलेन सुगन्धिना । जलेन पूरिते पात्रे श्रीकृष्णमुपवेशयेत् ॥ ४ ॥

15.5

श्लोक

नित्यार्चाविधिनाऽभ्यर्च्य सायं सन्ध्यामुपास्य च । देवं सिंहासने नीत्वा गन्धादिभिरथार्चयेत् ॥ ५ ॥

15.6

श्लोक

नीराज्य देवं सर्वेभ्यो दत्त्वा तीर्थं भजेत् स्वयम् । द्वादश्यान्तु विशेषेण रात्रौ तोयस्थमर्चयेत् ॥ ६ ॥

15.7

श्लोक

स्वर्णपात्रेऽथवा रौप्ये ताम्रे वा मृण्मयेऽपि वा । तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् ॥ ७ ॥

15.8

श्लोक

चक्राङ्कितं वा भूपाल निवृत्ते मधुमाधवे । प्रतिमास महाभाग तस्य पुण्यमनन्तकम् ॥ ८ ॥

15.9

श्लोक

यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ । तावत्तस्य कुले कश्चिन्न भवेद्भूप नारकी ॥ ९ ॥

15.10

श्लोक

तस्माज्ज्यैष्ठे सदा भूप तोयस्थं पूजयेद्धरिम् । वीततापो नरस्तिष्ठेद्यावदाहूतसंप्लवम् ॥ १० ॥

15.11

श्लोक

कृतैः सुशीतलैस्तोयैस्तुलसीदलवासितैः ॥ शुचिशुक्रगते काले येऽर्चयिष्यन्ति केशवम् । जलस्थं विविधैः पुष्पैर्मुच्यते यमयातनात् ॥ ११ ॥

15.12

श्लोक

जलस्रष्टा यतो विष्णुर्जलशायी जलप्रियः । तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥ १२ ॥

15.13

श्लोक

नीरमध्यस्थितं कृत्वा शालग्रामसमुद्भवम् । योऽभ्यर्चर्चयेन्महाभक्त्या स भवेत् कुलपावनः ॥ १३ ॥

15.14

श्लोक

कर्किराशिगते सूर्ये मिथुनस्थे विशेषतः । येनार्चितो हरिर्भक्त्या जलमध्ये महीपते ॥ १४ ॥

15.15

श्लोक

द्वादश्यान्तु विशेषेण जलस्थं जलशायिनम् । योऽभ्यर्चयेत् कृतं तेन यज्ञकोटिशतं भुवि ॥ १५ ॥

15.16

श्लोक

पात्रे गन्धादिकं कृत्वा यः क्षिपेद्गरुडध्वजम् । द्वादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेन्नरः ॥ १६ ॥

15.17

श्लोक

घनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् । ए नरा नृपतिश्रेष्ठ तेषां वै नरकं ध्रुवम् ॥ १७ ॥

15.18

श्लोक

तथैवात्युष्णसमये कालिन्द्यादौ विशेषतः । सम्पादयेद्भगवतो जलक्रीडामहोत्सवम् ॥ १८ ॥

15.19

श्लोक

पितामह ह्यशक्तोऽहमुपवासे करोमि किम् । अतो बहुफलं ब्रूहि व्रतमेकमपि प्रभो ॥ १९ ॥

15.20

श्लोक

वृषस्थे मिथुनस्थेऽर्के शुक्ला ह्येकादशी हि या । ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्जिता ॥ २० ॥

15.21

श्लोक

स्नाने वाचमने चैव वर्जयित्वोदकं बुधः । उपयुञ्जीत नैवान्यद्व्रतभङ्गोऽन्यथा भवेत् ॥ २१ ॥

15.22

श्लोक

उदयादुदयं यावद्वर्जयित्वा जलं बुधः । स्वप्रयत्नादवाप्नोति द्वादशद्वादशीफलम् ॥ २२ ॥

15.23

श्लोक

ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् । जलं सुवर्णं दत्त्वा तु द्विजातिभ्यो यथाविधि ॥ २३ ॥

15.24

श्लोक

भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी । एवं कृते तु यत् पुण्यं भीमसेन शृणुष्व तत् ॥ २४ ॥

15.25

श्लोक

संवत्सरस्य या मध्ये एकादश्यो भवन्ति हि । तासां फलमवाप्नोति पुत्र मे नात्र संशयः । इति मां केशवः प्राह शङ्खचक्रगदाधरः ॥ २५ ॥

15.26

श्लोक

धनधान्यवहा पुण्या पुत्रभाग्यसुखप्रदा । उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते ॥ २६ ॥

15.27

श्लोक

यमदूता महाकायाः करालाः कामरूपिणः । दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम् ॥ २७ ॥

15.28

श्लोक

पीताम्बरधराः शङ्खचक्रहस्ता मनोजवाः । अन्तकाले नयन्त्येनं वैष्णवं वैष्णवीं पुरीम् ॥ २८ ॥

15.29

श्लोक

तोयस्य नियमं यस्तु कुरुते वैष्णवोत्तमः । फलं कोटिसुवर्णस्य यामे यामे स पुण्यभाक् ॥ २९ ॥

15.30

श्लोक

स्नानं दानं जपं होमं द्वादश्यां कुरुते नरः । तत् सर्वञ्चाक्षयं प्राप्तमेतत् कृष्णस्य भाषितम् ॥ ३० ॥

15.31

श्लोक

किञ्चापरेण धर्मेण निर्जलैकादशीं नृप । उपोष्य सम्यग्विधिना वैष्णवं पदमाप्नुयात् ॥ ३१ ॥

15.32

श्लोक

यैः कृता भीमसेनैषा निर्जलैकादशी शुभा । स्वकुलं तारितं सर्वं कुलातीतं तथा शतम् । आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरे ॥ ३२ ॥

15.33

श्लोक

आत्मद्रोहः कृतस्तैस्तु यैरेषा न ह्युपोषिता । पापात्मानो दुराचारा दुष्टास्ते नात्र संशयः ॥ ३३ ॥

15.34

श्लोक

यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत् । उभौ तौ स्वर्गमाप्तौ हि नात्र कार्या विचारणा ॥ ३४ ॥

15.35

श्लोक

यथा प्राग्लिखितं कृत्वा सङ्कल्पं नियमं व्रते । जलमादाय गृह्णीयान्मन्त्रेणानेन वैष्णवः ॥ ३५ ॥

15.36

श्लोक

एकादश्यां निराहारो वर्जयिष्यामि वै जलम् । केशवप्रीणनार्थाय अत्यन्तदमनेन च ॥ ३६ ॥

15.37

श्लोक

वर्जयेच्चाम्ब्वहोरात्रं विना चाचमनार्थकम् । विना च प्राशनं पादोदकस्यात्यन्तपावनम् ॥ ३७ ॥

15.38

श्लोक

एकादश्यां निशायान्तु नित्यपूजां विधाय हि । हैमीं त्रैविक्रमीं मूर्ति स्नापयेत् पयआदिभिः ॥ ३८ ॥

15.39

श्लोक

वस्त्रादिकं समर्प्याथाभ्यर्च्य गन्धादिभिश्च ताम् । प्रणम्य जागरं कुर्यात् तदग्रे नर्तनादिना ॥ ३९ ॥

15.40

श्लोक

प्रातःस्नानादि निर्वर्त्य तं त्रिविक्रममर्चयेत् ॥ ४० ॥

15.41

श्लोक

शक्त्याम्बुकुम्भान् विप्रभ्यो दद्याद्गन्धाद्यलङ्कृतान् ॥ ४१ ॥

15.42

श्लोक

देवदेव हृषीकेश संसारार्णवतारक । जलकुम्भप्रदानेन यास्यामि परमां गतिम् ॥ ४२ ॥

15.43

श्लोक

दद्याच्च कनकं छत्रं वस्त्रयुग्ममुपानहौ । जलपात्राणि दिव्यानि विभवे सति वैष्णवः ॥ ४३ ॥

15.44

श्लोक

शक्त्या विप्रान् भोजयित्वा पीत्वा भ्रातृकराज्जलम् । स्वयं वा पीय मौनी सन् भुञ्जीत सह बन्धुभिः ॥ ४४ ॥

15.45

श्लोक

आषाढ-शुक्लद्वादश्यां हरौ शिशियिषौ सति । वैष्णवः पारणं कृत्वा सप्तमुद्राश्च धारयेत् ॥ ४५ ॥

15.46

श्लोक

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैकान्तितर्धये । कुर्वन्नात्मार्पणं तप्तमुद्राभिर्देहमङ्कयेत् ॥ ४६ ॥

15.47

श्लोक

चक्रादिधारणं पुंसां परं सम्बन्धवेदनम् । पातिव्रत्यानिमित्तं हि वलयादि-विभूषणम् ॥ ४७ ॥

15.48

श्लोक

अग्निनैव तु सन्तप्तं चक्रमादाय वैष्णवः । धारयेत् सर्ववर्णानां हरिसालोक्यसिद्धये ॥ ४८ ॥

15.49

श्लोक

कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकां तनुम् । चक्रादिचिह्नितां भूप धारयेद्वैष्णवो नरः ॥ ४९ ॥

15.50

श्लोक

द्वादशारन्तु षट्कोणं वलयत्रयसंयुतम् । हरेः सुदर्शनं तप्तं धारयेत्तद्विचक्षणः ॥ ५० ॥

15.51

श्लोक

गरुत्मन्नविशेषेण सर्ववर्णेष्वयं विधिः । विप्रो वा क्षत्रियो वापि वैश्यः शूद्रस्तथैव च ॥ ५१ ॥

15.52

श्लोक

अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं यथा । ब्राह्मणस्य तथैवेदं तप्तचक्रादिधारणम् ॥ ५२ ॥

15.53

श्लोक

शङ्खचक्राङ्कनं कुर्याद्ब्राह्मणो बाहुमूलयोः । हताग्निनैव सन्तप्य सर्वपापापनुत्तये ॥ ५३ ॥

15.54

श्लोक

चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा । धारयित्वैव विधिवद्ब्रह्मकर्म समारभेत् ॥ ५४ ॥

15.55

श्लोक

अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥ ५५ ॥

15.56

श्लोक

न तस्य किञ्चिदश्नीयादीप कृत्यसहस्रिणः । सर्ववेदविदो वापि सर्वशास्त्रविशारदः । अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् ॥ ५६ ॥

15.57

श्लोक

तप्तेनैवाङ्कनं कुर्याद्ब्राह्मणस्य विधानतः । श्रौतस्मार्तादिसिद्ध्यर्थं मन्त्रसिद्धयै तथैव च ॥ ५७ ॥

15.58

श्लोक

हरेः पूजाधिकारार्थं चक्रं धार्यं विधानतः । वैष्णवत्वस्य सिद्ध्यर्थं भक्तिसिद्धयै विशेषतः ॥ ५८ ॥

15.59

श्लोक

उपवीतादिवद्धार्याः शङ्खचक्रादयस्तथा । ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः ॥ ५९ ॥

15.60

श्लोक

यो ह वै सुश्लोकमौलेधर्माननुतिष्ठमानोऽग्निना चक्रं धत्ते । अग्निर्वै सहस्रारः सहस्रारो नेमिर्नेमिना तप्ततनुः सायुज्यं सलोकतामाप्नोतीति ॥ ६० ॥

15.61

श्लोक

चक्रं विभर्ति वपुषाभितप्तं बलं देवानाममृतस्य विष्णोः । स एति नाकं दुरितं विधूय विशन्ति यद्यतयो वीतरागाः ॥ ६१ ॥

15.62

श्लोक

अतप्ततनुर्न तदामो अश्नुतेऽश्नुता सह इद्वहन्तस्तत् समास्तेति यजुः ॥ ६२ ॥

15.63

श्लोक

प्रतद्विष्णोरब्जचक्रे सुतप्ते जन्माम्भोधिं वर्त्तते चर्षणीन्द्राः । मूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्यन्ये तप्तायुधान्यर्पयन्ति ॥ ६३ ॥

15.64

श्लोक

स होवाच याज्ञवल्क्यस्तत्पुमानात्महिताय प्रेम्णा हरिं भजेत् । सुश्लोकमौलेर्धर्माण्यङ्गेष्वग्निना धत्ते इति शातातपी श्रुतिः ॥ ६४ ॥

15.65

श्लोक

देवासो यत्र विततेन बाहुना सुदर्शनेन प्रयताः स्वर्गमायन् । येनाङ्किता मनवो लोकसृष्टिं वितन्वते ब्राह्मणास्तद्वहन्ति ॥ ६५ ॥

15.66

श्लोक

विष्णुचक्राङ्कितं विनं पूजयेत् सर्वकर्मणि । विष्णुचक्रविहीनन्तु प्रयत्नेन विवर्जयेत् ॥ ६६ ॥

15.67

श्लोक

श्रीकृष्णचक्राङ्कविहीनगात्रः श्मशानतुल्यः पुरुषोऽथ नारी । दृष्ट्वा नरस्तं नृपते सवासाः स्नात्वा समर्चेद्धरिमङ्ग सद्यः ॥ ६७ ॥

15.68

श्लोक

बह्वश्च वेङ्कटाचार्यपादप्रभृतिभिर्बुधैः । श्रुतयः स्मृतयोऽप्यत्र विख्याता लिखिताः पराः ॥ ६८ ॥

15.69

श्लोक

तप्तचक्राङ्कितं दृष्ट्वा ये निन्दन्ति नराधमाः । अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥ ६९ ॥

15.70

श्लोक

शिलाबुद्धिः कृता किंवा प्रतिमायां हरेर्मया । किं मया पथि दृष्टस्य विष्णुभक्तस्य कर्हिचित् ॥ ७० ॥

15.71

श्लोक

तन्मुद्राङ्कितदेहस्य चेतसा नादरः कृतः । येन कर्म-विपाकेन पुत्रशोको ममेदृशः ॥ ७१ ॥

15.72

श्लोक

अशुचिर्वाप्यनाचारः सर्वधर्म-बहिष्कृतः । प्रतप्तशङ्खचक्राभ्यामङ्कितः पङ्क्तिपावनः ॥ ७२ ॥

15.73

श्लोक

म्लेच्छदेशे शुभे वापि चक्राङ्को यत्र तिष्ठति । योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे ॥ ७३ ॥

15.74

श्लोक

आयुधैर्वैष्णवैः सर्वैस्तापितैः स्वत नुं यदि । चिह्नयेद्वैष्णवो यस्तु स याति परमां गतिम् ॥ ७४ ॥

15.75

श्लोक

अग्नितप्तं परितञ्च घृत्वा वै बाहुमूलयोः । त्यक्त्वा यमपुरं घोरं यान्ति विष्णोः परं पदम् ॥ ७५ ॥

15.76

श्लोक

हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् । तेन तीर्थानि यज्ञाश्च लभ्यन्ते नात्र संशयः ॥ ७६ ॥

15.77

श्लोक

अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः । अङ्कयित्वा जपेन्मन्त्रं संसारान्मोक्षभाग्भवेत् ॥ ७७ ॥

15.78

श्लोक

अग्नितप्तेन चक्रेण बाहुमूलेषु लाञ्छिताः । ते सर्वे पापनिर्मुक्ता यान्ति विष्णोः परं पदम् ॥ ७८ ॥

15.79

श्लोक

अप्राकृतमहात्मानो विष्णुचक्रेण लाञ्छिताः । विष्णुचक्रविहीनास्तु प्राकृताः पतिताः स्मृताः ॥ ७९ ॥

15.80

श्लोक

इत्थं निषेधवचनं निर्मूलं सदनादृतम् । समूलं यच्च तत् सम्यग्विध्यभावादितत्परम् ॥ ८० ॥

15.81

श्लोक

तप्तमुद्राधारणार्थमुपचारैस्तु पञ्चभिः । कृष्णमभ्यर्च्य सम्पूज्य चक्रशङ्खौ तथा नमेत् ॥ ८१ ॥

15.82

श्लोक

सुदर्शन नमस्तेऽस्तु पाञ्चजन्य नमोऽस्तु ते ॥ ८२ ॥

15.83

श्लोक

अग्निमभ्यर्च्य मूलेन हुत्वा चाज्याहुतीः क्रती । चक्रशङ्खौ गदादीनि शस्त्राण्यग्नौ प्रतापयेत् ॥ ८३ ॥

15.84

श्लोक

तत्तन्मन्त्रैरथावाह्य तान्यभ्यर्च्य प्रणम्य च । गुरुं कृष्णञ्च सम्बन्ध भक्त्या विज्ञापयेदिदम् ॥ ८४ ॥

15.85

श्लोक

उच्छिष्टभोजनादेव किङ्करः शरणागतः । तप्तचक्रदरादीनि तवाङ्कानीश धारये ॥ ८५ ॥

15.86

श्लोक

भगवन्नारायणकराम्भोरुहस्पर्शदुर्ललिताय ॥ ८६ ॥

15.87

श्लोक

एह्येहि त्वं सहस्रार चक्रराज सुदर्शन । यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥ ८७ ॥

15.88

श्लोक

ॐ नमो भगवते पाञ्चजन्याय विष्णुशङ्खाय । गम्भीरधीरध्वन्याकुलीकृतकौरववाहिनीनाथाय । त्रिरेखादक्षिणावर्ताय त्रिप्रशस्ताय ॥ ८८ ॥

15.89

श्लोक

एह्येहि पाञ्चजन्य त्वं नारायणकरस्थित । यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥ ८९ ॥

15.90

श्लोक

ॐ रं णं मं नं पाञ्चजन्याय नमः ॥ ९० ॥

15.91

श्लोक

ॐ भगवते खड्गाय नन्दकाय त्रैलोक्यपावित्र्याय । सकलसुरासुरसुन्दरीनेत्रोत्पलार्चिताय ॥ ९१ ॥

15.92

श्लोक

एह्येहि खड्गरत्न त्वं नन्दकाख्य सुरार्चित । यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥ ९२ ॥

15.93

श्लोक

ॐ खड्गाय नमः ॥ ९३ ॥

15.94

श्लोक

ॐ नमो भगवत्यै कौमोदक्यै गदायै दानवेन्द्रनिसूदनायै भगवद्भट्टारकवासुदेवलालितायै ॥ ९४ ॥

15.95

श्लोक

एह्येहि त्वं गदे देवि कौमोदक्यायुधेश्वरि । यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥ ९५ ॥

15.96

श्लोक

ॐ रं खं चं फं शं गदायै नमः । एवं पद्माय नमः सशराय सारङ्गाय नमः ॥ ९६ ॥

15.97

श्लोक

सुदर्शन महाज्वाल सूर्यकोटिसमप्रभ । अज्ञानान्धस्य मे नित्यं विष्णोर्मार्गं प्रदर्शय ॥ ९७ ॥

15.98

श्लोक

पाञ्चजन्य निजध्वानध्वस्तपातकसञ्चय । पाहि मां पापिनं घोरसंसारार्णवपातिनम् ॥ ९८ ॥

15.99

श्लोक

इममुच्चारयन्मन्त्रं दक्षिणादिक्रमेण तु । भुजयोश्चक्रपूर्वाणि कृष्णशस्त्राणि धारयेत् ॥ ९९ ॥

15.100

श्लोक

कलत्रादि-परीवारान् निजान् सर्वांश्च वैष्णवः । भगवत्यर्पयन् तप्तमुद्राभिस्ताभिरङ्कयेत् ॥ १०० ॥