Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १३

विष्णु-व्रतोत्सवः

13.1

श्लोक

वन्दे चैतन्य-देवं तं कृष्णं नित्य-नवोत्सवम् । यस्य प्रसादात् सिध्यन्ति दीनस्यापि महोत्सवाः ॥ १ ॥

13.2

श्लोक

प्रातः-स्नानादिकं कृत्वा सुवेशो धौत-वस्त्रकः । व्रतं सङ्कल्प्य कुर्वीत वैष्णवैश् च महोत्सवम् ॥ २ ॥

13.3

श्लोक

दशमी-दिनम् आरभ्य करिष्येऽहं व्रतं तव । त्रि-दिनं देव-देवेश निर्विघ्नं कुरु केशव ॥ ३ ॥

13.4

श्लोक

उत्सवे वासुदेवस्य स्नायाद्योऽशुचि-शङ्कया । तादृशं कश्मलं दृष्ट्वा सवासा जलम् आविशेत् ॥ ४ ॥

13.5

श्लोक

स्तुत्वाथ बहुधा कृष्णं घोषयेन् नियमान्वितम् । श्री-रुक्माङ्गद-मत्तेभ-पटहोद्घोषितं वचः ॥ ५ ॥

13.6

श्लोक

प्रातर् हरि-दिनं लोकास् तिष्ठध्वं चैक-भोजनाः । अक्षार-लवणाः सर्वे हविष्यान्न-निषेविणः ॥ ६ ॥

13.7

श्लोक

अवनी-तल्प-शयनाः प्रिया-सङ्ग-विवर्जिताः । स्मरध्वं देवम् ईशानं पुराणं पुरुषोत्तमम् । सकृद्-भोजन-संसक्ता द्वादश्यां च भविष्यथ ॥ ७ ॥

13.8

श्लोक

वरं स्व-मातृ-गमनं वरं गो-मांस-भक्षनम् । वरं हत्या सुरा-पानं नैकादश्यां तु भोजनम् ॥ ८ ॥

13.9

श्लोक

तिल-मुद्गादृते शस्यं शम्यं गो-धूमको द्रवाः । चणकं देव-धान्यं च एष क्षार-गणः स्मृतः ॥ ९ ॥

13.10

श्लोक

हैमन्तिकं सितास्विन्नं धान्यं मुद्गा यवास् तिलाः । कलाय-कङ्गुनी-वारा वास्तूकं हिल-मोचिका ॥ १० ॥

13.11

श्लोक

षष्ठिका काल-शाकं च मूलकं केमुकेतरत् । कन्दं सैन्धव-सामुद्रे गव्ये च दधि-सर्पिषी ॥ ११ ॥

13.12

श्लोक

पयोऽनुद्धृत-सारं च पनसाम्रे हरीतकी । पिप्पली जीरकं चैव नागरङ्गं च तिन्तिडी ॥ १२ ॥

13.13

श्लोक

कदली लवली धात्री फलान्य् अगुडम् ऐक्षवम् । अतैल-पक्वं मुनयो हविष्याणि प्रचक्षते ॥ १३ ॥

13.14

श्लोक

कांस्यं मांसं मसूरं च क्षौद्रं चानृत-भाषणम् । पुनर् भोजनम् आयासं दशम्यां परिवर्जयेत् ॥ १४ ॥

13.15

श्लोक

कांस्यं मांसं मसूरं च चनकं कोर-दूषकान् । शाकं मधु परान्नं च त्यजेद् उपवसन् स्त्रियम् ॥ १५ ॥

13.16

श्लोक

कांस्यं मांसं मसूरं च पुनर्-भोजन-मैथुनम् । द्यूतमत्य् अम्बु-पानं च दशम्यां सप्त वर्जयेत् ॥ १६ ॥

13.17

श्लोक

कांस्यं मांसं सुरां क्षौद्रं तैलं वितथ-भाषणम् । व्यायामं च प्रवासं च दिवा-स्वापं च मैथुनम् । शिला-पिष्टं मसूरं च द्वादशैतानि सन्त्यजेत् ॥ १७ ॥

13.18

श्लोक

दशम्याम् एक-भक्तं तु कुर्वीत नियतेन्द्रियः । आचम्य दन्त-काष्ठं तु खादयेत् तद्-अनन्तरम् ॥ १८ ॥

13.19

श्लोक

दशम्यां दन्त-काष्ठेन जिह्वां लेखयते यदा । द्वादशी-नियमार्थाय निराशः स्याद् यमस् तदा ॥ १९ ॥

13.20

श्लोक

निर्मार्जयति तत् पापं पटस्थं दीन-मानसः । अभुक्त-कर्मा संयाति पातकी वैष्णवं पदम् ॥ २० ॥

13.21

श्लोक

दिनार्ध-समयेऽतीते भुज्यते नियमेन यत् । एक-भक्तम् इति प्रोक्तं कर्तव्यं तत् प्रयत्नतः ॥ २१ ॥

13.22

श्लोक

ततो रात्रिं नयेतां च ब्रह्मचारी जितेन्द्रियः । भगवन्तं स्मरन् भक्त्या भूमि-शायी सुखं स्वपन् ॥ २२ ॥

13.23

श्लोक

प्रातः स्नात्वार्चयित्वा च भगवन्तं यथा-विधि । ताम्र-पात्रं समादाय व्रत-सङ्कल्पम् आचरेत् ॥ २३ ॥

13.24

श्लोक

गृहीत्वौडुम्बरं पात्रं वारि-पूर्णम् उदङ्-मुखः । उपवासं तु गृह्णीयाद् यद् वा सङ्कल्पयेद् बुधः ॥ २४ ॥

13.25

श्लोक

एकादश्यां निराहारः स्थित्वाहम् अपरेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ २५ ॥

13.26

श्लोक

उच्चारयन् इमं मन्त्रं श्री-कृष्ण-चरणाब्जयोः । पुष्पाञ्जलिं समर्प्याथ मन्त्र-पूतं जलं पिबेत् ॥ २६ ॥

13.27

श्लोक

अष्टाक्षरेण मन्त्रेण त्रि-जप्तेनाभिमन्त्रितम् । उपवास-फलं प्रेप्सुः पिबेत् तोयं समाहितः ॥ २७ ॥

13.28

श्लोक

देवार्चनं ततः कृत्वा पुष्पाञ्जलिम् अथापि वा । सङ्कल्प-मन्त्रम् उच्चार्य देवाय विनिवेदयेत् ॥ २८ ॥

13.29

श्लोक

दशम्यां चार्ध-रात्रोपर्य्-अनुवृत्तौ पुरःसरान् । एकादश्याश् चतुर्यामान् हित्वा सङ्कल्पम् आचरेत् ॥ २९ ॥

13.30

श्लोक

दशम्याः सङ्ग-दोषेण अर्ध-रात्रात् परेण तु । वर्जयेच् चतुरो यामान् सङ्कल्पार्चनयोस् तदा ॥ ३० ॥

13.31

श्लोक

पूर्वायाः सङ्ग-दोषणिकादश्यां स्नान-पूजने । वर्जयन्ति नराः पूर्वान् यामांश् च चतुरो द्विज । तद् ऊर्ध्वं स्नान-पूजादि कर्तव्यं तद्-उपोषितैः ॥ ३१ ॥

13.32

श्लोक

न दिवा शुद्धिम् आप्नोति तदा रात्रौ विधीयते । दिन-कार्यम् अशेषं च कर्तव्यं शर्वरी-मुखे ॥ ३२ ॥

13.33

श्लोक

ततश् च भगवद्भक्त्या परिचर्यादिरूपया । दिन रात्रिं च गमयेदुपवासपरो बुधः ॥ ३३ ॥

13.34

श्लोक

संपूज्य देवदेवेशं भक्त्या परमया युतः । अहोरात्रं क्षिपेद्धीमानुपवासफलाप्तये ॥ ३४ ॥

13.35

श्लोक

उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥ ३५ ॥

13.36

श्लोक

गन्धालङ्कारवासांसि पुष्पमाल्यानुलेपनम् । उपवासेन दुष्यन्ति दन्तधावनमञ्जनम् ॥ ३६ ॥

13.37

श्लोक

पुष्पालङ्कारवस्त्राणि गन्धधूपानुलेपनम् । उपवासे च दुष्यन्ति दन्तधावनमञ्जनम् ॥ ३७ ॥

13.38

श्लोक

विहितस्याननुष्ठानमिन्द्रियाणामनिग्रहः । निषिद्धसेवनं नित्यं वर्जनीयं प्रयत्नतः ॥ ३८ ॥

13.39

श्लोक

असत्यभाषणं द्यूतं दिवास्वापं च मैथुनम् । एकादश्यां न कुर्वीत उपवासपरो नरः ॥ ३९ ॥

13.40

श्लोक

पाषण्डिभिर् असंस्पर्शमसम्भाषणमेव च । विष्णोराराधनपरैर् एतत् कार्यमुपोषितैः ॥ ४० ॥

13.41

श्लोक

तस्मात् पाषण्डिभिः पापैर् आलापस्पर्शने त्यजेत् । विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥ ४१ ॥

13.42

श्लोक

तस्यावलोकनात् सूर्यं पश्येत मतिमान्नरः ॥ ४२ ॥

13.43

श्लोक

संस्पर्शे च बुधः स्नात्वा शुचिराद् इत्यदर्शनात् । सम्भाष्य तान् शुचिषदं चिन्तयेदच्युतं बुधः ॥ ४३ ॥

13.44

श्लोक

क्षमा सत्यं दया मौनं शौचमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषस्तेयवर्जनम् । सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्थितः ॥ ४४ ॥

13.45

श्लोक

दशम्यां संयमं कृत्वा व्रताहे नियतेन्द्रियः । क्रोधहिंसाविहीनश् च कृष्णकीर्त्या दिनं नयेत् ॥ ४५ ॥

13.46

श्लोक

तज्जप्यं तज्जपध्यानं तत्कथाश्रवणादिकम् । तदर्चनं च तन्नामकीर्तनश्रवणादयः । उपवासकृता ह्येते गुणाः प्रोक्ता मनीषिभिः ॥ ४६ ॥

13.47

श्लोक

उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः । तज्जप्य-जापी तत्कर्मरतस्तद्गतमानसः । निष्कामो दैत्यवद्ब्रह्मपदमाप्नोत्यसंशयम् ॥ ४७ ॥

13.48

श्लोक

ब्रह्मचर्यसमायुक्त उपवासं चरेन्नरः ॥ ४८ ॥

13.49

श्लोक

ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । व्रतेष्वेतानि चत्वारि चरितव्यानि नित्यशः ॥ ४९ ॥

13.50

श्लोक

असकृज्जलपानाच्च सकृत् ताम्बुलभक्षणात् । उपवासः प्रदुष्येत दिवास्वापाच्च मैथुनात् ॥ ५० ॥

13.51

श्लोक

दन्तधावन-ताम्बूल-दिवास्वापाच्च मैथुनात् । असकृज्जलपानाच्च नोपवासफलं लभेत् ॥ ५१ ॥

13.52

श्लोक

स्त्रीणान्तु प्रेक्षणात् स्पर्शात्ताभिः संकथनादपि । विपद्यते ब्रह्मचर्यं न दारेष्वृतुसङ्गमात् ॥ ५२ ॥

13.53

श्लोक

ततो नित्यार्चनं कृत्वा हरिघस्रोत्सवार्थिकाम् । कृत्वा सायं महापूजां कुर्याज्जागरणं निशि ॥ ५३ ॥

13.54

श्लोक

देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः । नानापुष्पैर् मुनिश्रेष्ठ विशिष्टं पुष्पमण्डपम् ॥ ५४ ॥

13.55

श्लोक

एकादश्यामुभौ पक्षौ निराहारा समाहितः । स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ॥ ५५ ॥

13.56

श्लोक

संपूज्य विधिवद्विष्णुं श्रद्धयातिसमाहितः । पुष्पैर् गन्धैस्तथा धूपैर् दीपैर् नवेद्यकैः परैः ॥ ५६ ॥

13.57

श्लोक

उपहारैर् बहुविधैर् जपहोमप्रदक्षिणैः । स्तोत्रैर् नानाविधैर् नृत्यगीतवाद्यैर् मनोरमैः ॥ ५७ ॥

13.58

श्लोक

दण्डवत्प्रणिपातैश् च जयशब्दैस्तथोत्तमैः । एवं सम्पूज्य विधिवद्रात्रौ कुर्यात् प्रजागरम् ॥ ५८ ॥

13.59

श्लोक

कथां वा गीतिकां वापि कुर्याद्विष्णुपरायणः । याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥ ५९ ॥

13.60

श्लोक

एकादश्युपरोधे तु रात्रौ संपूजयेद्धरिम् । तां च रात्रिं यथाशक्ति पुराणश्रवणादिना ॥ ६० ॥

13.61

श्लोक

वैष्णवान् जागरेऽभ्यर्च्य तीर्थं शङ्खोदकान्वितम् । तेभ्यो दत्त्वा स्वयं प्राश्य विद्वान् स्तोत्रादिकं पठेत् ॥ ६१ ॥

13.62

श्लोक

पुराणादि ततः श्रुत्वा गीतनृत्यादिकं स्वयम् । कुर्यात् पश्येच्च पारक्यं वारयेन्न हसेन्न च ॥ ६२ ॥

13.63

श्लोक

निवारयति यो गीतं नृत्यं जागरणे हरेः । षष्टियुगसहस्राणि पच्यते रौरवादिषु ॥ ६३ ॥

13.64

श्लोक

नृत्यमानस्य मर्त्यस्य उपहासं करोति यः । जागरे याति निरयं यावदिन्द्राश्चतुर्दृशा ॥ ६४ ॥

13.65

श्लोक

यमेन सूचितं तस्य नरकं यातनाकुलम् । मुखं न तस्य द्रष्टव्यं येन दृष्टा न जागरः ॥ ६५ ॥

13.66

श्लोक

उद्धृतं नेत्रयुग्मन्तु दत्त्वा तु हृदये पदम् । कृतं ये नैव पश्यन्ति प्राणिनो हरिजागरम् ॥ ६६ ॥

13.67

श्लोक

येषां चक्षुर्भवं तेजः प्रदग्धं कलिवह्निना । न ते पश्यन्ति कृष्णस्य जागरं न जनार्दनम् ॥ ६७ ॥

13.68

श्लोक

कलिकल्मषजातेन परमेणावृते ध्रुवम् । चक्षुषी पापिनी नृणां ये न पश्यन्ति जागरम् ॥ ६८ ॥

13.69

श्लोक

शृणु नारद वक्ष्यामि जागरस्य तु लक्षणम् । येन विज्ञातमात्रेण दुर्लभो न जनार्दनः ॥ ६९ ॥

13.70

श्लोक

गीतं वाद्यं च नृत्यं च पुराणपठनं तथा । धूपं दीपं च नैवेद्यं पुष्पगन्धानुलेपनम् ॥ ७० ॥

13.71

श्लोक

फलमर्ध्यं च श्रद्धा च दानमिन्द्रियनिग्रहः । सत्यान्वितं विनिद्रं च मुदायुक्तं क्रियान्वितम् ॥ ७१ ॥

13.72

श्लोक

साश्चर्यञ्चैव सोत्साहं पापालस्यादिवर्जितम् । प्रदक्षिणाभिः संयुक्तं नमस्कार-पुरःसरम् ॥ ७२ ॥

13.73

श्लोक

नीराजनसमायुक्तमनिर्विण्णेन चेतसा । यामे यामे महाभाग कुर्यादारात्रिकं हरेः । एतैर् गुणैः समायुक्तं कुर्याज्जागणं हरेः ॥ ७३ ॥

13.74

श्लोक

य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः । जागरं वासरे विष्णोर्लीयते परमात्मनि ॥ ७४ ॥

13.75

श्लोक

धनवान् वित्तशाठ्येन यः करोति प्रजागरम् । तेनात्मा हारितो नूनं कितवेन दुरात्मना ॥ ७५ ॥

13.76

श्लोक

सशास्त्रं जागरं यच्च नृत्यगान्धर्वसंयुतम् । सवाद्यं तालसंयुक्तं सदीपं साधुभिर् युतम् ॥ ७६ ॥

13.77

श्लोक

उपचारैश् च संयुक्तं यथोक्तैर् भक्तभावितैः । मनसस्तुष्टिजननं समुदं लोकरञ्जनम् ॥ ७७ ॥

13.78

श्लोक

गुणैर् द्वादशभिर् युक्तं जागरं माधवप्रियम् । कर्तव्यं तत् प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ॥ ७८ ॥

13.79

श्लोक

परापवादयुक्तन्तु मनः प्रशमवर्जितम् । शास्त्रहीनमगान्धर्वं तथा दीपविवर्जितम् ॥ ७९ ॥

13.80

श्लोक

शक्त्योपचाररहितमुदासीनं सनिद्रकम् । कलियुक्तं विशेषेण जागरं नवधाधमम् ॥ ८० ॥

13.81

श्लोक

अभावे वाचकस्याथ गीतं नृत्यं च कारयेत् । वाचके सति देवेशि पुराणं प्रथमं पठेत् ॥ ८१ ॥

13.82

श्लोक

सम्प्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागरम् । अतीतानागतान् वापि पातयिष्यन्ति पूर्वजान् ॥ ८२ ॥

13.83

श्लोक

अकुर्वाणाः प्रात्स्यन्ति पुत्रधर्मवसुक्षयम् । जायते नरके वासः पितृभिः सह कालशः ॥ ८३ ॥

13.84

श्लोक

न पुरश्चरणात् पापं व्रतैर् दानैः समाधिभिः । विलयं याति विप्रेन्द्रा विना द्वादशीजागरम् ॥ ८४ ॥

13.85

श्लोक

संप्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागर । भ्रश्यते सुकृतं तेषां वैष्णवानां च निन्दया ॥ ८५ ॥

13.86

श्लोक

मतिर्न जायते यस्य द्वादश्यां जागरं प्रति । न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥ ८६ ॥

13.87

श्लोक

हृदये वर्तते यस्य सदा योगेश्वरो हरिः । मतिरुत्पद्यते तस्य द्वादशीजागरोपरि ॥ ८७ ॥

13.88

श्लोक

सामान्येन पुरालेखि गीतवाद्यादिनित्यता । अधुना लिख्यते सोऽयं जागरे च विशेषतः ॥ ८८ ॥

13.89

श्लोक

मूकवत्तिष्ठते यो वै गानं पाठं च नाचरेत् । सप्तजन्मसु मूकत्वं जायते जागरे हरेः ॥ ८९ ॥

13.90

श्लोक

यो न नृत्यति मूढात्मा पुरतो जागरे हरेः । पङ्गुत्वं जायते तस्य सप्तजन्मसु पार्वति ॥ ९० ॥

13.91

श्लोक

स्तुवन्ति न प्रशंसन्ति ये जना जागरं हरेः । नोत्सवो भवते तेषां गृहे जन्मानि सप्त च ॥ ९१ ॥

13.92

श्लोक

स्तुवन्ति ये प्रशंसन्ति जागरं चक्रपाणिनः । नित्योत्सवो भवेत्तेषां जन्मानि दश पं च च ॥ ९२ ॥

13.93

श्लोक

न गयापिण्डदानेन न तीर्थैर् बहुभिर् मखैः । पूर्वजा मुक्तिमायान्ति विना द्वादशि-जागरम् ॥ ९३ ॥

13.94

श्लोक

सर्वावस्थोऽपि यः कुर्याद्द्वादश्यां जागरं हरेः । यामैकैकेन दहतो पाप जन्मसहस्रजम् ॥ ९४ ॥

13.95

श्लोक

यः कुर्याद्दीपदानन्तु रात्रौ जागरणे हरेः । निमेषे निमेषे विप्र लभते गोशतं फलम् ॥ ९५ ॥

13.96

श्लोक

यः कुर्याज्जागरे पूजां द्वादश्यां कुसुमैर् हरेः । पुष्पे पुष्पेऽञ्चमेधस्य फलमाप्नोति मानवः ॥ ९६ ॥

13.97

श्लोक

यो दहेच्चागुरुं विष्णोः पूजां कृत्वा तु जागरे । निमेषार्द्धेन लभते तिलपात्रशतं फलम् ॥ ९७ ॥

13.98

श्लोक

निमेषं च दहेद्धूपं सघृतं गुग्गुलुं हरेः । लभते जागरे विप्र पुण्यं माससमुद्भवम् ॥ ९८ ॥

13.99

श्लोक

यो दद्याज्जागरे विष्णोर्हविष्यान्न-समुद्धवम् । नैवेद्यं लभते पुण्यं शालिशैलसमुद्भवम् ॥ ९९ ॥

13.100

श्लोक

पक्वान्नानि च यो दद्यात् फलानि विविधानि च । जागरे पद्मनाभस्य लभते गोऽयुतं फलम् ॥ १०० ॥