Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ५

आधिष्ठानिकः

5.1

श्लोक

श्री-चैतन्य-प्रभुं वन्दे बालोऽपि यद्-अनुग्रहात् । तरेन् नाना-मत-ग्राह-व्याप्तं पूजा-क्रमार्णवम् ॥ १ ॥

5.2

श्लोक

श्रीमद्-गोपाल-देवस्याष्टादशाक्षर-यन्त्रतः । लिख्यतेऽर्चा-विधिर् गूढः क्रम-दीपिकयेक्षितः ॥ २ ॥

5.3

श्लोक

आगमोक्तेन मार्गेण भगवान् ब्राह्मणैर् अपि । सदैव पूज्योऽतो लेख्यः प्राय आगमिको विधिः ॥ ३ ॥

5.4

श्लोक

कृते श्रुत्य्-उक्त-मार्गः स्यात् त्रेतायां स्मृति-भावितः । द्वापरे तु पुराणोक्तः कलाव् आगम-सम्भवः ॥ ४ ॥

5.5

श्लोक

अशुद्धाः शूद्राकल्पा हि ब्राह्मणाः कलि-सम्भवाः । तेषाम् आगम-मार्गेण शुद्धिर् न श्रौत-वर्त्मना ॥ ५ ॥

5.6

श्लोक

श्री-कृष्ण-द्वार-देवेभ्यो दत्त्वा पाद्यादिकं ततः । गन्ध-पुष्पैर् अर्चयेत् तान् यथा-स्थानं यथा-क्रमम् ॥ ६ ॥

5.7

श्लोक

द्वाराग्रे स-परीवारान् भू-पीठे कृष्ण-पार्षदान् । तद्-अग्रे गरुडं द्वारस्योर्ध्वे द्वार-श्रियं यजेत् ॥ ७ ॥

5.8

श्लोक

प्राग्-द्वारोभय-पार्श्वे तु यजेच् चण्ड-प्रचण्डकौ । द्वारे च दक्षिणे धातृ-विधातारौ च पश्चिमे ॥ ८ ॥

5.9

श्लोक

जयं च विजयं चैव बलं प्रबलम् उत्तरे । द्वन्द्व-शस्त्व् एवम् अभ्यर्च्य देहल्यां वास्तु-पुरुषम् ॥ ९ ॥

5.10

श्लोक

द्वारान्तः-पार्श्वयोर् गङ्गां यमुनां च ततोऽर्चयेत् । तत्-पार्श्वयोः शङ्ख-निधिं तथा पद्म-निधिं यजेत् ॥ १० ॥

5.11

श्लोक

गणेशं मन्दिरस्याग्नि-कोणे दुर्गां च नैरृते । वाणीं वायव्य ऐशाने क्षेत्रपालं तथार्चयेत् ॥ ११ ॥

5.12

श्लोक

द्वाः-शाखाम् आश्रयन् वामां सङ्कोच्याङ्गानि देहलीम् । अस्पृष्ट्वा प्रविशेद् वेश्म न्यस्यन् प्राग् दक्षिणं पदम् ॥ १२ ॥

5.13

श्लोक

किंचित् स्पृशन् वाम-शाखां देहलीं लङ्घयन् गुरुः । अङ्गं सङ्कोचयन्न् अन्तः प्रविशेद् दक्षिणाङ्घ्रिणा ॥ १३ ॥

5.14

श्लोक

प्रविशन्न् आलयं विष्णोर् अर्चनार्थं सुभक्तिमान् । न भूयः प्रविशन् मातुः कुक्षि-कारा-गृहं सुधीः ॥ १४ ॥

5.15

श्लोक

नैरृते वास्तु-पुरुषं ब्रह्माणम् अपि पूजयेत् । आसनस्थो यजेत् तांस् तान् अन्यत्र भगवद्-गृहात् ॥ १५ ॥

5.16

श्लोक

प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमोऽन्तकम् । पूजा-मन्त्रम् इदं प्रोक्तं सर्वत्रार्चन-कर्मणि ॥ १६ ॥

5.17

श्लोक

पुष्पाक्षतान् समस्तासु दिक्षु तत्रोक्त-मन्त्रतः ॥ १७ ॥

5.18

श्लोक

ततश् चासन-मन्त्रेणाभिमन्त्र्याभ्यर्च्य चासनम् । तस्मिन्न् उपविशेत् पद्मासनेन स्वस्तिकेन वा ॥ १८ ॥

5.19

श्लोक

तत्र कृष्णार्चकः प्रायो दिवसे प्राङ्-मुखो भवेत् । उदङ्मुखो रजन्यां तु स्थिर-मूर्तिश् च सम्मुखः ॥ १९ ॥

5.20

श्लोक

आसीनः प्राग् उदग्-वार्चेत् स्थिरायान्त्व् अथ सम्मुखः ॥ २० ॥

5.21

श्लोक

आसन-मन्त्रस्य मेरु-पृष्ठ ऋषिः सुतलं छन्दः । कूर्मो देवता आसनाभिमन्त्रेण विनियोगः ॥ २१ ॥

5.22

श्लोक

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥ २२ ॥

5.23

श्लोक

वंशाश्म-दारु-धरणी-तृण-पल्लव-निर्मितम् ।वर्जयेद् आसनं विद्वान् दारिद्र्य-व्याधि-दुःखदम् । कृष्णाजिनं कम्बलं वा नान्यद् आसनम् इष्यते ॥ २३ ॥

5.24

श्लोक

कृष्णाजिनं व्याघ्र-चर्म कौषेयं वेत्र-निर्मितम् । वस्त्राजिनं कम्बलं वा कल्पयेद् आसनं मृदु ॥ २४ ॥

5.25

श्लोक

वंशाद् आहुर् दरिद्रत्वं पाषाणे व्याधि-सम्भवम् । धरण्यां दुःख-सम्भूतिं दौर्भाग्यं दारवासने ॥ २५ ॥

5.26

श्लोक

तृणासने यशो-हानिं पल्लवे चित्त-विभ्रमम् । दर्भासने व्याधि-नाशं कम्बलं दुःख-मोचनम् ॥ २६ ॥

5.27

श्लोक

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥ २७ ॥

5.28

श्लोक

यथोकतम् उपविश्याथ सम्प्रदायानुसारतः । शङ्खादि-पूजा-सम्भारान् न्यसेत् तत्-तत्-पदेषु तान् ॥ २८ ॥

5.29

श्लोक

स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद् बुधः । तत्रैवार्ध्यादि-पात्राणि न्यस्येच् च द्वारि भागशः ॥ २९ ॥

5.30

श्लोक

तुलसी-गन्ध-पुष्पादि-भाजनानि च दक्षिणे । वामे च स्थापयेत् पार्श्वे कलसं पूर्णम् अम्भसा ॥ ३० ॥

5.31

श्लोक

दक्षिणे घृत-दीपं च तैल-दीपं च वामतः । सम्भारानपरान् न्यसेत् स्व-दृष्टि-विषये पदे । कर-प्रक्षालनार्थं च पात्रम् एकं स्व-पृष्ठतः ॥ ३१ ॥

5.32

श्लोक

नाना-विचित्र-रूपाणि पुण्डरीकाकृतीनि च । शङ्ख-नीलोत्पलाभानि पात्राणि परिकल्पयेत् ॥ ३२ ॥

5.33

श्लोक

रत्नादि-रचितान्य् एव काञ्ची-मूल-युतानि च । यथा-शोभं यथा-लाभं तथा पात्राणि कारयेत् ॥ ३३ ॥

5.34

श्लोक

हंस-पात्रेण सर्वाणि चेप्सितानि लभेन् मुने । अर्घ्यं दत्त्वा तथा रौप्येणायु-राज्यं शुभं भवेत् । ताम्र-पात्रेण सौभाग्यं धर्मं मृण्-मय-सम्भवम् ॥ ३४ ॥

5.35

श्लोक

सौवर्णं राजतं कांस्यं येन दीयते भाजनम् । तान् सर्वान् सम्परित्यज्य ताम्रं तु मम रोचते ॥ ३५ ॥

5.36

श्लोक

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । विशुद्धानां शुचिं चैव ताम्रं संसार-मोक्षणम् ॥ ३६ ॥

5.37

श्लोक

दीक्षितानां विशुद्धानां मम कर्म-परायणः । सदा ताम्रेण कर्तव्यम् एवं भूमि मम प्रियम् ॥ ३७ ॥

5.38

श्लोक

केचिच् च ताम्र-पात्रेषु गव्यादेर् योग-दोषतः । ताम्रातिरिक्तम् इच्छन्ति मधुपर्कस्य भाजनम् ॥ ३८ ॥

5.39

श्लोक

तथैव शङ्खम् एवार्ध्य-पात्रम् इच्छन्ति केचन । शङ्खे कृत्वा तु पानीयं स-पुष्पं सलिलाक्षतम् । अर्घ्यं ददाति देवस्येत्य् एवं स्कान्देऽभिधानतः ॥ ३९ ॥

5.40

श्लोक

मङ्गलार्थं च कलसं सजलं करकान्वितम् । फलादि-सहितं दिव्यं न्यसेद् भगवतोऽग्रतः ॥ ४० ॥

5.41

श्लोक

कुम्भं स-करकं दिव्यं फल-कर्पूर-संयुतम् । न्यसेद् अर्चन-काले तु कृष्णस्यातीव वल्लभम् ॥ ४१ ॥

5.42

श्लोक

सनीरं च स-कर्पूरं कुम्भं कृष्णाय यो न्यसेत् । कल्पं तस्य न पापेक्षां कुर्वन्ति प्रपितामहाः ॥ ४२ ॥

5.43

श्लोक

प्रक्षिपेद् अर्घ्य-पात्रे तु गन्ध-पुष्पाक्षतान् यवान् । कुशाग्र-तिल-दूर्वाश् च सिद्धार्थान् अपि साधकः । केचिच् चात्र जलादीनि द्रव्याण्य् अष्टौ वदन्ति हि ॥ ४३ ॥

5.44

श्लोक

आपः क्षीरं कुशाग्राणि दध्य्-अक्षत-तिलस् तथा । यवाः सिद्धार्थकाश् चैवम् अर्घ्योऽष्टाङ्गः प्रकीर्तितः ॥ ४४ ॥

5.45

श्लोक

पाद्य-पात्रे च कमलं दूर्वा श्यामाकम् एव च । निक्षिपेद् विष्णु-पत्रीं चेत्य् एवं द्रव्य-चतुष्टयम् ॥ ४५ ॥

5.46

श्लोक

तथैवाचमनीयार्थं पात्रे द्रव्य-त्रयं बुधः । जाती-फलं लवङ्गं च कक्कोलम् अपि निक्षिपेत् ॥ ४६ ॥

5.47

श्लोक

मधुपर्कीय-पात्रे च गव्यं दधि पयो घृतम् । मधु-खण्डम् अपीत्य् एवं निक्षिपेद् द्रव्य-पञ्चकम् ॥ ४७ ॥

5.48

श्लोक

केचित् त्रीण्य् एव पात्रेऽस्मिन् द्रव्याणीच्छन्ति साधवः ॥ ४८ ॥

5.49

श्लोक

घृतं दधि तथा क्षौद्रं मधुपर्को विधीयते ॥ ४९ ॥

5.50

श्लोक

दधि-सर्पिर् मधु-समं पात्रे औडुम्बरे मम । मधुनस् तु अलाभे तु गुडेन सह मिश्रयेत् ॥ ५० ॥

5.51

श्लोक

घृतस्यालाभे सुश्रोणि लाजैश् च सह मिश्रयेत् । तथा दध्नोऽप्य् अलाभे तु क्षीरेण सह मिश्रयेत् ॥ ५१ ॥

5.52

श्लोक

तेषाम् अभावे पुष्पादि तत्-तद्-भावनया क्षिपेत् । नारदस् त्व् आह विमलेनोदकेनैव पूर्यते ॥ ५२ ॥

5.53

श्लोक

मूलेन पात्रेणैकेन मष्टकृत्वोऽभिमन्त्रयेत् । कुर्याच् च तेषां पात्राणां रक्षणं चक्र-मुद्रया ॥ ५३ ॥

5.54

श्लोक

पूजाम् आरभमाणो हि यथोक्तासनम् आस्थितः । पठेन् मङ्गल-शान्तिं तां यार्चने सम्मता सताम् ॥ ५४ ॥

5.55

श्लोक

व्यशेम देव-हितं यद् आयुः ॥ ५५ ॥

5.56

श्लोक

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः । स्वस्ति नस् तार्क्षोऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर् दधातु ॥ ५६ ॥

5.57

श्लोक

अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्न-कर्तारस् ते नश्यन्तु शिवाज्ञया ॥ ५७ ॥

5.58

श्लोक

इत्य् उदीर्यास्त्र-मन्त्रेण वाम-पादस्य पार्ष्णिना । घातैस् त्रिभिर् बुधो विघ्नान् भौमान् सर्वान् निवारयेत् ॥ ५८ ॥

5.59

श्लोक

आन्तरीक्षांश् च तेनैवोर्ध्वोर्ध्व-ताल-त्रयेण हि । निरस्योत्सारयेद् दिव्यान् मान्त्रिको दिव्य-दृष्टितः ॥ ५९ ॥

5.60

श्लोक

ततः कृताञ्जलिर् वामे श्री-गुरुं परमं गुरुम् । परमेष्ठि-गुरुं चेति नमेद् गुरु-परम्पराम् ॥ ६० ॥

5.61

श्लोक

गणेशं दक्षिणे भागे दुर्गाम् अग्रेऽथ पृष्ठतः । क्षेत्रपालं नमेद् भक्त्या मध्ये चात्मेष्ट-दैवतम् ॥ ६१ ॥

5.62

श्लोक

ततश् चास्त्रेण संशोध्य करौ कुर्वीत तेन हि । ताल-त्रयं दिशां बन्धम् अग्नि-प्राकारम् एव च ॥ ६२ ॥

5.63

श्लोक

शरीराकार-भूतानां भूतानां यद् विशोधनम् । अव्यय-ब्रह्म-सम्पर्काद् भूत-शुद्धिर् इयं मता ॥ ६३ ॥

5.64

श्लोक

भूत-शुद्धिं विना कर्तुर् जप-होमादिकाः क्रियाः । भवन्ति निष्फलाः सर्वा यथा-विध्य् अप्य् अनिष्ठिताः ॥ ६४ ॥

5.65

श्लोक

कर-कच्छपिकां कृत्वात्मानं बुद्ध्या हृद्-अब्जतः । शिरः-सहस्र-पत्राब्जे परमात्मनि योजयेत् । पृथिव्यादीनि तत्त्वानि तस्मिन् लीनानि भावयेत् ॥ ६५ ॥

5.66

श्लोक

वाम-हस्तं तथोत्तानम् अधो दक्षिण-बन्धितम् । कर-कच्छपिका मुद्रा भूत-शुद्धौ प्रकीर्तिता ॥ ६६ ॥

5.67

श्लोक

देहं संशोष्य दग्ध्वेदम् आप्लाव्यामृत-वर्षतः । उत्पाद्य द्रढयित्वासु-प्रतिष्ठां विधिनाचरेत् ॥ ६७ ॥

5.68

श्लोक

आत्मानम् एवं संशोध्य नीत्वा कृष्णार्चनार्हताम् । वात्सल्याद् धृद्-गतं कृष्णं यष्टुं हृत् पुनर् आनयेत् ॥ ६८ ॥

5.69

श्लोक

नाभिस्थ-वायुना देहं स-पापं शोधयेद् बुधः । वह्निना हृदय-स्थेन दहेत् तच् च कलेवरम् ॥ ६९ ॥

5.70

श्लोक

सहस्रारे महापद्मे ललाट-स्थे स्थितं विधुम् । सम्पूर्ण-मण्डलं शुद्धं चिन्तयेद् अमृतात्मकम् ॥ ७० ॥

5.71

श्लोक

तस्माद् गलित-धाराभिः प्लावयेद् भस्मसाद् बुधः । आभिर् वर्णमयीभिश् च पञ्च-भूतात्मकं वपुः । पूर्ववद् भावयेद् देवीम् ॥ ७१ ॥

5.72

श्लोक

ततस् तस्मात् समाकृष्य प्रणवेन तु मन्त्रवित् । तत् तेजो हृदये न्यस्य चिन्तयेद् विष्णुम् अव्ययम् ॥ ७२ ॥

5.73

श्लोक

किं वा चिन्तन-मात्रेण भूत-शुद्धिं विधाय ताम् । प्राणायामांश् ततः कुर्यात् सम्प्रदायानुसरतः ॥ ७३ ॥

5.74

श्लोक

रेचः षोडश-मात्राभिः पूरो द्वात्रिंशता भवेत् । चतुःषष्ठ्या भवेत् कुम्भ एवं स्यात् प्राण-संयमः ॥ ७४ ॥

5.75

श्लोक

विरेच्य पवनं पूर्वं संकोच्य गुद-मण्डलम् । पूरयित्वा विधानेन स्व-शक्त्या कुम्भके स्थितः ॥ ७५ ॥

5.76

श्लोक

तत्र प्रणवम् अभ्यस्यन् बीजं वा मन्त्रम् ऊर्ध्वगम् । ऋष्य्-आदि-स्मरणं कृत्वा कुर्याद् ध्यानम् अतन्द्रितः ॥ ७६ ॥

5.77

श्लोक

श्रोणीभूषं सवक्षो-मणि-मकर-महा-कुण्डलामृष्ट-गण्डम् । हस्तोद्यच्-छङ्ख-चक्राम्बुज-गदम् अमलं पीत-कौशेय-वासं विद्योतद्-भासम् उद्यद्-दिन-कर-सदृशं पद्म-संस्थं नमामि ॥ ७७ ॥

5.78

श्लोक

रुद्रस् तु रेचके ब्रह्मा पूरके ध्येय-देवता । श्री-विष्णुः कुम्भके ज्ञेयो ध्यान-स्थानं गुरोर् मुखात् ॥ ७८ ॥

5.79

श्लोक

नाभि-स्थाने पूरकेण चिन्तयेत् कमलासनम् । ब्रह्माणं रक्त-गौराङ्गं चतुर्वक्त्रं पितामहम् ॥ ७९ ॥

5.80

श्लोक

नीलोत्पल-दल-श्यामं हृदि मध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं कुम्भकेन तु चिन्तयेत् ॥ ८० ॥

5.81

श्लोक

रेचेकनैश्वरं ध्यानं ललाटे सर्व-पापहम् । शुद्ध-स्फटिक-सङ्काशं कुर्याद् वै निर्मलं बुधः ॥ ८१ ॥

5.82

श्लोक

एकान्तिभिश् च भगवान् सर्व-देव-मयः प्रभुः । कृष्णः प्रिय-जनोपेतश् चिन्तनीयो हि सर्वतः ॥ ८२ ॥

5.83

श्लोक

यम-लोकं न पश्यन्ति प्राणायाम-परायणाः । अपि दुष्कृत-कर्माणस् तैर् एव हत-किल्बिषाः ॥ ८३ ॥

5.84

श्लोक

दिवसे दिवसे वैश्य प्राणायामास् तु षोडश । अपि ब्रह्म-हणं साक्षात् पुनन्त्य् अहर्-अहः कृताः ॥ ८४ ॥

5.85

श्लोक

तपांसि यानि तप्यन्ते व्रतानि नियमाश् च ये । गो-सहस्र-प्रदानं च प्राणायामस् तु तत्-समः ॥ ८५ ॥

5.86

श्लोक

अम्बु-बिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेत् । संवत्सर-शतं साग्रं प्राणायामस् तु तत्-समः ॥ ८६ ॥

5.87

श्लोक

पातकं तु महद् यच् च तथा क्षुद्रोपपातकम् । प्राणायामैः क्षणात् सर्वं भस्मसात् कुरुते नरः ॥ ८७ ॥

5.88

श्लोक

न्यासान् विना जपं प्राहुर् आसुरं विफलं बुधाः । अतो यथा-सम्प्रदायं न्यासान् कुर्याद् यथा-विधि ॥ ८८ ॥

5.89

श्लोक

ऋषि-च्छन्दो-देवतादि स्मृत्वादौ मातृका-मनोः । शिरो-वक्त्र-हृद्-आदौ च न्यस्य तद्-ध्यानम् आचरेत् ॥ ८९ ॥

5.90

श्लोक

बिभ्राणां विशद-प्रभां त्रि-नयनां वाग्-देवताम् आश्रये ॥ ९० ॥

5.91

श्लोक

अकारादीन् क्ष-कारान्तान् वर्णानादौ तु केवलान् । ललाटादिषु चाङ्गेषु न्यसेद् विद्वान् यथा-क्रमम् ॥ ९१ ॥

5.92

श्लोक

ललाट-मुख-बिम्बाक्षि-श्रुति-घ्राणेषु गण्डयोः । ओष्ठ-दन्तोत्तमाङ्गास्ये दोः-पत्-सन्ध्यग्रकेषु च ॥ ९२ ॥

5.93

श्लोक

पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंसके । ककुद्यसे च हृत्-पूर्वं पाणि-पाद-युगे ततः । जठराननयोर् न्यसेन् मातृकार्णान् यथा-क्रमम् ॥ ९३ ॥

5.94

श्लोक

सानुस्वारान् विसर्गाढ्यान् सानुस्वार-विसर्गकान् । न्यसेद् भूयोऽपि तान् विद्वान् एवं वार-चतुष्टयम् ॥ ९४ ॥

5.95

श्लोक

कण्ठ-हृन्-नाभि-गुह्येषु पायु-भ्रू-मह्द्ययोस् तथा । स्थिते षोडश-पत्राब्जे क्रमेण द्वादश-च्छदे ॥ ९५ ॥

5.96

श्लोक

दश-पत्रे च षट्-पत्रे चतुष्पत्रे द्विपत्रके । न्यसेद् एकैक-पत्रान्ते स-बिन्द्व्-एकैकम् अक्षरम् ॥ ९६ ॥

5.97

श्लोक

स्मृत्वा ऋष्य्-आदिकां वर्णान् मूर्तिभिः केशवादिभिः । कीर्त्यादिभिः शक्तिभिश् च न्यसेत् तान् पूर्ववत् क्रमात् ॥ ९७ ॥

5.98

श्लोक

न्यसेच् चतुर्थीन् अत्यन्ता मूर्तीः शक्तीश् च यादिभिः । सप्त-धातून् प्राण-जीवौ क्रोधम् अप्य् आत्मनेऽन्तकान् ॥ ९८ ॥

5.99

श्लोक

विष्णुं वन्दे दर-कमल-कौमोदकी-चक्र-पाणिम् ॥ ९९ ॥

5.100

श्लोक

प्रथमं केशवो नारायणः पश्चाच् च माधवः । गोविन्दश् च तथा विष्णुर् मधुसूदन एव च ॥ १०० ॥