Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास २

दैक्षिकः

2.1

श्लोक

तं श्रीमत्-कृष्ण-चैतन्यं वन्दे जगद्-गुरुम् । यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत् सुखम् ॥ १ ॥

2.2

श्लोक

दीक्षा-विधिर् लिख्यतेऽत्रानुसृत्य क्रम-दीपिकाम् । विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥ २ ॥

2.3

श्लोक

द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु । यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥ ३ ॥

2.4

श्लोक

तथात्रादीक्षितानां तु मन्त्र-देवार्चनादिषु । नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिव-संस्तुतम् ॥ ४ ॥

2.5

श्लोक

ते नराः पशवो लोके किं तेषां जीवने फलम् । यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः ॥ ५ ॥

2.6

श्लोक

अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् । पशु-योनिम् अवाप्नोति दीक्षा-विरहितो जनः ॥ ६ ॥

2.7

श्लोक

स्नेहाद् वा लोभतो वापि यो गृह्णीयाद् अदीक्षया । तस्मिन् गुरौ स-शिष्ये तु देवता-शाप आपतेत् ॥ ७ ॥

2.8

श्लोक

अविज्ञाय विधानोक्तं हरि-पूजा-विधि-क्रियाम् । कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः ॥ ८ ॥

2.9

श्लोक

दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् । तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्व-कोविदैः ॥ ९ ॥

2.10

श्लोक

अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च । गृह्णीयाद् वैष्णवं मन्त्रं दीक्षा-पूर्वं विधानतः ॥ १० ॥

2.11

श्लोक

तपस्विनः कर्म-निष्ठाः श्रेष्ठास् ते वै नरा भुवि । प्राप्ता यैस् तु हरेर् दीक्षा सर्व-दुःख-विमोचिनी ॥ ११ ॥

2.12

श्लोक

यथा काञ्चनतां याति कांस्यं रस-विधानतः । तथा दीक्षा-विधानेन द्विजत्वं जायते नृणाम् ॥ १२ ॥

2.13

श्लोक

मन्त्र-स्वीकरणं चैत्रे बहु-दुःह-फल-प्रदम् । वैशाखे रत्न-लाभः स्याज् ज्यैष्ठे तु मरणं ध्रुवम् ॥ १३ ॥

2.14

श्लोक

आषाढे बन्धु-नाशाय श्रावणे तु भयावहम् । प्रजा-हानिर् भाद्रपदे सर्वत्र शुभम् आश्विने ॥ १४ ॥

2.15

श्लोक

कार्त्तिके धन-वृद्धिः स्यान् मार्गशीर्षे शुभ-प्रदम् । पौषे तु ज्ञान-हानिः स्यान् माघे मेधावि-वर्धनम् । फाल्गुने सर्व-वश्यत्वम् आचार्यैः परिकीर्तितम् ॥ १५ ॥

2.16

श्लोक

समृद्धिः श्रावणे नूनं ज्ञानं स्यात् कार्त्तिके तथा । फाल्गुनेऽपि समृद्धिः स्यान् मलमासं परित्यजेत् ॥ १६ ॥

2.17

श्लोक

मन्त्रारम्भस् तु चैत्रे स्यात् समस्त-पुरुषार्थदः । वैशाखे रत्न-लाभः स्यात् ज्यैष्ठे तु मरणं ध्रुवम् ॥ १७ ॥

2.18

श्लोक

आषाढे बन्धु-नाशः स्यात् पूर्णायुः श्रावणे भवेत् । प्रजा-नाशो भवेद् भाद्रे आश्विने रत्न-सञ्चयः ॥ १८ ॥

2.19

श्लोक

कार्त्तिके मन्त्र-सिद्धिः स्यात् मार्ग-शीर्षे तथा भवेत् । पौषे तु शत्रु-पीडा स्यात् माघे मेधा-विवर्धनम् । फाल्गुने सर्व-कामाः स्युर् मल-मासं परित्यजेत् ॥ १९ ॥

2.20

श्लोक

कार्त्तिके तु कृता दीक्षा नॄणां जन्म-निकृन्तनी । तस्मात् सर्व-प्रयत्नेन दीक्षां कुर्वीत कार्त्तिके ॥ २० ॥

2.21

श्लोक

श्रीमद्-गोपाल-मन्त्राणां दीक्षायां तु न दुष्यति । चैत्र-मासे यद् उक्ता तद् दीक्षा तत्रैव देशिकैः ॥ २१ ॥

2.22

श्लोक

रवौ गुरौ तथा सोमे कर्तव्यं बुध-शुक्रयोः ॥ २२ ॥

2.23

श्लोक

रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः । पुष्यं शतभिषश् चैव दीक्षा-नक्षत्रम् उच्यते ॥ २३ ॥

2.24

श्लोक

अश्विनी-रोहिणी-स्वाति-विशाखा-हस्तभेषु च । ज्येष्ठोत्तरा-त्रयेष्व् एव कुर्यान् मन्त्राभिषेचनम् ॥ २४ ॥

2.25

श्लोक

द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः । द्वादश्याम् अपि कर्तव्यं त्रयोदश्याम् अथापि च ॥ २५ ॥

2.26

श्लोक

पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्ता सर्व-कामदा ॥ २६ ॥

2.27

श्लोक

एवं शुद्धे दिने शुक्ल-पक्षे शुक्र-गुरूदये । सल्-लग्ने चन्द्र-तारानुकूले दीक्षा प्रशस्यते ॥ २७ ॥

2.28

श्लोक

सत्-तीर्थेऽर्क-विधु-ग्रासे तन्तु-दामन-पर्वणोः । मन्त्र-दीक्षां प्रकुर्वीत मास-र्क्षादि न शोधयेत् ॥ २८ ॥

2.29

श्लोक

सुलग्न-चन्द्र-तारादि-बलम् अत्र सदैव हि । लब्धोऽत्र मन्तोर् दीर्घायुः-सम्पत्-सन्तति-वर्धनः ॥ २९ ॥

2.30

श्लोक

सूर्य-ग्रहण-कालेन समानो नास्ति कश्चन । यत्र यद् यत् कृतं सर्वम् अनन्त-फलदं भवेत् । न मास-तिथि-वारादि-शोधनं सूर्य-पर्वणि ॥ ३० ॥

2.31

श्लोक

दुर्लभे सद्-गुरूणां च सकृत् सङ्ग उपस्थिते । तद्-अनुज्ञा यदा लब्धा स दीक्षावसरो महान् ॥ ३१ ॥

2.32

श्लोक

ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि । आगच्छति गुरुर् दैवाद् यदा दीक्षा तदाज्ञया ॥ ३२ ॥

2.33

श्लोक

यदैवेच्छा तदा दीक्षा गुरोर् आज्ञानुरूपतः । न तीर्थं न व्रतं होमो न स्नानं न जप-क्रिया । दीक्षायाः करणं किन्तु स्वेच्छा-प्राप्ते तु सद्-गुरौ ॥ ३३ ॥

2.34

श्लोक

क्रियावत्यादि-भेदेन भवेद् दीक्षा चतुर्विधा । तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते ॥ ३४ ॥

2.35

श्लोक

भूमिं संस्कृत्य तस्याङ् चार्चयित्वा वास्तु-देवताः । सप्त-हस्त-मितं कुर्यान् मण्डपं रम्य-वेदिकम् ॥ ३५ ॥

2.36

श्लोक

अष्ट-ध्वजं चतुर्धारं क्षीर-पादप-तोरणम् ।त्रिगुणीकृत-सूत्राढ्यं कुशमालाभिवेष्टितम् ॥ ३६ ॥

2.37

श्लोक

तस्मिंश् च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् । कुण्डे कुर्याच् चतुर्विंशत्य्-अङ्गुलि-प्रमितं बुधह् ॥ ३७ ॥

2.38

श्लोक

खातं त्रिमेखलोच्छ्राय-सहितं तावद् आचरेत् । तस्मात् खाताद् बहिः कुर्यात् कण्ठम् एकाङ्गुलं ध्रुवम् ॥ ३८ ॥

2.39

श्लोक

तत्राद्य्-मेखलोच्छ्राय-विस्तारौ चतुर्-अङ्गुलौ । त्र्य्-अङ्गुलौ तौ द्वितीयायास् तृतीयाया युगाङ्गुलौ ॥ ३९ ॥

2.40

श्लोक

योनिं च पश्चिमे भागे मेखला-त्रितयोपरि । षड्-अङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम् ॥ ४० ॥

2.41

श्लोक

एकाङ्गुलां तथोच्छ्राये मध्ये छिद्र-समन्विताम् । गदाधराकृतिं कुर्याद् विधिवन् मेखलान्विताम् ॥ ४१ ॥

2.42

श्लोक

शतार्ध-होमे कुण्डं स्याद् ऊर्ध्व-मुष्टि-करोन्मितम् । शत-होमेऽरत्नि-मात्रम् सहस्रे पाणिना मितम् ॥ ४२ ॥

2.43

श्लोक

लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् । चतुरस्रं कुण्ड-खातं कुर्वीताधश् च तादृशम् ॥ ४३ ॥

2.44

श्लोक

होमस् त्व् अधिक-सङ्खाकः कुण्डे वै न्यून-सङ्ख्यया । कृते कार्यो न च् अन्यून-सङ्ख्याकः सङ्खयाधिके ॥ ४४ ॥

2.45

श्लोक

यथाविध्य् एव कर्तव्यं कुण्डं यत्नेन धीमता । अन्यथा बहवो दोषा भवेयुर् बहु-दुःखदाः ॥ ४५ ॥

2.46

श्लोक

एवं लक्षण-संयुक्तं कुण्डम् इष्ट-फल-प्रदम् । अनेक-दोषदं कुण्डं यत्र न्यूनाधिकाम् भवेत् ॥ ४६ ॥

2.47

श्लोक

तस्मात् सम्यक् परीक्ष्यैव कर्तव्यं शुभम् इच्छता । हस्त-मात्रं स्थण्डिलं वा संक्षिप्ते होम-कर्मणि ॥ ४७ ॥

2.48

श्लोक

विस्ताराधिक्य-हीनत्वे अल्पायुर् जायते ध्रुवम् । खाताधिक्ये भवेद् योगी हीने तु धन-संक्षयः । कुण्डे वक्रे च सन्तापो मरणं छिन्न-मेखले ॥ ४८ ॥

2.49

श्लोक

शोकस् तु मेखलोनत्वे तदाधिक्ये पशु-क्षयः । भार्या-नाशो योनि-हीने कण्ठ-हीने शुभ-क्षयः ॥ ४९ ॥

2.50

श्लोक

तिर्यग्-यवोदराण्यष्टाव् ऊर्ध्वा वा ब्रीहयस् त्रयः । ज्ञेयम् अङ्गुलि-मानं तु मध्यमा मध्य-पर्वणा ॥ ५० ॥

2.51

श्लोक

विशेषोऽपेक्षितोऽन्यत्र स्रक्-स्रुव-प्रक्रियादिकः । ज्ञेयो ग्रन्थान्तरात् सोऽत्राधिक्य-भीत्या न लिख्यते ॥ ५१ ॥

2.52

श्लोक

अथोक्षिते पञ्च-गव्यैर् गन्धाम्भोभिश् च मण्डपे । यथाविधि लिखेद् दीक्षा-मण्डलं वेदिकोपरि ॥ ५२ ॥

2.53

श्लोक

तन्-मध्ये चाष्ट-पत्राब्जं बहिर् वृत्त-त्रयं ततः । ततो राशींस् ततः पीठं चतुष्पाद-समन्वितम् ॥ ५३ ॥

2.54

श्लोक

तस्माद् बहिश् चतुर्दिक्षु लिखेद् वीथी-चतुष्टयम् । शोभापशोभा-कोणाढ्यं ततो द्वार-चतुष्टयम् ॥ ५४ ॥

2.55

श्लोक

प्रातः-कृत्यं गुरुः कृत्वा यथा-स्थानं न्यसेत् ततः । शङ्खं पूजोपचारांश् च पुरो-लेख्य-प्रकारतः ॥ ५५ ॥

2.56

श्लोक

गुरून् गणेशं चाभ्यर्च्य पीठ-पूजां विधाय च । पद्म-मध्ये न्यसेत् शालींस् तण्डुलांश् च कुशांस् तथा ॥ ५६ ॥

2.57

श्लोक

वह्नेर् दश-कला यादि-वर्णाद्याश् च कुशोपरि । न्यस्याभ्यर्च्य जपंस् तारं न्यसेत् कुम्भं यथोदितम् ॥ ५७ ॥

2.58

श्लोक

धूम्रार्चिर् उष्मा ज्वलनी ज्वालिनी विस्फुलिङिनी । सुश्रीः सुरूपा कपिला हव्य-कव्यवहे अपि ॥ ५८ ॥

2.59

श्लोक

काद्यैष् ठान्तैर् युता भाद्यैर् डान्तैश् चार्णैर् विलोमगैः । सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् ॥ ५९ ॥

2.60

श्लोक

तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ६० ॥

2.61

श्लोक

कुम्भान्तर् निक्षिपेन् मूल-मन्त्रेण कुसुमं सितम् । साक्षतं ससितं स्वर्णं स-रत्नं च कुशांस् तथा ॥ ६१ ॥

2.62

श्लोक

कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् । जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत् ॥ ६२ ॥

2.63

श्लोक

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः । शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा । पूर्णा पूर्णामृता च ॥ ६३ ॥

2.64

श्लोक

शुद्धाम्बु-पूरिते शङ्खे क्षिप्त्वा गन्धाष्टकं कलाः । आवाह्य सर्वास् ताः प्राण-प्रतिष्ठाम् आचरेत् क्रमात् ॥ ६४ ॥

2.65

श्लोक

उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर् मुरा । जटा-मांसी चन्दनं चेतीष्टं गन्धाष्टकं हरेः ॥ ६५ ॥

2.66

श्लोक

कैश्चिच् चन्दन-कर्पूरागुरु-कुङ्कुम-रोचनाः । कक्कोल-कपि-मांस्यश् च गन्धाष्टकम् इदं मतम् ॥ ६६ ॥

2.67

श्लोक

तथैवाकारजा वर्णैः कादिभिर् दशभिर् दश । उकारजाष्टकाराद्यैः प-काराद्यैर् म-कार-जाः ॥ ६७ ॥

2.68

श्लोक

चतस्रो बिन्दुजाः षाद्यैश् चतुर्भिर् नाद-जाः कलाः । स्वरैः षोडशभिर् युक्ता न्यसेच् छङ्खे च षोडश ॥ ६८ ॥

2.69

श्लोक

सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् धृइत्ः स्थिरा । स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥ ६९ ॥

2.70

श्लोक

जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके । वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ॥ ७० ॥

2.71

श्लोक

तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया । उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥ ७१ ॥

2.72

श्लोक

निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च । इन्धिका दीपिका चैव रेचिका मोचिका परा ॥ ७२ ॥

2.73

श्लोक

सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा । व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः ॥ ७३ ॥

2.74

श्लोक

न्यासं कलानां सर्वासां कुर्याद् एकैकशः क्रमात् । नामोच्चार्य चतुर्थान्तं तत्-तद्-वर्णैर् नमोऽन्तकम् ॥ ७४ ॥

2.75

श्लोक

पूर्वं प्राण-प्रतिष्ठायास् तासाम् आवाहनात् परम् । ऋचः पञ्च यथा-स्थानं पठेत् ताश् चार्चयेत् कलाः ॥ ७५ ॥

2.76

श्लोक

हंशः शुचिषद् इत्य् आदौ प्रतद् विष्णुस् ततः परम् । त्र्यम्बकं तत् सवितुर् विष्णुर् योनिम् इति क्रमात् ॥ ७६ ॥

2.77

श्लोक

तच् च शङ्खोदकं कुम्भे मूल-मन्त्रेण निक्षिपेत् । पिदध्यात् तन् मुखं शक्र-वल्ली-चूतादि-पल्लवैः ॥ ७७ ॥

2.78

श्लोक

शरावेनाथ पुष्पादि-युक्तेनाच्छाद्य तत् पुनः । संवेष्ट्य वस्त्र-युग्मेन ततः कुम्भं च मण्डयेत् ॥ ७८ ॥

2.79

श्लोक

तस्मिन्न् आवाह्य कलसे परं तेजो यथा-विधि । सकलीकृत्य चाचार्यः पूजयेद् आसनादिभिः ॥ ७९ ॥

2.80

श्लोक

देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिः ॥ ८० ॥

2.81

श्लोक

केचिच् चाहुः कर-न्यासौ विनाखिलैः । न्यासैस् तत्-तेजसः साङ्गीकरणं सकलीकृतः ॥ ८१ ॥

2.82

श्लोक

एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् । अग्रतो लेख्य-विधिनार्चयेद् भोज्यार्पणावधि ॥ ८२ ॥

2.83

श्लोक

नैवेद्यार्पणतः पश्चान् मण्डलस्य च सर्वतः । स-दीपान् पैष्टिकान् न्यस्येत् स-बीजाङ्कुर-भाजनात् ॥ ८३ ॥

2.84

श्लोक

ततो दीक्षाङ्ग-होमार्थं कुण्डलस्य च सर्वतः । संमार्ज्य दर्भ-मार्जन्या यथा-विध्य् उपलेपयेत् ॥ ८४ ॥

2.85

श्लोक

विकीर्य सर्षपांस् तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः । मध्ये सम्पूजयेद् वास्तु-पुरुषं दिक्षु तत्-पतीन् ॥ ८५ ॥

2.86

श्लोक

शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः । उल्लिख्य चास्मिन् योन्य्-आदि-सहितं मण्डलं लिखेत् ॥ ८६ ॥

2.87

श्लोक

श्री-बीजं मध्य-योनौ च विलिख्याभुक्ष्य पूजयेत् । निधाय तत्र पुष्पादि-विष्टरं साधु कल्पयेत् ॥ ८७ ॥

2.88

श्लोक

तत्र लक्ष्मी-मृत्यु-स्नानां विष्णुं चावाह्य पूजयेत् । ताम्रादि-पात्रेणानीयाग्रतोऽग्निं स्थापयेच् छुभ्रम् ॥ ८८ ॥

2.89

श्लोक

गन्धादिनाग्निम् अभ्यर्च्य विष्णोः सक्रीडतः श्रिया । रेतो-रूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत् ॥ ८९ ॥

2.90

श्लोक

वैश्वानरेति मन्त्रेणाच्छाच्याग्निं तं सद्-इन्धनैः । चित्-पिङ्गलेति प्रज्वाल्योपतिष्ठेद् अग्निम् इत्य् अमुम् ॥ ९० ॥

2.91

श्लोक

जिह्वा न्यस्येत् सप्त त्स्मिन्न् अप्य् अङ्गेष्व् अङ्ग-देवताः । षट्सु षट् न्यस्य मूर्तीश् च न्यस्याष्टाभ्यर्चयेच् च ताः ॥ ९१ ॥

2.92

श्लोक

हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा । बहु-रूपाति-रूपा च सप्त जिह्वा वसोर् इमाः ॥ ९२ ॥

2.93

श्लोक

सहस्रार्चिः स्वस्ति-पूर्ण उत्तिष्ठ-पुरुषस् तथा । धूम-व्यापी सप्त-जिह्वो धनुर्धर इति स्मृतः ॥ ९३ ॥

2.94

श्लोक

जात-वेदाः सप्त-जिह्वो हव्य-वाहन एव च । अश्वोदरज-संज्ञश् च तथा वैश्वानरोऽपरः । कौमार-तेजाश् च तथा विश्वदेव-मुखाह्वयौ ॥ ९४ ॥

2.95

श्लोक

ततो वह्निं परिस्तीर्य संस्कृताज्यं यथा-विधि । हुत्वा च व्याहृतीः पश्चात् त्रीन् वारान् जुहुयात् पुनः ॥ ९५ ॥

2.96

श्लोक

ततोऽस्य गर्भधानादीन् विवाहान्तान् यथाक्रमम् । संस्कारान् आचरेद् उक्त-मन्त्रेणाष्टाहुतैस् तथा ॥ ९६ ॥

2.97

श्लोक

इत्थं हि संस्कृते वह्नौ पीठम् अभ्यर्च्य तत्र च । देवम् आवाह्य गन्धादि-दीपान्त-विधिनार्चयेत् ॥ ९७ ॥

2.98

श्लोक

तं चाग्निं देव-रसनां संकल्प्याष्टोत्तरं बुधः । सहस्रं जुहुयात् सर्पिः-शर्करा-पायसैर् युतैः ॥ ९८ ॥

2.99

श्लोक

हुत्वाज्येनाथ महती-व्याहृतीर् विधिना कृती । ग्रहर्क्ष-करणादिभ्यो बलिं दद्याद् यथोदितम् ॥ ९९ ॥

2.100

श्लोक

कर्ष-मात्रं घृतं होमे शुक्ति-मात्रं पयः स्मृतम् । उक्तानि पञ्च-गव्यानि तत्-समानि मनीषिभिः ॥ १०० ॥