Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ८

प्रातर्-अर्चा-समापनः

8.1

श्लोक

श्री-चैतन्य-प्रभुं वन्दे यत्-पादाश्रय-वीर्यतः । संगृह्णात्य् आकरव्राताद् रङ्को रत्नावलीमयम् ॥ १ ॥

8.2

श्लोक

ततश् च धूपम् उत्सृज्य नीचैस् तन्-मुद्रयार्पयेत् । कृष्णं सङ्कीर्तयन् घण्टम् वाम-हस्तेन वादयन् ॥ २ ॥

8.3

श्लोक

धूपस्य विजने चैव धूपेनाङ्ग-विधूपने । नीराजनेषु सर्वेषु विष्णोर् नामानि कीर्तयेत् ॥ ३ ॥

8.4

श्लोक

जय-घोषं प्रकुर्वीत कारुण्यं चाभिकीर्तयेत् । तथा मङ्गल-घोषं च जगद्-बीजस्य च स्तुतिम् ॥ ४ ॥

8.5

श्लोक

ततः समर्पयेद् धूपं घण्ट-वाद्य-जय-स्वनैः । धूप-स्थानं समभ्यर्च्य तर्जन्या वामया हरेः ॥ ५ ॥

8.6

श्लोक

वनस्पति-रसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः । अघ्रेयः सर्व-देवानां धूपो ऽयं प्रतिगृह्यतम् ॥ ६ ॥

8.7

श्लोक

रुहिकाख्यं कणो दारु-सिह्लकं चागुरुः सिता । शङ्खो जाति-फलं श्रीशे धूपानि स्युः प्रियाणि वै ॥ ७ ॥

8.8

श्लोक

स-गुग्गुल्व्-अगुरु-शीर-सिताज्य-मधु-चन्दनैः । साराङ्गार-विनिक्षिप्तैः कल्पयेद् धूपम् उत्तमम् ॥ ८ ॥

8.9

श्लोक

तथैव शुभ-गन्धा ये धूपस् ते जगतः पतेः । वासुदेवस्य धर्म-ज्ञैर् निवेद्य दानवेश्वर ॥ ९ ॥

8.10

श्लोक

न धूपर्थे जीव-जतम् ॥ १० ॥

8.11

श्लोक

विना मृगमदं धूपे जीव-जातं विवर्जयेत् ॥ ११ ॥

8.12

श्लोक

न यक्ष-धूपं वितरेन् मधवय कदचन ॥ १२ ॥

8.13

श्लोक

न सल्लकिजं न तृणम् न शल्क-रस-सम्भ्र्तं धूपम् । प्रत्यङ्ग-निर्मुक्तम् दद्यात् कृष्णाय बुद्धिमान् ॥ १३ ॥

8.14

श्लोक

महिषाख्यं गुग्गुलुं च आज्य-युक्तं स-शर्करम् । धूपं ददाति रजेन्द्र नरसिंहस्य भक्तिमान् ॥ १४ ॥

8.15

श्लोक

स धूपितः सर्व-दिक्षु सर्व-पाप-विवर्जितः । अप्सरो-गण-युक्तेन विमानेन विराजता । वायु-लोकं समासाद्य विष्णु-लोके महीयते ॥ १५ ॥

8.16

श्लोक

ये कृष्ण-गुरुणा कृष्णं धूपयन्ति कलौ नराः । स-कर्पूरेण राजेन्द्र कृष्ण-तुल्या भवन्ति ते ॥ १६ ॥

8.17

श्लोक

साज्येन वै गुग्गुलुना सु-धूपेन जनार्दनम् । धूपयित्वा नरो याति पदं तस्य सदा-शिवं ॥ १७ ॥

8.18

श्लोक

अगुरुं तु स-कर्पूर-दिव्य-चन्दन-सौरभम् । दत्त्वा नित्यं हरेर् भक्त्या कुलानां तारयेच् छतम् ॥ १८ ॥

8.19

श्लोक

धूपनम् उत्तमं तद्वत् सर्व-कम-फल-प्रदम् । धूपं तुरुष्ककं दत्त्वा वह्निस्तोम-फलं लभेत् ॥ १९ ॥

8.20

श्लोक

दत्त्वा तु कृत्रिमं मुख्यं सर्व-कामान् अवाप्नुयात् । गन्ध-युक्त-कृतं दत्त्वा यज्ञ-गोसवं आप्नुयात् ॥ २० ॥

8.21

श्लोक

दत्त्वा कर्पूर-निर्यासं वाजिमेध-फलं लभेत् । वसन्ते गुग्गुलं दत्त्वा वह्निस्तोमं अवाप्नुयात् ॥ २१ ॥

8.22

श्लोक

ग्रीष्मे चन्दन-सारेण राजसूय-फलं लभेत् । तुरुष्कस्य प्रदानेन प्रवृष्य् उत्तमतां लभेत् ॥ २२ ॥

8.23

श्लोक

कर्पूर-दानाच् छरदि राजसूयं अवाप्नुयात् ॥ २३ ॥

8.24

श्लोक

हेमन्ते म्र्ग-दर्पेण वाजिमेध-फलं लभेत् । शिशिरे ऽगुरु-सरेन सर्व-मेध-फलं लभेत् ॥ २४ ॥

8.25

श्लोक

पदम् उत्तमं आप्नोति धूप-दः पुष्टिम् अश्नुते । धूप-लेख यथाइवोर्ध्वम् नित्यं एव प्रसर्पति । तथाइवोर्ध्व-गतो नित्यं धूप-दानाद् भवेन् नरः ॥ २५ ॥

8.26

श्लोक

यो ददाति हरेर् धूपम् तुलसी-काष्ठ-वह्निना । शत-क्रतु-समं पुण्यं गोऽयुतं लभते फलं ॥ २६ ॥

8.27

श्लोक

धूपयेच् च तथा सम्यक् श्रीमद्-भगवद्-आलयं । धूप-शेषं ततो भक्त्या स्वयं सेवेत वैष्णवः ॥ २७ ॥

8.28

श्लोक

धूप-शेषं तु कृष्णस्य भक्त्या भजसि भूपते । कृत्वा चारात्रिकं विष्णोः स्व-मूर्ध्ना वन्दसे नृप ॥ २८ ॥

8.29

श्लोक

कृष्णागुरु-समुत्थेन धूपेन श्रीधरालयम् । धूपयेद् वैष्णवो यस् तु स मुक्तो नरकार्णवत् ॥ २९ ॥

8.30

श्लोक

तीर्थ-कोटि-शतैर् धौतो यथा भवति निर्मलः । करोति निर्मलं देहं धूप-शेषस् तथा हरेः ॥ ३० ॥

8.31

श्लोक

न भयं विद्यते तस्य भौमं दिव्यं रासातलम् । कृष्ण-धूपावशेषेन यस्याङ्गं परिवासितम् ॥ ३१ ॥

8.32

श्लोक

नापदो विपदस् तस्य भवन्ति खलु देहिनः । हरेर् दत्तावशेषेन धूपयेद् यस् तनुं सदा ॥ ३२ ॥

8.33

श्लोक

नासौख्यं न भयं दुःखं नाधिजं नैव रोगजम् । यः सेवयेद् धूप-शेषं विष्णोर् अद्भुत-कर्मणः ॥ ३३ ॥

8.34

श्लोक

क्रूर-सत्त्व-भयं नैव न च चौर-भयं क्वचित् । सेवयित्वा हरेर् धूपं निर्माल्यं पदयोर् जलम् ॥ ३४ ॥

8.35

श्लोक

आघ्राणं यद् धरेर् दत्तं धूपोच्छिष्टस्य सर्वतः । तद्-भव-व्याल-दष्टानां भवेत् कर्म-विषापहं ॥ ३५ ॥

8.36

श्लोक

दर्शनाद् अपि धूपस्य धूप-दानादि-जं फलम् । सर्वं अन्येऽपि विन्दन्ति तच् चाग्रे व्यतिं एष्यति ॥ ३६ ॥

8.37

श्लोक

तथैट दीपम् उत्सृज्य प्राग्वद् घण्टं च वादयन् । पदाब्जाद् अदृग्-अब्जान्तं मुद्रयोच्चैः प्रदीपयेत् ॥ ३७ ॥

8.38

श्लोक

सु-प्रकाशो महा-तेजह् सर्वतस् तिमिरापहः । स-बाह्याभ्यन्तर-ज्योतिर् दीपोऽयं प्रतिगृह्यताम् ॥ ३८ ॥

8.39

श्लोक

दीपं प्रज्वलयेत् शक्तौ कर्पूरेन घृतेन वा । गव्येन तत्रासामार्थ्ये तैलेनापि सु-गन्धिना ॥ ३९ ॥

8.40

श्लोक

स-घृतं गुग्गुलं धूपं दीपं गो-घृत-दीपितम् । समस्त-परिवाराय हरये श्रद्धयार्पयेत् ॥ ४० ॥

8.41

श्लोक

घृतेन दीपो दातव्यो राजन् तैलेन वा पुनः ॥ ४१ ॥

8.42

श्लोक

हविषा प्रथमः कल्पो द्वितीयश् चौषधोरसैः ॥ ४२ ॥

8.43

श्लोक

वसा-मज्जादिभिर् दीपो न तु देयः कदाचन ॥ ४३ ॥

8.44

श्लोक

वसा-मज्जास्थि-निर्यासैर् न कार्यः पुष्टिं इच्छत ॥ ४४ ॥

8.45

श्लोक

नील-रक्त-दशं दीपं प्रयत्नेन विवर्जयेत् ॥ ४५ ॥

8.46

श्लोक

दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव । वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥ ४६ ॥

8.47

श्लोक

प्रज्वाल्य देव-देवस्य कर्पूरेन च दीपकम् । अश्वमेधं अवाप्नोति कुलं चैव समुद्धरेत् ॥ ४७ ॥

8.48

श्लोक

यो ददाति मही-पाल कृष्णस्याग्रे तु दीपकम् । पातकं तु समुत्सृज्य ज्योती-रूपं लभेत् फलम् ॥ ४८ ॥

8.49

श्लोक

दीपं ददाति यो देवि मद्-भक्त्या तु व्यवस्थितः । नात्रान्धत्वं भवेत् तस्य सप्त-जन्मनि सुन्दरि ॥ ४९ ॥

8.50

श्लोक

यस् तु दद्यात् प्रदीपं मे सर्वतः स्रद्धयान्वितः । स्वयम्-प्रभेषु देशेषु तस्योत्पत्तिर् विधीयते ॥ ५० ॥

8.51

श्लोक

दत्तं स्व-ज्योतिषे ज्योतिर् यद् विस्तारयति प्रभाम् । तद्वद् धर्यति सज्-ज्योतिर् दातुः पापतमोऽपहं ॥ ५१ ॥

8.52

श्लोक

घृतेन वाथ तैलेन दीपं प्रज्वलयेन् नरः । विष्णवे विधिवद् भक्त्या तस्य पुण्य-फलं शृणु ॥ ५२ ॥

8.53

श्लोक

विहाय पापं सकलं सहस्रादित्य-स-प्रभः । ज्योतिष्मता विमानेन विष्णु-लोके महीयते ॥ ५३ ॥

8.54

श्लोक

च तुलसी-पवकेनैव दीपं यः कुरुते हरेः । दीप-लक्ष-सहस्राणां पुण्यं भवति दैत्यज ॥ ५४ ॥

8.55

श्लोक

पश्चाद् दीपं च तं भक्त्या मूर्ध्ना वन्देत वैष्णवः । धूपस्येवेक्षणात् तस्य लभन्तेऽन्येऽपि तत् फलम् ॥ ५५ ॥

8.56

श्लोक

केचिच् चानेन दीपेन श्री-मूर्तेर् मूर्ध्नि वैष्णवः । नीराजनं इहेच्छन्ति महा-नीराजने यथा ॥ ५६ ॥

8.57

श्लोक

आरात्रिकं तु विषम-बहु-वर्ति-समन्वितम् । अभ्यर्च्य रामचन्द्राय वाम-मध्यम् अथार्पयेत् ॥ ५७ ॥

8.58

श्लोक

नमो दीपेश्वरायेति दद्यात् पुष्पाञ्जलिं ततः । अवधूप्याभ्यर्च्य वाद्यैर् मूर्ध्नि नीराजयेत् प्रभुम् ॥ ५८ ॥

8.59

श्लोक

अत एवेष्यते तस्य कराभ्यां वन्दनं च तैः । नाम चारात्रिकेत्य् आदि वर्त्योऽपि बहुलाः समाः ॥ ५९ ॥

8.60

श्लोक

प्रसङ्गाल् लिख्यतेऽत्रैव श्रीमद्-भगवद्-आलये । दीप-दानस्य माहात्म्यं कार्त्तिकीयं च तद् विना ॥ ६० ॥

8.61

श्लोक

दीप-दानात् परं दानं न भूतं न भविष्यति । केशवायतने कृत्वा दीप-वृक्षा-मनोहरम् । अतीव भ्राजते लक्ष्म्या दिवम् आसाद्य सर्वतः ॥ ६१ ॥

8.62

श्लोक

दीप-मालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे । भवन्ति ते चन्द्र-समाः स्वर्गम् आसाद्य मानवाः ॥ ६२ ॥

8.63

श्लोक

दीपागारं नरः कृत्वा कूतागार-निभं शुभम् । केशवालयम् आसाद्य लोके भाति स शक्रवत् ॥ ६३ ॥

8.64

श्लोक

यथोज्ज्वलो भवेद् दीपः सम्प्रदातापि यादव । तथा नित्योज्ज्वलो लोके नाकपृष्ठे विराजते ॥ ६४ ॥

8.65

श्लोक

स-दीपे च यथा देसे चक्षूंसि फलवन्ति च । तथा दीपस्य दतरो भवन्ति स-फलेक्षनः ॥ ६५ ॥

8.66

श्लोक

एकादश्यां च द्वादश्यां प्रति-पक्षं तु यो नरः । दीपं ददाति कृष्णाय तस्य पुण्य-फलं शृणु ॥ ६६ ॥

8.67

श्लोक

सुवर्ण-मणि-मुक्ताढ्यम् मनोज्ञम् अति-सुन्दरम् । दीप-माला-कुलं दिव्यं विमानम् अधिरोहति ॥ ६७ ॥

8.68

श्लोक

पद्म-सुत्रोद्भवं वर्त्ति गन्ध-तैलेन दीपकान् । विरोगः सुभगश् चैव दत्त्वा भवति मानवः ॥ ६८ ॥

8.69

श्लोक

दीप-दनं महा-पुण्यम् अन्य-देवेष्व् अपि ध्रुवम् । किं पुनर् वासुदेवस्यानन्तस्य तु महात्मनः ॥ ६९ ॥

8.70

श्लोक

दीपं चक्षुः-प्रदं दद्यात् तथैवोर्ध्व-गति-प्रदम् । ऊर्ध्वं यथा दीप-शिखा दाता चोर्ध्व-गतिस् तथा ॥ ७० ॥

8.71

श्लोक

यावद् अक्षि-निमेषाणि दीपो देवालये ज्वलेत् । तावद् वर्ष-सहस्राणि नाक-पृष्ठे महीयते ॥ ७१ ॥

8.72

श्लोक

प्रदीपः स्थापितस् तत्र सुरतार्थं द्विजोत्तम । तेनापि मम दुष्कर्म निह्शेषं क्षयम् अगतम् ॥ ७२ ॥

8.73

श्लोक

विलीयते स्व-हस्ते तु स्व-तन्त्रे सति दीपकः । महा-फलो विष्णु-गृहे न दत्तो नरकाय सः ॥ ७३ ॥

8.74

श्लोक

तिष्ठन्तु बहु-वित्तानि दानार्थं वर-वर्णिनि । हृदयायास-कर्तृणि दीप-दानाद् दिवं व्रजेत् ॥ ७४ ॥

8.75

श्लोक

तस्याप्य् अभावे सुभगे पर-दीप-प्रबोधनम् । कर्तव्यं भक्ति-भावेन सर्व-दानाधिकश् च यत् ॥ ७५ ॥

8.76

श्लोक

सद कल-विशेषेऽपि भक्त्या भगवद्-आलये । महा-दीप-प्रदानस्य महिमाप्य् अत्र लिख्याते ॥ ७६ ॥

8.77

श्लोक

महावर्त्तिः सदा देया भूमि-पाल महा-फला । कृष्ण-पक्षे विशेषेण तत्रापि स विशेषतः ॥ ७७ ॥

8.78

श्लोक

अमावस्या च निर्दिष्टा द्वादशी च महाफला । अश्व-युज्याम् अतीतायां कृष्ण-पक्षश् च यो भवेत् ॥ ७८ ॥

8.79

श्लोक

अमावस्या तदा पुण्या द्वादशी च विशेषतः । देवस्य दक्षिणे पार्श्वे देया तैल-तुला नृप ॥ ७९ ॥

8.80

श्लोक

पलाष्टक-युतां राजन् वर्त्ति तत्र च दापयेत् । वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥ ८० ॥

8.81

श्लोक

महावर्त्ति-द्वयम् इदं सकृद् दत्त्वा महामते । स्वर्-लोकं सु-चिरं भुक्त्वा जायते भू-तले यदा ॥ ८१ ॥

8.82

श्लोक

तदा भवति लक्ष्मीवान् जय-द्रविण-सम्युतः । राष्ट्रे च जायते स्वस्मिन् देशे च नगरे तथा ॥ ८२ ॥

8.83

श्लोक

कुले च राज-शार्दूल तत्र स्याद् दीपवत्-प्रभः । प्रत्युज्ज्वलश् च भवति युद्धेषु कलहेषु च ॥ ८३ ॥

8.84

श्लोक

ख्यातिं याति तथा लोके सद्-गुणानां च सद्-गुणैः । एकम् अप्य् अथ यो दद्याद् अभीष्टतमयोर् द्वयोः ॥ ८४ ॥

8.85

श्लोक

मनुष्ये सर्वम् आप्नोति यद् उक्तं ते महानघ । स्वर्गे तथात्वम् आप्नोति भोग-काले तु यादव ॥ ८५ ॥

8.86

श्लोक

समान्यस्य तु दीपस्य राजन् दानं महाफलम् । किं पुनर् महतो दीपस्यात्रेयत्त न विद्यते ॥ ८६ ॥

8.87

श्लोक

शोणं वादरकं वस्त्रं जीर्णं मलिनम् एव च । उपभुक्तं न वा दद्यात् वर्त्तिकार्थं कदाचन ॥ ८७ ॥

8.88

श्लोक

स्वयम् अन्येन वा दत्तं दीपान् न श्री-हरेर् हरेत् । निर्वापयेन् न हिंसाच् च शुभं इच्छन् कदाचन ॥ ८८ ॥

8.89

श्लोक

दत्त्वा दीपो न हर्तव्यस् तेन कर्म विजानता । निर्वापनं च दीपस्य हिंसनं च विगर्हितम् ॥ ८९ ॥

8.90

श्लोक

यः कुर्याद् धिंसनं तेन कर्मणा पुष्पितेक्षणः । दीप-हर्ता भवेद् अन्धः कणो निर्वाण-कृद् भवेत् ॥ ९० ॥

8.91

श्लोक

युष्माभिर् यौवनोन्मादम् उदितैर् अविवेकिभिः । द्युतोद्योतय गोविन्द-गेहाद् दीपः पुरा हृतः ॥ ९१ ॥

8.92

श्लोक

तेनाद्य नरके घोरे क्षुत्-तृष्णा-परिपीडिताः । भवन्ति पतितास् तीव्रे शीत-वात-विदारिताः ॥ ९२ ॥

8.93

श्लोक

तस्माद् आयातने विष्णोर् दद्याद् दीपान् द्विजोत्तम । ताम्श् च दत्त्वा न हिंसेत न च तैल-वियोजितान् ॥ ९३ ॥

8.94

श्लोक

कुर्वीत दीप-हन्ता च मूकोऽन्धो जायते मृतः । अन्धे तमसि दुष्परे नरके पच्यते किल ॥ ९४ ॥

8.95

श्लोक

दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव । वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥ ९५ ॥

8.96

श्लोक

दत्त्वा पुष्पाञ्जलिं पीठं पद्यम् आचमनं तथा । कृत्वा पात्रेषु कृष्णायार्पयेद् भोज्यं यथा-विधि ॥ ९६ ॥

8.97

श्लोक

अस्त्रं जप्त्वाम्बुना प्रोक्ष्य नैवेद्यं चक्र-मुद्रया । संरक्ष्य प्रोक्षयेद् वायु-बीज-जप्त-जलेन च ॥ ९७ ॥

8.98

श्लोक

तेन संशोष्य तद्-दोषम् अग्नि-बीजं च दक्षिणे । ध्यात्वा कर-तलेऽन्यत् तत् पृष्ठे संयोज्य दर्श्यते ॥ ९८ ॥

8.99

श्लोक

तद्-उत्थ-वह्निना तस्य शुष्क-दोषं हृदा दहेत् । ततः कर-तले सव्येऽमृत-बीजं विचिन्तयेत् ॥ ९९ ॥

8.100

श्लोक

तत्-पृष्ठे दक्षिणं पनि-तलं संयोज्य दर्शयेत् । तद्-उत्थया निवेद्यं तत् सिचेद् अमृत-धारया ॥ १०० ॥