Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ११

नित्य-क्रिया-समापनः

11.1

श्लोक

श्री-चैतन्यं प्रपद्ये तं महाश्चर्य-प्रभावकम् । प्रसादे यस्य दुष्टोऽपि भगवद्-भक्तिमान् भवेत् ॥ १ ॥

11.2

श्लोक

ततो दिनान्त्य-भागेषु बाह्येषु सुर-सद्मसु । यात्रां कृत्वा द्विजः सन्ध्याम् उपासीत यथा-विधि ॥ २ ॥

11.3

श्लोक

दिनान्त-सन्ध्यां सूर्येण पूर्वा मृक्षैर् युतां बुधः । उपतिष्ठेद् यथान्यायं सम्यग् आचम्य पार्थिव ॥ ३ ॥

11.4

श्लोक

सर्व-कालम् उपस्थानंभा सन्ध्यायाः पार्थिवेष्यते । अन्यत्र सूतिका-शौच-विभ्रमातुर-भीतितः ॥ ४ ॥

11.5

श्लोक

उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् । व्रजन्ति ते दुरात्मानस् तामिस्रं नरकं नृप ॥ ५ ॥

11.6

श्लोक

ततो यथाश्रमाचारं कर्म सायन्तनं कृती । निर्वर्त्य पूर्ववत् कुर्याद् भक्त्या भगवद्-अर्चनम् ॥ ६ ॥

11.7

श्लोक

श्री-कृष्ण-भक्त्यासक्त्या तु सन्ध्योपास्यादिकं यदि । पतेत् कर्म न पातित्य-दोष-शङ्का कथञ्चन ॥ ७ ॥

11.8

श्लोक

मत्-कर्म कुर्वतां पुंसां क्रिया-लोपो भवेद् यदि । तेषां कर्माणि कुर्वन्ति तिस्रः कोट्यो महर्षयः ॥ ८ ॥

11.9

श्लोक

स्मरन्ति मम नामानि ये त्यक्त्वा कर्म चाखिलम् । तेषां कर्माणि कुर्वन्ति ऋषयो भगवत्-पराः ॥ ९ ॥

11.10

श्लोक

मृदु-श्रद्धस्य भक्तस्य प्रौढताम् अनुपेयुषः । किंचित् कर्माधिकारित्वात् कर्मास्यैतत् प्रपञ्चितम् ॥ १० ॥

11.11

श्लोक

प्रौढ-श्रद्धस्य भक्तस्यकर्मस्व् अनधिकारतः । पातित्यं न भवत्य् एव लेखनीयं तद्-अग्रतः ॥ ११ ॥

11.12

श्लोक

किंचिद् ध्यानादि-भेदेन त्रिसन्ध्यं च पृथक् पृथक् । प्रोक्तः पूजा-विधिः प्राज्ञैस् तत्-तत्-कामाशु-सिद्धये ॥ १२ ॥

11.13

श्लोक

आराधन-विधिं वक्ष्ये प्रातः-काले विशेषतः । वरं वृन्दावनं ध्यायेत् पुण्य-वृक्षादि-सेवितम् ॥ १३ ॥

11.14

श्लोक

पुन्नागैर् नाग-वृक्षैश् च पनसैश् चैव काञ्चनैः । बकुलैश् चैव बिल्वैश् च वन्यैः कुर्वकैर् अपि ॥ १४ ॥

11.15

श्लोक

सर्व-र्तु-कुसुमोपेतैः पुष्पावनत-शाखिभिः । तन्-मध्ये पुलिनं ध्यायेद् बहु-पुष्पक-चम्पकम् ॥ १५ ॥

11.16

श्लोक

धूप-दिपैर् वितानेन पुष्प-माला-विभूषितम् । मुक्तादाम-पताकाभिर् वन्य-पुष्पैर् अलङ्कृतम् ॥ १६ ॥

11.17

श्लोक

तन्-मध्ये कल्प-वृक्षस्य च्छायायां पङ्कजासने । सुस्थितं वेणु-गीताढ्यं सर्वाभरण-भूषितम् ॥ १७ ॥

11.18

श्लोक

वन-माला-परिवृतं गोपिका-शत-वेष्टितम् । देवासुरैश् च सिद्धैश् च गन्धर्वैर् अप्सरो-गणैः ॥ १८ ॥

11.19

श्लोक

यक्षैर् विद्याधर-गणैर् विहगैर् भुवि संस्थितैः । ब्रह्मर्षिभिः स्तूयमानं कृष्णं चैव शुचि-स्मितम् ॥ १९ ॥

11.20

श्लोक

नाना-विधैश् च गोपालैर् मृग-पक्षि-विभूषितम् । लेलिह्यमानं प्रणयात् पशूनां शत-कोटिभिः ॥ २० ॥

11.21

श्लोक

इन्दीवर-निभं दिव्यं सुन्दरं त्व् इन्दिरालयम् । सम्पूर्ण-चन्द्र-वदनं पद्म-पत्र-निभेक्षणम् ॥ २१ ॥

11.22

श्लोक

पद्माभ-पाणि-पादं च पद्म-राग-वरार्चितम् । शरण्यं सर्व-लोकानां गोपीनां प्राण-वल्लभम् ॥ २२ ॥

11.23

श्लोक

एवं ध्यात्वार्चयेन् नित्यं षोडशेनोपचारतः । दुग्धं च दधि-खण्डेन सहितं संनिवेदयेत् ॥ २३ ॥

11.24

श्लोक

सौवर्ण-पात्रे गोपानां ग्रासं कांस्ये निवेदयेत् । एवं समर्चयेद् भक्त्या जपन् मन्त्रं समाहितः ॥ २४ ॥

11.25

श्लोक

मध्याह्ने सम्प्रवक्ष्यामि पूजां सर्वार्थ-सिद्धिदाम् । सौवर्ण-पर्वते मूले धातुभिः समलङ्कृते ॥ २५ ॥

11.26

श्लोक

पुण्य-वृक्ष-समाकीर्णे पुण्य-पक्षि-निनादिते । पद्मोत्पलादि-सङ्कीर्णे वापीभिः समलङ्कृते ॥ २६ ॥

11.27

श्लोक

तस्मिन् सत्-पुलिने रम्ये छायायां पङ्कजासने । सौवर्ण-मण्डपे सम्यग्-वितानादि-विभूषिते ॥ २७ ॥

11.28

श्लोक

मालादि-रचिते रम्ये मणिभिः पुष्प-शोभितैः । सुवर्ण-रत्न-सन्दोहैर् अन्तरान्तर-शोभिते ॥ २८ ॥

11.29

श्लोक

सिंहासने समासीनं विश्रान्तं कंस-सूदनम् । मुक्तामयैः सुरुचिरैर् हारैर् दाम-विभूषितम् ॥ २९ ॥

11.30

श्लोक

ध्यात्वा सम्यग् विशुद्धात्मा जाती-पुष्पैः समर्चयेत् । महारजत-पात्रे तु नैवेद्यान्नं निवेदयेत् ॥ ३० ॥

11.31

श्लोक

दद्याद् ग्रासं सखीनां च गोपीनां विजितेन्द्रियः । देवकी-परमानन्दम् एवं ध्यायेत् सुखासनम् ॥ ३१ ॥

11.32

श्लोक

रात्रि-पूजा-विधिं वक्ष्ये रुक्मिणी-वल्लभस्य च । अधस्तात् कल्प-वृक्षस्य सर्व-पुष्प-फलस्य च ॥ ३२ ॥

11.33

श्लोक

रत्न-मण्डप-मध्य-स्थं दिव्य-पीताम्बरं हरिम् । दिव्य-चन्दन-लिप्ताङ्गं दिव्याभरण-भूषितम् ॥ ३३ ॥

11.34

श्लोक

अनेक-दिव्य-मालाभिर् मण्डितं पङ्कजेक्षणम् । रत्न-मण्डप-मध्यस्थं सुन्दरं सुन्दर-स्मितम् ॥ ३४ ॥

11.35

श्लोक

शोभयन्तं स्व-वपुषा सर्व-लोकान् निज-श्रिया । गोपी-जनानां हृदय-वल्लभं प्रोक्त-वर्चसम् ॥ ३५ ॥

11.36

श्लोक

सुगन्धि-पुष्पैर् आराध्यं श्री-कृष्णं सर्व-नायकम् । राजते तु पयः शुद्धं पक्वं पात्रे निवेदयेत् ॥ ३६ ॥

11.37

श्लोक

एवम् अभ्यर्च्य मनसा जपेन् मन्त्रं समाहितः । काल-त्रयार्चने चैव सहस्रं साष्टकं जपेत् । एष नित्य-क्रमः प्रोक्तः कृष्ण-मन्त्रस्य सूरिभिः ॥ ३७ ॥

11.38

श्लोक

मनसा वा समभ्यर्च्य त्रिषु सन्ध्यासु संयमी । प्रत्यहं तु जपेन् मन्त्रम् अष्टोत्तर-सहस्रकम् । असामर्थ्ये जपेन् मन्त्रं नित्यम् अष्ट-शतं तथा ॥ ३८ ॥

11.39

श्लोक

ततो यथा-सम्प्रदायं होमं निष्पाद्य वैष्णवः । गीत-नृत्यादिकं भक्त्या विधाय प्रार्थयेत् प्रभुम् ॥ ३९ ॥

11.40

श्लोक

बलीयसा पदा स्वामिन् पदवीम् अवधारय । आगच्छ शयन-स्थानं प्रियाभिः सह केशव ॥ ४० ॥

11.41

श्लोक

एवं प्रार्थ्य समर्प्यास्मै पादुके शयनालयम् । आनीय देवं तत्रत्यान् उपचारान् प्रकल्पयेत् ॥ ४१ ॥

11.42

श्लोक

विशेषतोऽर्पयेत् तत्र घनं दुग्धं सशर्करम् । ताम्बूलं च स-कर्पूरं दिव्य-माल्यानुलेपनम् ॥ ४२ ॥

11.43

श्लोक

इत्थं भक्त्या समाराध्यं भगवन्तं स्व-शक्तितः । तत्-प्रीत्यै सर्व-कर्माणि तत् फलं वार्पयेत् कृती ॥ ४३ ॥

11.44

श्लोक

कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ ४४ ॥

11.45

श्लोक

साधु वासाधु वा कर्म यद् यद् आचरितं मया । तत् सर्वं भगवन् विष्णो गृहाणाराधनं परम् ॥ ४५ ॥

11.46

श्लोक

जनार्दनस् तेन कृतेन तुष्यतु ॥ ४६ ॥

11.47

श्लोक

पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना । राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ ४७ ॥

11.48

श्लोक

इत्थम् आराधयेन् नित्यं भगवन्तं यथा विधि । न्यायार्जिताप्त-वित्तेन समग्र-फल-सिद्धये ॥ ४८ ॥

11.49

श्लोक

अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः । यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः ॥ ४९ ॥

11.50

श्लोक

न्यायाज् जितैः साधनैश् च दान-होमार्चनादिकम् । कुर्यान् न चेद् अधो याति भक्त्या कुर्वन्न् अपि द्विज ॥ ५० ॥

11.51

श्लोक

यत्नात् सिद्धैर् निजैः शुद्धैर् द्रव्यैर् धन्योऽर्चयेत् प्रभुम् । पूजा-द्रव्याण्य् अशक्तश् चेद् दह्याद् ईक्षेत वार्चनम् ॥ ५१ ॥

11.52

श्लोक

आराधनासमर्थ्यश् चेद् दद्याद् अर्चन-साधनम् । यो दातुं नैव शक्नोति कुर्याद् अर्चन-दर्शनम् ॥ ५२ ॥

11.53

श्लोक

निस्ताराय तद् एवालं भवाब्धेर् मुनि-सत्तम । नैकं च यस्य विद्येत सोऽधो यात्य् एव नान्यथा ॥ ५३ ॥

11.54

श्लोक

यस् तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् । साधनं चार्चयेद् विद्वान् समग्रं लभते फलम् ॥ ५४ ॥

11.55

श्लोक

योऽर्चयेद् विधिवद् भक्त्या परानीतैश् च साधनैः । पूजा-फलार्धम् एव स्यान् न समग्रं फलं लभेत् ॥ ५५ ॥

11.56

श्लोक

धर्मोद्देशेन यो द्रव्यम् अपरं याचते नरः । तत्-पुण्य-कर्मजं तस्य धनदस् त्व् आप्नुयात् फलम् ॥ ५६ ॥

11.57

श्लोक

पूजितं पूज्यमानं च ये पश्यन्ति जनार्दनम् । कपिला-शत-दानस्य नित्यं भवति तत् फलम् ॥ ५७ ॥

11.58

श्लोक

पूजितं पूज्यमानं वा यो पश्येद् भक्तितो हरिम् । श्रद्धया मोदयेद् यस् तु सोऽपि याग-फलं लभेत् ॥ ५८ ॥

11.59

श्लोक

सम्पूज्यमानं विधिना यः पश्येत् श्रद्धया हरिम् । सोऽपि याग-फलं कृत्स्नं प्राप्नुयात् नात्र संशयः ॥ ५९ ॥

11.60

श्लोक

दृष्ट्वा सम्पूजितं देवं नृत्यमानोऽनुमोदयेत् । असंशय-मतिः शुद्धः परं ब्रह्माधिगच्छति ॥ ६० ॥

11.61

श्लोक

तावद् भ्रमन्ति संसारे मनुष्या मन्द-बुद्धयः । यावद् रूपं न पश्यन्ति केशवस्य महात्मनः ॥ ६१ ॥

11.62

श्लोक

पूज्यमानं हृषीकेशं ये न पश्यन्ति वैष्णवाः । तेषां दत्तं हुतं जप्तं दैतेयायोपतिष्ठति ॥ ६२ ॥

11.63

श्लोक

यत्र कुत्रापि प्रतिमां वेद-धर्म-समन्विताम् । न पश्यन्ति जना गत्वा ते दण्ड्या यम-किङ्करैः ॥ ६३ ॥

11.64

श्लोक

विष्णुम् उद्दिश्य यत् किञ्चिद् विष्णु-भक्ताय दीयते । दानं तद् विमलं प्रोक्तं केवलं मोक्ष-साधनम् ॥ ६४ ॥

11.65

श्लोक

यत् किञ्चिद् देयम् ईशानम् उद्दिश्य ब्राह्मणाय च । प्रभवे विष्णवे चाथ तद् अनन्त-फलं स्मृतम् ॥ ६५ ॥

11.66

श्लोक

अनुग्रहेण महता प्रेतस्य पतितस्य च । नारायण-बलिः कार्यस् तेनास्यानुग्रहो भवेत् ॥ ६६ ॥

11.67

श्लोक

अनादि-निधनो देवः शङ्ख-चक्र-गदाधरः । अक्षयः पुण्डरीकाक्षस् तत्र दत्तं न नश्यति ॥ ६७ ॥

11.68

श्लोक

यथा कथञ्चिद् यद् दत्तं देवदेवे जनार्दने । अविनाशि तु तद् विद्धि पात्रम् एको जनार्दनः ॥ ६८ ॥

11.69

श्लोक

सामान्य-भक्त्या यद् दत्तं तद् धि पद्भ्यां प्रतीच्छति । एकान्त-भावोपगमैर् मूर्ध्ना दिव्ज-वरोत्तमाः ॥ ६९ ॥

11.70

श्लोक

अनन्तो भगवान् विष्णुस् तस्य काम-विवर्जितैः । यद् एव दीयते किञ्चित् तद् एवाक्षयम् उच्यते ॥ ७० ॥

11.71

श्लोक

पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् । मूर्ध्ना प्रतीच्छते दत्तम् अकामेन द्विजोत्तमाः ॥ ७१ ॥

11.72

श्लोक

ब्रह्मा यद् ऋषयश् चैव स्वयं पशुपतिश् च यत् । अन्ये च विबुध-श्रेष्ठा दैत्य-दानव-राक्षसाः ॥ ७२ ॥

11.73

श्लोक

नागाः सुवर्णाः गन्धर्वाः सिद्धा राजर्षयस् तथा । हव्यं क्रव्यं च सततं विधि-युक्तं प्रभुञ्जते । कृत्स्नं तु तस्य देवस्य चरणाव् उपतिष्ठति ॥ ७३ ॥

11.74

श्लोक

याः क्रियाः संप्रयुक्तास् तु एकान्त-गत-बुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥ ७४ ॥

11.75

श्लोक

एकाम् अपि नरो धेनुं स-वत्सां विधि-पूर्वकम् । दत्त्वोद्देशेन कृष्णस्य प्राप्नोत्य् एवाभिवाञ्छितम् ॥ ७५ ॥

11.76

श्लोक

यो गां पयस्विनीं विष्णोः कृष्ण-वर्णां प्रयच्छति । अश्वमेधस्य यज्ञस्य फलं प्राप्य हरिं व्रजेत् ॥ ७६ ॥

11.77

श्लोक

सर्व-पापैर् विरहितः सर्व-भूषण-भूषितः । गवां सहस्र-दानस्य प्राप्यं दिव्यं व्रजेत् ॥ ७७ ॥

11.78

श्लोक

गवां लोकम् अवाप्नोति धेनुं दत्त्वा पयस्विनीम् । दधि-क्षीर-घृतार्थाय वासुदेवस्य चालये । दत्त्वा गां मधुपर्काय महत् फलम् अवाप्नुयात् ॥ ७८ ॥

11.79

श्लोक

जलाशयं तथा कृत्वा सर्व-पापैः प्रमुच्यते ॥ ७९ ॥

11.80

श्लोक

स-पुष्पैः सफलैर् वृक्षैर् युतं कृत्वा जलाशयम् । उद्यानैः पद्मिनी-षण्डैर् आश्रमैश् च मनोहरैः । श्वेदद्वीपम् अवाप्नोति पुनर् नावर्तते ततः ॥ ८० ॥

11.81

श्लोक

देवाग्रे कारयेद् यस् तु रम्याम् आपण-वीथिकाम् । राजा भवति लोकेषु विजितारिर् महाशयाः ॥ ८१ ॥

11.82

श्लोक

नगरं च तथा कृत्वा साम्राज्यम् अधिगच्छति । शिविकां ये प्रयच्छन्ति ते प्रयान्त्य् अमरावतीम् ॥ ८२ ॥

11.83

श्लोक

अश्वदाः स्वर्ग-लोकस्था राजन्ते दिवि सूर्यवत् । कवीन्द्र-दानाच् छक्रस्य चिराल् लोकाच्युतो नरः ॥ ८३ ॥

11.84

श्लोक

राजा भवति धर्मात्मा पृथिव्यां पृथिवी-पतिः ॥ ८४ ॥

11.85

श्लोक

विष्णोर् आयतने दत्त्वा तत्-कथा-पुस्तकं नरः । ब्रह्म-लोकम् अवाप्नोति बहु-काल-स्थिरं द्विजाः ॥ ८५ ॥

11.86

श्लोक

पुस्तकांश् च तथैवान्यान् यः प्रदद्यान् नरस् त्व् इह । सारस्वतम् अवाप्नोति लोकं कालं तथा बहुम् ॥ ८६ ॥

11.87

श्लोक

स्वभृतं वाचकं कृत्वा देवागारे नरः सदा । विद्या-दान-फलं प्राप्य ब्रह्म-लोके महीयते ॥ ८७ ॥

11.88

श्लोक

विष्णोः शङ्ख-प्रदानेन वारुणं लोकम् अश्नुते । मानुष्यम् आसाद्य तथा ख्यात-शब्दश् च जायते ॥ ८८ ॥

11.89

श्लोक

घण्टा-प्रदानेन तथा महद्-यश उपाश्नुते । कूटागारं तथा दत्त्वा नगराधिपतिर् भवेत् ॥ ८९ ॥

11.90

श्लोक

दत्त्वा तु देव-कर्मार्थं नवां वेदीं दृढां शुभाम् । पार्थिवत्वम् अवाप्नोति वेदी हि पृथिवी यतः ॥ ९० ॥

11.91

श्लोक

तोरणं कारयेद् यस् तु देवदेवालये नरः । लोकेषु तस्य द्वाराणि भवन्ति विवृतानि वै ॥ ९१ ॥

11.92

श्लोक

देव-वेश्मोपयोग्यानि शिल्प-भाण्डानि यो नरः । दद्याद् वा वाद्य-भाण्डानि गणेशत्वम् अवाप्नुयात् ॥ ९२ ॥

11.93

श्लोक

यः कुम्भं देव-कर्मार्थं नरो दद्यान् नवं शुभम् । वारुणं लोकम् आप्नोति सर्व-पापैः प्रमुच्यते ॥ ९३ ॥

11.94

श्लोक

चतुरः कलसान् दद्याद् यस् तु देव-गृहे नरः । चतुः-समुद्र-वलयां स हि भुङ्क्ते वसुन्धराम् ॥ ९४ ॥

11.95

श्लोक

दत्त्वैकम् अपि विप्रेन्द्राः कलसं सुसमाहितः । राजा भवति धर्मात्मा भूतले नात्र संशयः ॥ ९५ ॥

11.96

श्लोक

वारिधानीं तथा दत्त्वा वारुणं लोकम् अश्नुते । कमण्डलु-प्रदानेन यज्ञस्य फलम् आप्नुयात् ॥ ९६ ॥

11.97

श्लोक

मात्रां तु परिचर्यार्थं निवेद्य हरये तथा । सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते ॥ ९७ ॥

11.98

श्लोक

ताल-वृन्त-प्रदानेन निर्वृतिं प्राप्नुयात् पराम् । माल्याधारं तथा दत्त्वा धूपाधारं तथैव च । गन्धाधारं तथा पात्रं कामानां पात्रतां व्रजेत् ॥ ९८ ॥

11.99

श्लोक

सौम्द्रजानि पात्राणि दत्त्वा वै तैजसानि वा । पात्रं भवति कामानां विद्यानां च धनस्य च ॥ ९९ ॥

11.100

श्लोक

शयनासन-दानेन स्थितिं विन्दति शाश्वतीम् । उत्तर-च्छद-दानेन सर्वान् कामान् अवाप्नुयात् ॥ १०० ॥