Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १२

एकादशी-निर्णयः

12.1

श्लोक

नमो भगवते तस्मै यस्य प्रियतमा तिथिः । एकादशी द्वादशी च सर्वाभीष्ट-प्रदा नृणाम् ॥ १ ॥

12.2

श्लोक

इत्थं च नित्यं कुर्वाणः क-पूजा-महोत्सवम् । हरेर् दिने विशेषेण कुर्यात् तं पक्षयोर् द्वयोः ॥ २ ॥

12.3

श्लोक

अत्र व्रतस्य नित्यत्वाद् अवश्यं तत् समाचरेत् । सर्व-पापापहं सर्वार्थदं श्री-कृष्ण-तोषणम् ॥ ३ ॥

12.4

श्लोक

तच् च कृष्ण-प्रीणनत्वाद् विधि-प्राप्तत्वतस् तथा । भोजनस्य निषधाच् चाकरणे प्रत्यवायतः ॥ ४ ॥

12.5

श्लोक

एकादश्यां निराहारो यो भुङ्क्ते द्वादशी-दिने । शुक्ला वा यदि वा कृष्णा तद् व्रतं वैष्णवं महत् ॥ ५ ॥

12.6

श्लोक

एकादश्यां न भुञ्जीत व्रतम् एतद् धि वैष्णवम् ॥ ६ ॥

12.7

श्लोक

ब्राह्मण-क्षत्रिय-विशां शूद्राणां चैव योषिताम् । मोक्ष-दं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज ॥ ७ ॥

12.8

श्लोक

एकादशी-व्रतं नाम सर्वाभीष्ट-प्रदं नृणाम् । कर्तव्यं सर्वथा विप्र विष्णु-प्रीति-करं यतः ॥ ८ ॥

12.9

श्लोक

एकादश्याम् उपवसेन् न कदाचिद् अतिक्रमेत् ॥ ९ ॥

12.10

श्लोक

उपोष्यकादशी राजन् यावद्-आयुः-प्रवृत्तिभिः ॥ १० ॥

12.11

श्लोक

द्वादशी न प्रमोक्तव्या यावद्-आयुः-प्रवृत्तिभिः ॥ ११ ॥

12.12

श्लोक

रटन्तीह पुराणानि भूयो भूयो वरानने । न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरि-वासरे ॥ १२ ॥

12.13

श्लोक

आगमाः शतशो राजन्न् इतिहासा रटन्ति हि । न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरि-वासरे ॥ १३ ॥

12.14

श्लोक

ऋषयः सङ्घशः सर्वे नारदाद्याश् च चुक्रुशुः । न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरि-वासरे ॥ १४ ॥

12.15

श्लोक

एकादश्यां न भुञ्जीत कदाचिद् अपि मानवः ॥ १५ ॥

12.16

श्लोक

एकादश्यां न भुञ्जीत दृष्टे रजस्य् अपि ॥ १६ ॥

12.17

श्लोक

उपवास फलं लिप्सुर् जह्याद् भुक्ति-चतुष्टयम् । पूर्वापर-दिने रात्राव् अहो-रात्रं तु मध्यमे ॥ १७ ॥

12.18

श्लोक

सायम् आद्य्-अन्तयोर् अह्नोः सायं प्रातश् च मध्यमे । उपवास-फलं प्रेप्सुर् जह्याद् भुक्त-चतुष्टयम् ॥ १८ ॥

12.19

श्लोक

यानि कानि च पापानि ब्रह्म-हत्या-समानि च । अन्नम् आश्रित्य तिष्ठन्ति सम्प्राप्ते हरि-वासरे । तानि पापान्य् अवाप्नोति भुञ्जानो हरि-वासरे ॥ १९ ॥

12.20

श्लोक

सोऽश्नाति पार्थिवं पापं योऽश्नाति हरि-वासरे ॥ २० ॥

12.21

श्लोक

मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा । एकादश्यां तु यो भुङ्क्ते विष्णु-लोक-च्युतो भवेत् ॥ २१ ॥

12.22

श्लोक

अग्निवर्णायसं तीक्ष्णं क्षिपन्ति यम-किङ्कराः । मुखे तेषां महादेवि ये भुञ्जन्ति हरेर् दिने ॥ २२ ॥

12.23

श्लोक

स केवलम् अघं भुङ्क्ते यो भुङ्क्ते हरि-वासरे । दिनेऽत्र सर्व-पापानि भवन्त्य् अन्न-स्थितानि तु । तानि मोहेन योऽश्नाति न स पापैर् विमुच्यते ॥ २३ ॥

12.24

श्लोक

पितरं को न वन्देत मातरं को न पूजयेत् । को हि दूषयते वेदं को भुङ्क्ते हरि-वासरे ॥ २४ ॥

12.25

श्लोक

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः । एकादश्यां हि भुञ्जानो भुङ्क्ते गो-मांसम् एव हि ॥ २५ ॥

12.26

श्लोक

ब्रह्मघ्नस्य सुरापस्य स्तेयिनो गुरु-तल्पिनः । निष्कृतिर् धर्म-शास्त्रोक्ता नैकादश्य्-अन्न-भोजिनः ॥ २६ ॥

12.27

श्लोक

एक एव नरः पापी नरके नृप गच्छति । एकादश्य्-अन्न-भोजी यः पितृभिः सह मज्जति ॥ २७ ॥

12.28

श्लोक

भुङ्क्ष्व भुङ्क्ष्वेति यो ब्रूयात् सम्प्राप्ते हरि-वासरे । गो-ब्राह्मण-स्त्रियश् चापि जहीहि वदति क्वचित् ॥ २८ ॥

12.29

श्लोक

मद्यं पिबेति यो ब्रूयात् तेषाम् एव अधो-गतिः ॥ २९ ॥

12.30

श्लोक

पुरोडाशोऽपि वामोरु सम्प्राप्ते हरि-वासरे । अभक्ष्यः सर्वदा प्रोक्तः किं पुनश् चान्न-संस्क्रिया ॥ ३० ॥

12.31

श्लोक

एकादश्यां मुनि-श्रेष्ठ श्राद्धे भुङ्क्ते नरो यदि । प्रतिग्रासं स भुङ्क्ते तु किल्बिषं मूत्र-विण्-मयम् ॥ ३१ ॥

12.32

श्लोक

वैष्णवो यदि भुञ्जीत एकादश्यां प्रमादतः । विष्ण्व्-अर्चनं वृथा तस्य नरकं घोरम् आप्नुयात् ॥ ३२ ॥

12.33

श्लोक

समादाय विधानेन द्वादशी-व्रतम् उत्तमम् । तस्य भङ्गं नरः कृत्वा रौरवं नरकं व्रजेत् ॥ ३३ ॥

12.34

श्लोक

विधवा या भवेन् नारी भुञ्जीतैकादशी-दिने । तस्यास् तु सुकृतं नश्येद् भ्रूण-हत्या दिने दिने ॥ ३४ ॥

12.35

श्लोक

एकादशीं विना रण्डा यतिश् च सुमहा-तपाः । पच्यते ह्य् अन्ध-तामिस्रे यावद् आहूत-सम्प्लवम् ॥ ३५ ॥

12.36

श्लोक

न शङ्खेन पिबेत् तोयं न खादेत् कूर्म-शूकरौ । एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥ ३६ ॥

12.37

श्लोक

यथा शुक्ला तथा कृष्णा विशेषो नास्ति कश्चन ॥ ३७ ॥

12.38

श्लोक

शुक्ला वा यदि वा कृष्णा विष्णु-पूजन-तत्-परः । एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥ ३८ ॥

12.39

श्लोक

सर्व-पाप-प्रणाशाय विष्णु-सन्तोषणाय च । उपोष्या द्वादशी पुण्या सर्वैर् उभय-पक्षयोः ॥ ३९ ॥

12.40

श्लोक

एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि । द्वादश्याम् अर्चयेद् विष्णुं स मुक्ति-फल-भाग् भवेत् ॥ ४० ॥

12.41

श्लोक

यथा सुपूजितो गौरः कृष्णो वा वेदविद् द्विजः । सन्तारयति दातारं द्वादश्यां च तथा स्मृते ॥ ४१ ॥

12.42

श्लोक

तैलं शुक्लेतराणां वै तिलानां सदृशं तथा । कृष्णायाश् च सितायाश् च गोः क्षीरं सदृशं यथा । द्वादश्योः सदृशं तद्वत् पुण्यं स्यात् कृष्ण-शुक्लयोः ॥ ४२ ॥

12.43

श्लोक

चन्द्र-सूर्य-ग्रहौ पुण्यौ यथैव मुनिभिः स्मृतौ । तथा सितासिते पुण्ये द्वादश्यौ विष्णु-तुष्टिदे ॥ ४३ ॥

12.44

श्लोक

यथा गो-तिल-विप्राणां कृष्णत्वं नैव दूषणम् । एकादशी तथा राजन्न् उपोष्या पक्षयोर् द्वयोः ॥ ४४ ॥

12.45

श्लोक

यथा विष्णुः शिवश् चैव सम्पूज्यौ मुनिभिः स्मृतौ । तथा पूज्यतमे प्रोक्ते द्वादश्यौ कृष्ण-शुक्लके ॥ ४५ ॥

12.46

श्लोक

नित्यं शक्ति-समायुक्तैर् नरैर् विष्णु-परायणैः । पक्षे पक्षे तु कर्तव्यम् एकादश्याम् उपोषणम् ॥ ४६ ॥

12.47

श्लोक

सपुत्रश् च सभार्यश् च स्वजनैर् भक्ति-संयुतः । एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ॥ ४७ ॥

12.48

श्लोक

स ब्रह्महा सुरापश् च कृतघ्नो गुरु-तल्पगः । विवेचयति यो मोहाद् एकादश्यौ सितासिते ॥ ४८ ॥

12.49

श्लोक

सर्वेषाम् इह पापानाम् आश्रयः स तु कीर्तितः । विवेचयति यो मोहाद् एकादश्यौ सितासिते ॥ ४९ ॥

12.50

श्लोक

एवं ज्ञात्वा सदोपोष्ये द्वादश्यौ कृष्ण-शुक्लके । तयोर् भेदं न कुर्वीत भेदेन नरकं व्रजेत् ॥ ५० ॥

12.51

श्लोक

शुक्ला वा यदि वा कृष्णा विशेषो नास्ति कश्चन । विशेषं कुरुते यस् तु पितृहा स प्रकीर्तितः ॥ ५१ ॥

12.52

श्लोक

एकादश्योर् द्वयोर् यस् तु विशेषं कुरुते नरः । तस्योद्धारं न पश्यामि यावद् आहूत-रम्प्लवम् ॥ ५२ ॥

12.53

श्लोक

य इच्छेद् विष्णुना वासं पुत्र-सम्पदम् आत्मनः । एकादशीम् उपवसेत् पक्षयोर् उभयोर् अपि ॥ ५३ ॥

12.54

श्लोक

यथा शुक्ला तथा कृष्णा यथा कृष्णा तथोत्तरा । तुल्ये ते मनुते यस् तु स वै वैष्णव उच्यते ॥ ५४ ॥

12.55

श्लोक

सङ्क्रान्तौ रवि-वारे वा यदा चैकादशी भवेत् । उपोष्या सा महा-पुण्या सर्व-पाप-हरा तिथिः ॥ ५५ ॥

12.56

श्लोक

व्यतिपातो वैधृतिर् वा एकादश्यां यदा भवेत् । उपोष्या सा तु वीज्ञेया पुत्र-सम्पद्-विवर्धिनी ॥ ५६ ॥

12.57

श्लोक

भानु-वारेण संयुक्ता तथा सङ्क्रान्ति-संयुता । एकादशी सदोपोष्या सर्व-सम्पत्-करी तिथिः ॥ ५७ ॥

12.58

श्लोक

भानु-वार-समोपेता तथा सङ्क्रान्ति-संयुता । एकादशी सदोपोष्या पुत्र-पौत्र-विवर्धिनी ॥ ५८ ॥

12.59

श्लोक

आदित्येऽहनि सङ्क्रान्तौ ग्रहणे चन्द्र-सूर्ययोः । पारणं चोपवासं च न कुर्यात् पुत्रवान् गृही ॥ ५९ ॥

12.60

श्लोक

तन्-निमित्तोपवासस्य निषेधोऽयम् उदाहृतः । नानुषङ्गतो ग्राह्यो यतो नित्यम् उपोषणम् ॥ ६० ॥

12.61

श्लोक

अमावस्या द्वादशी च सङ्क्रान्तिश् च विशेषतः । एताः प्रशस्तास् तिथयो भानुवारस् तथैव च ॥ ६१ ॥

12.62

श्लोक

अत्र स्नानं जपो होमो देवतानां च पूजनम् । उपवासस् तथा दानम् एकैकं पावनं महत् ॥ ६२ ॥

12.63

श्लोक

शनैर् वारे रवेर् वारे सङ्क्रान्त्यां ग्रहणेऽपि च । त्याज्या नैकादशी राजन् सर्वदैवेति निश्चयः ॥ ६३ ॥

12.64

श्लोक

परमापदम् आपन्नो हर्षे वा समुपस्थिते । सूतके मृतके चैव न त्याज्यं द्वादशी-व्रतम् ॥ ६४ ॥

12.65

श्लोक

सूतकेऽपि नरः स्नात्वा प्रणम्य मनसा हरिम् । एकादश्या ं न भुञ्जीत व्रतम् एतन् न लुप्यते ॥ ६५ ॥

12.66

श्लोक

मृतके तु ण भुञ्जीत एकादश्यां सदा नरः । द्वादश्यां तु समश्नीयात् स्नात्वा विष्णुं प्रणम्य च ॥ ६६ ॥

12.67

श्लोक

पूर्व-सङ्कलितं यच् च व्रतं सुनियत-व्रतैः । तत् कर्तव्यं नरैस् तद्वद् दानार्चन-विवर्जितम् ॥ ६७ ॥

12.68

श्लोक

यथा सङ्कलितं सम्यग् व्रतं विष्णु-परायणैः । कर्तव्यं च तथैवेह स्नात्वा संशय-वर्जितम् ॥ ६८ ॥

12.69

श्लोक

एकादश्यां यदा राम श्राद्धं नैमित्तिकं भवेत् । तद्-दिने तु परित्यज्य द्वादश्यां श्राद्धम् आचरेत् ॥ ६९ ॥

12.70

श्लोक

एकादश्यां च प्राप्तायां माता-पित्रोर् मृतेऽहनि । द्वादश्यां तु प्रदातव्यं नोपवास-दिने क्वचित् । गर्हितान्नं न वाश्नन्ति पितरश् च दिवौकसः ॥ ७० ॥

12.71

श्लोक

एकादशी यदा नित्या श्राद्धं नैमित्तिकं भवेत् । उपवासं तदा कुर्याद् द्वादश्यां श्राद्धम् आचरेत् ॥ ७१ ॥

12.72

श्लोक

ये कुर्वन्ति महीपाल श्राद्धं त्व् एकादशी-दिने । त्रयस् ते नरकं यान्ति दाता भोक्ता परेतकः ॥ ७२ ॥

12.73

श्लोक

गृहस्थो ब्रह्मचारी च आहिताग्निर् यतिस् तथा । एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥ ७३ ॥

12.74

श्लोक

वर्णानाम् आश्रमाणां च स्त्रीणां वर-वर्णिनी । एकादश्य्-उपवासस् तु कर्तव्यो नात्र संशयः ॥ ७४ ॥

12.75

श्लोक

अष्टवर्षाधिको मर्त्यो अपूर्णाशीतिवत्सरः । एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ॥ ७५ ॥

12.76

श्लोक

अष्टवर्षाधिको मर्त्यो ह्य् अशीतिर् नैव पूर्यते । यो भुङ्क्ते मामके राष्ट्रे विष्णोर् अहनि पापकृत् ॥ ७६ ॥

12.77

श्लोक

स मे वध्यश् च निर्वास्यो देशतः कालतश् च मे । एतस्मात् कारणाद् विप्र एकादश्याम् उपोषणम् । कुर्यान् नरो वा नारी वा पक्षयोर् उभयोर् अपि ॥ ७७ ॥

12.78

श्लोक

वैष्णवो वाथ सौरो वा कुर्याद् एकादशी-व्रतम् ॥ ७८ ॥

12.79

श्लोक

वैष्णवो वाथ शैवो वा सौरोऽप्य् एतत् समाचरेत् ॥ ७९ ॥

12.80

श्लोक

न शैवो न च सौरो वा नाश्रमी तीर्थ-सेवकः । यो भुङ्क्ते वासरे विष्णोः श्वपचाद् अधिको हि सः ॥ ८० ॥

12.81

श्लोक

विप्रियं तेन मे गौरि कृतं दुष्टेन पापिना । मद्-भक्ति-बलम् आश्रित्य यो वै भुङ्क्ते हरेर् दिने ॥ ८१ ॥

12.82

श्लोक

उपवासे त्व् अशक्तस्य आहिताग्नेर् अथापि वा । पुत्रान् वा कारयेद् अन्यान् ब्राह्मणान् वापि कारयेत् ॥ ८२ ॥

12.83

श्लोक

अथवा विप्रमुख्येभ्यः दानं दद्यात् स्व-शक्तितः । उपवासं तु कुर्वाणः पुण्यं शत-गुणं लभेत् ॥ ८३ ॥

12.84

श्लोक

यम् उद्दिश्य कृतं सोऽपि सम्पूर्णं फलम् अश्नुते । नारी स्व-पतिम् उद्दिश्य एकादश्याम् उपोषिता ॥ ८४ ॥

12.85

श्लोक

पुण्यं शत-गुणं प्राहुर् मुनयः पारिदर्शिनः । उपवास-फलं तस्याः पतिः प्राप्नोत्य् असंशयम् ॥ ८५ ॥

12.86

श्लोक

असामर्थ्ये शरीरस्य व्रते वा समुपस्थिते । कारयेद् धर्म-पत्नीं च पुत्रं वा विनयान्वितम् । भगिनीं भ्रातरं वापि व्रतम् अस्य न लुप्यते ॥ ८६ ॥

12.87

श्लोक

पितृ-मातृ-पति-भ्रातृ-गुर्व्-अर्थे तु विशेषतः । उपवासं प्रकुर्वाणः पुण्यं शत-गुणं लभेत् । दक्षिणात्र न दातव्या शुश्रूषा विहिता च या ॥ ८७ ॥

12.88

श्लोक

गृहस्थः क्षत्रियार्थे य एकादश्याम् उपोषतः । पुरोधाः स-प्रियैः सार्धं फलं प्राप्नोति निश्चितम् ॥ ८८ ॥

12.89

श्लोक

पितामहादीन् उद्दिश्य एकादश्याम् उपोषणम् । कृतं यैस् तु फलं विप्राः समग्रं ते समाययुः ॥ ८९ ॥

12.90

श्लोक

कर्ता दश-गुणं पुण्यं प्राप्नोत्य् अत्र न संशयः । यम् उद्दिश्य कृतं सोऽपि सम्पूर्णं फलम् आप्नुयात् ॥ ९० ॥

12.91

श्लोक

एक-भक्तेन नक्तेन बाल-वृद्धातुरः क्षिपेत् । पयोमूल-फलैर् वापि न निर्द्वादशिको भवेत् ॥ ९१ ॥

12.92

श्लोक

उपवासे त्व् अशक्तानाम् अशीतेर् ऊर्ध्व-जीवनाम् । एक-भक्तादिकं कार्यम् आह बौधायनो मुनिः ॥ ९२ ॥

12.93

श्लोक

व्याधिभिः परिभूतानां पित्ताधिक-शरीरिणाम् । त्रिंशद्-वर्षाधिकानां च नक्तादि-परिकल्पनम् ॥ ९३ ॥

12.94

श्लोक

एक-भक्तेन नक्तेन बाल-वृद्धातुरः क्षिपेत् । नातिक्रमेद् द्वादशीं च उपवास-व्रतेन च ॥ ९४ ॥

12.95

श्लोक

एकादश्यां प्रभुं विष्णुं समभ्यर्च्य कदाचन । उपोषितेन नक्तेन तथैवायाचितेन च ॥ ९५ ॥

12.96

श्लोक

एक-भक्तेन वा तात न निर्द्वादशिको भवेत् । तद् एक-नियमी नित्यं न सीदति कदाचन ॥ ९६ ॥

12.97

श्लोक

नक्तं हविष्यान्नम् अनोदनं वा फलं तिलाः क्षीरम् अथाम्बु चाज्यम् । यत् पञ्च-गव्यं यदि वापि वायुः प्रशस्तम् अत्रोत्तरम् उत्तरं च ॥ ९७ ॥

12.98

श्लोक

उपवासात् परं भैक्ष्यं भैक्ष्यात् परम-याचितम् । अयाचितात् परं नक्तं तस्मान् नक्तेन वर्तयेत् ॥ ९८ ॥

12.99

श्लोक

सर्व-भूत-मयं व्याधिः प्रमादो गुरु-शासनम् । अव्रतघ्नानि पठ्यन्ते सकृद् एतानि शास्त्रतः ॥ ९९ ॥

12.100

श्लोक

अष्टैतान्य् अव्रत-घ्नानि आपो मूलं फलं पयः । हविर् ब्राह्मण-काम्या च गुरोर् वचनेमौषधम् ॥ १०० ॥