Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १७

पौरश्चरणिकः

17.1

श्लोक

कस्माच्चिद्-आश्रयाद्यस्य प्रोद्यद्-भक्ति-विलासतः । दीनोऽपि रञ्जयेद् विश्वं तं श्री-चैतन्यम् आश्रये ॥ १ ॥

17.2

श्लोक

प्रत्यहं प्रतिपक्षं च प्रतिमासम् अपि क्रमात् । विलिख्य कृत्यम् अधुना कादाचित्कं विलिख्यते ॥ २ ॥

17.3

श्लोक

श्री-गुरोर् मन्त्रम् आसाद्य पुरश्चरण-कर्मणि । दीक्षां कृत्वा पुनस् तेनानुज्ञातः प्रारभेत तत् ॥ ३ ॥

17.4

श्लोक

विना येन न सिद्धः स्यान् मन्त्रो वर्ष-शतैर् अपि । कृतेन येन लभते साधको वाञ्छितं फलम् ॥ ४ ॥

17.5

श्लोक

पुरश्चरण-सम्पन्नो मन्त्रो हि फल-दायकः । अतः पुरस्क्रियां कुर्यान् मन्त्रवित् सिद्धि-काङ्क्षया ॥ ५ ॥

17.6

श्लोक

किं होमैः किं जपैश् चैव किं मन्त्रायास-विस्तरैः । रहस्यानां हि मन्त्राणां यदि न स्यात् पुरस्क्रिया ॥ ६ ॥

17.7

श्लोक

पुरस्क्रिया हि मन्त्राणां प्रधानं वीर्यम् उच्यते । वीर्य-हीनो यथा देही सर्व-कर्मसु न क्षमः । पुरश्चरण-हीनो हि तथा मन्त्रः प्रकीर्तितः ॥ ७ ॥

17.8

श्लोक

संसारे दुःख-भूयिष्ठे य इच्छेत् सुखम् आत्मनः । पञ्चाङ्गोपासनेनैव रामं भजतु भक्तितः ॥ ८ ॥

17.9

श्लोक

पञ्चाङ्गोपासनं भक्तैः पुरश्चरणम् उच्यते । एतद् धि विदुषां श्रेष्ठन् संसार-च्छेद-कारणम् ॥ ९ ॥

17.10

श्लोक

नानेन सदृशो धर्मो नानेन सदृशं तपः । नानेन साधनं किञ्चिद् इष्टार्थस्य तपोधन ॥ १० ॥

17.11

श्लोक

पूजा त्रैकालिकी नित्यं जपस् तर्पणम् एव च । होमो ब्राह्मण-भुक्तिश् च पुरश्चरणम् उच्यते ॥ ११ ॥

17.12

श्लोक

गुरोर् लब्धस्य मन्त्रस्य प्रसादेन यथाविधि । पञ्चाङ्गोपासनं सिद्ध्यै पुरश् चैतद् विधीयते ॥ १२ ॥

17.13

श्लोक

निष्कामाणाम् अनेनैव साक्षात्कारो भविष्यति । अर्थ-सिद्धिः सकामानां सर्वा वै भक्तिम् आलभेत् ॥ १३ ॥

17.14

श्लोक

पञ्चाङ्गम् एतत् कुर्वीत यः पुरश्चरणं बुधः । स वै विजयते लोके विद्यैश्वर्य-सुतादिभिः ॥ १४ ॥

17.15

श्लोक

य इमं भजते विधिं नरो भवितासौ दयितः शरीरिणाम् । अपि वाक्-कमलैक-मन्दिरं परमं ते समुपैति तन्-महः ॥ १५ ॥

17.16

श्लोक

गोपालोपासना-ग्रन्थ-सार-श्री-क्रम-दीपिकाम् । प्रायोऽनुसृत्य लिख्येत पौरश्चरणिको विधिः ॥ १६ ॥

17.17

श्लोक

गिरि-शृङ्गं सरित्-तीरं बिल्व-मूलं जलान्तरम् । गोष्ठं विष्ण्व्-आलयोऽश्वत्थ-तलं वाथाम्बुधेस् तटम् ॥ १७ ॥

17.18

श्लोक

पुण्य-क्षेत्रं नदी-तीरं गुहा-पर्वत-मस्तकम् । पुण्य-प्रदेश-सिन्धूनां सङ्गमः पावनं वनम् ॥ १८ ॥

17.19

श्लोक

उद्यानानि विविक्तानि बिल्व-मूलं तटं गिरेः । तुलसी-काननं गोष्ठं वृष-शून्यः शिवालयः ॥ १९ ॥

17.20

श्लोक

अश्वत्थामलकी-मूलं गो-शाला-जल-मध्यतः । देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥ २० ॥

17.21

श्लोक

गुरूणां संनिधानं च चित्तैकाग्र्य-स्थलं तथा । प्रेत-भूम्यादिकं चैव तत्-तत्-कल्प-प्रकाशितम् । एषाम् अन्यतम-स्थानम् आश्रित्य जपम् आचरेत् ॥ २१ ॥

17.22

श्लोक

समुद्रगायाः सरितः सङ्गमः पाप-नाशनः । पश्चिमाभिमुखं लिङ्गं पुराणोक्तं स्वयम्भुवम् ॥ २२ ॥

17.23

श्लोक

सर्वोत्कृष्टं महा-विष्णोः स्थानं चान्यत् मनोरमम् । गृहं वा शुचि संस्कार-स्वभावाभ्यां प्रसिद्धिकृत् ॥ २३ ॥

17.24

श्लोक

गृहे त्व् एक-गुणं जप्यं नद्यां तु द्विगुणं स्मृतम् । गवां गोष्ठे दश-गुणं अग्न्यागारे दशाधिकम् ॥ २४ ॥

17.25

श्लोक

सिद्ध-क्षेत्रेषु तीर्थेषु देवतानां च संनिधौ । सहस्रं शत-कोटीनाम् अनन्तं विष्णु-संनिधौ ॥ २५ ॥

17.26

श्लोक

शुभे दिने च सङ्कल्प्य स्व-विहारादि-हेतवे । क्रोशम् एकम् उभौ वा तौ स्व-क्षेत्रं परिकल्पयेत् ॥ २६ ॥

17.27

श्लोक

क्षीर-वृक्ष-भवान् अष्ट कीलकान् द्वादशाङ्गुलान् । दश-कृत्वोऽस्त्र-मन्त्रेण प्रत्येकम् अभिमन्त्रयेत् ॥ २७ ॥

17.28

श्लोक

ततोऽभ्यर्च्याष्ट-दिक्-पालान् क्षेत्र-पालं च मध्यतः । बलिं दत्त्वा च निखनेत् कीलकान् अष्ट-दिक्षु तान् ॥ २८ ॥

17.29

श्लोक

ग्रामे क्रोश-मितं स्थानं नद्यादौ स्वेच्छया मितम् । नगरादाव् अथ क्रोशं क्रोश-युग्मम् अथापि वा । आहारादि-विहारार्थं तावतीं भूमिम् आक्रमेत् ॥ २९ ॥

17.30

श्लोक

क्षीरि-वृक्षोद्भवान् कीलान् अस्त्र-मन्त्राभिमन्त्रितान् । निखनेद् दश-दिग्-भागे तेष्व् अस्त्रं च प्रपूजयेत् ॥ ३० ॥

17.31

श्लोक

क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते । क्षेत्र-पालादिकं तत्र पूजयेद् विधिवत् ततः ॥ ३१ ॥

17.32

श्लोक

दिक्-पतिभ्यो बलिं दत्त्वा ततः क्षेत्रं समाश्रयेत् । क्षेत्र-मध्यं समाश्रित्य कूर्म-चक्रं विचिन्तयेत् ॥ ३२ ॥

17.33

श्लोक

कूर्म-चक्रेण संशोध्य दीप-स्थाने कुटीं श्रयेत् । चतुरस्र-चतुर्-हस्तां हस्तोन्नत-सुवेदिकाम् ॥ ३३ ॥

17.34

श्लोक

चन्द्रातप-पताकाभ्यां तोरणैर् अप्य् अलङ्कृताम् । विविक्ताम् अभिलिप्तां च प्राकारेणाभिवेष्टिताम् ॥ ३४ ॥

17.35

श्लोक

वर्तुलं नव-कोष्ठं तत् कृत्वा कूर्माकृतिं लिखेत् । कूर्मस्याङ्गानि चाष्टौ स्युर् मुखं हस्तौ च पार्श्वकौ । पादौ पुच्छम् इति प्रोक्तं प्रशस्तं मुखम् एव तु ॥ ३५ ॥

17.36

श्लोक

स्वर-द्वन्द्वं क्रमाद् दिक्षु पूर्वादिष्व् अष्टसु न्यसेत् । तथा कादीन् सप्त-वर्गान् न्यसेच् छिव-दिशं विना ॥ ३६ ॥

17.37

श्लोक

ग्राम-नामाद्य-वर्णस् तु यस्यां दिशि च तिष्ठति । तत्र कूर्म-मुखं ज्ञेयम् अन्याङ्गानीतरत्र च ॥ ३७ ॥

17.38

श्लोक

स्वर-युग्मं क्रमेणैव ऐन्द्राद्य् अष्टसु दिक्षु च । कादीन् वर्गान् क्षमैशान्यान् तथा मध्य-स्थलाधिपम् ॥ ३८ ॥

17.39

श्लोक

तन्-नामाद्याक्षरं यत्र कूर्मास्यं तच् च दीपकम् । तत्-पार्श्व-कोष्ठौ हस्तौ द्वाव् अधोऽधः कुक्षि-पादकौ ॥ ३९ ॥

17.40

श्लोक

शेष-कोष्ठं भवेत् पुच्छं मुखे सिद्धिर् अनुत्तमा । कर-स्थाने महा-क्लेशः कुक्षौ दुःखम् अवाप्नुयात् ॥ ४० ॥

17.41

श्लोक

पादे हानिस् तथा पुच्छे पीडा स्याद् बन्धनानि च । दीप-स्थाने जपः कार्यः सर्व-कार्यम् अभीप्सुभिः ॥ ४१ ॥

17.42

श्लोक

कूर्म-वक्रम् अविज्ञाय यः कुर्याज् जप-संज्ञकम् । तस्य जप्य-फलं नास्ति सर्वारथाय कल्पते ॥ ४२ ॥

17.43

श्लोक

शाकं मूलं फलं वापि गव्यं क्षीरं च वा दधि । साधुभ्यो भक्ष्यम् अन्नं वा शक्तवः पायसं हि वा ॥ ४३ ॥

17.44

श्लोक

वैदिकाचार-युक्तानां शुचीनां श्रीमतां सताम् । सत्-कुल-स्थान-जातानां भिक्षा-शीलोऽग्र-जन्मनाम् ॥ ४४ ॥

17.45

श्लोक

भुञ्जानो वा हविष्यान्नं शाकं यावकम् एव वा । पयो मूलं फलं वापि यद् यद् यत्रोपपद्यते ॥ ४५ ॥

17.46

श्लोक

मृदु कोष्णं सुपक्वं च कुर्याद् वै लघु-भोजनम् । नेन्द्रियाणां यथा वृद्धिस् तथा भुञ्जीत साधकः ॥ ४६ ॥

17.47

श्लोक

ब्रह्म-पत्रे चभुञ्जीत मध्य-पत्र-विवर्जिते । दक्षं ब्रह्मोत्तरं विष्णुर् मध्य-पत्रं महेश्वरः ॥ ४७ ॥

17.48

श्लोक

मधु मांसं तथा क्षार-लवणं तैलम् एव च । स्विन्नं पर्युषितं चैव निःस्नेहं कीट-दूषितम् ॥ ४८ ॥

17.49

श्लोक

काञ्जिकं गृञ्जनं बिल्वं कलञ्जं लशुनम् बिसम् । मसूरं कोद्रवं माषं मण्डुकं चणकादिकम् । ताम्बूलं कांस्य-पात्रं च दिवाभोजनम् एव च ॥ ४९ ॥

17.50

श्लोक

असत्-सङ्गं परान्नं च वर्जयेद् अन्य-पूजनम् । विना कर्मोचितं नित्यम् अथ नैमित्तिकं चरेत् ॥ ५० ॥

17.51

श्लोक

स्त्री-शूद्र-पतित-व्रात्य-नास्तिकोच्छिष्ट-भाषणम् । असत्य-भाषणं जैह्म्य-भाषणं च परित्यजेत् ॥ ५१ ॥

17.52

श्लोक

सत्येनापि न भाषेत जप-होमार्चनादिषु । वर्जयेद् गीत-वाद्यादि-श्रवणं नृत्य-दर्शनम् ॥ ५२ ॥

17.53

श्लोक

अभ्यङ्गं गन्ध-लेपं च पुष्प-धारणम् एव च । मैथुनं तत्-कथालापं तद्-गोष्ठीं परिवर्जयेत् ॥ ५३ ॥

17.54

श्लोक

आस्नातांश् च द्विजान् शूद्रान् स्त्रियो नैव स्पृशेत् तथा । त्यजेद् उष्णोदक-स्नानम् अनिवेदित-भोजनम् ॥ ५४ ॥

17.55

श्लोक

विहाय वह्निं न हि वस्तु किञ्चिद् ग्राह्यं परेभ्यः सति सम्भवे च । असम्भवे तीर्थ-बहिर्-विशुद्धात् पर्वातिरिक्ते प्रतिगृह्य जप्यात् ॥ ५५ ॥

17.56

श्लोक

तत्रासमर्थोऽनुदिनं विशुद्धाद् याचते यावद् दिन-मात्र-भक्ष्यम् । गृह्णाति रागाद् अधिकं न सिद्धिः प्रजायते कल्प-शतैर् अमुष्य ॥ ५६ ॥

17.57

श्लोक

स्नानं त्रिसवनं प्रोक्तम् अशक्तौ द्विः सकृत् तथा । अस्नातस्य फलं नास्ति न वा तर्पयतः पितॄन् ॥ ५७ ॥

17.58

श्लोक

शयीत दर्भ-शय्यायां शुचिः प्रयत-मानसः । तद्-वासः क्षालयेन् नित्यम् अन्यथा विघ्नम् आवहेत् ॥ ५८ ॥

17.59

श्लोक

मन्त्रं साधयमानस् तु त्रिसन्ध्यं देवम् अर्चयेत् । द्वि-सन्ध्यम् एक-सन्ध्यं वा न मन्त्रं केवलं जपेत् ॥ ५९ ॥

17.60

श्लोक

एक-ग्राम-स्थितो नित्यं गत्वा वन्देत स्वं गुरुम् । नित्यं नैमित्तिकं कुर्यात् सङ्गमं साधुभिः सदा ॥ ६० ॥

17.61

श्लोक

स्नायाच् च पञ्च-गव्येन केवलामलकेन वा । श्रुति-स्मृति-पुराणोक्त-मन्त्रैः स्नायाद् अनन्तरम् ॥ ६१ ॥

17.62

श्लोक

ग्रास-दानादिना कुर्वन् गवां शुश्रूषणं सदा । भूतानुकम्पी प्रजपेत् शुभ्र-पद्माक्ष-मालया ॥ ६२ ॥

17.63

श्लोक

पञ्च-विंशति-बारांश् च प्रजप्तेन स्व-मन्त्रतः । शिरोम्भसाभिषिञ्चेत् त्रिः स्नान-काले निजं बुधः ॥ ६३ ॥

17.64

श्लोक

तथैवाचमनं कुर्याद् भोजनावसरेऽपि च । अन्नं च सप्त-कृत्वस् तन्-मन्त्र-जप्तं हि भक्षयेत् ॥ ६४ ॥

17.65

श्लोक

यस्य देवे च मन्त्रे च गुरौ त्रिष्व् अपि निश्चला न व्यवच्छिद्यते बुद्धिस् तस्य सिद्धिर् अदूरतः ॥ ६५ ॥

17.66

श्लोक

मन्त्रात्मा देवता ज्ञेया देवता गुरु-रूपिणी तेषां भेदो न कर्तव्यो यदीच्छेद् इष्टम् आत्मनः ॥ ६६ ॥

17.67

श्लोक

सर्व-सिद्ध्यै व्याघ्र-चर्म ज्ञान-सिद्ध्यै मृगाजिनम् । वस्त्रासनं रोग-हरं वेत्रजं श्री-विवर्धनम् । कौशेयं पौष्टिकं प्रोक्तं कम्बलं दुःख-मोचनम् ॥ ६७ ॥

17.68

श्लोक

अभिचारे कृष्ण-वस्त्रं रक्तं वश्यादि-कर्मणि । शान्तिके धवलं प्रोक्तं विचित्रं सर्व-कर्मसु ॥ ६८ ॥

17.69

श्लोक

कुशाजिनाम्बरेणाढ्यं चतुरस्रं समन्ततः । एक-हस्तं द्वि-हस्तं वा चतुरङ्गुलम् उच्छ्रितम् ॥ ६९ ॥

17.70

श्लोक

यस् तु भागवतो भूत्वा न गृह्णाति गणित्रिकाम् । आसुरी तस्य दीक्षा तु न सा धर्माय विद्यते ॥ ७० ॥

17.71

श्लोक

गणित्रिकां गृहीत्वा यो मन्त्रं चिन्तयते बुधः । जन्मान्तर-सहस्राणि चिन्तितोऽहं च तेन वै । माङ्गल्या कुशला सिद्धा सर्व-संसार-मोक्षनी ॥ ७१ ॥

17.72

श्लोक

परिमाणं तु वक्ष्यामि शृणु तत्त्वेन माधवि । उत्तमा मध्यमा चैव कन्यसी तु गणित्रिका ॥ ७२ ॥

17.73

श्लोक

अष्टोत्तर-शतैः पूर्वा पञ्चाशद्भिस् तु मध्यमा । कन्यसी पञ्च-विंशत्या परिमाणं विधीयते ॥ ७३ ॥

17.74

श्लोक

रुद्राक्षैश् चोत्तमां तां च पुत्र-जीवैश् च मध्यमाम् । कुशैः कनीयसीं विद्याद् एतत् ते कथितं मया ॥ ७४ ॥

17.75

श्लोक

अष्टोत्तर-शतं पूर्णं तद् अर्धं पदम् एव वा । कुर्यात् तत्र विधानोक्तं विधिना सर्व-कर्मसु ॥ ७५ ॥

17.76

श्लोक

शङ्ख-रूप्य-मयी माला काञ्चनी नीरजोत्पलैः । पद्माक्षैश् चापि रुद्राक्षैर् विद्रुमैर् मणि-मौक्तिकैः ॥ ७६ ॥

17.77

श्लोक

निर्मितेन्द्राक्षकैर् माला तथैवाङ्गुलि-पर्वभिः । पुत्र-जीव-मयी माला सा शस्ता जप-कर्मणि ॥ ७७ ॥

17.78

श्लोक

अथामलक-सम्भूतैस् तुलसी-काष्ठ-निर्मितैः ॥ ७८ ॥

17.79

श्लोक

आदिक्षान्तार्ण-योगत्वाद् अक्षमालेति कीर्तिता । तद्-धर्ण-सङ्ख्यैर् मणिभिर् जप-मालां प्रकल्पयेत् ॥ ७९ ॥

17.80

श्लोक

अनुलोम-विलोमार्णैर् मातृकायाः स-बिन्दुकैः । क्षमेरुकैः काष्टवर्गैर् माला स्याद् योगिनां शुभा ॥ ८० ॥

17.81

श्लोक

हिरण्य-शङ्ख-मणिभिर् जप्यं शत-गुणं भवेत् । सहस्र-गुणम् इन्द्राक्षैः पद्माक्षैर् अयुतं भवेत् ॥ ८१ ॥

17.82

श्लोक

नियुतं चापि रुद्राक्षैर् भद्राक्षैश् च न संशयः । पुत्त्र-जीवक-जप्यस्य परिसङ्ख्या न विद्यते ॥ ८२ ॥

17.83

श्लोक

अङ्गुल्या परिसङ्ख्यानम् एवम् एवम् उदाहृतम् । रेखयाष्ट-गुणं विद्यात् पुत्त्रजीवैर् दशाधिकम् ॥ ८३ ॥

17.84

श्लोक

शतं स्याच् छङ्ख-मणिभिः प्रवालैश् च सहस्रकम् । स्फाटिकैर् दश-साहस्रं मौक्तिकैर् लक्षम् उच्यते ॥ ८४ ॥

17.85

श्लोक

पद्माक्षैर् दशलक्षं तु राजतेः कोटिर् उच्यते । सौवर्णः सा दशगुणा सर्वैर् दश-गुणा स्मृता ॥ ८५ ॥

17.86

श्लोक

कुश-ग्रन्थ्या च रुद्राक्षैर् अनन्त-गुणितं फलम् । श्वेत-पद्माक्ष-मालाभिर् अपि स्याद् अमितं फलम् । मातृकं वर्ण-सम्भूत-मालायां तु तद् एव हि ॥ ८६ ॥

17.87

श्लोक

मुखे मुखं प्रकर्तव्यं मुखं मूले विवर्जयेत् । धात्री-फल-प्रमाणेन श्रेष्ठम् एतद् उदाहृतम् ॥ ८७ ॥

17.88

श्लोक

बदराण्ड-प्रमाणेन गद्यते मध्यमाधमे । नवत्रि-तन्तुना चैतद् ग्र्नथनीयम् असंस्पृशत् । ऊर्ध्व-वक्त्रं च मेर्व्-आख्यं कर्तव्यं तन् न लङ्घयेत् ॥ ८८ ॥

17.89

श्लोक

अक्षास्थिमात्रैर् मणिभिर् ज्यैष्ठं कुर्यात् वार्तुलम् । धात्री-फलानां गर्भेण प्रमाणं मध्यमं स्मृतम् । वदरास्थि-प्रमाणेन कन्यसं समुदाहृतम् ॥ ८९ ॥

17.90

श्लोक

ग्रन्थि-बन्धावधौ तत्र मणि-सङ्ख्याधिकं द्विजाः । मेरुं प्रकल्पयेन् मध्ये एकेन गुणकेन तु ॥ ९० ॥

17.91

श्लोक

एक-वक्त्रैस् त्रिवक्त्रैश् च चतुर्-वक्त्रैश् च पञ्चभिः । षड्-वक्त्रैर् वाथ कर्तव्यं मिथो मिश्रांस् तु वर्जयेत् ॥ ९१ ॥

17.92

श्लोक

कृत-नित्य-क्रियः शुद्ध उक्तेष्व् अक्षेषु मन्त्रवित् । यथाकामं यथालाभम् अक्षाण्य् आनीय यत्नतः ॥ ९२ ॥

17.93

श्लोक

अन्योन्य-सम-रूपाणि नातिस्थूल-कृशानि च । कीटादिभिर् अदुष्टानि अजीर्णानि नवानि च ॥ ९३ ॥

17.94

श्लोक

ग्रन्थैस् तु पञ्चभिस् तानि प्रक्षाल्य तु पृथक् पृथक् । ततो द्विजेन्द्र-पुण्य-स्त्री-निर्मितं ग्रन्थि-वर्जितम् ॥ ९४ ॥

17.95

श्लोक

त्रि-गुणं त्रि-गुणीकृत्य सूत्रं प्रक्षाल्य पूर्ववत् । शुक्लं रक्तं तथा कृष्णं शान्ति-वश्याभिचारिके ॥ ९५ ॥

17.96

श्लोक

सूत्रं संस्थापयेद् विद्वान् पट्ट-सूत्रम् अथापि वा । अश्वत्थ-पत्रैर् नवकैः पद्माकारेण कल्पितैः । सूत्रं मणींश् च गन्धाद्भिः क्षालितांस् तत्र निक्षिपेत् ॥ ९६ ॥

17.97

श्लोक

तारं शक्तिं मातृकां च सूत्रे चैव मणिष्व् अथ । विन्यस्य पूजयेद् आदौ जुहुयाच् चैव शक्तितः ॥ ९७ ॥

17.98

श्लोक

होम-कर्मण्य् अशक्तश् चेद् द्विगुणं जपम् आचरेत् । मणिम् एकैकम् आदाय सूत्रे च योजयेत् सुधीः ॥ ९८ ॥

17.99

श्लोक

मुखे मुखं तु संयोज्य पुच्छे पुच्छं तु योजयेत् । गो-पुच्छ-सदृशी कार्या यद् वा सर्पाकृतिः शुभा ॥ ९९ ॥

17.100

श्लोक

तत्-सजातीयम् एकाक्षं मेरुत्वेनाग्रतो न्यसेत् । एकैक-मणि-मध्ये तु ब्रह्म-ग्रन्थिं प्रकल्पयेत् । जप-मालां विधायेत्थं तत्-संस्कारान् समाचरेत् ॥ १०० ॥