Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ३

शौचीयः

3.1

श्लोक

वन्देऽनन्ताद्भुतैश्वर्यं श्री-चैतन्यं महाप्रभुम् । नीचोऽपि यत्-प्रसादात् स्यात् सदाचार-प्रवर्तकः ॥ १ ॥

3.2

श्लोक

पुंसो गृहीत-दीक्षस्य श्री-कृष्णं पूजयिष्यतः । आचारो लिख्यते कृत्यं श्रुति-स्मृत्य्-अनुसारतः ॥ २ ॥

3.3

श्लोक

लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन् मन्त्र-देवताम् । सर्व-कर्माफलं तस्यानिष्टं यच्छति देवता ॥ ३ ॥

3.4

श्लोक

न किञ्चित् कस्यचित् सिध्येत् सद्-आचारं विना यतः । तस्माद् अवश्यं सर्वत्र सद्-आचारो ह्य् अपेक्ष्यते ॥ ४ ॥

3.5

श्लोक

वऋणाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ ५ ॥

3.6

श्लोक

गृहस्थेन सदा कार्यम् आचार-परिपालनम् । न ह्य् आचार-विहीनस्य सुखम् अत्र परत्र च ॥ ६ ॥

3.7

श्लोक

यज्ञ-दान-तपांसीह पुरुषस्य न भूतये । भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ ७ ॥

3.8

श्लोक

आचार-हीनं न पुनन्ति वेदाः यद्यप्य् अधीताः सह षड्भिर् अङ्गैः । छन्दांस्य् एनं मृत्यु-काले त्यजन्ति नीडं शकुन्ता इव जात-पक्षाः ॥ ८ ॥

3.9

श्लोक

कपाल-स्थं यथा तोयं श्वदृतौ वा यथा पयः । दुष्टं स्यात् स्थान-दोषेण वृत्त-हीने तथाशुभम् । आचार-रहितो राजन् नेह नामुत्र निन्दति ॥ ९ ॥

3.10

श्लोक

लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति । स्मरणाद्य्-आत्मकस्यापि सद्-आचारस्य नित्यता ॥ १० ॥

3.11

श्लोक

सद्-आचारवता पुंसा जितौ लोकाव् उभाव् अपि ॥ ११ ॥

3.12

श्लोक

साधवः क्षीण-दोषास् तु सच्-छब्दः साधु-वाचकः । तेषाम् आचरणं यत् तु सद्-आचारः स उच्यते ॥ १२ ॥

3.13

श्लोक

अनध्ययन-शीलं च सद्-आचार-विलङ्घिनम् । सालस्यं च दुरन्नादं ब्राह्मणं बाधतेऽन्तकः ॥ १३ ॥

3.14

श्लोक

ततोऽभ्यसेत् प्रयत्नेन सद्-आचारं सदा द्विजः । तीर्थान्य् अप्य् अभिलष्यन्ति सद्-आचार-समागमम् ॥ १४ ॥

3.15

श्लोक

आचार-प्रभवो धर्मः सन्तश् चाचार-लक्षणाः । साधूनां च यथा वृत्तं स सद्-आचार इष्यते ॥ १५ ॥

3.16

श्लोक

तस्मात् कुर्यात् सद्-आचारं य इच्छेद् गतिम् आत्मनः । सर्व-लक्षण-हीनोऽपि समुदाचारवान् नृप । श्रद्दधानोऽनसूयश् च सर्वान् कामान् अवाप्नुयात् ॥ १६ ॥

3.17

श्लोक

आचार एव धर्मस्य मूलं राजन् कुलस्य च । आचाराद् विच्युतो जन्तुर् न कुलीनो न धार्मिकः ॥ १७ ॥

3.18

श्लोक

आचारो भूति-जनन आचारः कीर्ति-वर्धनः । आचाराद् वर्धते ह्य् आयुर् आचारो हन्त्य् अलक्षणम् ॥ १८ ॥

3.19

श्लोक

आचार एव नृप-पुङ्गव सेव्यमानो धर्मार्थ-काम-फलदो भवितेह पुंसाम् । तस्मात् सदैव विदुषावहितेन राजन् शास्त्रोदितो ह्य् अनुदिनं परिपालनीयः ॥ १९ ॥

3.20

श्लोक

ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् । प्रक्षाल्य पाणि-पादौ च दन्त-धावनम् आचरेत् ॥ २० ॥

3.21

श्लोक

आचम्य वसनं रात्रेस् त्यक्त्वान्यत् परिधाय च । पुनर् आचमने कुर्याल् लेख्येन विधिनाग्रतः ॥ २१ ॥

3.22

श्लोक

अथेच्छन् परमां शुद्धिं मूर्ध्नि ध्यात्वा गुरोः पदौ । स्तुत्वा च कीर्तयन् कृष्णं स्मरंश् चैतद् उदीरयेत् ॥ २२ ॥

3.23

श्लोक

जयति जन-निवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सु-स्मित-श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ २३ ॥

3.24

श्लोक

स्मृते सकल-कल्याण-भाजनं यत्र जायते । पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ २४ ॥

3.25

श्लोक

विदग्ध-गोपाल-विलासिनीनां सम्भोग-चिह्नाङ्कित-सर्व-गात्रम् । पवित्रम् आम्नाय-गिराम् अगम्यं ब्रह्म प्रपद्ये नव-नीत-चौरम् ॥ २५ ॥

3.26

श्लोक

उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । दध्नश् च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम् ॥ २६ ॥

3.27

श्लोक

पठेत् पुनश् च साधूनां सम्प्रदायानुसारतः । चतुःश्लोकीम् इमां सर्व-दोष-शान्त्यै शुभाप्तये ॥ २७ ॥

3.28

श्लोक

प्रातः स्मरामि भव-भीति-महार्ति-शान्त्यै नारायणं गरुड-वाहनम् अब्ज-नाभम् । ग्राहाभिभूत-वर-वारि-वारण-मुक्ति-हेतुं चक्रायुधं तरुण-वारिज-पत्र-नेत्रम् ॥ २८ ॥

3.29

श्लोक

प्रातर् नमामि मनसा वचसा च मूर्ध्ना पादारविन्द-युगलं परमस्य पुंसः । नारायणस्य नरकार्णव-तारणस्य पारायण-प्रवण-विप्र-परायणस्य ॥ २९ ॥

3.30

श्लोक

प्रातर् भजामि भजताम् अभयङ्करं तं प्राक् सर्व-जन्म-कृत-पाप-भयावहत्यै । यो ग्राह-वक्त्र-पतिताङ्घ्रि-गजेन्द्र-घोर- शोक-प्रणाशम् अकरोद् धृत-शङ्ख-चक्रः ॥ ३० ॥

3.31

श्लोक

श्लोक-त्रयम् इदं पुण्यं प्रातः प्रातः पठेत् तु यः । लोक-त्रय-गुरुस् तस्मै दद्याद् आत्म-पदं हरिः ॥ ३१ ॥

3.32

श्लोक

तद् एतल् लिखितं कुत्र कुत्रचिद् व्यवहारतः । किन्तु स्वाभीष्ट-रूपादि श्री-कृष्णस्य विचिन्तयेत् ॥ ३२ ॥

3.33

श्लोक

इत्थं विदध्याद् भगवत्-कीर्तन-स्मरणादिकम् । सर्व-तीर्थाभिषेकं वै बहिर् अन्तर्विशोधनम् ॥ ३३ ॥

3.34

श्लोक

सकृन् नारायणेत्य् उक्त्वा पुमान् कल्प-शत-त्रयम् । गङ्गादि-सर्व-तीर्थेषु स्नातो भवति पुत्रक ॥ ३४ ॥

3.35

श्लोक

शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् । कीर्तनात् तस्य पापस्य नाशम् आयात्य् अशेषतः ॥ ३५ ॥

3.36

श्लोक

माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्य-प्रसङ्गतः । स्मरणस्य तु माहात्म्यम् अधुना लिख्यते कियत् ॥ ३६ ॥

3.37

श्लोक

स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ ३७ ॥

3.38

श्लोक

सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः । यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ ३८ ॥

3.39

श्लोक

इयम् एव परा हानिर् उपसर्गोऽयम् एव च । अभाग्यं परमं चैतद् वासुदेवं न यत् स्मरेत् ॥ ३९ ॥

3.40

श्लोक

ये मुहूर्ताः क्षणा ये च याः काष्ठा ये निमेषकाः । ऋते विष्णु-स्मृतेर् यातास् तेषु मुष्टो यमेन सः ॥ ४० ॥

3.41

श्लोक

नित्यत्वेऽप्य् अस्य माहात्म्यं विचित्र-फल-दानतः । ज्ञेयं शास्त्रोदितं दर्श-पूर्णमासादिवद् बुधैः ॥ ४१ ॥

3.42

श्लोक

मान्त्रं पार्थिवम् आग्नेयं वायव्यं दिव्यम् एव च । वारुणं मानसं चेति स्नानं सप्त-विधं स्मृतम् ॥ ४२ ॥

3.43

श्लोक

शं न आपस् तु वै मान्त्रं मृद्-आलम्भं तु पार्थिवम् । भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम् ॥ ४३ ॥

3.44

श्लोक

आतपे सति या वृष्टिर् दिव्यं स्नानं तद् उच्यते । बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः । ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तनम् ॥ ४४ ॥

3.45

श्लोक

असामर्थ्येन कायस्य काल-देशाद्य्-अपेक्षया । तुल्य-फलानि सर्वाणि स्युर् इत्य् आह पराशरः ॥ ४५ ॥

3.46

श्लोक

स्नानानां मानसं स्नानं मन्व्-आद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः ॥ ४६ ॥

3.47

श्लोक

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ ४७ ॥

3.48

श्लोक

यद्यप्य् उपहतः पापैर् मनसात्यन्त-दुस्तरैः । तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः ॥ ४८ ॥

3.49

श्लोक

प्रायश्चित्तान्य् अशेषाणि तपः-कर्मात्मकानि वै । यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥ ४९ ॥

3.50

श्लोक

कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥ ५० ॥

3.51

श्लोक

कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति विलयं सद्यः सकृद् यत्रानुसंस्मृते ॥ ५१ ॥

3.52

श्लोक

ये मां जनाः संस्मरन्ति कलौ सकृद् अपि प्रभुम् । तेषां नश्यति तत् पापं भक्तानां पुरुषोत्तमे ॥ ५२ ॥

3.53

श्लोक

हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्य् एव हि पावकः ॥ ५३ ॥

3.54

श्लोक

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । स वै विमुच्यते सद्यो यस्य विष्णु-परं मनः ॥ ५४ ॥

3.55

श्लोक

कर्मणा मनसा वाचा यः कृतः पाप-सञ्चयः । सोऽप्य् अशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्रि-पङ्कजम् ॥ ५५ ॥

3.56

श्लोक

यम-मार्गं महा-घोरं नरकांश् च यमं तथा । स्वप्नेऽपि न नरः पश्येद् यः स्मरेद् गरुड-ध्वजम् ॥ ५६ ॥

3.57

श्लोक

सकृन् मनः कृष्ण-पदारविन्दयोर् निवेशितं तद्-गुण-रागि यैर् इह । न ते यमं पाश-भृतश् च तद्-भटान् स्वप्नेऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ ५७ ॥

3.58

श्लोक

दन्ता गजानां कुलिशाग्र-निष्ठुराः शीर्णा यद् एते न बलं ममैतत् । महा-विपत्-पात-विनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ ५८ ॥

3.59

श्लोक

विष्टयो व्यतिपाताश् च येऽन्ये दुर्नीति-सम्भवाः । ते सर्वे स्मरणाद् विष्णोर् नाशम् आयान्त्य् उपद्रवाः ॥ ५९ ॥

3.60

श्लोक

यस्य स्मरण-मात्रेण न मोहो न च दुर्गतिः । न रोगो न च दुःखानि तम् अनन्तं नमाम्य् अहम् ॥ ६० ॥

3.61

श्लोक

यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् । एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् ॥ ६१ ॥

3.62

श्लोक

लाभस् तेषां जयस् तेषां कुतस् तेषां पराभवः । येषाम् इन्दीवर-श्यामो हृदयस्थ-जनार्दनः ॥ ६२ ॥

3.63

श्लोक

देवेषु यज्ञेषु तपःसु चैव दानेषु तीर्थेषु व्रतेषु चैव । इष्टेषु पूर्तेषु च यत् प्रदिष्टं नॄणां स्मृते तत्-फलम् अच्युते च ॥ ६३ ॥

3.64

श्लोक

न्यूनातिरिक्तता सिद्धा कलौ वेदोक्त-कर्मणाम् । हरि-संस्मरणम् एवात्र सम्पूर्ण-फल-दायकम् ॥ ६४ ॥

3.65

श्लोक

प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥ ६५ ॥

3.66

श्लोक

तुला-पुरुष-दानानां राजसूयाश्वमेधयोः । फलं विष्णोः स्मृति-समं न जातु द्विज-सत्तम ॥ ६६ ॥

3.67

श्लोक

विद्या-तपः-प्राण-निरोध-मैत्री तीर्थाभिषेक-व्रत-दान-जप्यैः । नात्यन्त-शुद्धिं लभतेऽन्तर्-आत्मा यथा हृदि-स्थे भगवत्य् अनन्ते ॥ ६७ ॥

3.68

श्लोक

भयं भयानाम् अपहारिणि स्थिते मनस्य् अनन्ते मम कुत्र तिष्ठति । यस्मिन् स्मृते जन्म-जरोद्भवानि भयानि सर्वाण्य् अपयान्ति तात ॥ ६८ ॥

3.69

श्लोक

विष्णु-संस्मरणात् क्षीण-समस्त-क्लेश-संचयः । मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नोऽनुमीयते ॥ ६९ ॥

3.70

श्लोक

वरं वरेण्यं वरदं पुराणं निज-प्रभा-भावित-सर्व-लोकम् । सङ्कल्पितार्थ-प्रदम् आदि-देवं स्मृत्वा व्रजेन् मुक्ति-पदं मनुष्यः ॥ ७० ॥

3.71

श्लोक

यस्य स्मरण-मात्रेण जन्म-संसार-बन्धनात् । विमुच्यते नमस् तस्मै विष्णवे प्रभविष्णवे ॥ ७१ ॥

3.72

श्लोक

तदैव पुरुषो मुक्तो जन्म-दुःख-जरादिभिः । भक्त्या तु परया नूनं यदैव स्मरते हरिम् ॥ ७२ ॥

3.73

श्लोक

येन केनाप्य् उपायेन स्मृतो नारायणोऽव्ययः । अपि पातक-युक्तस्य प्रसन्नः स्यान् न संशयः ॥ ७३ ॥

3.74

श्लोक

अनाद्य्-अनन्तम् अजरामरं हरिं ये संस्मरन्त्य् अहरहर् नियतं नरा भुवि । तत् सर्वगं ब्रह्म परं पुराणं ते यान्ति वैष्णव-पदं धुर्वम् अव्ययं च ॥ ७४ ॥

3.75

श्लोक

स्मरन्ति ये सकृद् भूताः प्रसङ्गेनापि केशवम् । ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम् ॥ ७५ ॥

3.76

श्लोक

शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ।तेऽपि यान्ति तनुं त्यक्त्वा विष्णु-लोकम् अनामयम् ॥ ७६ ॥

3.77

श्लोक

निराशीर् निर्ममो यस् तु विष्णोर् ध्यान-परो भवेत् । तत्-पदं समवाप्नोति यत्र गत्वा न शोचति ॥ ७७ ॥

3.78

श्लोक

ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति कादम्बिनी-रुचिर् अरोचिषम् अम्बुजाक्ष । सौदामिनी-विलसितांशुक-वीत-मूर्ते तेऽपि स्पृशन्ति तव कान्तिम् अचिन्त्य-रूपाम् ॥ ७८ ॥

3.79

श्लोक

अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ॥ ७९ ॥

3.80

श्लोक

स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति । किं न्व् अर्थ-कामान् भजतो नात्यभीष्टान् जगद्-गुरुः ॥ ८० ॥

3.81

श्लोक

वासुदेवे मनो यस्य जप-होमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्-फलम् ॥ ८१ ॥

3.82

श्लोक

महतस् तपसो मूलं प्रसवः पुण्य-सन्ततेः । जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥ ८२ ॥

3.83

श्लोक

एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया । जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः ॥ ८३ ॥

3.84

श्लोक

तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ ८४ ॥

3.85

श्लोक

दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः । संसार-कूप-पतितोत्तरणावलम्बं ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ ८५ ॥

3.86

श्लोक

कृष्ण-स्मरण-माहात्म्य-महाब्धिर् दुस्तरो धिया । यो यियासति तत्-पारं स हि चैतन्य-वञ्चितः ॥ ८६ ॥

3.87

श्लोक

ततः पादोदकं किञ्चित् प्राक् पीत्वा तुलसी-दलैः । गृहीतेनाचरेत् तेन स्वमूर्धन्य् अभिषेचनम् ॥ ८७ ॥

3.88

श्लोक

अथादौ श्री-गुरुं नत्वा श्री-कृष्णस्य पदाब्जयोः । किञ्चिद् विज्ञापयन् सर्वस्व-कृत्यान्य् अर्पयेन् नमेत् ॥ ८८ ॥

3.89

श्लोक

सर्व-मङ्गल-मङ्गल्यं वरेण्यं वरदं शिवम् । नारायणं नमस्कृत्य सर्व-कर्माणि कारयेत् ॥ ८९ ॥

3.90

श्लोक

यद्-उत्सवादिकं कर्म तत् त्वया प्रेरितो हरे । करिष्यामि त्वया ज्ञेयम् इति विज्ञापनं मम ॥ ९० ॥

3.91

श्लोक

प्रातः प्रबोधितो विष्णो हृषीकेशेन यत् त्वया । यद् यत् कारयसीशान तत् करोमि तवाज्ञया ॥ ९१ ॥

3.92

श्लोक

त्रैलोक्य-चैतन्यमयादि-देव श्री-नाथ विष्णो भवद्-आज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसार-यात्राम् अनुवर्तयिष्ये ॥ ९२ ॥

3.93

श्लोक

संसार-यात्राम् अनुवर्तमानं त्वद्-आज्ञया श्री-नृहरेऽन्तरात्मन् । स्पर्धातिरस्कार-कलि-प्रमाद- भयानि मा माभिभवन्तु भूमन् ॥ ९३ ॥

3.94

श्लोक

जानामि धर्मं न च मे प्रवृत्तिर् जानाम्य् अधर्मं न च मे निवृत्तिः । त्वया हृषीकेश हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ९४ ॥

3.95

श्लोक

नमो ब्रह्मण्य-देवाय गो-ब्राह्मण-हिताय च । जगद्-धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ९५ ॥

3.96

श्लोक

असुर-विबुध-सिद्धैर् ज्ञायते यस्य नान्तः सकल-मुनिभिर् अन्तश् चिन्त्यते यो विशुद्धः । निखिल-हृदि निविष्टो वेत्ति यः सर्व-साक्षी तम् अजम् अमृतम् ईशं वासुदेवं नतोऽस्मि ॥ ९६ ॥

3.97

श्लोक

यज्ञिभिर् यज्ञ-पुरुषो वासुदेवश् च सात्वतः । वेदान्त-वेदिभिर् विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ ९७ ॥

3.98

श्लोक

एवं विज्ञापयन् ध्यायन् कीर्तयंश् च यथाविधि । प्रणामानाचरेच् छक्त्या चतुः-सङ्ख्यावरान् बुधः ॥ ९८ ॥

3.99

श्लोक

श्री-गोपी-चन्दनेनोर्ध्व-पुण्ड्रं कृत्वा यथा-विधि । आसीत प्राङ्-मुखो भूत्वा शुद्ध-स्थाने शुभासने ॥ ९९ ॥

3.100

श्लोक

निर्गत्याचम्य विधिवत् प्रविश्य च पुनः सुधीः । आसने प्राङ्-मुखो भूत्वा विहिते चोपविश्य वै ॥ १०० ॥