Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.1

श्लोक

श्रीचैतन्यं प्रविष्टोऽस्मि शरणं सुष्ठु येन हि । आविष्टो याति दुष्टोऽपि प्रतिष्ठां सदभिष्टुताम् ॥ १ ॥

19.2

श्लोक

प्रतिष्ठयैव भगवदाविर्भावो विशेषतः । प्रतिमासु ततस्तासां प्रतिष्ठां विधिनाचरेत् ॥ २ ॥

19.3

श्लोक

प्रतिष्ठा जीवमन्दिरम् ॥ ३ ॥

19.4

श्लोक

परमात्मा हरिर्देवस्तच्छक्तिः श्रीरिहोदिता । श्रीर्देवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः ॥ ४ ॥

19.5

श्लोक

न विष्णुना विना देवी न हरिः पद्मजां विना । अर्चामूर्तिः स्मृतः कृष्णः पिण्डिका कमलालया । तयोर्यो विधिना योगः सा प्रतिष्ठा प्रकीर्तिता ॥ ५ ॥

19.6

श्लोक

क्रियायोगः कथं सिध्येद्गृहस्थादिषु पर्वदा । ज्ञानयोगसहस्राद्धि कर्मयोगो विशिष्यते ॥ ६ ॥

19.7

श्लोक

क्रियायोगं प्रवक्ष्यामि देवतार्चानुकीर्तनम् । भुक्तिमुक्तिप्रदं यस्मान्नान्यलोकेषु विद्यते ॥ ७ ॥

19.8

श्लोक

प्रतिष्ठायाः सुराणाञ्च देवतार्चानुकीर्तनात् । देवयज्ञोत्सवाच्चापि बन्धनेन विमुच्यते ॥ ८ ॥

19.9

श्लोक

स्थापितां प्रतिमां विष्णोः सम्यक् सम्पूज्य मानवः । यं यं प्रार्थयते कामं तं तं प्राप्नोत्यनुत्तमम् ॥ ९ ॥

19.10

श्लोक

यथोक्तविधिना देवं प्रतिष्ठाप्य जनार्दनम् । अक्षयं लोकमाप्नोति विष्णोरमिततेजसः ॥ १० ॥

19.11

श्लोक

यावद्दिनानि लोकेऽस्मिन् स्थापयेत् प्रतिमां हरेः । तावद्युगसहस्राणि विष्णुलोके महीयते ॥ ११ ॥

19.12

श्लोक

अक्षयो भवते तावद्यावदाहूतसंप्लवम् । येनार्चा स्थापिता विष्णोः सप्तलोकस्य नायक ॥ १२ ॥

19.13

श्लोक

प्रतिष्ठा शङ्करादीनां देवानां ब्रह्मनन्दन । कृता तेन न सन्देहः सत्योक्त तव नारद ॥ १३ ॥

19.14

श्लोक

पितृणामर्यमादीनां वासवादिदिवौकसाम् । कृता तेन महाप्रीतिः स्थापयित्वा जनार्दनम् ॥ १४ ॥

19.15

श्लोक

यः स्थापयति देवर्षे देवं मधुनिसूदनम् । तस्य सम्भाषणादेव पापं याति दशाब्दिकम् ॥ १५ ॥

19.16

श्लोक

ये निरीक्षन्ति नन्दन्ति प्रतिष्ठां केशवस्य हि । ते वसन्ति हरेर्लोके युगानामेकविंशतिम् ॥ १६ ॥

19.17

श्लोक

प्रयागे यत् फलं प्रोक्तं माघमासे तु स्नानतः । गयायां पिण्डदानेन पितृपक्षे च नारद ॥ १७ ॥

19.18

श्लोक

कार्त्तिके पुष्करे प्रोक्तं कुरुक्षेत्रे रविगृहे । द्वारकायां च वैशाखे प्रभासे च शशिग्रहे ॥ १८ ॥

19.19

श्लोक

सिद्धेश्वरे शिवरात्रौ क्षेत्र चैव तु हाटके । शुक्लतीर्थे तु रेवायां गङ्गासागरसङ्गमे ॥ १९ ॥

19.20

श्लोक

अश्वमेधादिभिर्यज्ञैर्व्रतैर्द्वादशि-संज्ञकैः । कपिलाकोटिभिर्दत्तैर्हेमभारशतैरपि ॥ २० ॥

19.21

श्लोक

चान्द्रायणैश्च पाराकैः कृतैर्यत्फलमाप्नुयात् । प्रतिष्ठाप्य हरेरर्चां पुण्यमाप्नोति नारद ॥ २१ ॥

19.22

श्लोक

तस्मात् कलियुगे घोरे विशेषेण नरोत्तमैः । स्थापनीया हरेरर्चां पितृणां मुक्तिमिच्छता ॥ २२ ॥

19.23

श्लोक

अन्यकृते च प्रासादे प्रतिमां स्थापयेत्तु यः । कुलायुतशतैर्युक्तो वसते विष्णुवेश्मनि ॥ २३ ॥

19.24

श्लोक

स धन्यः स कुलीनश्च पितृणां भवते सुतः । कारयित्वा हरेर्धिष्ण्यं यः स्थापयति केशवम् ॥ २४ ॥

19.25

श्लोक

हरस्य विष्णोर्भानोर्वा प्रासादे चापि नारद । स्थापयित्वा हरेरर्चां मुख्यं पुण्यमवाप्नुयात् ॥ २५ ॥

19.26

श्लोक

यो विष्णुं स्थापयेद्देवं सर्वदेवनमस्कृतम् । स्थापितं तेन सर्वं स्याज्जगत् स्थावरजङ्गमम् ॥ २६ ॥

19.27

श्लोक

अतीतान् दशपूर्वंश्च तथैवानागतान् दश । आत्मानं सपरीवारं विष्णुलोकं नयेन्नरः ॥ २७ ॥

19.28

श्लोक

कोटिजन्मगतं पापं स्वल्पकं यदि वा गुरु । तत् सर्वं भस्मसात् कुर्यात् संस्थाप्य मधुघातिनम् ॥ २८ ॥

19.29

श्लोक

एवं यः कुरुते राजन् प्रनिष्ठां देवचक्रिणः । सर्वपापविनिर्मुक्तः सर्व भूषणभूषितः ॥ २९ ॥

19.30

श्लोक

विमानेन विचित्रेण त्रिसप्तकुलजैः सह । पूजां सम्प्राप्य महतीमिन्द्रलोकादिषु क्रमात् । सबान्धवं सुखं प्राप्य विष्णुलोके महीयते ॥ ३० ॥

19.31

श्लोक

प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि । निष्कामो नरशार्दूल देहबन्धात् प्रमुच्यते ॥ ३१ ॥

19.32

श्लोक

सकामो नरसिंहस्य परं प्राप्य च मोदते । मन्वन्तराण्यनेकानि लब्धसौख्यो विमुच्यते ॥ ३२ ॥

19.33

श्लोक

नरसिंहं प्रतिष्ठाप्य यः पूनामाचरेन्नरः । तस्य कामाः प्रसिध्यन्ति पुत्रपौत्रादयो भुवि ॥ ३३ ॥

19.34

श्लोक

विधिवत् स्थापयेद्यस्तु कारयित्वा जनार्दनम् । न जातु निर्गमस्तस्य विष्णुलोकात् कथञ्चन ॥ ३४ ॥

19.35

श्लोक

गोष्ठे वा शैलशृङ्गे वा पुण्यारण्ये नदीनटे । प्रासादे स्थापयेत् कृष्णं तीर्थकोटिफलं लभेत् ॥ ३५ ॥

19.36

श्लोक

कोटिकोमिहाज्ञानात् कोटितीर्थपरिज्भ्रामात् । तत् फलं लभते भक्त्या संप्रतिष्ठाप्य केशवम् ॥ ३६ ॥

19.37

श्लोक

सदा मन्त्रकोटिजपाद्यत् फलं पुरुषो लभेत् । तत् फलं समवाप्नोति संस्थाप्य पुरुषोत्तमम् ॥ ३७ ॥

19.38

श्लोक

कोटियज्ञेन यत् पुण्यं पुण्यारण्यनिषेवणात् । तत् फलं लभते मर्त्यस्तद्वत् संस्थाप्य केशवम् ॥ ३८ ॥

19.39

श्लोक

यावज्जन्म हरेर्नामग्रहणे यत् फलं लभेत् । तत् फलं समवाप्नोति संस्थाप्य पुरुषोत्तमम् ॥ ३९ ॥

19.40

श्लोक

चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥ ४० ॥

19.41

श्लोक

प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे । पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ॥ ४१ ॥

19.42

श्लोक

दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी । आसु प्रतिष्ठा विधिवत् कृत्वा बहुफला भवेत् ॥ ४२ ॥

19.43

श्लोक

आषाढे द्वे तथा मूलमुत्तरात्रयमेव च । ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदा तथा ॥ ४३ ॥

19.44

श्लोक

हस्ताश्विनी रेवती च पुष्या मृगशिरस्तथा । अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते ॥ ४४ ॥

19.45

श्लोक

बुधो बृहस्पतिः शुक्रस्त्रय एते शुभाबहाः । एभिइनिरीक्षितं लग्नं नक्षत्रञ्च प्रशस्यते ॥ ४५ ॥

19.46

श्लोक

ग्रहताराबलं लब्ध्वा ग्रहपूजां विधाय च । निमित्तं शकुनं लब्ध्वा वर्जयित्वाद्भुतादिकम् ॥ ४६ ॥

19.47

श्लोक

शुभे योगे शुभे स्थाने क्रूरग्रहविवर्जिते । लग्ने ऋक्षे च कुर्वीत प्रतिष्ठादिकमुक्तवत् ॥ ४७ ॥

19.48

श्लोक

अयने विषुवे तद्वत् षडशीतिमुखे तथा । एतेषु स्थापनं कार्यं विधिदृष्टेन कर्मणा ॥ ४८ ॥

19.49

श्लोक

प्राजापत्ये तु शयनं श्वेते तूत्थापनं तथा । मुहूर्ते स्थापनं कुर्यात्तथा ब्राह्मे विचक्षणः ॥ ४९ ॥

19.50

श्लोक

उत्तराशाश्रिते भानौ शुक्लपक्षे सुरेश्वर । कृष्णपक्षान्तिम-त्र्यंशादृते सुरगणार्चित ॥ ५० ॥

19.51

श्लोक

शुक्लस्याद्यं परित्यज्य प्रतिष्ठां कारयेद्बुधः । माघे मासि फाल्गुने वा चैत्र-वैशाखयोरपि ॥ ५१ ॥

19.52

श्लोक

ज्यैष्ठे मास्यथवाषाढे सुयोगकरणान्विते । प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा ॥ ५२ ॥

19.53

श्लोक

सप्तमी दशमी चैव द्वादशी च त्रयोदशी । अष्टमी पौर्णमासी च प्रतिष्ठायां सुशोभनाः ॥ ५३ ॥

19.54

श्लोक

गुरुः सोमो बुधः शक्रः प्रतिष्ठायां शुभावहाः । मेषो वृषोऽथ मिथुनः कर्कटो वृश्चिकस्तथा ॥ ५४ ॥

19.55

श्लोक

सिंहः कन्या च सततं विज्ञेयाः शान्तिकारकाः । उत्तरासु तथा मूले रौद्रे पुष्येऽथ शस्यते ॥ ५५ ॥

19.56

श्लोक

वैष्णवे चानराधे च रेवत्यां रोहिणीषु च । अश्विन्यामथ चित्रायां भरण्यां च पुनर्वसौ ॥ ५६ ॥

19.57

श्लोक

प्रतिष्ठां कारयेद्विद्वान् नक्षत्रे मृगशीर्षके । अयने विषुवे चैव षडशीतिमुखे तथा ॥ ५७ ॥

19.58

श्लोक

मित्रं परममित्रञ्च सम्पत्क्षेमञ्च साधकम् । तारापञ्चकमेतच्च प्रतिष्ठायां प्रशस्यते ॥ ५८ ॥

19.59

श्लोक

गरं विष्टिञ्च किन्तुघ्नं शाकुनञ्च चतुष्पदम् । वर्जयेत् सुप्रयत्नेन प्रतिष्ठायां सुरेश्वर ॥ ५९ ॥

19.60

श्लोक

विष्कुम्भमतिगण्डञ्च शूलं परिघमेव च । गण्ड व्याघातकं चैव वैधृतिं वज्रमेव च ॥ ६० ॥

19.61

श्लोक

व्यतीपातं हर्षणञ्च योगानेतान् विवर्जयेत् । न शस्तं ग्रहणे नित्यं तथा वै दक्षिणायणे ॥ ६१ ॥

19.62

श्लोक

लग्ने तु सुस्थिरे कार्यं स्थिरांशे सुरसत्तम । कर्तुश्चोपचयोपेते मुहूर्ते शोभने द्विज ॥ ६२ ॥

19.63

श्लोक

मैत्रे वैराज-सावित्रे श्वेते वा वासवे शिवे । अभिजिद्रोहिणीनाञ्च मुहूर्ते पद्मसम्भवे ॥ ६३ ॥

19.64

श्लोक

गान्धर्वे वा स्थापयीत हरिं सुरगणार्चितम् । आदित्यस्य बलं लब्ध्वा लग्नं शुभनिरीक्षितम् ॥ ६४ ॥

19.65

श्लोक

चन्द्रताराबलं प्राप्य स्थापयेत् पुरुषोत्तमम् । सुग्रहे च सुनक्षत्रे कुर्यत्तत्राधिवासनम् ॥ ६५ ॥

19.66

श्लोक

हरौ सुप्ते न कर्तव्यं देवार्चास्थापनं बुधः । कर्तव्यं तु विबुद्धे तु हंसे चाप्युत्तरं गते ॥ ६६ ॥

19.67

श्लोक

सर्वकामसमृद्ध्यर्थं स्थापयेदुत्तरायणे । वर्जयेत् सर्वयत्नेन मन्त्रविद्दक्षिणायनम् ॥ ६७ ॥

19.68

श्लोक

सिंहसंस्थं गुरुं शुक्रं सर्वारम्भेषु वर्जयेत् । प्रारब्धं न च सिध्येत महाभयकरं भवेत् ॥ ६८ ॥

19.69

श्लोक

पुत्रभ्रातृकलत्राणि हन्याच्छीघ्रं न संशयः । कारको व्रजते नाशं सन्तानं क्षीयतेऽचिरात् ॥ ६९ ॥

19.70

श्लोक

देवारामतडागेषु प्रपोद्यान-ग्रहेषु च । सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत् ॥ ७० ॥

19.71

श्लोक

सिद्धक्षेत्रं सरः पुण्यवनं रम्यं नदीतटम् । प्रासादो निर्मितः शक्त्या मनोरमगृहादि च ॥ ७१ ॥

19.72

श्लोक

पुरो दिशि यथा देवाः स्थाप्याः शृणु तथा मम ॥ ७२ ॥

19.73

श्लोक

नगरग्राममध्ये तु ब्रह्मणः स्थानमुत्तमम् । आखण्डलस्य सूर्यस्य पूर्वेणायतनं शुभम् ॥ ७३ ॥

19.74

श्लोक

स्वदिग्गतं कृशानोस्तु मातृणाञ्चैव दक्षिणे । भूतानामालयस्तस्मिन् धर्मराजाल्यः शुभः ॥ ७४ ॥

19.75

श्लोक

चण्डिकायाः पितृणाञ्च दैत्यानां नैरृते भवेत् । प्रचेतसः समुद्रस्य सिन्धूनां पश्चिमे भवेत् ॥ ७५ ॥

19.76

श्लोक

फणिनां चव वायव्यां वायोः स्थानन्तु तच्छुभम् । यक्षाधिपस्य स्कन्दस्य उदीच्यां स्थानमुच्यते ॥ ७६ ॥

19.77

श्लोक

विष्णोः स्थानं तु सर्वत्र कालभेदेन भिद्यते । नगराभिमुखाः सर्वे स्थापिताः शुभदा नृणाम् ॥ ७७ ॥

19.78

श्लोक

अज्ञानाद्वा प्रमादाद्वा कृता यदि पराङ्मुखाः । तदा शास्त्रादिभिर्विद्वानुपायमिममाचरेत् ॥ ७८ ॥

19.79

श्लोक

तद्वर्णभूषणोपेतं तद्रूपायुधलक्षणम् । पुरस्याभिमुखं भित्तौ त देवं तत्र संलिखेत् ॥ ७९ ॥

19.80

श्लोक

दिग्विशेषेण मे स्थानं शृणु मे सुरसत्तम । ग्राममध्येऽथवारण्ये नदीनां सङ्गमे तथा ॥ ८० ॥

19.81

श्लोक

नगरस्य समन्ताच्च सर्वत्राहं प्रतिष्ठितः । भुक्तिमुक्तिप्रदं पुंसां विशेषं शृणु चापरम् ॥ ८१ ॥

19.82

श्लोक

ऐन्द्र्यां प्रशस्तं विज्ञेयमाग्नेयां परिवर्जितम् । याम्यां प्रशान्तये शस्तं नैरृत्यां भयदं भवेत ॥ ८२ ॥

19.83

श्लोक

द्रव्यादीनां प्रसिद्ध्यर्थं वारुण्यां राज्यसिद्धये । वायव्यां वर्जयेद्यत्नात् कौवेर्यां पुष्टिवर्धनम् । ऐशान्यां यजनं श्रेष्ठं सर्वसम्पत्करं नृणाम् ॥ ८३ ॥

19.84

श्लोक

वर्णाश्रमविभागेन देवाः स्थाप्या हि नान्यथा ॥ ८४ ॥

19.85

श्लोक

चातुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः सुखार्थिभिः ॥ ८५ ॥

19.86

श्लोक

पञ्चरात्रार्थकुशलो मन्त्रतन्त्रावधारकः । स्थापने सर्वदा शस्तो ब्रह्मचारी च शान्तियुक् ॥ ८६ ॥

19.87

श्लोक

अन्यथा कलहोद्वेगं कुर्यान्नित्यं महाभयम् । यजमाने नृपे राष्ट्रे स्थापके च निरागमे ॥ ८७ ॥

19.88

श्लोक

अतःपरं प्रवक्ष्यामि मूर्तिपानां तु लक्षणम् । स्थापकस्य समासेन लक्षणं शृणुत द्विजाः ॥ ८८ ॥

19.89

श्लोक

सर्वावयवसम्पूर्णो वेदमन्त्रविशारदः। पुराणवेत्ता तत्त्वज्ञो दम्भलोभविवर्जितः ॥ ८९ ॥

19.90

श्लोक

कृष्णसारवरे देशे य उत्पन्नः शुभाकृतिः । शौचाचारपरो नित्यं पाषण्डकुलनिष्पृहः ॥ ९० ॥

19.91

श्लोक

समः शत्रौ च मित्रे च ब्रह्मोपेन्द्रहरप्रियः । ऊहापोहार्थतत्त्वज्ञो वास्तुशास्त्रस्य पारगः । आचार्यस्तु भवेन्नित्यं सर्वदोषविवर्जितः ॥ ९१ ॥

19.92

श्लोक

मूर्तिपास्तद्विधाश्चैव कुलीना ऋजवस्तथा । द्वात्रिंशत् षोडशाथापि अष्टौ वा श्रुतिपारगाः । ज्येष्ठ-मध्य-कनिष्ठास्तु मूर्तिपाः परिकीर्तिताः ॥ ९२ ॥

19.93

श्लोक

कर्तुमिच्छति यः पुण्यं मन मूर्तिप्रतिष्ठया । अन्वेषणीयस्त्वाचार्यस्तेन लक्षणसंयुतः ॥ ९३ ॥

19.94

श्लोक

संशुद्धब्रह्मयोनिस्तु प्रलयोत्पत्तिसंस्थितिम् । यो वेत्ति कुलजो धीमानाचार्यत्वं हि सोऽर्हति ॥ ९४ ॥

19.95

श्लोक

सम्मतः सर्ववर्णानां पञ्चरात्रविशारदः । क्रोधलोभविनिर्मुक्तो मात्सर्यदोष-वर्जितः ॥ ९५ ॥

19.96

श्लोक

क्षयापस्माररहितः कुष्ठरोग-विवर्जितः । अन्यूनानतिरिक्ताङ्गो युवा लक्षणलक्षितः ॥ ९६ ॥

19.97

श्लोक

अनन्यदेवताभक्तः शूद्रान्नपरिवर्जितः । ब्राह्मणानामलाभे तु क्षत्रियो वैश्यशूद्रयोः ॥ ९७ ॥

19.98

श्लोक

क्षत्रियाणामलाभे तु वैश्यः शूद्रस्य कल्पितः । कदाचिदपि शूद्रस्तु नैवाचार्यत्वमर्हति ॥ ९८ ॥

19.99

श्लोक

गृहस्थं ब्रह्मचर्यस्थं ककाराष्टकवर्जितम् । गुरुं कुर्वीत सततमुपवासव्रते रतम् । ऋजुस्वभावं मधुरस्मितपूर्वाभिभाषिणम् ॥ ९९ ॥

19.100

श्लोक

सर्वत्र व्यतिरिक्तन्तु आत्मानं वेत्ति यो द्विजः । सर्वलक्षणहीनोऽपि स गुरुर्नात्र संशयः ॥ १०० ॥