Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ७

पौष्पिकः

7.1

श्लोक

कुमनाः सुमनस्त्वं हि याति यस्य पदाब्जयोः । सुमनोऽर्पण-मात्रेण तं चैतन्य-प्रभुं भजे ॥ १ ॥

7.2

श्लोक

श्रीमद्-अङ्गानि तैर् भक्त्या समालिप्यानुलेपनैः । निवेद्योत्तम-पुष्पाणि तन्-मुद्रां च प्रदर्शयेत् ॥ २ ॥

7.3

श्लोक

पुष्पैर् अरण्य-सम्भूतैस् तथा नगर-सम्भवैः । अपर्युषित-निश्छिद्रैः प्रोक्षितैर् जन्तु-वर्जितैः । आत्मारामोद्भवैर् वापि पूतैः सम्पूजयेद् धरिम् ॥ ३ ॥

7.4

श्लोक

तान्य् एव सुप्रशस्तानि कुसुमानि महासुर । यानि स्युर् वर्ण-युक्तानि रस-गन्ध-युतानि च ॥ ४ ॥

7.5

श्लोक

जाती शताङ्गा सुमनाः कुन्दं चारु-पुटं तथा । वाणं च चम्पकाशोकं कर-वीरं च यूथिका ॥ ५ ॥

7.6

श्लोक

पारिभद्रं पाटला च बकुलं गिरि-शालिनी । तिलकं जासुवनजं पीतकं तगरं तथा ॥ ६ ॥

7.7

श्लोक

एतानि सुप्रशस्तानि कुसुमान्य् अच्युतार्चने । सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥ ७ ॥

7.8

श्लोक

कुङ्कुमस्य च पुष्पाणि बन्धु-जीवस्य चाप्य् अथ । चम्पकस्य च देयानि तथा भूचम्पकस्य च ॥ ८ ॥

7.9

श्लोक

पीत-यूथिक-जान्य् एव यानि वै नीपजान्य् अपि । मञ्जर्यः सहकारस्य तथा देया जनार्दने ॥ ९ ॥

7.10

श्लोक

मल्लिका-कुब्ज-कुसुमम् अतिमुककम् एव च । सर्वाश् च यूथिकाजात्यो मल्लिकाजात्य एव च ॥ १० ॥

7.11

श्लोक

याश् च कुब्जकजाजात्यः कदम्ब-कुसुमानि च । केतकी पाटला-पुष्पं काण्व-पुष्पं तथैव च ॥ ११ ॥

7.12

श्लोक

एवम् आदीनि देयानि गन्धवन्ति शुभानि च । केचिद् वर्ण-गुणाद् एव केचिद् गन्ध-गुणाद् अथ ॥ १२ ॥

7.13

श्लोक

अनुक्तान्य् अपि रम्याणि तथा देयानि कानिचित् । देशे देशे काले यानि पुष्पाण्य् अनेकशः ॥ १३ ॥

7.14

श्लोक

गन्धर्वोपपन्नानि तानि देयानि नित्यशः ॥ १४ ॥

7.15

श्लोक

मध्येऽन्य-वर्णो यस्य स्यात् शुक्लस्य कुसुमस्य च । शुभ-सुक्लं तु विज्ञेयं केशव-प्रियम् ॥ १५ ॥

7.16

श्लोक

वासन्ति मल्लिका-पुष्पं तथा वै वार्षिकी तु या । कुसुम्भं यूथिके द्वे च तथा चैवातिमुक्तकम् ॥ १६ ॥

7.17

श्लोक

केतकं चम्पकं चैव माष-वृन्तकम् एव च । पुरन्ध्रि-मञ्जरी-पुष्पं चूत-पुष्पं तथैव च ॥ १७ ॥

7.18

श्लोक

बन्धु-जीवक-पुष्पं च कुसुमं कुङ्कुमस्य च । जाति-पुष्पाणि सर्वाणि कुन्द-पुष्पं तथैव च ॥ १८ ॥

7.19

श्लोक

पाटलायास् तथा पुष्पं नीलम् इन्दीवरं तथा । कुमुदे श्वेत-रक्ते च श्वेत-रक्ते तथाम्बुजे ॥ १९ ॥

7.20

श्लोक

एवम् आदीनि पुष्पाणि दातव्यानि सदा हरेः ॥ २० ॥

7.21

श्लोक

मालती तुलसी पद्मं केतकी मणि-पुष्पकम् । कदम्ब-कुसुमं लक्ष्मीः कौस्तुभं केशव-प्रियम् ॥ २१ ॥

7.22

श्लोक

कण्टकीन्य् अपि देयानि शुक्लानि सुरभीणि च । तथा रक्तानि देयानि जलजानि द्विजोत्तम ॥ २२ ॥

7.23

श्लोक

मालती बकुलाशोक-शेफाली नवमालिका । आम्रं च तगराख्यं च मल्लिका मधु-पिण्डिका ॥ २३ ॥

7.24

श्लोक

यूथिकाष्टपदं कुन्द-कदम्ब-शिखि-पिङ्गिकम् । पाटला चम्पकं हृद्यं लवङ्गम् अतिमुक्तकम् ॥ २४ ॥

7.25

श्लोक

केतकं कुरुवकं बिल्वं कह्लारं वासकं द्विज । पञ्चविंशति-पुष्पाणि लक्ष्मी-तुल्य-प्रियाणि मे ॥ २५ ॥

7.26

श्लोक

मदीया वनमाला च पुष्पैर् एभिर् मया पुरा । ग्रथिता च तथा तत्त्वैः पञ्चविंशतिभिः क्रमात् ॥ २६ ॥

7.27

श्लोक

तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरकौ । शस्तानि दश-पुष्पाणि तथा रक्तोत्पलानि च ॥ २७ ॥

7.28

श्लोक

दानं सुमनसां श्रेष्ठं तथैव परिकीर्तितम् । अलक्ष्म्याः शमनं मुख्यं परं लक्ष्मी-विवर्धनम् ॥ २८ ॥

7.29

श्लोक

धन्यं यशस्यम् आयुष्यं माङ्गल्यं बुद्धि-वर्धनम् । स्वर्गदं च तथा प्रोक्तं वह्निष्टोम-फल-प्रदम् ॥ २९ ॥

7.30

श्लोक

न रत्नेन सुवर्णेन न च वित्तेन भूरिणा । तथा प्रसादम् आयाति देवश् चक्र-गदाधरः ॥ ३० ॥

7.31

श्लोक

धर्मार्जित-धन-क्रीतैर् यः कुर्यात् केशवार्चनम् । उद्धरिष्यत्य् असन्देहं सप्त पूर्वास् तथापरान् ॥ ३१ ॥

7.32

श्लोक

आरामस्थैस् तु कुसुमैर् यः कुर्यात् केशवार्चनम् । एतद् एव समाप्नोति नात्र कार्या विचारणा ॥ ३२ ॥

7.33

श्लोक

यथा कथञ्चिद् आहृत्य कुसुमईह् पुञयन् हरिम् । नाकपृष्ठम् अवाप्नोति न मेऽत्रास्ति विचारणा ॥ ३३ ॥

7.34

श्लोक

तथा राष्ट्राहृतैः पुष्पैर् यः कुर्यात् केशवार्चनम् । पञ्चविंशत्य् अतीतांश् च पञ्चविंशत्य्-अनागतान् । उद्धरेद् आत्मनो वंश्यान् नात्र कार्या विचारणा ॥ ३४ ॥

7.35

श्लोक

नगरेऽपि वसन् यस् तु भकिष्याशी शंसित-व्रतः । अरण्याद् आहृतैः पुष्पैः पत्र-मूल-फलाङ्कुरैः ॥ ३५ ॥

7.36

श्लोक

यथोपपन्नैः सततम् अभ्यर्चयति केशवम् ॥ ३६ ॥

7.37

श्लोक

सर्व-काम-प्रदो देवस् तस्य स्यान् मधुसूदनः । पुंसस् तस्याप्य् अकामस्य परं स्थानं प्रकीर्तितम् । यत्र गत्वा न शोचन्ति तद् विष्णोः परमं पदम् ॥ ३७ ॥

7.38

श्लोक

अक्षमैस् तूपवासानां धन-हीनैस् तथा नरैः । अरण्याद् आहृतैः पुष्पैः सम्पूज्य मधुसूदनम् । पूर्व-जन्मनि सम्प्राप्तं राज्यं शृणु नराधिप ॥ ३८ ॥

7.39

श्लोक

नृपो ययातिर् नहुषो विश्व-गन्धः करन्धमः ॥ दिलीपो युवनाश्वश् च शतपर्वा भगीरथः ॥ ३९ ॥

7.40

श्लोक

भीमश् चसहदेवश् च महाशीलो महामनुः । देवलः कालकाक्षश् च कृतवीर्यो गुणाकरः ॥ ४० ॥

7.41

श्लोक

देवरातः कुसुम्भश् च विनीतो विक्रमो रघुः । महोत्साहो वीतभयो नमित्रः प्रभाकरः ॥ ४१ ॥

7.42

श्लोक

कपोत-रोमा पर्जन्यश् चन्द्रसेनः परन्तपः । भीमसेनो दृढरथः कुशनाभः प्रतर्दनः ॥ ४२ ॥

7.43

श्लोक

एते चान्ये च बहवः पूर्व-जन्मनि केशवम् । पूजयित्वा क्षिताव् अस्यां प्र्पू राज्यम् अकण्टकम् ॥ ४३ ॥

7.44

श्लोक

यक्षत्वम् अथ गान्धर्वं देवत्वं च तथैव च । विद्याधरत्वं नागत्वं ये गता मनुजोत्तमाः ॥ ४४ ॥

7.45

श्लोक

बहुत्वाच् च न ते शक्या मया वक्तुं तवानघ । तस्माद् यत्नः सदा कार्यः पुरुषैः कुसुमार्चने ॥ ४५ ॥

7.46

श्लोक

अरण्य-जातैः कुसुमैः सदैव स पूजयित्वा स्वयम् आहृतैस् तु । सर्वेश्वरं यत् फलम् आप्नुवन्ति राजेन्द्र तद् वर्णयितुं न शक्यम् ॥ ४६ ॥

7.47

श्लोक

स्वयम् आहृत्य पुष्पाणि भिक्षाशी केशवार्चनम् । यः करोति स राजेन्द्र वंशानाम् उद्धरेत् शतम् ॥ ४७ ॥

7.48

श्लोक

पुष्पाणि तु सुगन्धीनि मनोज्ञानि तु यः पुमान् । प्रयच्छति हृषीकेशे स भागवत-मानवः ॥ ४८ ॥

7.49

श्लोक

तपः-शील-गुणोपेते पात्रे वेदस्य पारगे । दश दत्त्वा सुवर्णानि यत् फलं समवाप्नुयात् । तत् फलं लभते मर्त्यो हरेः कुसुम-दानतः ॥ ४९ ॥

7.50

श्लोक

मल्लिका-मालती-जाती-केतकाशोक-चम्पकैः । पुन्नाग-नाग-बकुलैः पद्मैर् उत्पल-जातिभिः ॥ ५० ॥

7.51

श्लोक

एतैर् अन्यैश् च कुसुमैः प्रशस्तैर् अच्युतं नरः । अर्चन् दश-सुवर्णस्य प्रत्येकं फलम् आप्नुयात् ॥ ५१ ॥

7.52

श्लोक

एवं हि राजन् नरसिंह-मूर्तेः प्रियाणि पुष्पाणि तवेरितानि । एतैश् च नित्यं हरिम् अर्च्य भक्त्या नरो विशुद्धो हरिम् एव याति ॥ ५२ ॥

7.53

श्लोक

स्वयम् आहृत्य यो दद्याद् अरण्य-कुसुमानि च । स राज्यं स्फीतम् आप्नोति लोके निहत-कण्टकम् ॥ ५३ ॥

7.54

श्लोक

यैः कैश्चिद् इह पुष्पैश् च जलजैः स्थलजैर् अपि । सम्पूज्य कथितैर् भक्त्या विष्णु-लोके महीयते ॥ ५४ ॥

7.55

श्लोक

ऋतु-कालोद्भवैः पुष्पैर् योऽर्चयेद् रुक्मिणी-पतिम् । सर्वान् कामान् अवाप्नोति यान् दिव्यान् यांश् च मानुषान् ॥ ५५ ॥

7.56

श्लोक

पुष्प-जाति-विशेषेण भवेत् पुण्यं विशेषतः ॥ ५६ ॥

7.57

श्लोक

एवं पुष्प-विशेषेण फलं तद्-अधिकं नृप । ज्ञेयं पुष्पान्तरेणापि यथा स्यात् तन् निबोध मे ॥ ५७ ॥

7.58

श्लोक

द्रोण-पुष्पे तथैकस्मिन् माधवाय निवेदिते । दत्त्वा दश सुवर्णानि यत् फलं तद् अवाप्नुयात् ॥ ५८ ॥

7.59

श्लोक

द्रोण-पुष्प-सहस्रेभ्यः खादिरं वै विशिष्यते । शमी-पुष्प-सहस्रेभ्यो बिल्व-पुष्पं विशिष्यते ॥ ५९ ॥

7.60

श्लोक

बिल्व-पुष्प-सहस्रेभ्यो बक-पुष्पां विशिष्यते । बक-पुष्प-सहस्राद् धि नन्द्यावर्तं विशिष्यते ॥ ६० ॥

7.61

श्लोक

नन्द्यावर्त-सहस्राद् धि करवीरं विशिष्यते । करवीरस्य कुसुमात् श्वेत-पुष्पम् अनुत्तमम् ॥ ६१ ॥

7.62

श्लोक

करवीर-श्वेत-कुसुमात् पालाशं पुष्पम् उत्तमम् । पालाश-पुष्प-साहस्र्यात् सेवन्ती-पुष्पम् उत्तमम् ॥ ६२ ॥

7.63

श्लोक

कुश-पुष्प-सहस्राणां मालती-पुष्पम् उत्तमम् । वनमाला-सहस्राद्धि चम्पकं तु विशिष्यते ॥ ६३ ॥

7.64

श्लोक

चम्पकात् पुष्प-शतकाद् अशोक-पुष्पम् उत्तमम् । अशोक-पुष्प-साहस्र्यात् सेवन्ती-पुष्पम् उत्तमम् ॥ ६४ ॥

7.65

श्लोक

कुब्ज-पुष्प-सहस्राणां मालती-पुष्पम् उत्तमम् । मालती-पुष्प-साहस्र्यात् त्रि-सन्ध्या-पुष्पम् उत्तमम् ॥ ६५ ॥

7.66

श्लोक

त्रि-सन्ध्या-रक्त-साहस्र्यात् त्रि-सन्ध्या-श्वेतकं वरम् । त्रि-सन्ध्या-श्वेत-साहस्र्यात् कुन्द-पुष्पं विशिष्यते ॥ ६६ ॥

7.67

श्लोक

कुन्द-पुष्प-सहस्राद् धि शतपत्रं विशिष्यते । शतपत्र-सहस्राद् धि मल्लिका-पुष्पम् उत्तमम् ॥ ६७ ॥

7.68

श्लोक

मल्लिका-पुष्प-साहस्र्याज् जाती-पुष्पं विशिष्यते । सर्वासां पुष्प-जातीनां जाती-पुष्पम् इहोत्तमम् ॥ ६८ ॥

7.69

श्लोक

जाती-पुष्प-सहस्रेण यच्छन् मालां सुशोभनाम् । विष्णवे विधिवद् भक्त्या तस्य पुण्य-फलं शृणु ॥ ६९ ॥

7.70

श्लोक

कल्प-कोटि-सहस्राणि कल्प-कोटि-शतानि च । वसेद् विष्णु-पुरे श्रीमान् विष्णु-तुल्य-पराक्रमः ॥ ७० ॥

7.71

श्लोक

शेषाणां पुष्पजातीनां यत् फलं विधि-दर्शितम् । तत्-फलस्यानुसारेण विष्णु-लोके महीयते ॥ ७१ ॥

7.72

श्लोक

सर्वासां पुष्प-जातीनां जात्यः श्रेष्ठतमा मताः । जातीनाम् अपि सर्वासां शुक्ला जातिः प्रशस्यते ॥ ७२ ॥

7.73

श्लोक

स्कान्देऽपि ब्रह्म-नारद-संवादे—मल्लिका इत्य् आदि-श्लोक-त्रयम् आस्ते ॥ ७३ ॥

7.74

श्लोक

जाती-पुष्प-प्रदानेन गन्धर्वैः सह मोदते । जाती-पुष्पाष्टकं दत्त्वा वह्निष्टोम-फलं भवेत् ॥ ७४ ॥

7.75

श्लोक

जाती-पुष्प-सहस्रेण यथेष्टां गतिम् आप्नुयात् । श्वेतद्वीपम् अवाप्नोति लक्ष-पूजा-विधायकः ॥ ७५ ॥

7.76

श्लोक

जाती-पुष्प-कृतां मालां कर्पूर-पट-वासिताम् । निवेद्य देवदेवाय यत् फलं प्राप्नुयान् नरः । न तद् वर्णयितुं शक्यम् अपि वर्ष-शतैर् अपि ॥ ७६ ॥

7.77

श्लोक

वर्णानां तु यथा विप्रस् तीर्थानां जाह्नवी यथा । सुराणां तु यथा विष्णुः पुष्पाणां मालती तथा ॥ ७७ ॥

7.78

श्लोक

मालत्या हि तथा देवं योऽर्चयेद् गरुडध्वजम् । जन्म-दुःख-जरारोगैर् मुक्तोऽसौ मुक्तिम् आप्नुयात् ॥ ७८ ॥

7.79

श्लोक

योऽर्चयेन् मालती-पुष्पैः कृष्णं त्रिभुवनेश्वरम् । तेनाप्तं नास्ति सन्देहस् तत्-पदं दुर्लभं हरेः ॥ ७९ ॥

7.80

श्लोक

मालती-कलिका-मालाम् ईषद्-विकसितां हरेः । दत्त्वा शिरसि विप्रेन्द्र वाजिमेध-फलं लभेत् ॥ ८० ॥

7.81

श्लोक

पक्षीन्द्र न श्रुतं दृष्टं भूतं वा न भविष्यति । मालत्या न समं पुष्पं द्वादश्या न समा तिथिः ॥ ८१ ॥

7.82

श्लोक

पुष्पेणैकेन मालत्याः प्रीतिर् या केशवस्य हि । न सा क्रतु-सहस्रेण भवते नारदोऽब्रवीत् ॥ ८२ ॥

7.83

श्लोक

यत्र यत्र खग-श्रेष्ठ भवते मालती-वनम् । पत्रे पत्रे तथा तुष्टो वसते तत्र केशवः ॥ ८३ ॥

7.84

श्लोक

दृष्ट्वा तु मालती-पुष्पं वैष्णवेन करे धृतम् । प्रीतो भवति दैत्यारिः सुतं दृष्ट्वा यथा खगः ॥ ८४ ॥

7.85

श्लोक

पुष्पे पुष्पे खग-श्रेष्ठ मालत्याः सुमनोहरे । अक्षयं प्राप्यते स्थानं दाह-प्रलय-वर्जितम् ॥ ८५ ॥

7.86

श्लोक

वल्लभं मालती-पुष्पं माधवस्य सदैव हि । हेलया दापयेत् स्थानं स्वकीयं गरुडध्वजः ॥ ८६ ॥

7.87

श्लोक

दत्त-मात्रं हरेः पुष्पं निर्माल्यं भवति क्षणात् । अहो-रात्रं प्रभुक्तं हि मालती-कुसुमं न हि ॥ ८७ ॥

7.88

श्लोक

विष्णोर् अङ्गात् परिभ्रष्टं मालती-कुसुमं खग । यो धारयेच् च शिरसि सर्व-धर्म-फलं लभेत् ॥ ८८ ॥

7.89

श्लोक

अदत्त्वा केशवे यस् तु स्व-मूर्ध्ना मालतीं वहेत् । स नरः खग-शार्दूल सर्व-धर्म-च्युतो भवेत् ॥ ८९ ॥

7.90

श्लोक

सुवर्ण-दानं गो-दानं भूमि-दानं खगेश्वर । विहाय कार्त्तिके मासि मालतीं यच्छ केशवे ॥ ९० ॥

7.91

श्लोक

सर्व-मासेषु पक्षीन्द्र मालती केशव-प्रिया । प्रबोधन्यां विशेषेण अश्वमेधादि-दायिनी ॥ ९१ ॥

7.92

श्लोक

मालती-मालया विष्णुः पूजितो येन कार्त्तिके । पापाक्षर-कृतां मालां हठात् सौरिः प्रमार्जति ॥ ९२ ॥

7.93

श्लोक

मालती-जातिका-पुष्पैः स्वर्ण-जात्या च चम्पकैः । पूजितो माधवो दद्यात् कार्त्तिके वैष्णवं पदम् ॥ ९३ ॥

7.94

श्लोक

शुभ्राशुभ्रैर् महा-गन्धैः कुसुमैः पङ्कजोद्भवैः । अधोक्षजं समभ्यर्च्य नरो याति हरेः पदम् ॥ ९४ ॥

7.95

श्लोक

अहो नष्टा विनष्टास् ते पतिताः कलि-कन्दरे । यैर् नार्चितो हरिर् भक्त्या कमलैर् असितैः सितैः ॥ ९५ ॥

7.96

श्लोक

पद्मेनैकेन देवेशं योऽर्चयेत् कमला-प्रियम् ।वर्षायुत-सहस्रस्य पापस्य कुरुते क्षयम् ॥ ९६ ॥

7.97

श्लोक

पद्मैः पद्मालया-भर्ता पूजितः पद्म-हस्त-भृत् । ददाति वैष्णवान् पुत्रान् भक्तिम् अव्यभिचरिणीम् ॥ ९७ ॥

7.98

श्लोक

पद्म-पुष्पाणि यो दद्यात् तस्माच् छत-गुणं भवेत् ॥ ९८ ॥

7.99

श्लोक

रक्त-पद्म-प्रदानेन रुक्म-माषकदो भवेत् । शतं दत्त्वा च धर्मात्मा वह्निष्टोम-फलं लभेत् ॥ ९९ ॥

7.100

श्लोक

सहस्रं च तथा दत्त्वा सूर्य-लोके महीयते । विष्णु-लोकम् अवाप्नोति लक्ष-पूजा-विधायकः ॥ १०० ॥