Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १४

षाण्मासिकः

14.1

श्लोक

अगत्येकगतिं नत्वा हीनार्थाधिकसाधकम् । चैतन्यदेवं लिख्यन्ते मासपूजामहोत्सवाः ॥ १ ॥

14.2

श्लोक

आग्रहायणिको मासो मासेषु प्रवरः स्मृतः । मासानां मार्गशीर्षोऽहमित्युक्तो माधवेन यः ॥ २ ॥

14.3

श्लोक

स्नानदानव्रतार्चादिक्रियाः सनियमं कृताः । माघादाविव मार्गेऽस्मिन् भगवद्भक्तिभूतिदाः ॥ ३ ॥

14.4

श्लोक

तुलसीकानने पूज्यो मार्गे मासि विशेषतः । भगवान्नृत्यगीतादिमहेन सह वैष्णवैः ॥ ४ ॥

14.5

श्लोक

विशेषतश्च मासेऽस्मिन् वस्त्रं शीतनिवारणम् । चित्रं भगवते दद्याज्जगज्जाङ्यहरं हि तत् ॥ ५ ॥

14.6

श्लोक

मार्गशीर्षे त्वेकभक्तं कृत्वा योऽभ्यर्चयेद्धरिम् । भोजयित्वा द्विजान्मुक्तः स्यादित्याह कलिप्रियः ॥ ६ ॥

14.7

श्लोक

नक्तं व्रतेन यो मासं मार्गशीर्षं हरिप्रियम् । नयेदसौ नरो याति विष्णुलोकं सनातनम् ॥ ७ ॥

14.8

श्लोक

क्रमाद्दशावताराणां मत्स्यादीनां सितासु च । यन्मार्गादिद्वादशीषु व्रतं दुर्वाससोदितम् ॥ ८ ॥

14.9

श्लोक

मार्गशीर्षे तथा मासि प्रातः स्नात्वा नरोत्तमः । क्रमपूजां समासाद्य जपहोमौ तथाचरेत् ॥ ९ ॥

14.10

श्लोक

पायसं गुडसंमिश्रं प्रत्यहं विनिवेदयेत् । एवं मासार्चनं कृत्वा भवेद्भाग्यधरः पुमान् ॥ १० ॥

14.11

श्लोक

देहान्ते मोक्षमाप्नोति प्रसावात् शार्ङ्गधन्वनः । तत् कार्यं तत्र तत्रैव ज्ञात्वा वाराहतो विधिम् ॥ ११ ॥

14.12

श्लोक

तत्तत् फलञ्च तत्रोक्तं काम्यत्वात्तन्न लिख्यते ॥ १२ ॥

14.13

श्लोक

हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः । चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १३ ॥

14.14

श्लोक

पौषस्यैकादशीं शुक्लामारभ्य स्थण्डिलेशयः । मासमात्रं हरिप्रीत्यै त्रिवारं स्नानमाचरेत् ॥ १४ ॥

14.15

श्लोक

त्रिकालं पूजयेत् कृष्णं त्यक्तभोगो जितेन्द्रियः । पौषस्य द्वादशीं शुक्लां यावत् पुण्यफलप्रदाम् ॥ १५ ॥

14.16

श्लोक

मासमेकं तदर्द्धं वा दशाहं वा तदर्द्धकम् । कृत्वा याति हरेः स्थानं पूजां दध्योदनोत्सवाम् ॥ १६ ॥

14.17

श्लोक

गीतैर्वाद्यैर्नृतैर्भक्तैर्दधिभक्तं समं नयेत् । अर्पयित्वा हरौ भक्त्या प्रसादञ्चानयेत्ततः ॥ १७ ॥

14.18

श्लोक

यः प्रसादं हरेर्भक्त्या गृह्णाति प्रददाति च । भुङ्क्ते च वैष्णवैः सार्द्धं सोऽनन्तफलमश्नुते ॥ १८ ॥

14.19

श्लोक

घृतप्रस्थेन देवेश पौषपुष्यसिते नरः । स्नापयित्वाश्वमेधस्य फलमाप्नोत्यसशयम् ॥ १९ ॥

14.20

श्लोक

माघे मासि कुरु स्नानं मणिकूटनदीजले । ऋषिसिद्धासुरैर्जुष्टे कथ्यामि च तद्विधिम् ॥ २० ॥

14.21

श्लोक

तव भाग्यवशान्माघो निकटः पञ्चमेऽहनि । पौषस्यैकादशीं शुक्लामारभ्य स्थण्डिलेशयः । मासमेकं निराहारस्त्रिवारं स्नानमाचरेत् ॥ २१ ॥

14.22

श्लोक

त्रिकालमर्चयेद्विष्णुं त्यक्तभोगो जितेन्द्रियः । माघस्यैकादशीं शुक्लां यावद्विद्याधरोत्तम ॥ २२ ॥

14.23

श्लोक

सम्प्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे सदा । सत्कार्यास्तिथयः सर्वाः स्नानदानादिकैः सदा ॥ २३ ॥

14.24

श्लोक

कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः । फलातिशयहेतोर्वै किञ्चिद्बोज्यं त्यजेद्बुधः ॥ २४ ॥

14.25

श्लोक

भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम् । त्रिकालं चार्चयेन्नित्यं वासुदेवं सनातनम् ॥ २५ ॥

14.26

श्लोक

दातव्यो दीपकोऽखण्डो देवमुद्दिश्य माधवम् । इन्धनं कम्बलं वस्त्रमुपानत्कुङ्कुमं घृतम् ॥ २६ ॥

14.27

श्लोक

तैलं कार्पासकोषञ्च तूलीं तूलवतीं पटीम् । अन्नञ्चैव यथाशक्ति देयं माघे नराधिप ॥ २७ ॥

14.28

श्लोक

स्वर्णञ्च रत्तिकामात्रं दद्याद्वेदविदे तथा । परस्याग्निं न सेवेत त्यजेद्विप्रः प्रतिग्रहम् ॥ २८ ॥

14.29

श्लोक

माघान्ते भोजयेद्विप्रान् यथाशक्ति नराधिप । देया च दक्षिणा तेभ्य आत्मनः श्रेय इच्छता ॥ २९ ॥

14.30

श्लोक

एकादशी-विधानेन माघस्योद्यापनं तथा । कर्तव्यं श्रद्दधानेन अक्षयस्वर्गवाञ्छया ॥ ३० ॥

14.31

श्लोक

मकरस्थे रवौ माघे गोविन्दाच्युतमाधव । स्नानेनानेन मे देव यथोक्तफलदो भव ॥ ३१ ॥

14.32

श्लोक

इमं मन्त्रं समुच्चार्य स्नायान्मौनं समाश्रितः । वासुदेवं हरिं विष्णुं माधवञ्च स्मरेत् पुनः ॥ ३२ ॥

14.33

श्लोक

उष्णेन वारिणा स्नानं यद्गृहे क्रियते नरैः । षडब्दफलदं तद्धि मकरस्थे दिवाकरे ॥ ३३ ॥

14.34

श्लोक

वहिःस्नानन्तु वाप्यादौ द्वादशाब्दफलं स्मृतम् । तडागे द्विगुणं राजन् वाप्यां तच्च चतुर्गुणम् ॥ ३४ ॥

14.35

श्लोक

दशधा देवखाते तु शतधा तु महानदीम् । शतञ्चतुर्गुणं राजन् महानद्यास्तु सङ्गमे ॥ ३५ ॥

14.36

श्लोक

सहस्रगुणितं सर्वं तत् फलं मकरे रवौ । गङ्गायां स्नानमात्रेण लभते मानुषो नृप ॥ ३६ ॥

14.37

श्लोक

शतेन गुणितं माघे सहस्रं राजसत्तम । निर्दिष्टमृषिभिः स्नानं गङ्गायामुनसङ्गमे ॥ ३७ ॥

14.38

श्लोक

अप्रावृत शरीरस्तु यः कष्टं स्नानमाचरेत् । पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ ३८ ॥

14.39

श्लोक

पौषफाल्गुनयोर्मध्ये प्रातःस्नायी सदा भवेत् ॥ ३९ ॥

14.40

श्लोक

तत्र चोत्थाय नियमं गृह्णीयाद्विधिपूर्वकम् । माघमासमिमं पूर्णं स्नास्येऽहं देव माधव ॥ ४० ॥

14.41

श्लोक

अप्रावृतशरीरस्तु यः कृच्छं स्नानमाचरेत् । वेदोक्तविधिना पार्थ सुर्यस्यार्ध्यं निवेदयेत् ॥ ४१ ॥

14.42

श्लोक

पितृन् सन्तर्प्य तत्रस्थः समुत्तीर्य जलाशयात् । पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ ४२ ॥

14.43

श्लोक

ततः स्नात्वा शुभे तीर्थे दत्त्वा शिरसि वै मृदम् । इष्टं देवं नमस्कृत्य पूजयेन्मधुसूदनम् ॥ ४३ ॥

14.44

श्लोक

शङ्खचक्रधरं देवं माधवं नाम पूजयेत् । वह्निं हत्वा विधानेन ततश्चैकमना भवेत् ॥ ४४ ॥

14.45

श्लोक

तिल आमलकान्येव तीर्थे देयञ्च गोमयम् । तथा प्रज्वालयेद्वह्निं निःशीतार्थं द्विजन्मनाम् ॥ ४५ ॥

14.46

श्लोक

भोजनं द्विजदम्पत्योः पूजयेच्च विलेपनैः । कम्बलाजिनरत्नानि वासांसि विविधानि च ॥ ४६ ॥

14.47

श्लोक

चैलकानि च देयानि प्रच्छादनपटन्तथा । उपानहौ तथा राजन् माघस्नानेन दापयेत् । अनेन विधिना राजन् माधवः प्रीयतामिति ॥ ४७ ॥

14.48

श्लोक

प्रयागं पुष्करं प्राप्य कुरुक्षेत्रमथापि वा । यत्र वा तत्र वा स्नायान्माघे नित्यमिति श्रुतिः ॥ ४८ ॥

14.49

श्लोक

अवश्यमिति कर्तव्यं माघस्नानं यथाविधि ॥ ४९ ॥

14.50

श्लोक

अकामो वा सकामो वा माघस्नायी भवेन्नरः ॥ ५० ॥

14.51

श्लोक

अमाघस्नायिनां नृणां निष्फलं जन्मकीर्तनम् । असूर्यगगनं यद्वदचन्द्रमुडुदण्डलम् । तद्वन्न भाति सत्कर्म माघस्नानं विना नृप ॥ ५१ ॥

14.52

श्लोक

बुद्बुदा इव तोयेषु पुत्तिका इव जन्तुषु । जायन्ते मरणायैव माघस्नानविवर्जिताः ॥ ५२ ॥

14.53

श्लोक

व्रतदानतपोभिश्च न तथा प्रीयते हरिः । माघे मज्जनमात्रेण यथा प्रीणाति माधवः ॥ ५३ ॥

14.54

श्लोक

प्रीतये वासुदेवस्य माघस्नानं प्रकीर्तितम् ॥ ५४ ॥

14.55

श्लोक

सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप । सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनः ॥ ५५ ॥

14.56

श्लोक

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । प्रातः सर्वे प्रशंसन्ति सदा माघस्य मज्जनम् ॥ ५६ ॥

14.57

श्लोक

बालास्तरुणका वृद्धा नरनारी-नपुंसकाः । स्नात्वा माघं शुभे तीर्थे प्राप्नुवन्तीप्सितं फलम् ॥ ५७ ॥

14.58

श्लोक

ब्राह्मणः क्षत्रियो वैश्यो मन्त्रवत् स्नानमाचरेत् । तुष्णीमेव तु शूद्रस्य स्त्रीणाञ्च कुरुनन्दन ॥ ५८ ॥

14.59

श्लोक

माघस्नायी नरो यः स्याद्दुर्गतिं नैव पश्यति । तन्नास्ति मानुषे लोके किल्विषं यन्न शोधयेत् ॥ ५९ ॥

14.60

श्लोक

माघमासे रटन्त्यापः किञ्चिदभ्यूदिते रवौ । ब्रह्मघ्नं वा सुरापं वा कं पतन्तं पुनीमहे ॥ ६० ॥

14.61

श्लोक

प्रासादा यत्र सौवर्णाः स्त्रियश्चास्परसो यथा । दधिकुल्यास्तथा यत्र नद्यः पायसकर्दमाः । तत्र ते यान्ति मज्जन्ति ये माघे भास्करोदये ॥ ६१ ॥

14.62

श्लोक

पितृपितामहैः सार्द्धं तथैव प्रपितामहैः । मातृमातामहैः सार्द्धं वृद्धमातामहैस्तथा ॥ ६२ ॥

14.63

श्लोक

एकविंशकुलैः सार्द्धं भोगान् भुक्त्वा यथेप्सितान् । माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति ॥ ६३ ॥

14.64

श्लोक

यो माघमास्युषसि सूर्यकराभिताम्रे स्नानं समाचरति चारुनदीप्रवाहे । उद्धृत्य सप्तपुरुषान् पितृमातृतश्च स्वर्गं प्रयात्यमलदेहधरो नरोऽसौ ॥ ६४ ॥

14.65

श्लोक

दुर्लमो माघमासस्तु वैष्णवानामतिप्रियः । देवतानामृषीणाञ्च मुनीनां सुरनायक ॥ ६५ ॥

14.66

श्लोक

विशेषेण शचीनाथ माधवस्यातिवल्लभः । अधिको माघमासस्तु मासानान्तु शचीपते ॥ ६६ ॥

14.67

श्लोक

पौष्या तु समतीतायां यावद्भवति पूर्णिमा । माघमासस्य देवेन्द्र पूजा विष्णोर्विधीयते ॥ ६७ ॥

14.68

श्लोक

स्नानं विलेपनं धूपं नैवेद्यादि च शक्तिः । माघमासकृतं विष्णोः सर्वं भवति चाक्षयम् ॥ ६८ ॥

14.69

श्लोक

मासार्द्धं वा समग्रं वा दशाहं वा तदर्द्धकम् । यथाशक्त्या हरेः पूजां कुर्वन्नाप्नोति तत्पदम् ॥ ६९ ॥

14.70

श्लोक

माघस्नानस्य माहात्म्यं शृणु भागवतप्रिय । त्वत्समो नास्ति लोकेऽस्मिन् विष्णोर्भक्तो महामुने ॥ ७० ॥

14.71

श्लोक

चक्रतीर्थे हरिं दृष्ट्वा मथुरायाञ्च केशवम् । यत् फलं लभते जन्तुर्माघस्नानेन तत् फलम् ॥ ७१ ॥

14.72

श्लोक

जितेन्द्रियः शान्तमनाः सदाचारेण सयुतः । स्नानं करोति यो माघे संसारी न भवेत् पुनः ॥ ७२ ॥

14.73

श्लोक

ओंकारः सर्ववेदानां यथादौ परिगीयते । तथा विष्णुव्रतानान्तु माघस्नानं महामुने ॥ ७३ ॥

14.74

श्लोक

मनसापि चिकीर्षन्ति माघस्नानन्तु ये नराः । ते घोरं न प्रयास्यन्ति संसारदुःखसङ्कुलम् ॥ ७४ ॥

14.75

श्लोक

सौरिमार्गं महाघोरं यमदूतान् यमन्तथा । स्वप्नेऽपि न हि पश्यन्ति माघस्नानरता नराः ॥ ७५ ॥

14.76

श्लोक

यदीच्छेद्विष्णुना वासं सुतान् सम्पदमात्मनः । माघस्नानं तदा कायं वर्षे वर्षे च नारद ॥ ७६ ॥

14.77

श्लोक

व्रतानि वैष्णवानीह मनसापि चिकीर्षति । तत्तस्य विलयं याति पापं जन्मशतोद्भवम् ॥ ७७ ॥

14.78

श्लोक

माघस्नानं नरः कृत्वा सदा दान्तमना व्रती । प्राप्नोति च पदं विष्णोः स्थानं त्रैलोक्यवन्दितम् ॥ ७८ ॥

14.79

श्लोक

कृत्वा भूरि महापापं ज्ञानतोऽज्ञानतोऽपि वा । माघस्नानेन विप्रेन्द्र दह्यते तूलराशिवत् ॥ ७९ ॥

14.80

श्लोक

कर्मणा मनसा वाचा यत् पापं समुपार्जितम् । दह्यते नात्र सन्देहो माघस्नानेन नारद ॥ ८० ॥

14.81

श्लोक

स्नानं दानं जपो होमः समुद्दिश्य जनार्दनम् । नरैर्यत् क्रियते माघे तदनन्तफलं स्मृतम् ॥ ८१ ॥

14.82

श्लोक

विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् । न तत् फलमवाप्नोति यो लोभाक्रान्तमानसः ॥ ८२ ॥

14.83

श्लोक

ये भविष्यन्ति येऽतीता आकल्पं पुरुषाः कुले । तांस्तारयति विप्रेन्द्र माघस्नानेन माधवः ॥ ८३ ॥

14.84

श्लोक

सम्प्राप्ते माघमासे तु तपस्विजनवल्लभे । विलयं यान्ति पापानि तमः सूर्योदये यथा ॥ ८४ ॥

14.85

श्लोक

यतिवत् पथि गच्छेत मौनी पैशुन्यवर्जितः ॥ ८५ ॥

14.86

श्लोक

यदीच्छेद्विपुलान् भोगान् वैष्णवं पदमव्ययम् । महानदीजले स्नात्वा इतरे वापि नारद । स्नापयित्वा हरिं भक्त्या पूजयेत्तुलसीदलैः ॥ ८६ ॥

14.87

श्लोक

न माघमासस्नानस्य सममन्यद्भृगूड्वह । तपः किमपि तत्त्वार्थवेदिनो मुनयो विदुः ॥ ८७ ॥

14.88

श्लोक

शीतकाले सुशीतेन जलेन स्वं वपुर्नरः । प्रक्षाल्य सद्यो नियतं विशोधयति दुष्कृतम् ॥ ८८ ॥

14.89

श्लोक

अपि शूद्रोऽपि दासोऽपि माघस्नानपरायणः । प्रोक्तो मुख्यतमो विप्रो न तु तद्विमुखो द्विजः ॥ ८९ ॥

14.90

श्लोक

यत्र साक्षाद्दिनाधीशो भवेदुदयमास्थितः । ततः किमपरं नाम प्रशस्य धर्मसाधनम् ॥ ९० ॥

14.91

श्लोक

माघस्नानं समुद्दिश्योषसि गेहात् समुत्थितः । यावत्पदान्यश्वमेधसमानि स्युर्ददाति यः ॥ ९१ ॥

14.92

श्लोक

यथा यथा पुमान् माघे प्रातरुत्थाय धावति । तथा तथाऽभुक्तकर्म-संक्षयाद्दयते यमः ॥ ९२ ॥

14.93

श्लोक

यत् फलं कपिलादाने कुरुक्षेत्रे रविग्रहे । तदवश्यमवाप्नोति माघस्नानं करोति यः ॥ ९३ ॥

14.94

श्लोक

सम्यगुक्तं परं श्रेयो लोकद्वयहितावहम् । निर्मलीकरणं तेन मुनीनां वनवासिनाम् ॥ ९४ ॥

14.95

श्लोक

क्रतुभुक्कामिनीनां ये प्रत्यासतिमखण्डिताम् । कामयन्ते मृगार्के ते स्रोतसि स्नान्तु सर्वदा ॥ ९५ ॥

14.96

श्लोक

विना वह्निं विना यज्ञमिष्टापूर्तं विनापि ये । वाञ्छन्ति स्वर्गतिं स्नान्तु प्रातर्माघे बहिर्जले ॥ ९६ ॥

14.97

श्लोक

गोभूमितिल-वासांसि स्वर्णधेन्वान्नकानि ये । अदत्त्वेच्छन्ति नाकं ते माघे स्नान्तु नराधिप ॥ ९७ ॥

14.98

श्लोक

त्रिरात्रेन्दुव्रतः कृच्छैः पराकैश्च निजां तनुम् । अशोष्येच्छन्ति ये स्वर्गं तपसि स्नान्तु ते सदा ॥ ९८ ॥

14.99

श्लोक

हरेरर्चा तु वैशखे तपः पूजा च कार्त्तिके । तपः पूजा तथा स्नानं त्रयं माघे विशिष्यते ॥ ९९ ॥

14.100

श्लोक

निरन्ना ह्यदितिः सस्नौ माघान् द्वादश मानसे । पुत्रान् सा द्वादशादित्यान् लेभे त्रैलोक्यदीपकान् ॥ १०० ॥