Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १०

दशम-विलासः

10.1

श्लोक

श्री-कृष्ण-चरणाम्भोज-मधुपेभ्यो नमो नमः । कथञ्चिद् आश्रयाद् येषां श्वापि तद्-गन्ध-भाग् भवेत् ॥ १ ॥

10.2

श्लोक

गच्छेद् वैष्णव-चिह्नाढ्यः पातुं कृष्ण-कथा-सुधाम् ॥ २ ॥

10.3

श्लोक

इतिहास-पुराणाभ्यां षष्ठ-सप्तमकौ नयेत् ॥ ३ ॥

10.4

श्लोक

विष्णुर् एव हि यस्यैष देवता वैष्णवः स्मृतः ॥ ४ ॥

10.5

श्लोक

व्रत-कर्म-गुण-ज्ञान-भोग-जन्मादिमत्स्व् अपि । शैवेष्व् अपि च कृष्णस्य भक्ताः सन्ति तथा तथा ॥ ५ ॥

10.6

श्लोक

दशमी-शेष-संयुक्तं दिनं वैष्णव-वल्लभम् । नोपासते महीपाल ते वै भागवता नराः ॥ ६ ॥

10.7

श्लोक

प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर् नराः । कुर्वन्ति जागरं रात्रौ सदा भागवता हि ते ॥ ७ ॥

10.8

श्लोक

उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् । अल्पां तु साधयेद् यस् तु स वै भागवतो नरः ॥ ८ ॥

10.9

श्लोक

भक्तिर् न विच्युता येषां न च्युतानि व्रतानि च । सुप्रियः श्रीपतिर् येषां ते स्युर् भागवता नराः ॥ ९ ॥

10.10

श्लोक

कर्मिषु भगवद्-अर्पणादिना तद्-आज्ञा-बुद्ध्या वा भक्ति-हेतुः सदाचार-परता । धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् । पचनं विप्रमुख्यार्थं ज्ञेयास् ते वैष्णवा नराः ॥ १० ॥

10.11

श्लोक

योऽतिथिं पूजयेद् भक्त्या वैष्णवः स न संशयः ॥ ११ ॥

10.12

श्लोक

सदाचार-रताः शिष्टाः सर्व-भूतानुकम्पकाः । शुचयस् त्यक्त-रागा ये सदा भागवता हि ते ॥ १२ ॥

10.13

श्लोक

जीवितं यस्य धर्मार्थं धर्मो हर्य्-अर्थम् एव च । अहो-रात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ १३ ॥

10.14

श्लोक

विष्णु-भक्ति-समायुक्तान् श्रौत-स्मार्त-प्रवर्तकान् । प्रीतो भवति यो दृष्ट्वा वैष्णवोऽसौ प्रकीर्तितः ॥ १४ ॥

10.15

श्लोक

पर-दुःखेनात्म-दुःखं मन्यन्ते ये नृपोत्तम । भगवद्-धर्म-निरतास् ते नरा वैष्णवा नृप ॥ १५ ॥

10.16

श्लोक

तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् । अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥ १६ ॥

10.17

श्लोक

विमन्यवः सुहृदः साधवो ये ॥ १७ ॥

10.18

श्लोक

कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् । सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः ॥ १८ ॥

10.19

श्लोक

कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥ १९ ॥

10.20

श्लोक

अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः । अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥ २० ॥

10.21

श्लोक

स्थित-मनसं तम् अवेहि विष्णु-भक्तम् ॥ २१ ॥

10.22

श्लोक

ज्ञानिषु भक्ति-हेतुर् ज्ञानवत्ता । एकादशे हवि-योगेश्वरोत्तरे [भ्प् ११.२.४५,५२] – सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ २२ ॥

10.23

श्लोक

न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा । सर्व-भूत-समः शान्तः स वै भागवतोत्तमः ॥ २३ ॥

10.24

श्लोक

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते मे भक्त-तमा मताः ॥ २४ ॥

10.25

श्लोक

ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ २५ ॥

10.26

श्लोक

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ २६ ॥

10.27

श्लोक

भोगवत्सु भक्ति-हेतुर् भोगानासक्तता । हवि-योगेश्वरोत्तरे [भ्प् ११.२.४८] गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥ २७ ॥

10.28

श्लोक

सज्जन्म-विद्यादिमत्सु भक्ति-हेतुर् निरभिमानिता । तत्रैव [भ्प् ११.२.५१] -- न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः । सज्जते ऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः ॥ २८ ॥

10.29

श्लोक

भावाः कथञ्चिद् भक्तैव ज्ञानानासक्त्य्-अमानिता । भक्ति-निष्ठापका जातास् ततो ह्य् उत्तमतोदिता ॥ २९ ॥

10.30

श्लोक

शैवेषु श्रीशिव-कृष्ण-भेदकाः । बृहन्-नारदीये [नार्प् १.५.७२] – शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥ ३० ॥

10.31

श्लोक

अन्यच् च तेषां भगवच्-छास्त्रार्थ-परतादिकम् । साक्षाद्-भक्त्य्-आत्मकं मुख्यं लक्षणं लिख्यतेऽधुना ॥ ३१ ॥

10.32

श्लोक

येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ । पूजयन्ति च ये नित्यं ते स्युर् भागवता नराः ॥ ३२ ॥

10.33

श्लोक

येषां भागवतं शास्त्रं जीविताद् अधिकं भवेत् । महा-भागवताः श्रेष्ठा विष्णुना कथिता नराः ॥ ३३ ॥

10.34

श्लोक

वैष्णव-सम्मान-निष्ठा । लैङ्गे – विष्णु-भक्तम् अथायातं यो दृष्ट्वा सुमुखः प्रियः । प्रणामादि करोत्य् एव वासुदेवे यथा तथा । स वै भक्त इति ज्ञेयः स पुनाति जगत् त्रयम् ॥ ३४ ॥

10.35

श्लोक

रुक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः । प्रणाम-पूर्वकं क्षान्त्वा यो वदेद् वैष्णवो हि सः ॥ ३५ ॥

10.36

श्लोक

भोजनाच्छादनं सर्वं यथा-शक्त्या करोति यः । विष्णु-भक्तस्य सततं स वै भागवतः स्मृतः ॥ ३६ ॥

10.37

श्लोक

येन सर्वात्मना विष्णु-भक्त्या भावो निवेशितः । वैष्णवेषु कृतात्मत्वान् महा-भागवतो हि सः ॥ ३७ ॥

10.38

श्लोक

तुलसी-काननं दृष्ट्वा ये नमस्कुर्वते नराः । तत्-काष्ठाङ्कित-कर्णा ये ते वै भागवतोत्तमाः ॥ ३८ ॥

10.39

श्लोक

तुलसी-गन्धम् आघ्राय सन्तोषं कुर्वते तु ये । तन्-मूलम् ऋद्धूता यैश् च ते वै भागवतोत्तमाः ॥ ३९ ॥

10.40

श्लोक

मत्-कथा-श्रवणे येषां वर्तते सात्त्विकी मतिः । तद्-भक्त-विष्णु-भक्ताश् च ते वै भागवतोत्तमाः ॥ ४० ॥

10.41

श्लोक

मत्-कथां कुरुते यस् तु मत्-कथां च शृणोति यः । हृष्यते मत्-कथायां च स वै भागवतोत्तमः ॥ ४१ ॥

10.42

श्लोक

मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥ ४२ ॥

10.43

श्लोक

मन्-मानसाश् च मद्-भक्ता मद्-भक्त-जन-लोलुपाः । मन्-नाम-श्रवणासक्तास् ते वै भागवतोत्तमाः ॥ ४३ ॥

10.44

श्लोक

येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ ४४ ॥

10.45

श्लोक

अन्येषाम् उदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः । हरि-नाम-परा ये च ते वै भागवतोत्तमाः ॥ ४५ ॥

10.46

श्लोक

न चलति य उच्चैः श्री-भगवत्-पदारविन्दे । सितमनास् तम् अवेहि विष्णु-भक्तम् ॥ ४६ ॥

10.47

श्लोक

सततम् अवेहि हरेर् अतीव-भक्तम् ॥ ४७ ॥

10.48

श्लोक

पुरुष-वरं तम् अवेहि विष्णु-भक्तम् ॥ ४८ ॥

10.49

श्लोक

भवति हुताशन-दीप्तिजः प्रतापः ॥ ४९ ॥

10.50

श्लोक

वसति सदा हृदि तस्य वासुदेवः ॥ ५० ॥

10.51

श्लोक

कथयति चारुतयैव शालपोतः ॥ ५१ ॥

10.52

श्लोक

स्मृत्या हरेर् भागवत-प्रधानः ॥ ५२ ॥

10.53

श्लोक

लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ ५३ ॥

10.54

श्लोक

प्रभवति चन्द्र इवोदिते ऽर्क-तापः ॥ ५४ ॥

10.55

श्लोक

येऽर्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् । देहिनः पुण्य-कर्माणः सदा भागवता हि ते ॥ ५५ ॥

10.56

श्लोक

विष्णु-क्षेत्रे शुभान्य् एव करोति स्नेह-संयुतः । प्रतिमां च हरेर् नित्यं पूजयेत् प्रतयामवान् ॥ ५६ ॥

10.57

श्लोक

विष्णु-भक्तः स विज्ञेयः कर्मणा मनसा गिरा । नारायण-परो नित्यं भूप भागवतो हि सः ॥ ५७ ॥

10.58

श्लोक

तापादि-पञ्च-संस्कारी नवेज्याकर्म-कारकः । अर्थ-पञ्चक-विद् विप्रो महा-भागवतः स्मृतः ॥ ५८ ॥

10.59

श्लोक

एकान्तेन सदा विष्णौ यस्माद् देवे परायणाः । तस्माद् एकान्तिनः प्रोक्तास् तद्-भागवत-चेतसः ॥ ५९ ॥

10.60

श्लोक

ज्ञात्वाज्ञात्वाथ ये वै माम् यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते वै भागवता मताः ॥ ६० ॥

10.61

श्लोक

न काम-कर्म-बीजानां यस्य चेतसि सम्भवः । वासुदेवैक-निलयः स वै भागवतोत्तमः ॥ ६१ ॥

10.62

श्लोक

आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥ ६२ ॥

10.63

श्लोक

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६३ ॥

10.64

श्लोक

यदा यस्यानुगृह्णाति भगवान् अत्म-भावितः । न जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ६४ ॥

10.65

श्लोक

सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ ६५ ॥

10.66

श्लोक

त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः । सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥ ६६ ॥

10.67

श्लोक

यस्य कृच्छ्र-गतस्यापि केशवे रमते मनः । न विच्युता च भक्तिर् वै स वै भागवतो नरः ॥ ६७ ॥

10.68

श्लोक

आपद्-गतस्य यस्येह भकिर् अव्यभिचारिणी । नान्यत्र रमते चित्तं स वै भागवतो नरः ॥ ६८ ॥

10.69

श्लोक

ये वा मयीशे कृत-सौहृदार्था; जनेषु देहम्भर-वार्तिकेषु । गृहेषु जायात्मज-रातिमत्सु; न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥ ६९ ॥

10.70

श्लोक

त्रिधा प्रेमैक-परता प्रेम्णः स्यात् तारतम्यतः । उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः ॥ ७० ॥

10.71

श्लोक

सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ ७१ ॥

10.72

श्लोक

स्वेष्ट-देवस्य भावं यः सर्व-भूतेषु पश्यति । भावयन्ति च तान्य् अस्मिन्न् इत्य् अर्थः सम्मतः सताम् ॥ ७२ ॥

10.73

श्लोक

मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः ॥ ७३ ॥

10.74

श्लोक

स भवति भागवत-प्रधान उक्तः ॥ ७४ ॥

10.75

श्लोक

ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ ७५ ॥

10.76

श्लोक

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ७६ ॥

10.77

श्लोक

श्रद्धया पूजनं प्रेम-बोधकं भक्त इत्य् अपि । लक्षणानि च यान्य् अग्रे भक्तेर् लेख्यानि तान्य् अपि ॥ ७७ ॥

10.78

श्लोक

वन्दनादीनि विद्यन्ते येषु भागवता हि ते । एतानि लक्षणानीत्थं गौण-मुख्यादि-भेदतः ॥ ७८ ॥

10.79

श्लोक

ऊह्यानि लक्षणान्य् एवं विवेच्यानि पराण्य् अपि ॥ ७९ ॥

10.80

श्लोक

ईदृग्-लक्षणवन्तः स्युर् दुर्लभा बहवो जनाः । दिव्या हि मणयो व्यक्तं न वर्तेरन्न् इतस् ततः ॥ ८० ॥

10.81

श्लोक

जायमानं हि पुरुषं यं पश्येन् मधुसूदनः । सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः ॥ ८१ ॥

10.82

श्लोक

एवं सङ्क्षिप्य लिखिताद् वैष्णवानां तु लक्षणात् । माहात्म्यम् अपि विज्ञेयं लिख्यतेऽन्यच् च तत् कियत् ॥ ८२ ॥

10.83

श्लोक

कलौ भागवतं नाम यस्य पुंसः प्रजायते । जननी पुत्रिणी तेन पितॄणां तु धुरन्धरः ॥ ८३ ॥

10.84

श्लोक

कलौ भागवतं नाम दुर्लभं नैव लभ्यते । ब्रह्म-रुद्र-पदोत्कृष्टं गुरुणा कथितं मम ॥ ८४ ॥

10.85

श्लोक

यस्य भागवतं चिह्नं दृश्यते तु हरिर् मुने । गीयते च कलौ देवा ज्ञेयास् ते नास्ति संशयः ॥ ८५ ॥

10.86

श्लोक

समीपे तिष्ठते यस्य ह अन्त-कालेऽपि वैष्णवः । गच्छते परमं स्थानं यद्यपि ब्रह्महा भवेत् ॥ ८६ ॥

10.87

श्लोक

श्वपचोऽपि मही-पाल विष्णु-भक्तो द्विजाधिकः । विष्णु-भक्ति-विहीनस् तु द्विजोऽपि श्वपचाधिकः ॥ ८७ ॥

10.88

श्लोक

इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि । श्वपचोऽपि भवत्य् एव यदा तुष्टाऽसि केशव ॥ ८८ ॥

10.89

श्लोक

श्वपचाद् अपि कष्टत्वं ब्रह्मेशानादयः सुराः । तदैवाच्युत यान्त्य् एते यदैव त्वं पराङ्मुखः ॥ ८९ ॥

10.90

श्लोक

स कर्ता सर्व-धर्माणां भक्तो यस् तव केशव । स कर्ता सर्व-पापानां यो न भक्तस् तवाच्युत ॥ ९० ॥

10.91

श्लोक

धर्मो भवत्य् अधर्मोऽपि कृतो भक्तैस् तवाच्युत । पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरेः ॥ ९१ ॥

10.92

श्लोक

निःशेष-धर्म-कर्ता वाप्य् अभक्तो नरके हरे । सदा तिष्ठति भक्तस् ते ब्रह्महापि विशुध्यति ॥ ९२ ॥

10.93

श्लोक

निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन । मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरे ॥ ९३ ॥

10.94

श्लोक

नूनं भागवता लोके लोक-रक्षा-विशारदाः । व्रजन्ति विष्णुनादिष्टा हृदिस्थेन महामुने ॥ ९४ ॥

10.95

श्लोक

भगवान् एव सर्वत्र भूतानां कृपया हरिः । रक्षणाय चरन् लोकान् भक्त-रूपेण नारद ॥ ९५ ॥

10.96

श्लोक

यस् तु विष्णु-परो नित्यं दृढ-भक्तिर् जितेन्द्रियः । स्व-गृहेऽपि वसन् याति तद् विष्णोः परमं पदम् ॥ ९६ ॥

10.97

श्लोक

अश्वमेध-सहस्राणां सहस्रं यः करोति वै । नासौ तत्-फलम् आप्नोति तद्-भक्तैर् यद् अवाप्यते ॥ ९७ ॥

10.98

श्लोक

सर्वत्र वैष्णवाः पूज्याः स्वर्गे मर्त्ये रसातले । देवतानां मनुष्याणां तथैवोरग-रक्षसाम् ॥ ९८ ॥

10.99

श्लोक

येषां स्मरण-मात्रेण पाप-लक्ष-शतानि च । दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम् ॥ ९९ ॥

10.100

श्लोक

येषां पाद-रजेनैव प्राप्यते जाह्नवी-जलम् । नार्मदं यामुनं चैव किं पुनः पादयोर् जलम् ॥ १०० ॥