Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १८

श्रीमूर्तिप्रादुर्भावः

18.1

श्लोक

श्रीमूर्तिप्रादुर्भावः यस्य प्रसादादज्ञोऽपि सद्यः सर्वज्ञतां व्रजेत् । स श्रीचैतन्यदेवो मे भगवान् सम्प्रसीदतु ॥ १ ॥

18.2

श्लोक

अपेक्ष्यन्तेऽर्चनेऽवश्यमधिष्ठानानि वैष्णवः । श्रीमूर्तयश्च तत्रापि साक्षात्कारसुखप्रदाः ॥ २ ॥

18.3

श्लोक

श्रीमूर्तीनां लक्षणानि लिखितान्येव कानिचित् । प्रादुर्भूतेर्विधिस्तासां प्रतिष्ठायाश्च लिख्यते ॥ ३ ॥

18.4

श्लोक

भक्त्यैव भगवन्मूर्तिप्रादुर्भावोऽपि चेद्भवेत् । कर्तव्योऽथाप्युपायोऽत्र पूर्वः सद्भिः प्रदर्शितः ॥ ४ ॥

18.5

श्लोक

प्रतिमां कारयित्वा तु देवदेवस्य चक्रिणः । न दुर्गतिमवाप्नोति विष्णुलोकं स गच्छति ॥ ५ ॥

18.6

श्लोक

देवस्य प्रतिमायान्तु यावन्तः परमाणवः । तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ ६ ॥

18.7

श्लोक

प्रासादव तथा तस्याः फलं सम्यगुदाहृतम् । उत्तरोत्तरतो द्रव्यैर्विना पक्वेष्टकां द्विजाः ॥ ७ ॥

18.8

श्लोक

प्रतिमां लक्षणोपेतां नरसिंहस्य कारयेत् । सर्वपापानि सन्त्यज्य स तु विष्णुपुरे वसेत् ॥ ८ ॥

18.9

श्लोक

विष्णोस्तावत् प्रवक्ष्यामि यादृक रूपं प्रशस्यते । शङ्खचक्रधरं शान्तं पद्महस्तं गदाधरम् ॥ ९ ॥

18.10

श्लोक

छत्राकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम् । तुङ्गनासं शूर्पकर्णं प्रशान्तोरुभुजद्वयम् ॥ १० ॥

18.11

श्लोक

क्वचिदष्टभुजं विद्याच्चतुर्भुजमथापि वा । द्विभुजश्चापि कर्तव्यो भवने स पुरोधसा ॥ ११ ॥

18.12

श्लोक

देयमष्टभुजस्यास्य यथास्थानं निबोधत । खड्गो गदा शरः पद्म देयं दक्षिणतो हरेः ॥ धनुश्च खेटकञ्चैव शङ्खचक्रञ्च वामतः ॥ १२ ॥

18.13

श्लोक

चतुर्भुजस्य वक्ष्यामि यथैवायुधसंस्थितिः । दक्षिणे च गदां पद्मं वासुदेवस्य कारयेत् । वामतः शङ्खचक्रे च कर्तव्ये भूतिमिच्छता ॥ १३ ॥

18.14

श्लोक

कृष्णावतारे तु गदा वामहस्ते प्रशस्यते । यथेच्छया शङ्खचक्रे उपरिष्टात् प्रकल्पयेत् ॥ १४ ॥

18.15

श्लोक

अधस्तात् पृथिवी देवी कर्तव्या पदमध्यतः । दक्षिणे प्रणतं तद्वद्गरुत्मन्तं निवेशयत् ॥ वामतस्तु भवेल्लक्ष्मीः पद्महस्ता सुशोभना ॥ १५ ॥

18.16

श्लोक

गरुत्मानग्रतो वापि संस्थाप्यो भूतिमिच्छता । श्रीश्च पुष्टिश्च कर्तव्ये पार्श्वयोः पद्मसंयुते ॥ १६ ॥

18.17

श्लोक

तोरणञ्चोपरिष्टाच्च विद्याधरसमन्वितम् । तथा कल्पलतोपेतं स्तुवद्भिरमरेश्वरैः ॥ १७ ॥

18.18

श्लोक

अङ्गुष्ठपर्वादारभ्य वितस्तिं यावदेव तु । गृहे वै प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ १८ ॥

18.19

श्लोक

आषोडशात्तु प्रासादे कर्तव्या नाधिका ततः । मध्योत्तमकनिष्ठा तु कार्या वित्तानुसारतः ॥ १९ ॥

18.20

श्लोक

सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता । प्रतिमा क्षेमसुभिक्षाय भवेत्त्रिचतुर्हस्तप्रमाणा च ॥ २० ॥

18.21

श्लोक

प्रासादस्योत्तरे भागे शिलां नीत्वा च देशिकः । कृत्वा कर्मकूटीं रम्यां प्रतिमाकर्म कारयेत् ॥ २१ ॥

18.22

श्लोक

चतुरस्रायतां कृत्वा शिलां संस्थाप्य चार्चयेत् । शिरो मुखञ्च पृष्ठे च अङ्कयित्वा तु बुद्धिमान् ॥ २२ ॥

18.23

श्लोक

यजमानानुकूल्येन गुरुः कर्म समारभेत् । शिलां पूर्वाननां कृत्वा अथवा उत्तराननाम् । तोयेन ब्रह्मघोषाइः स्नाप्य पश्चालिं हरेत् ॥ २३ ॥

18.24

श्लोक

दधि-दूर्वाक्षतैः पूजां नवारम्भे समाचरेत् । शुक्लैर्गन्धैश्च माल्यैश्च मन्त्रेणानेन देशिकः ॥ २४ ॥

18.25

श्लोक

ॐ तत् सत् नमः । योऽसौ भगवान् सर्वजगतः प्रवीरः सङ्कर्षणो वासुदेवः प्रवरवराह जय सुप्रतिष्ठित कीर्तिं प्रवर्द्धयस्व ॐ ॐ फट् फट् नमः ॥ २५ ॥

18.26

श्लोक

स्वस्ति वाच्य द्विजान् सम्यग्गुरुभक्त्या समर्चये । वस्त्रपुष्पादिदानेन अशाठ्येन तु पूजयेत् ॥ २६ ॥

18.27

श्लोक

मङ्गलैर्ब्रह्मघोषाधैः प्रतिमा संविभाजयेत् । मध्यसूत्रं समास्फाल्य तीक्ष्णशस्त्रेण चोत्किरेत् ॥ २७ ॥

18.28

श्लोक

स्वकीयाङ्गुलिमानेन मुखं स्याद्द्वादशाङ्गुलम् । मुख-मानेन कर्तव्या सर्वावयवकल्पना ॥ २८ ॥

18.29

श्लोक

अभिप्रेतप्रमाणन्तु नवधा प्रविभाजयेत् । नवमे भास्करैर्भक्तै भागः स्वाङ्गुलमुच्यते ॥ २९ ॥

18.30

श्लोक

विम्बमानन्तु नवधा प्रोच्छ्रयात् संविभज्य वै । भागं भागं ततो भूयो भवेद्द्वादशधा द्विज ॥ ३० ॥

18.31

श्लोक

तदङ्गुलं स्याद्विम्बस्य ॥ इति । एवं पुराणतन्त्रादि दृष्ट्वात्रेदं विलिख्यते । ललाटच्चिवुकान्त स्यात् श्रीमुखं द्वादशाङ्गुलम् ॥ ३१ ॥

18.32

श्लोक

तत्राननं भाग एकस्तत्रैव चतुरङ्गुलम् । ललाटं नासिका तद्वद्गुल्फमर्द्धाङ्गुलं भवेत् ॥ ३२ ॥

18.33

श्लोक

अर्द्धाङ्गुलोऽधरस्तूद्ध्वोऽपरश्चैकाङ्गुलो मतः । द्व्यङ्गुलं चिबुकं चाथ ग्रीवा स्याच्चतुरङ्गुला ॥ ३३ ॥

18.34

श्लोक

वक्षोभागो भवेदन्यस्तस्मान्नाभ्यवधिः परः । ततोऽपरश्च मेढान्तस्तस्मादुरुविभागकौ ॥ ३४ ॥

18.35

श्लोक

तथा द्विभागिके जङ्घे जानुनी चतुरङ्गुले । पादौ च तत्समावित्थं दैर्घ्यभागा नवोदिताः ॥ ३५ ॥

18.36

श्लोक

कुत्राप्युच्चात् ललाटस्योपरिष्ठात्त्र्यङ्गुलं शिरः । तद्वद्ग्रीवा जानुपावास्तथापि स्युर्नवैव ते ॥ ३६ ॥

18.37

श्लोक

चतुर्दशाङ्गुलो मौलिः क्वचिच्च द्वादशाङ्गुलः ॥ ३७ ॥

18.38

श्लोक

विस्तारेऽष्टाङ्गुलं यस्या ललाटं त्वर्द्धचन्द्रवत् । ध्रुवौ नेत्रान्तपर्यन्ते प्रत्येकं चतुरङ्गुले ॥ ३८ ॥

18.39

श्लोक

तयोर्मध्ये द्व्यङ्गुलं स्यात् क्वचिच्चैकाङ्गुलं मतम् । भ्रूलेखार्द्धाङ्गुला सा च मध्ये स्थूलाग्रतः कृशा ॥ ३९ ॥

18.40

श्लोक

तीक्ष्णा नतधनुस्तुल्या कर्णौ तु चतुरङ्गुलौ । षडङ्गुलौ वा तावुच्चौ विद्धौ चेच्चिबुकावधि ॥ ४० ॥

18.41

श्लोक

विततौ द्व्यङ्गुलौ प्रान्तेऽर्द्धाङ्गुलौ वैककाङ्गलौ । कर्णच्छिद्रन्तु नेत्रान्तसममेकाङ्गुलं भवेत् ॥ ४१ ॥

18.42

श्लोक

कर्णोपरिष्टात् श्रीमरतमुच्चत्वे द्वादशाङ्गुलम् । त्रिगुणः परिधिस्तस्य द्विचत्वारिंषदङ्गुलः ॥ ४२ ॥

18.43

श्लोक

सकेशस्याथ नयने दैर्घ्ये तु द्व्यङ्गुले मते । कुत्रापि त्र्यङ्गुले ते हि विस्तारे चैकलाङ्गुले ॥ ४३ ॥

18.44

श्लोक

तारकात्र तृतीयांशा दृष्टिः स्यात् पञ्चमांशिका । क्वचित् तृतीयभार्गैव दृङ्मध्यं चतुरङ्गुलम् ॥ ४४ ॥

18.45

श्लोक

कुत्रचित् त्र्यङ्गुलं कर्णदृङ्मध्यं चतुरङ्गुलम् । सृक्कणीकर्णयोर्मूलात् षडङ्गुलविदूरतः ॥ ४५ ॥

18.46

श्लोक

हनुके द्व्यङ्गुले स्यातां निर्गते कर्णमूलतः । कपोलौ दर्पणाकारौ हन्वग्रे चतुरङ्गुलौ ॥ ४६ ॥

18.47

श्लोक

नासोच्चैकाङ्गुला मूले द्व्यङ्गुला चाग्रतो भवेत् । एकाङ्गुले पुटे तस्यास्तयोस्त्वर्द्धाङ्गुलं बिलम् ॥ ४७ ॥

18.48

श्लोक

दलञ्च निष्पावसमं सा ह्येवं करवीरवत् । विदारभागस्तृण्डस्य विस्तारे चतुरङ्गुलः ॥ ४८ ॥

18.49

श्लोक

चिबुकं त्र्यङ्गुलं तारे ग्रीवा त्वष्टाङ्गुला भवेत् । परिधिस्त्रिगुणस्तस्याः स्कन्धावुच्चौ षडङ्गुलौ ॥ ४९ ॥

18.50

श्लोक

विस्तारेऽष्टाङ्गुलौ पीनौ वृषस्कन्धोपमौ मतौ । भुजौ सुवृत्तौ तत्रोर्द्ध्वो बाहुः स्यात् षोडशाङ्गुलः ॥ ५० ॥

18.51

श्लोक

अष्टादशाङ्गुलोऽधस्तात् प्रबाहुः क्वचिदन्यथा । बाहोस्तु मध्ये परिधिर्भवेदष्टादशाङ्गुलः ॥ ५१ ॥

18.52

श्लोक

षोडशाङ्गुलकोऽन्यस्य तदग्रे द्वादशाङ्गुलः । दीर्घं पाणितलं सप्ताङ्गुलं पृथु षडङ्गुलम् ॥ ५२ ॥

18.53

श्लोक

क्वापि पञ्चाङ्गुलं निम्नमध्यं सल्लक्षणान्वितम् । पञ्चाङ्गुला मध्यमान्ये सार्द्ध च चतुरङ्गुले ॥ ५३ ॥

18.54

श्लोक

कनिष्ठाङ्गुलिरङ्गुष्ठोऽप्युक्तौ द्वौ चतुरङ्गुलौ । सार्द्धत्र्यङ्गुलकोऽङ्गुष्ठः क्वाप्ययन्तु द्विपर्वकः ॥ ५४ ॥

18.55

श्लोक

अन्यस्त्रिपर्विकाः सर्वाः गोपुच्छाकृतिशोभनाः । समानि सर्वपर्वाणि स्वस्वमानानुरूपतः ॥ ५५ ॥

18.56

श्लोक

क्वचिच्च मध्यमामध्यपर्वद्व्यङ्गुलकं मतम् । अन्यानि सर्वपर्वाणि न्यूनानि यवशः क्रमात् ॥ ५६ ॥

18.57

श्लोक

अङ्गुष्ठस्योर्द्ध्वपर्वस्थः परिधिश्चतुरङ्गुलः । क्रमशः किञ्चिदूनाश्च सर्वे परिधयोऽपरे ॥ ५७ ॥

18.58

श्लोक

कूर्मपृष्ठसमाः स्वस्वपर्वार्द्धप्रतिमा नखाः । चतुर्विंशत्यङ्गुलोऽथ विस्तारो वक्षसो भवेत् ॥ ५८ ॥

18.59

श्लोक

स्तनयोस्तु द्वयोर्मध्ये विस्तारो द्वादशाङ्गुलः । द्व्यङ्लः स्वस्वविस्तारे चुचुकौ यवमात्रकौ ॥ ५९ ॥

18.60

श्लोक

कक्षे षडङ्गुले तद्वद्बाहुमूलस्तनान्तरे । चतुर्दशाङ्गुलं चारु विस्तारे जठरं भवेत् ॥ ६० ॥

18.61

श्लोक

मध्ये चैकाङ्गुला नाभिर्निम्ना च वितता तथा । नाभिमध्ये तु परिधिर्द्विचत्वारिंशदङ्गुला ॥ ६१ ॥

18.62

श्लोक

विस्तारे पुरुषस्योक्ता कटिरष्टादशाङ्गुला । परिणाहो भवेत्तस्याश्चतुःपञ्चाशदङ्गुलः ॥ ६२ ॥

18.63

श्लोक

ऊर्वोर्मूले तु विस्तारो द्वादशाङ्गुलो भवेत् । मध्येऽधिकः क्रमादूनः परिधिस्त्रिगुणोऽखिलः ॥ ६३ ॥

18.64

श्लोक

चतुर्दशाङ्गुलः क्वापि परिणाहस्तु तादृशः । उच्चमेकाङ्गुलं जानुद्वयं त्र्यङ्गुलकं ततम् ॥ ६४ ॥

18.65

श्लोक

तन्मध्ये परिधिस्त्वेकविंशत्यङ्गुलको भवेत् । क्वाप्यष्टाङ्गुलविस्तारः परिधौ त्रिगुणं हि तत् ॥ ६५ ॥

18.66

श्लोक

विस्तारो जङ्घयोः सप्ताङ्गुलो मध्येऽपि तादृशः । परिधिः क्वापि तन्मूले विस्तारस्तु षडङ्गुलः ॥ ६६ ॥

18.67

श्लोक

परिधिस्त्रिगुणोऽग्रे तु चतुर्युक्तदशाङ्गुलः । क्वचित्त्वेकाधिकः सोऽङ्घ्री द्वौ च चतुर्दशाङ्गुलौ ॥ ६७ ॥

18.68

श्लोक

द्वादशाङ्गुलकौ क्वापि विस्तारे तौ षडङ्गुलौ । कूर्मपृष्ठोन्नतौ गुल्फद्वयं द्व्यङ्गुलकं तयोः ॥ ६८ ॥

18.69

श्लोक

दैर्घ्य त्र्यङ्गुलकोऽङ्गुष्ठः क्वचिच्च चतुरङ्गुलः । प्रदेशिनी तु तत्तुल्या षोडशांशोनमध्यमा ॥ ६९ ॥

18.70

श्लोक

अन्ये द्वे चाष्टमांशोने तादृश्यो वाखिलाः क्रमात् । क्वाप्यन्ये द्वे पादहीने उच्चश्चैकाङ्गुलेन सः ॥ ७० ॥

18.71

श्लोक

सपादाङ्गुलतः क्वापि पराः सर्वास्तदर्द्धतः । पञ्चाङ्गुलोऽस्य परिधिर्देशिन्यास्त्र्यङ्गुलो भवेत् ॥ ७१ ॥

18.72

श्लोक

अन्यासां त्वष्टमांशोनः परिधिः स्यात् क्रमेन हि । द्विपर्वको मतोऽङ्गुष्ठः पराः सर्वास्त्रिपर्विकाः ॥ ७२ ॥

18.73

श्लोक

स्वस्वर्दैर्घ्ये तृतीयांशः पर्व तामाममुष्य च । अङ्गुष्ठस्य नखः पादोनाङ्गुलोऽर्द्धाङ्गुलोऽन्यतः ॥ ७३ ॥

18.74

श्लोक

क्रमेण किञ्चिहूनश्च कूर्मपृष्ठसमो हि सः । नितम्बौ करिकुम्भाभौ विस्तारे षोडशाङ्गु लौ ॥ ७४ ॥

18.75

श्लोक

षट्त्रिंशदङ्गुलं स्कन्धात् पृष्ठं निम्नं क्रमेण तत् । विंशत्यङ्गुलपर्यन्तं नातवंशञ्च तन्मतम् ॥ ७५ ॥

18.76

श्लोक

मध्यदेशाच्च विततं मिलितं मत्स्ययुग्मवत् । अन्यच्चालिखितं कार्यं लोकदृष्ट्याऽखिलं बुधैः ॥ ७६ ॥

18.77

श्लोक

एतत्ते लक्षणं प्रोक्तमुद्देशेन मयानघ । अनयैव दिशा कार्यं स्वयमप्यूह्य देशिकैः ॥ ७७ ॥

18.78

श्लोक

लोकेषु लक्षणं दृष्ट्वा हसितादिनिरीक्षणम् । तथा तथैव कर्तव्यमूह्यंया नेन देशिकैः ॥ ७८ ॥

18.79

श्लोक

मनोहराङ्गावयवाः सर्वे कार्याः सुलक्षणाः । केशैरलकजातं च ललाटोपरि शोभनम् ॥ ७९ ॥

18.80

श्लोक

हारनूपुरकेयूरमेखलामौलिभूषितम् । शिष्टं ध्यानोदितं सर्वं मयानुक्तं प्रकल्पयेत् ॥ ८० ॥

18.81

श्लोक

देशानुरूपभूषणवेशालङ्कारमूर्तिभिः कार्या । प्रतिमा लक्षणयुक्ता संविहिता बुद्धिदा भवति ॥ ८१ ॥

18.82

श्लोक

वासुदेवं प्रकुर्वीत चतुर्बाहुं सुरेश्वरम् । दक्षिणोपरि चक्रं तु पद्म चाधः प्रकल्पयेत् ॥ ८२ ॥

18.83

श्लोक

वामोपरि गदा कार्या शङ्खं चाधः सुशोभनम् । एतल्लक्षणसंयुक्ता प्रतिमा शुभदा भवेत् ॥ ८३ ॥

18.84

श्लोक

श्री-पूष्टी चापि कर्तव्ये पद्मवीणाकरान्विते । ऊरुमात्रोच्छ्रितायामे किञ्चिदावर्जिते तथा ॥ ८४ ॥

18.85

श्लोक

नानाविद्याधरौ कार्यौ प्रभामण्डलसंस्थितौ । प्रभां विभूषयेद्यत्नाद्गजव्यालादिभिर्बुधः ॥ ८५ ॥

18.86

श्लोक

पादाभ-पादपीठञ्च तथा शोभासमन्वितम् । देशवेशानुरूपेण कर्तव्यं देशकोत्तमैः ॥ ८६ ॥

18.87

श्लोक

गोपालप्रतिमां कुर्याद्वेणुवादनतत्पराम् । वर्हापीडां घनश्यामां द्विभुजामूर्ध्वसंस्थिताम् ॥ ८७ ॥

18.88

श्लोक

प्रतिमां कृष्णदेवस्य यत्नतः कारयेत् सुधीः । शिल्पिना कृष्णभक्तेन विश्वकर्मोक्तजानता ॥ ८८ ॥

18.89

श्लोक

दशपञ्चाङ्गुला मुख्या मध्यमा द्वावशाङ्गुला । अष्टाङ्गुलाधमा सा तु न्यूनाधिक्यं न कारयेत् ॥ ८९ ॥

18.90

श्लोक

अज्ञानेनापि मोहेन यदि कुर्यान्नराधमः । प्रतिमा विफला तस्य पूजनान्न फलं लभेत् ॥ ९० ॥

18.91

श्लोक

मानाङ्गुलिविहीना च प्रतिमा यत्र तिष्ठति । राजा निपीडयात्येव गृहस्थो नरकं व्रजेत् ॥ ९१ ॥

18.92

श्लोक

मानाङ्गुलेन सा कार्या नान्यथा मुनिसत्तम । काश्मीरी ज्ञानदा प्रोक्ता स्वर्णजापि न मुक्तिदा ॥ ९२ ॥

18.93

श्लोक

सम्पत्तिदा शिलाजा तु राजती बहुभक्तिदा । तेजोदा दारुजा या तु रैत्तिकी शत्रुनाशिनी ॥ ९३ ॥

18.94

श्लोक

ताम्री धनविवृद्धिञ्च करोति बहुसौख्यदा । सदैव मृण्मयी प्रोक्ता प्रतिमा शुभलक्षणा ॥ ९४ ॥

18.95

श्लोक

भोगवा मोक्षदा सा तु प्रतिमा कथिता तव । लेप्या लेख्या द्विधा चैव प्रतिमा परिकीर्तिता ॥ ९५ ॥

18.96

श्लोक

पवनाग्रे नदीतीरे चत्वरे गोष्ठभूमिषु । समुद्रकूलेऽरण्ये वा मानहीना न दूषणी ॥ ९६ ॥

18.97

श्लोक

कृष्णप्रतिकृतिं कुर्याद्दिव्यां केशसुचिह्निताम् । तान्तु संस्थापयेन्मन्त्री गृहे वा गोष्ठमध्यतः ॥ ९७ ॥

18.98

श्लोक

चतुर्दशाङ्गुलं दैर्घ्ये जठरं वितता कटिः । द्वाविंशत्यङ्गुला स्त्रीणां स्तनौ च द्वादशाङ्गुलौ ॥ ९८ ॥

18.99

श्लोक

किञ्चिद्ध्रस्वी भुजौ तासां किञ्चिद्दीर्घं मुख भवेत् । नासाग्रीवाललाटानि सार्द्धद्व्यङ्गुलकानि च ॥ ९९ ॥

18.100

श्लोक

विस्तारे किञ्चिदधिकार्द्धाङ्गुयोऽधरपल्लवः । नेत्रे चतुर्थभागोने परं श्रीवच्च पूर्ववत् ॥ १०० ॥