Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ९

महा-प्रसादः

9.1

श्लोक

स प्रसीदतु चैतन्य-देवो यस्य प्रसादतः । महा-प्रसाद-जातार्हः सद्यः स्याद् अधमोऽप्य् अहम् ॥ १ ॥

9.2

श्लोक

वैष्णवेभ्यः प्रदायाभिवन्द्य मूर्धनि धारयेत् ॥ २ ॥

9.3

श्लोक

शङ्खोदकं हरेर् भक्तिर् निर्माल्यं पादयोर् जलं । चन्दनं धूप-शेषं तु ब्रह्म-हत्यापहारकम् ॥ ३ ॥

9.4

श्लोक

शङ्ख-स्थितं तु यत् तोयं भ्रामितं केशवोपरि । वन्दते शिरसा नित्यं गङ्गा-स्नानेन तस्य किम् ॥ ४ ॥

9.5

श्लोक

न दाहो न क्लमो नार्तिर् नरकाग्नि-भयं न हि । यस्य शङ्खोदकं मूर्ध्नि कृष्ण-दृष्ट्य्-अवलोकितम् ॥ ५ ॥

9.6

श्लोक

न ग्रहा न च कुष्माण्डाः पिशाचोरग-रक्षसाः । दृष्ट्वा शङ्खोदकं मूर्ध्नि विद्रवन्ति दिशो दश ॥ ६ ॥

9.7

श्लोक

कृष्ण-मूर्ध्नि भ्रामितं तु जलं तच्-छङ्ख-संस्थितम् । कृत्वा मूर्धन्य् अवाप्नोति मुक्तिं विष्णोः प्रसादतः ॥ ७ ॥

9.8

श्लोक

भ्रामयित्वा हरेर् मूर्ध्नि मन्दिरं शङ्ख-वारिणा । प्रोक्षयेद् वैष्णवो यस् तु नाशुभं तद्-गृहे भवेत् ॥ ८ ॥

9.9

श्लोक

नीराजन-जलं यत्र यत्र पादोदकं हरेः । तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः ॥ ९ ॥

9.10

श्लोक

नीराजन-जलं विष्णोर् यस्य गात्राणि संस्पृशेत् । यज्ञावभृत-लक्षणं स्नान-जं लभते फलम् ॥ १० ॥

9.11

श्लोक

पादोदकेन देवस्य हत्यायुत-समन्वितः । शुध्यते नात्र सन्देहस् तथा शङ्खोदकेन हि ॥ ११ ॥

9.12

श्लोक

विशेषतश् चक्र-शिला-विनिर्मितम् ॥ १२ ॥

9.13

श्लोक

कृष्ण-पदब्ज-तीर्थं च वैष्णवेभ्यः प्रदाय हि । स्वयं भक्त्य्-अभिवन्द्यादौ पीत्वा शिरसि धारयेत् ॥ १३ ॥

9.14

श्लोक

तस्य मन्त्र-विधिश् च प्राक् प्रातः-स्नान-प्रसङ्गतः । लिखितो ह्य् अधुना पाने विशेषो लिख्यते कियान् ॥ १४ ॥

9.15

श्लोक

अपि पाप्मानम् अरातिं तरेम ॥ १५ ॥

9.16

श्लोक

लोकस्य द्वारम् आर्चयत् पवित्रं ज्योतिष्मत् विभ्राजमानं महस् तद् अमृतस्य धारा बहुधा दोहमानं चरणं लोके सुधितं दधतु ॥ १६ ॥

9.17

श्लोक

इमं मन्त्रं समुच्चार्य सर्व-दुष्ट-ग्रहापहम् । प्राश्नीयात् प्रोक्षयेद् देहं पुत्र-मित्र-परिग्रहम् ॥ १७ ॥

9.18

श्लोक

विष्णोः पादोदकं पीतं कोटि-हत्याघ-नाशनम् । तद् एवष्ट-गुनं पापं भुमौ बिन्दु-निपतनत् ॥ १८ ॥

9.19

श्लोक

हरेः स्नानावशेषस् तु जलं यस्योदरे स्थितम् । अम्बरीष प्रणम्योच्चैः पाद-पांशुः प्रगृह्यताम् ॥ १९ ॥

9.20

श्लोक

ये पिबन्ति नरा नित्यं शालग्राम-शिला-जलम् । पञ्च-गव्य-सहस्रैस् तु सेवितैः किं प्रयोजनम् ॥ २० ॥

9.21

श्लोक

कोटि-तीर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् । नित्यं यदि पिबेत् पुण्यं शालग्राम-शिला-जलम् ॥ २१ ॥

9.22

श्लोक

शालग्राम-शिला-तोयं यः पिबेद् बिन्दुना समम् । मातुः स्तन्यं पुनर् नैव न पिबेद् भक्ति-भाङ् नरः ॥ २२ ॥

9.23

श्लोक

दहन्ति नरकान् सर्वान् गर्भ-वासं च दारुणम् । पीतं यैस् तु सदा नित्यं शालग्राम-शिला-जलम् ॥ २३ ॥

9.24

श्लोक

शालग्राम-शिला-तोयं बिन्दु-मात्रं तु यः पिबेत् । सर्व-पापैः प्रमुच्येत भक्ति-मार्गे कृतोद्यमः ॥ २४ ॥

9.25

श्लोक

पादोदकस्य माहात्म्यं भगीरथ वदामि ते । पावनं सर्व-तीर्थेभ्यो हत्या-कोटि-विनाशकम् ॥ २५ ॥

9.26

श्लोक

धृते शिरसि पीते च सर्वास् तुस्यन्ति देवताः । प्रायश्चित्तं तु पापानां कलौ पादोदकं हरेः ॥ २६ ॥

9.27

श्लोक

त्रिभिः सारस्वतं तोयं सप्ताहेन तु नार्मदम् । सद्यः पुनाति गाङ्गेयं दर्शनाद् एव यामुनम् ॥ २७ ॥

9.28

श्लोक

पुनन्त्य् एतानि तोयानि स्नान-दर्शन-कीर्तनैः । पुनाति स्मरणाद् एव कलौ पादोदकं हरेः ॥ २८ ॥

9.29

श्लोक

अर्चितैः कोटिभिर् लिङ्गैर् नित्यं यत् क्रियते फलम् । तत् फलं शत-सहस्रं पिते पादोदके हरेः ॥ २९ ॥

9.30

श्लोक

अशुचिर् वा दुराचारो महा-पातक-संयुतः । स्पृष्ट्वा पादोदकं विष्णोः सदा शुध्यति मानवः ॥ ३० ॥

9.31

श्लोक

पाप-कोटि-युतो यस् तु मृत्यु-काले शिरो-मुखे । देहे पादोदकं तस्य न प्रयाति यमालयम् ॥ ३१ ॥

9.32

श्लोक

न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् । ते ऽपि पादोदकं पीत्वा प्रयन्ति परमां गतिम् ॥ ३२ ॥

9.33

श्लोक

कार्त्तिके कार्त्तिकी-योगे किं करिष्यति पुष्करे । नित्यं च पुष्करं तस्य यस्य पादोदकं हरेः ॥ ३३ ॥

9.34

श्लोक

विशाखा-ऋक्ष-संयुक्त वैशाखी हि करिष्यति । पिण्डारके महा-तीर्थे उज्जायिन्यां भगीरथ ॥ ३४ ॥

9.35

श्लोक

माघ-मासे प्रयागे तु स्नानं किं करिष्यति । प्रयागं सततं तस्य यस्य पादोदकं हरेः ॥ ३५ ॥

9.36

श्लोक

प्रबोध-वासरे प्राप्ते मथुरायां च तस्य किम् । नित्यं च यामुनं स्नानं यस्य पादोदकं हरेः ॥ ३६ ॥

9.37

श्लोक

कस्याम् उत्तर-वाहिन्यां गङ्गायां तु मृतस्य किम् । यस्य पादोदकं विष्णोर् मुखे चैवावतिष्ठते ॥ ३७ ॥

9.38

श्लोक

हित्वा पादोदकं विष्णोर् योऽन्य-तीर्थानि गच्छति । अनर्घं रत्नम् उत्सृज्य लोष्ट्रं वाञ्छति दुर्मतिः ॥ ३८ ॥

9.39

श्लोक

कुरुक्षेत्र-समो देशो बिन्दुः पादोदकं मतः ॥ ३९ ॥

9.40

श्लोक

पतेद् यत्राक्षयं पुण्यं नित्यं भवति तद्-गृहे । गया-पिण्ड-समं पुण्यं पुत्राणाम् अपि जायते ॥ ४० ॥

9.41

श्लोक

पादोदकेन देवस्य ये कुर्युः पितृ-तर्पणम् । नासुराणां भयं तस्य प्रेत-जन्यं च राक्षसम् ॥ ४१ ॥

9.42

श्लोक

न रोगस्य भयं चैव नास्ति विघ्न-कृतं भयम् । न दुष्टा नैव घोराक्षाः स्वापदोत्थ-भयं न हि ॥ ४२ ॥

9.43

श्लोक

ग्रहाः पीदां न कुर्वन्ति चौरा नश्यन्ति दारुणाः । किं तस्य तीर्थ-गमने देवर्षीणां च दर्शने ॥ ४३ ॥

9.44

श्लोक

यस्य पादोदकं मूर्ध्नि शालग्राम-शिलोद्भवम् । प्रीतो भवति मार्तण्डः प्रीतो भवति केशवः । ब्रह्मा भवति सु-प्रीतः प्रीतो भवति सङ्करः ॥ ४४ ॥

9.45

श्लोक

पादोदकस्य माहात्म्यं यः पठेत् केशवग्रतः । स याति परमं स्थानं यत्र देवो जनर्दनः ॥ ४५ ॥

9.46

श्लोक

प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वा त्व् अघ-मर्षणम् । सोऽपि पादोदकं पीत्वा शुद्धिं प्राप्नोति तत्-क्षणात् ॥ ४६ ॥

9.47

श्लोक

अशौचं नैव विद्येत सूतके मृतके ऽपि च । येषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते ॥ ४७ ॥

9.48

श्लोक

अन्त-काले ऽपि यस्येह दीयते पादयोर् जलम् । सोऽपि सद्-गतिम् आप्नोति सद्-आचारैर् बहिष्कृतः ॥ ४८ ॥

9.49

श्लोक

अपेयं पिबते यस् तु भुङ्क्ते यश् चाप्य् अभोजनम् । अगम्यागमना ये वै पापाचाराश् च ये नराः । ते ऽपि पूज्या भवन्त्य् आशु सद्यः पादाम्बु-सेवनात् ॥ ४९ ॥

9.50

श्लोक

अपवित्रं यद्-अन्नं स्यात् पानीयं चापि पापिनाम् । भुक्त्वा पीत्वा विशुद्धः स्यात् पीत्वा पादोदकं हरेः ॥ ५० ॥

9.51

श्लोक

तप्त-कृच्छ्रात् पञ्च-गव्यान् महा-कृच्छ्राद् विशिष्यते । चान्द्रायणात् पार-कृच्छ्रात् पराकाद् अपि सुव्रत । काय-शुद्धिर् भवत्य् आशु पीत्वा पादोदकं हरेः ॥ ५१ ॥

9.52

श्लोक

अगुरुं कुङ्कुमं चापि कर्पूरं चानुलेपनम् । विष्णु-पादाम्बु-संलग्नं तद् वै पावन-पावनम् ॥ ५२ ॥

9.53

श्लोक

दृष्टि-पूतं तु यत् तोयं विष्णुना प्रभविष्णुना । तद् वै पाप-हरं पुत्र किं पुनः पादयोर् जलम् ॥ ५३ ॥

9.54

श्लोक

एतद्-अर्थम् अहं पुत्र शिरसा विष्णु-तत्-परः । धारायामि पिबाम्य् अद्य माहात्म्यं विदितं मम ॥ ५४ ॥

9.55

श्लोक

प्रियस् त्वम् अग्रजः पुत्रस् तद्-अर्थं गदितं मया । रहस्यं मे त्व् अनर्हस्य न वक्तव्यं कदाचन ॥ ५५ ॥

9.56

श्लोक

धारयस्व सदा मूर्ध्नि प्राशनं कुरु नित्यशः । जन्म-मृत्यु-जरा-दुःखैर् मोक्षं यास्यसि पुत्रक ॥ ५६ ॥

9.57

श्लोक

सद्यः फल-प्रदं पुण्यं सर्व-पाप-विनाशनम् । सर्व-मङ्गल-मङ्गल्यं सर्व-दुःख-विनाशनम् ॥ ५७ ॥

9.58

श्लोक

दुःस्वप्न-नाशनं पुण्यं विष्णु-पादोदकं शुभम् । सर्वोपद्रव-हन्तारं सर्व-व्याधि-विनाशनम् ॥ ५८ ॥

9.59

श्लोक

सर्वोत्पात-प्रशमनं सर्व-पाप-निवारणम् । सर्व-कल्याण-सुखदं सर्व-काम-फल-प्रदम् ॥ ५९ ॥

9.60

श्लोक

सर्व-सिद्धि-प्रदं धन्यं सर्व-धर्म-विवर्धनम् । सर्व-शत्रु-प्रशमनं सर्व-भोग-प्रदायकम् ॥ ६० ॥

9.61

श्लोक

सर्व-तीर्थस्य फल-दम् मूर्ध्नि पादाम्बु-धारणम् । प्रयागस्य प्रभासस्य पुष्करस्य च सेवने । पृथूदकस्य तीर्थस्य आचान्तो लभते फलम् ॥ ६१ ॥

9.62

श्लोक

चक्र-तीर्थं फलं यादृक् तादृण् पादाम्बु-धारणात् । सरस्वत्यां गयायां च गत्वा यत् प्राप्नुयात् फलम् । तत् फलं लभते श्रेष्ठं मूर्ध्नि पादाम्बु-धारणात् ॥ ६२ ॥

9.63

श्लोक

पादोदकस्य माहात्म्यं देवो जानाति शङ्करः । विष्णु-पाद-च्युता गङ्गा शिरसा येन धारिता । स्थानं नैवास्ति पापस्य देहिनां देह-मध्यतः ॥ ६३ ॥

9.64

श्लोक

स-बाह्याभ्यन्तरं यस्य व्याप्तं पादोदकेन वै । पादोदं विष्णु-नैवेद्यम् उदरे यस्य तिष्ठति ॥ ६४ ॥

9.65

श्लोक

नाश्रयं लभते पापं स्वयम् एव विनश्यति । महा-पाप-ग्रह-ग्रस्तो व्याप्तो रोग-शतैर् यदि ॥ ६५ ॥

9.66

श्लोक

हरेः पादोदकं पीत्वा मुच्यते नात्र संसयः । शिरसा तिष्ठते येषां नित्यं पादोदकं हरेः ॥ ६६ ॥

9.67

श्लोक

किं करिष्यति ते लोके तीर्थ-कोटि-मनोरथैः । अयम् एव परो धर्म इदम् एव परं तपः । इदम् एव परं तीर्थं विष्णु-पादाम्बु यत् पिबेत् ॥ ६७ ॥

9.68

श्लोक

विलयं यान्ति पापानि पीते पादोदके हरेः । किं पुनर् विष्णु-पादोदं शालग्राम-शिला-च्युतम् ॥ ६८ ॥

9.69

श्लोक

विशेषेन हरेत् पापं ब्रह्म-हत्यादिकं प्रिये । पीते पादोदके विष्णोर् यदि प्राणैर् विमुच्यते । हत्वा यम-भटान् सर्वान् वैष्णवं लोकम् आप्नुयात् ॥ ६९ ॥

9.70

श्लोक

छिन्नस् तेन महा-सेन गर्भावासः सु-दारुणः । पीतं येन सदा विष्णोः शालग्राम-शिला-जलम् ॥ ७० ॥

9.71

श्लोक

ये पिबन्ति नरा नित्यं शालग्राम-शिला-जलम् । पञ्च-गव्य-सहस्रैस् तु प्राशितैः किं प्रयोजनम् ॥ ७१ ॥

9.72

श्लोक

प्रायश्चित्ते समुत्पन्ने किं दानैः किम् उपोषणैः । चान्द्रायणैश् च तीर्थैश् च पीत्वा पादोदकं शुचि ॥ ७२ ॥

9.73

श्लोक

हरि-पादोदकं यस् तु क्षण-मात्रं च धारयेत् । स स्नातः सर्व-तीर्थेसु विष्णोः प्रियतरस् तथा ॥ ७३ ॥

9.74

श्लोक

अकाल-मृत्यु-शमनं सर्व-व्याधि-विनाशनम् । सर्व-दुःखोपशमनं हरि-पादोदकं शुभम् ॥ ७४ ॥

9.75

श्लोक

हरि-पादोदक-स्पर्शाल् लुब्धको वीत-कल्मषः । दिव्यं विमानम् आरुह्य मुनिम् एनम् अथाब्रवीत् ॥ ७५ ॥

9.76

श्लोक

हरि-पादोदकं यस्मान् मयि त्वं क्षिप्तवान् मुने । प्रापितोऽस्मि त्वया तस्मात् तद् विष्णोः परमं पदम् ॥ ७६ ॥

9.77

श्लोक

पादं पूर्वं किल स्पृष्ट्वा गङ्गाभूत् स्मर्तृ-मोक्ष-दा । विष्णोः सद्यस् तु सत्-सङ्गि पादाम्बु कथम् ईड्यते ॥ ७७ ॥

9.78

श्लोक

ताप-त्रयानलो योऽसौ न शाम्येत् सकलाब्धिभिः । द्रुतं शाम्यति सोऽल्पेन श्रीमद्-विष्णु-पदाम्बुना ॥ ७८ ॥

9.79

श्लोक

युद्धास्त्राभेद्य-कवचं भवाग्नि-स्तम्भनौषधम् । सर्वाङ्गैः सर्वथा धार्यं पाद्यं शुचि-पदः सदा ॥ ७९ ॥

9.80

श्लोक

अमृतत्वावहं नित्यं विष्णु-पादाम्बु यः पिबेत् । स पिबत्य् अमृतं नित्यं मासे मासे तु देवताः ॥ ८० ॥

9.81

श्लोक

माहात्म्यम् इयद् इत्य् अस्य वक्ता योऽपि स निर्भयः । नन्व् अनर्घ-मणेर् मूल्यं कल्पयन्न् अघम् अश्नुते ॥ ८१ ॥

9.82

श्लोक

स ब्रह्मचारी स व्रती आश्रमी च सदा-शुचिः । विष्णु-पादोदकं यस्य मुखे शिरसि विग्रहे ॥ ८२ ॥

9.83

श्लोक

जन्म-प्रभृति-पापानां प्रायश्चित्तं यदीच्छति । शालग्राम-शिला-वरि पाप-हारि निषेव्यताम् ॥ ८३ ॥

9.84

श्लोक

पीठ-प्रणालाद् उदकं पृथग् आदाय पुत्रक । सिञ्चयेन् मूर्ध्नि भक्तानां सर्व-तीर्थ-मयं हि तत् ॥ ८४ ॥

9.85

श्लोक

पादोदकस्य माहात्म्यं विख्यातं सर्व-शास्त्रतः । लिखितुं शक्नुयत् को हि सिन्धूर्मीन् गणयन्न् अपि ॥ ८५ ॥

9.86

श्लोक

विशेषतश् च पादोदं तुलसी-दल-संयुतम् । शङ्खे कृत्वा वैष्णवेभ्यो दत्त्वा प्राग्वत् पिबेत् स्वयम् ॥ ८६ ॥

9.87

श्लोक

कृत्वा पादोदकं शङ्खे वैष्णवानां महात्मनाम् । यो दद्यात् तुलसी-मिश्रं चान्द्रायण-शतं लभेत् ॥ ८७ ॥

9.88

श्लोक

गृहीत्वा कृष्ण-पादाम्बु शङ्खे कृत्वा तु वैष्णवः । यो वहेत् शिरसा नित्यं स मुनिस् तपसोत्तमः ॥ ८८ ॥

9.89

श्लोक

शालग्राम-शिला-तोयं यदि शङ्ख-भृतं पिबेत् । हत्या-कोटि-विनाशं च कुरुते नात्र संसयः ॥ ८९ ॥

9.90

श्लोक

शालग्राम-शिला-तोयं तुलसी-दल-वासितम् । ये पिबन्ति पुनस् तेषां स्तन्य-पानं न विद्यते ॥ ९० ॥

9.91

श्लोक

श्री-विष्णोर् वैष्णवानां च पावनं चरणोदकम् । सर्व-तीर्थ-मयं पीत्वा कुर्याद् आचमनं न हि ॥ ९१ ॥

9.92

श्लोक

विष्णोः पादोदकं पीत्वा पश्चाद् अशुचि-शङ्कया । आचमति च यो मोहाद् ब्रह्म-हा स निगद्यते ॥ ९२ ॥

9.93

श्लोक

भगवान् पवित्रं भगवत्-पादौ पवित्रं, भगवत्-पादोदकं पवित्रं, न तत्-पान आचमनीयम् । यथा हि सोम इति ॥ ९३ ॥

9.94

श्लोक

विष्णु-पादोदकं पीत्वा भक्त-पादोदकं तथा । य आचमति संमोहाद् ब्रह्म-हा स निगद्यते ॥ ९४ ॥

9.95

श्लोक

ततः शुद्धं पयः-पूर्णं गन्ध-पुष्पाक्षतान्वितम् । अधरोपरि सन्न्यसेच् छङ्खं भगवद्-अग्रतः ॥ ९५ ॥

9.96

श्लोक

पुरतो वासुदेवस्य स-पुष्पं स-जलाक्षतम् । शङ्खम् अभ्यर्चितं पश्येत् तस्य लक्ष्मीर् न दुर्लभा ॥ ९६ ॥

9.97

श्लोक

स-पुष्पं वारि-जं यस्य दुर्वाक्षत-समन्वितम् । पुरतो वासुदेवस्य तस्य श्रीः सर्वतो-मुखी ॥ ९७ ॥

9.98

श्लोक

भूत्वाथ भक्तिमान् श्रीमत्-तुलस्या कानने प्रभुम् । सम्पूज्याभ्यर्चयेत् तं च श्री-कृष्ण-चरण-प्रियम् ॥ ९८ ॥

9.99

श्लोक

प्राग् दत्त्वार्घ्यं ततोऽव्यर्च्य गन्ध-पुष्पाक्षतादिना । स्तुत्वा भगवतीं तां च प्रणमेत् प्रार्ह्त्य दण्डवत् ॥ ९९ ॥

9.100

श्लोक

श्रियः श्रिये श्रियावासे नित्यं श्रीधारा-सत्कृते । भक्त्या दत्तं मया देवि अर्घ्यं गृह्ण नमोऽस्तु ते ॥ १०० ॥