Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास २०

प्रासादिकः

20.1

श्लोक

श्री-श्री-चैतन्य-चन्द्राय नमः । कथञ्चन स्मृते यस्मिन् दुष्करं सुकरं भवेत् । विस्मृते विपरीतं स्यात् श्री-चैतन्यं नमामि तम् ॥ १ ॥

20.2

श्लोक

श्री-मूर्तेः स्थापनायैकं वेश्मावश्यम् अपेक्ष्यते । अतो मन्दिर-निर्माण-विधिर् अत्र विलिख्यते ॥ २ ॥

20.3

श्लोक

भवेद् बहु-विधं तच्च वेश्म तत्र स्व-शक्तितः । शास्त्रानुसारतः कुर्याद् एकं वासोचितं प्रभोः ॥ ३ ॥

20.4

श्लोक

यः कारयेन् मन्दिरं माधवस्य, पुण्यान् लोकान् स जयेच् छाश्वतान् वै । दत्त्वारामान् पुष्प-फलाभिपन्नान्, भोगान् भुङ्क्ते कामतः स्वर्ग-संस्थः ॥ ४ ॥

20.5

श्लोक

पितामहस्य पुरतः कुलान्य् अष्टौ च यानि तु । तारयेद् आत्मना सार्धं विष्णोर् मन्दिर-कारकः ॥ ५ ॥

20.6

श्लोक

अपि नः स्व-कुले कश्चिद् विष्णु-भक्तो भविष्यति । हरि-मन्दिर-कर्ता यो भविष्यति शुचिव्रतः ॥ ६ ॥

20.7

श्लोक

ये ध्यायन्ति सदा बुद्ध्या करिष्यामो हरेर् गृहम् । तेषां विलीयते पापं पूर्व-जन्म-शतोद्भवम् ॥ ७ ॥

20.8

श्लोक

समतीतं भविष्यं च कुलानाम् अयुतं नरः । विष्णु-लोकं नयत्य् आशु कारयित्वा हरेर् गृहम् ॥ ८ ॥

20.9

श्लोक

लक्षेणाथ सहस्रेण शतेनार्धेन चा हरेः । तुल्यं फलं समाख्यातम् इहेश्वर-दरिद्रयोः ॥ ९ ॥

20.10

श्लोक

कृत्वा वास-गृहं तस्य देवस्य परमेष्ठिनः । राजसूयाश्वमेधानां फलेन सह युज्यते ॥ १० ॥

20.11

श्लोक

सुर-वेश्मनि यावन्तो द्विजेन्द्राः परमाणवः । तावद् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ ११ ॥

20.12

श्लोक

प्रासादे मृन्मये पुण्यं मयैतत् कथितं द्विजाः । तस्माद् दारुमये पुण्यं कृते शतगुणं भवेत् ॥ १२ ॥

20.13

श्लोक

ततो दश-गुणं पुण्यं तथा शैलमये भवेत् । ततो दश-गुणं लौहे ताने शत-गुणं ततः ॥ १३ ॥

20.14

श्लोक

सहस्र-गुणितं रौप्ये तस्मात् फलम् उपाश्नुते । तत्तः शत-सहस्र वै सौवर्णे द्विज-सत्तमाः । अनन्त-फलम् आप्नोति रत्न-चित्रे मनोहरे ॥ १४ ॥

20.15

श्लोक

आरम्भे कृष्ण-धिष्ण्यस्य सप्त-जन्मनि यत् कृतम् । पापं विलयमाप्नोति नरकाद् उद्धरेत् पितॄन् ॥ १५ ॥

20.16

श्लोक

प्रासाद-पादे कृष्णस्य यावत् तिष्ठन्ति रेणुकाः । तावद् वर्ष-सहस्राणि वसते विष्णु-सद्मनि ॥ १६ ॥

20.17

श्लोक

प्रासादे कृष्णदेवस्य चित्र-कर्म करोति यः । वसते विष्णु-लोके तु यावत् तिष्ठन्ति सागराः ॥ १७ ॥

20.18

श्लोक

यः कुर्याच्छोभनं वेश्म नरसिंहस्य भक्तिमान् । सर्व-पाप-विनिर्मक्तो विष्णु लोकम् अवाप्नुयात् ॥ १८ ॥

20.19

श्लोक

देवागारं करोमीति मनसा यस्तु चिन्तयेत् । तस्य काय-गतं पापं तद्-अह्ना विप्र नश्यति । कृते तु किं पुनस् तस्य प्रासादे विधिनैव तु ॥ १९ ॥

20.20

श्लोक

अष्टेष्टकासमायुक्तं यः कुर्याद् वैष्णवं गृहम् । न तस्य फल-सम्पत्तिर् वक्तुं शक्येत केनचित् । अनेनैवानुमेयं तु फलं प्रासाद-विस्तरात् ॥ २० ॥

20.21

श्लोक

मरणं च व्रजेन् मर्त्यो यः कृत्वा प्रथमेष्टकाम् । स समाप्तस्य यज्ञस्य फलम् आप्नोत्य् असंशयम् ॥ २१ ॥

20.22

श्लोक

बाल्ये सङ्क्रीडमाना ये पांशुभिर् भवनं हरेः । वासुदेवस्य कुर्वन्ति तेऽपि तल्-लोक-गामिनः ॥ २२ ॥

20.23

श्लोक

लेपनाच्छादनं चैव यः करोति पुनर् नवम् । देवस्यायतनं कृत्वा न भवेत् कीटजं भयम् ॥ २३ ॥

20.24

श्लोक

चैत्रे व्याधिम् अवाप्नोति यो गृहं कारयेन् नरः । वैशाखे धन-रत्नानि ज्येष्ठे मृत्युं तथैव च ॥ २४ ॥

20.25

श्लोक

आषाढे भृत्य-रत्नानि पशु-वर्गम् अवाप्नुयात् । श्रावणे मित्र-लाभं तु हानि भाद्र-पदे तथा ॥ २५ ॥

20.26

श्लोक

पत्नी-नाशं चाश्व-युजे कार्तिके धन-धान्यकम् । मार्गशीर्षे तथा भक्तं पौषे तस्करजं भयम् ॥ २६ ॥

20.27

श्लोक

लाभन्तु बहुशो विद्यादीनां माघे विनिर्दिशेत् । काञ्चनं फाल्गुणे पुत्रानिति काल-बलं स्मृतम् ॥ २७ ॥

20.28

श्लोक

अश्विनी रोहिणी मूलम् उत्तरात्रयम् ऐन्दवम् । स्वाती हस्तोऽनुराधा च गृहारम्भे प्रशस्यते ॥ २८ ॥

20.29

श्लोक

आदित्य-भौम-वर्जं च सर्वे वाराः शुभावहाः । वज्र-व्याघात-शूलानि व्यतीपाताति-गण्डके । विष्कुम्भ-गण्ड-परिघान् वर्ज्य योगेषु कारयेत् ॥ २९ ॥

20.30

श्लोक

श्वेते मैत्रे च माहेन्द्रे गान्धर्वाभिजिद्रौहिणे । तथा वैराज-सावित्रे मुहूर्ते गृहम् आरभेत् ॥ ३० ॥

20.31

श्लोक

चन्द्रादित्य-बलं लब्ध्वा लग्नं शुभ-निरीक्षितम् । स्तम्भोच्छ्रयादि कर्तव्यम् अन्यत्र परिवर्जयेत् ॥ ३१ ॥

20.32

श्लोक

वास्तु-कर्म न चारभ्यं वर्षाकाले विजानता । कृष्ण-पक्षे त्रिभागान्ते शुक्लस्यादौ द्वितीयके । चतुर्थी नवमी वर्ज्या तिथिश्चापि चतुर्दशी ॥ ३२ ॥

20.33

श्लोक

भौमस्य तु दिनं वर्ज्यं करणं विष्टि-संज्ञितम् । क्षित्य्-अन्तरीक्ष-दिव्योत्थैर् उत्पातैर् भय-पीडितम् । उपसृष्टं ग्रहैर् भंच व्यतीपात-हतं तथा ॥ ३३ ॥

20.34

श्लोक

चन्द्रतारानुकूले च कार्यं कर्म विजानता । ध्रुवाणि चात्र शस्तानि नैरृतं शक्र-दैवतम् । पुष्यं पौष्णं च सावित्र्यं वायव्यं वैष्णवं तथा ॥ ३४ ॥

20.35

श्लोक

स्थिरांशे च स्थिरे लग्ने कर्तुश् चोपचयात्मके । केन्द्र सौम्य-ग्रहो यस्य त्रिकोणे तु सुरोत्तमः । पापाश्चोपचय-स्थाने तदा कार्यं समारभेत् ॥ ३५ ॥

20.36

श्लोक

प्रासाद-रचना-स्थानं प्रतिष्ठा-स्थान-निर्णयात् । व्यक्तम् एवाभवत् कश्चिद् विशेषोऽन्योऽत्र लिख्यते ॥ ३६ ॥

20.37

श्लोक

पूर्व देव-कुलं पीड्य प्रासादं स्वल्पकं तथा । समं वाप्यधिकं वापि न कर्तव्यं विजानता ॥ ३७ ॥

20.38

श्लोक

उभयोर् द्विगुणां सीमां त्यक्त्वा चोच्छ्राय-सम्मिताम् । प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः ॥ ३८ ॥

20.39

श्लोक

देवो विष्णुस् तथा रुद्रो ब्रह्माद्याः सुरसत्तमाः । प्रतिष्ठाप्याः शुभे स्थाने अन्यथा ते भयावहाः ॥ ३९ ॥

20.40

श्लोक

गर्तादि-लक्षणा धात्री गन्धा-स्वादेन या भवेत् । वर्णेन च सुर-श्रेष्ठ सा मही सर्व-कामदा ॥ ४० ॥

20.41

श्लोक

पूर्वं भूमिं परीक्षेत पश्चाद् वास्तुं प्रकल्पयेत् । श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्वशः । विप्रादेः शस्यते भूमिर् अतः कार्य परीक्षणम् ॥ ४१ ॥

20.42

श्लोक

विप्राणां मधुरास्वादा कषाया क्षत्रियस्य च । कषाय-कटुता तद्वद् वैश्य-शूद्रेषु शस्यते ॥ ४२ ॥

20.43

श्लोक

अरत्निमात्रे वै गर्ते स्वनुलिप्ते च सर्वतः । घृतमामशरावस्थं कृत्वा वर्ति-चतुष्टयम् । ज्वालयेद् भू-परीक्षार्थं पूर्णं तत् सर्व-दिङ्-मुखम् ॥ ४३ ॥

20.44

श्लोक

दीप्तां पूर्वादि गृह्णीयाद् वर्णानाम् अनुपूर्वशः । वास्तुः सामूहिको नाम दीप्यते सर्वतस् तु यः । शुभदः सर्व-वर्णानां प्रासादेषु गृहेषु च ॥ ४४ ॥

20.45

श्लोक

अरत्निमात्रकं गर्तं परीक्ष्यं खात-पूरणे । अधिके श्रियम् आप्नोति न्यूने हानि समे समम् ॥ ४५ ॥

20.46

श्लोक

काल-कृष्टेऽथवा देशे सर्व-बीजानि रोपयेत् । त्रिपञ्च सप्त-रात्रेण यत्र रोहन्ति तान्यपि । ज्येष्ठोत्तम-कनिष्ठा भूर् वर्जनीयेतरा सदा ॥ ४६ ॥

20.47

श्लोक

सुरभीणां रतिर् यत्र सवत्सानां वृषैः सह । सुन्दरीणां रतिर् यत्र पुरुषैः सह सत्तम ॥ ४७ ॥

20.48

श्लोक

राज्ञां पूर्वं गृहं यस्याम् अग्नीनां यज्वनां तथा । काश्मीर-चन्दनामोदा कर्पूरागुरु-गन्धिनी ॥ ४८ ॥

20.49

श्लोक

कमलोत्पल-गन्धा च जाति-चम्पक-गन्धिनी । पाटला-मल्लिका-गन्धा नागकेशर-गन्धिनी ॥ ४९ ॥

20.50

श्लोक

दधिक्षीराज्य-गन्धा च मदिरासव-गन्धिनी । सुगन्धितीहि-गन्धा च शुभ-द्रव्यस्वना च या । सर्वेषां वर्णिनां भूमिः सर्व-साधारणी मता ॥ ५० ॥

20.51

श्लोक

दुर्गन्धा दुःस्वना या च नानावर्णा च दुर्भगा । वृत्तार्ध-चन्द्र-सदृशी विस्ताराद् विगुणायता ॥ ५१ ॥

20.52

श्लोक

विवर्णा वर्ण-हीना च वक्रा सूचि-मुखा तथा । द्विवर्णा सूर्प-सदृशी गोमुखा च त्रिकोणिका ॥ ५२ ॥

20.53

श्लोक

षडस्रा शूल-सदृशी दन्ति-पृष्ठोपमा च या । सरीसृपसमा या च दिङ्-मूढा शकटाकृतिः । एवम् प्रकारा या भूमिर् वर्क्या यत्नेन देशिकैः ॥ ५३ ॥

20.54

श्लोक

प्रासादस्य विशेषेण प्रोक्ता भूमिश् चतुर्विधा । सुपद्मा भद्रिका पूर्णा धूम्रा वेगिन्यथापि सा ॥ ५४ ॥

20.55

श्लोक

तिलकैर् नारिकेलैश् च वर्हिः काशैश्च शोभिता । पद्मेन्दीवर-संयुक्ता सा सुपद्मेति विश्रुता ॥ ५५ ॥

20.56

श्लोक

नदी-समुद्रायतन-तीर्थ-पर्यन्त-शोभिता । पुष्प-वृक्ष-समाकीर्णा क्षीर-वृक्षोप-शोभिता ॥ ५६ ॥

20.57

श्लोक

वनोद्यान-लता-गुल्म-फुल्ल-स्तम्ब-समावृता । यज्ञीय-वृक्ष-सुक्षेत्र-युक्ता भद्रेति कीर्तिता ॥ ५७ ॥

20.58

श्लोक

बकुलाशोक-बहुला तथा प्लक्षाम्र-लोहितैः । माधवी-वेष्टिता या च मुद्गनिष्पावकोद्रवैः ॥ ५८ ॥

20.59

श्लोक

शूकधान्यैश् च पुन्नागैर् गिरि-पार्श्व-गता च या । तोयं च स्वल्पकं यस्यां सा पूर्णा परिकीर्तिता ॥ ५९ ॥

20.60

श्लोक

बिल्वार्कस्नुहि-पीलूनां वनैर् या परितो वृता । सशर्करा च कठिना युक्ता कण्टकिभिर् द्रुमैः ॥ ६० ॥

20.61

श्लोक

गृध्र-गोमायुकाकानां श्येनानां या कुलाकुलैः । धूम्रेति कीर्तिता सा तु तां यत्नात् परिवर्जयेत् ॥ ६१ ॥

20.62

श्लोक

ततो भूमिं परीक्षेत पूर्वोदक् प्रवणां शुभाम् । असङ्कटां तथाच्छन्नाम् अल्पतोयां परिप्लुताम् ॥ ६२ ॥

20.63

श्लोक

सम्पूर्यमाणे खाते तु तथाधिक-मृदं लभेत् । कुसुम्भ-सदृशं वर्णं यस्यां न म्लानिमृच्छति ॥ ६३ ॥

20.64

श्लोक

न निर्वाति तथा दीपस् तोयं शीघ्रं न जीर्यते । श्वेतारुणा पीत-कृष्णा विप्रादीनां प्रशस्यते ॥ ६४ ॥

20.65

श्लोक

आज्यासृग्-गन्धमद्यानां तुल्य-गन्धा तु या भवेत् । मधुरा च कषाया च अम्ला च कटुका च या ॥ ६५ ॥

20.66

श्लोक

कुशैः शरैस् तथा काशैर् दूर्वाभिर् या च संवृता । तस्यां पुण्येऽथ नक्षत्रे कुर्याद् भूमि-परिग्रहम् ॥ ६६ ॥

20.67

श्लोक

प्राकार-सीमा-पर्यन्तं ततो भूत-वलिं हरेत् ॥ ६७ ॥

20.68

श्लोक

माषं हरिद्रा-चूर्णं च सलाजा दधि-शक्तवः । एभिर् भूत-वलिं दत्त्वा सूत्रम् अष्टाक्षरेण तु । पातयित्वा ततः शङ्कूनष्टदिक्षु निवेशयेत् ॥ ६८ ॥

20.69

श्लोक

राक्षसाश्चापि भूताश्च येऽस्मिंस् तिष्ठन्ति भूतले । ते सर्वे व्यपगच्छन्तु स्थानं कुर्याम् अहं हरेः । इत्यनुज्ञाप्य भूतादीन् तां भूमिं परिशोधयेत् ॥ ६९ ॥

20.70

श्लोक

आदित्यादि-ग्रहाणां च लोकपालैः समङ्कृती । आज्येनेष्ट-विधानेन ततो वै होमम् आचरेत् ॥ ७० ॥

20.71

श्लोक

चरु-होमं ततः कुर्यान् मूल-मन्त्रेण देशिकः । दद्यात् पूर्णाहुतिं पश्चाद् वौषडन्तेन देशिकः ॥ ७१ ॥

20.72

श्लोक

वृषभौ कपिलौ गृह्य सवर्णौ वा विचक्षणः । योजनार्थं हलं चैव गृह्णीयाद् असनोद्भवम् ॥ ७२ ॥

20.73

श्लोक

प्राङ्-मुखं योज्य मन्त्र-ज्ञो वस्त्रालङ्कार-भूषितः । आसनीं यष्टिमादाय द्वादशाक्षर-विद्यया । सम्मर्देन समीकृत्य शुभ-बीजानि वापयेत् ॥ ७३ ॥

20.74

श्लोक

सम्प्राप्ते शुभ-काले तु गोभिस्तत् खादयेद् बुधः । पुनस्तत् कर्षयित्वा तु समीकृत्य ग्रहं गुरुः ॥ ७४ ॥

20.75

श्लोक

हीनाधिकाङ्गतां वास्तोः सर्वतः परिवर्जयेत् । नगर-ग्राम-देशेषु सर्वत्रैव विवर्जयेत् ॥ ७५ ॥

20.76

श्लोक

वाह्यवास्तुं समं कृत्वा चतुरस्रं समन्ततः । भूमिं तोय-समां कृत्वा दर्पणोदर-सन्निभाम् । द्वादशाङ्गुलमानेन चाष्टौ वारांस् तु भ्रामयेत् ॥ ७६ ॥

20.77

श्लोक

मध्ये सुनिश्चलं शङ्कं स्थाप्य छायां निरीक्षयेत् । प्रवेशे निष्क्रमे तस्यां शङ्कुच्छायां निरूपयेत् ॥ ७७ ॥

20.78

श्लोक

शङ्कु-च्छायाग्र-चिह्नाभ्यां प्राक् प्रतीच्यौ प्रसाधयेत् । प्राक् प्रतीचीं गते सूर्ये उदग्यामौ प्रसाधयेत् ॥ ७८ ॥

20.79

श्लोक

वैषुवे विमले व्योम्नि शङ्कुना साधयेद् दिशम् । शरद्-वसन्तयोर् एवम् आदित्यात् साधयेद् दिशम् ॥ ७९ ॥

20.80

श्लोक

प्राचीं वा पुष्प-वेधेन चित्रास्वात्यन्तरेण वा । उदीचीं ध्रुव-वेधेन मध्य-योगेन चोन्नयेत् ॥ ८० ॥

20.81

श्लोक

चतुरस्रां शिलां गृह्य इष्टकां वा सुशोभनाम् । चतुर्दिक्षु निवेश्याथ सूत्र-चिह्नं तु कारयेत् ॥ ८१ ॥

20.82

श्लोक

एवं कृत्वा सूत्र-चिह्नं ब्राह्मणांस् तत्र भोजयेत् । वैष्णवान् पायसेनाग्र्यान् द्वादशैव समाहितः ॥ ८२ ॥

20.83

श्लोक

गृहारम्भेऽतिकण्डूतिः स्वाम्यङ्गे यत्र जयते । शल्यं त्व् अपनयेत् तत्र प्रासादे भवने तथा । सशल्यं भयदं यस्माद् अशल्यं भय-नाशनम् ॥ ८३ ॥

20.84

श्लोक

आदिशेद् वास्तुनः शल्यं गृहिणोऽङ्गविकारतः । शकुनो दृश्यते वापि यस्य वा श्रूयते ध्वनिः ॥ कीर्त्य̍ते यस्य वै नाम शल्यं तस्य विनिर्दिशेत् ॥ ८४ ॥

20.85

श्लोक

पञ्च-गव्यौषधि-जलैः परीक्षित्वावसेचयेत् । एकाशीतिपदं कुर्याद् रेखाभिः कनकेन तु ॥ ८५ ॥

20.86

श्लोक

पश्चाल् लेपेन चलिप्य सूत्रेणालोड्य सर्वतः । दश पूर्वायता रेखा दश चैवोत्तरायत्ताः । सर्व-वास्तु-विभागेषु विज्ञेया नवका नव ॥ ८६ ॥

20.87

श्लोक

एकाशीतिपदं कृत्वा वास्तु-वित् सर्व-वास्तुषु । पद-स्थान् पूजयेद् देवान् त्रिंशत् पञ्च-दशैव च ॥ ८७ ॥

20.88

श्लोक

द्वात्रिंशद् बाह्यतः पूज्याः पूज्याश्चान्तस् त्रयोदश । नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोध मे ॥ ८८ ॥

20.89

श्लोक

ईशकोणादिषु सुरान् पूजयेच्च विधानतः । शिखी चैवाथ पर्जन्यो जयतः कुलिशायुधः ॥ ८९ ॥

20.90

श्लोक

सूर्यः सत्यो भृशश् चैव आकाशो वायुर् एव च । पूषा च वितथश् चैव गृहक्षतयमाव् उभौ ॥ ९० ॥

20.91

श्लोक

गन्धर्वो भृङ्ग-राजश्च मृगः पितृ-गणस् तथा । दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥ ९१ ॥

20.92

श्लोक

असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च । भल्लाटः सोमसर्पौ च अदितिश्च दितिस् तथा । बहिर् द्वात्रिंशद् एते तु तदन्तश्च सुरान् शृणु ॥ ९२ ॥

20.93

श्लोक

ईशानादि-चतुष्कोण-संस्थितान् पूजयेद् बुधः । आपश् चैवाथ सावित्रो जयो रुद्रस् तथैव च ॥ ९३ ॥

20.94

श्लोक

मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगाः । सर्वान् एकोत्तरान् विद्यात् पूवादीन् नामतः शृणु ॥ ९४ ॥

20.95

श्लोक

अर्यमा सविता चैव विवस्वान् विबुधाधिपः । मित्रोऽथ राज-यक्ष्मा च तथा पृथ्वी-धरः क्रमात् ॥ ९५ ॥

20.96

श्लोक

अष्टमश् चापवत्सश्च परितो ब्रह्मणः स्मृताः । पापश् चैवापवत्सश्च पर्जन्योऽग्निर् दितिस् तथा ॥ ९६ ॥

20.97

श्लोक

पदिकानां च वर्गोऽयम् एवं कोणेष्व् अशेषतः । तन्-मध्ये तु बहिर्विंशद्विपदान्ते तु सर्वतः ॥ ९७ ॥

20.98

श्लोक

अर्यमा च विवस्वांश्च मित्रः पृथ्वी-धरस् तथा । ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्वतः ॥ ९८ ॥

20.99

श्लोक

वंशान् इदानीं वक्ष्यामि रज्जूर् अपि पृथक् पृथक् । वायुं यावत् तथा रोगात् पितृभ्यः शिखिनं तथा ॥ ९९ ॥

20.100

श्लोक

मुख्याद् भृशं तथा शोषाद् वितथं यावद् एव तु । सुग्रीवाद् अदितिं यावद् भृङ्गात् पर्जन्यम् एव च ॥ १०० ॥