Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ४

श्री-वैष्णवालङ्कारः

4.1

श्लोक

स्नात्वा श्री-कृष्ण-चैतन्य-नाम-तीर्थोत्तमे सकृत् । नित्याशुचिः शुचीन्द्रः सन् स्व-धर्मं वक्तुम् अर्हति ॥ १ ॥

4.2

श्लोक

गुरून् ज्येष्ठांश् च पुष्पैधः-कुशाम्भोधारकेतरान् ॥ २ ॥

4.3

श्लोक

जले देवं नमस्कृत्य ततो गच्छेद् गृहं पुमान् । पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ॥ ३ ॥

4.4

श्लोक

मन्दिरं मार्जयेद् विष्णोर् विधायाचमनादिकम् । कृष्णं पश्यन् कीर्तयंश् च दास्येनात्मानम् अर्पयेत् ॥ ४ ॥

4.5

श्लोक

शुद्धं गोमयम् आदाय ततो मृत्स्नां जलं तथा । भक्त्या तत् परितो लिम्पेद् अभुक्षेच् च तद्-अङ्गनम् ॥ ५ ॥

4.6

श्लोक

स वै मनः कृष्ण-पदारविन्दयोर् वचांसि वैकुण्ठ-गुणानुवर्णने करौ हरेर् मन्दिर-मार्जनादिषु श्रुतिं चकाराच्युत-सत्-कथोदये ॥ ६ ॥

4.7

श्लोक

सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः । गृह-शुश्रूषणं मह्यं दासवद् यद् अमायया ॥ ७ ॥

4.8

श्लोक

नरसिंह-गृहे नित्यं यं सम्मार्जनम् आचरेत् । समस्त-पाप-निर्मुक्तो विष्णु-लोके स मोदते ॥ ८ ॥

4.9

श्लोक

संमार्जनं तु यः कुर्यात् पुरुषः केशवालये । रजस्-तमोभ्यां निर्मुक्तः स भवेन् नात्र संशयः ॥ ९ ॥

4.10

श्लोक

पांशूनां यावतां राजन् कुर्यात् संमार्जनं नरः तावन्त्य् अब्दानि स सुखी नाकम् आसाद्य मोदते ॥ १० ॥

4.11

श्लोक

यावत्कानि प्रहाराणि भूमि-संमार्जने ददुः ।तावद्-वर्ष-सहस्राणि शाक-द्वीपे महीयते ॥ ११ ॥

4.12

श्लोक

जायते मम भक्तश् च सर्व-धर्म-समन्वितः । शुचिर् भागवतः शुद्धो ह्य् अपराध-विवर्जितः ॥ १२ ॥

4.13

श्लोक

ततो भुक्त्वा सर्व-भोगान् तीर्त्वा संसार-सागरम् । शाक-द्वीपात् परिभ्रष्टः स्वर्ग-लोकं स गच्छति ॥ १३ ॥

4.14

श्लोक

नन्दनं वनम् आश्रित्य मोदते चाप्सरैः सह । नन्दनाच् च परिभ्रष्टो मम कर्म-व्यवस्थितः । सर्व-सङ्गात् परित्यज्य मम लोकं तु गच्छति ॥ १४ ॥

4.15

श्लोक

गो-मयं गृह्य वै भूमिं मम वेश्मोपलेपयेत् । यावतस् तु पदांस् तत्र समन्ताद् उपलेपयेत् । तावद्-वर्ष-सहस्राणि मद्-भक्तो जायते तथा ॥ १५ ॥

4.16

श्लोक

समीपे यदि वा दूरे यश् चालयति गोमयम् । यावत् तस्य पदाग्राणि तावत् स्वर्गे महीयते ॥ १६ ॥

4.17

श्लोक

शाल्मलौ तत्-परिभ्रष्टो राजा भवति धार्मिकः । मद्-भक्तश् चैव जायते सर्व-शास्त्र-विशारदः ॥ १७ ॥

4.18

श्लोक

यश् चालेपयते भूमिं गो-मयेन दृढ-व्रतः । तस्य दृष्ट्वानुलेपं तु मम तुष्टिः प्रजायते ॥ १८ ॥

4.19

श्लोक

गोश् च यस्याः पुरीषेण क्रियते भूमि-लेपनम् । एकेनैव तु लेपेन गो-योन्या विप्रमुच्यते ॥ १९ ॥

4.20

श्लोक

स्थानोपलेपने भूमे सलिलं यो ददाति मे । तस्य पुण्यं महा-भागे शृणु तत्त्वेन निष्कलम् ॥ २० ॥

4.21

श्लोक

यावन्ति जल-बिन्दूनि लिप्यमानस्य सुन्दरि । तावद्-वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ २१ ॥

4.22

श्लोक

यावन्तो बिन्दवः केचित् पानीयस्य वसुन्धरे । तावद् वर्ष-सहस्राणि क्रौञ्च-द्वीपे महीयते ॥ २२ ॥

4.23

श्लोक

क्रौञ्च-द्वीपात् परिभ्रष्टः सर्व-धर्म-परायणः । सर्व-सङ्गान् परित्यज्य मम लोकं च गच्छति ॥ २३ ॥

4.24

श्लोक

कृत्वोपलेपनं विष्णोर् नरस् त्व् आयतने सदा । गो-मयेन शुभान् लोकान् अयत्नाद् एव गच्छति ॥ २४ ॥

4.25

श्लोक

हस्त-प्रमाणं भू-भागम् उपलिप्य नराधिप । देव-रामा-शतं नाके लभते सततं नरः ॥ २५ ॥

4.26

श्लोक

गो-मयेन मृदा तोयैर् यः कुर्याद् उपलेपनम् । चान्द्रायण-फलं प्राप्य विष्णु-लोके महीयते ॥ २६ ॥

4.27

श्लोक

संमार्जनं यः कुरुते गोमयेनोपलेपनम् । करोति भवने विष्णोस् त्याज्यं तेषां कुल-त्रयम् ॥ २७ ॥

4.28

श्लोक

अभ्युक्षणं तु यः कुर्यात् पानीयेन सुरालये । स शान्त-तापो भवति नात्र कार्या विचारणा ॥ २८ ॥

4.29

श्लोक

अभ्युक्षणं तु यः कुर्याद् देव-देवाजिरे नरः । सर्व-पाप-विनिर्मुक्तो वारुणं लोकम् अश्नुते ॥ २९ ॥

4.30

श्लोक

सर्वतो-भद्र-पद्मादीन् अभिज्ञः स्वस्तिकानि च । विरचय्य विचित्राणि मण्डयेद् धरि-मन्दिरम् ॥ ३० ॥

4.31

श्लोक

संमार्जनोपलेपाभ्यां रङ्ग-पद्मादि-शोभनम् । कुर्यात् स्थानं महा-विष्णोः सोज्ज्वलाङ्गं मुदान्वितः ॥ ३१ ॥

4.32

श्लोक

अगम्य-गमने पापम् अभक्ष्यस्य च भक्षणे । सर्वं तन्-नाशम् आप्नोति मण्डयित्वा हरेर् गृहम् ॥ ३२ ॥

4.33

श्लोक

अणु-मात्रं तु यः कुर्यान् मण्डलं केशवाग्रतः । मृदा धातु-विकारैश् च दिवि कल्प-शतं वसेत् ॥ ३३ ॥

4.34

श्लोक

शालग्राम-शिलाग्रे तु यः कुर्यात् स्वस्तिकं शुभम् । कार्त्तिके तु विशेषेण पुनात्य् आसप्तमं कुलम् ॥ ३४ ॥

4.35

श्लोक

मण्डलं कुरुते नित्यं या नारी केशवाग्रतः । सप्त-जन्मानि वैधव्यं न प्राप्नोति कदाचन ॥ ३५ ॥

4.36

श्लोक

गृहीत्वा गो-मयं या तु मण्डलं केशवाग्रतः । भर्तुर् वियोगं नाप्नोति सन्ततेश् च धनस्य च ॥ ३६ ॥

4.37

श्लोक

प्राङ्गणं वर्णकोपेतं स्वस्तिकैश् च समन्वितम् । देवस्य कुरुते यस् तु क्रीडते भुवन-त्रये ॥ ३७ ॥

4.38

श्लोक

मृदा धातु-विकारैर् वा वर्णकैर् गोमयेन वा । विष्णु-लोकेऽथ तत्र रथैः स-स्पृहं वीक्ष्यते सुखी ॥ ३८ ॥

4.39

श्लोक

उपलिप्यालयं विष्णोश् चित्रयित्वाथ वर्णकैः । विष्णु-लोकेऽथ तत्रस्थैः स-स्पृहं वीक्ष्यते सुखी ॥ ३९ ॥

4.40

श्लोक

विदिग्-गत-चतुष्काणि भित्त्वा षोडशधा सुधीः । मार्जयेत् स्वस्तिकाकारं श्वेत-पीतारुणासितैः ॥ ४० ॥

4.41

श्लोक

रजांसि पञ्च-वर्णानि मण्डलार्थं हि कारयेत् । शालि-तण्डुल-चूर्णेन शुक्लं वा यव-सम्भवम् ॥ ४१ ॥

4.42

श्लोक

रक्त-कुङ्कुम-सिन्दूर-गैरिकादि-समुद्भवम् । हरि-तालोद्भवं पीतं रजनी-सम्भवं क्वचित् । कृष्णं दग्धैर् हरिद्-यवैर् हरित्-पीतैर् विमिश्रितम् ॥ ४२ ॥

4.43

श्लोक

ततो ध्वज-पताकादि विन्यस्य हरि-मन्दिरे । विचित्रं भूषयेत् तच् च भगवद्-भक्तिमान् नरः ॥ ४३ ॥

4.44

श्लोक

ध्वजम् आरोपयेद् यस् तु प्रासादोपरि भक्तितः । तस्य ब्रह्म-पदे वासः क्रीडते ब्रह्मणा सह ॥ ४४ ॥

4.45

श्लोक

यः कुर्याद् विष्णु-भवने ध्वजारोपणम् उत्तमम् । संपूज्यते विरिञ्च्य्-आद्यैः किम् अन्यैर् बहु-भाषितैः ॥ ४५ ॥

4.46

श्लोक

पटो ध्वजस्य विप्रेन्द्र यावच् चलति वायुना । तावन्ति पाप-जालानि नश्यन्त्य् एव न संशयः ॥ ४६ ॥

4.47

श्लोक

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । ध्वजं विष्णु-गृहे कृत्वा मुच्यते सर्व-पातकैः ॥ ४७ ॥

4.48

श्लोक

आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः । तेऽपि सर्वे प्रमुच्यन्ते महा-पातक-कोटिभिः ॥ ४८ ॥

4.49

श्लोक

एवं बृहन्-नारदीये ख्यातं यच् चान्यद् अद्भुतम् । ध्वजारोपण-माहात्म्यं तद् द्रष्टव्यम् इहाखिलम् ॥ ४९ ॥

4.50

श्लोक

कृष्णालयं यः कुरुते पताकाभिश् च शोभितम् । सदैव तस्य लोके तु वासस् तस्य न चान्यतः ॥ ५० ॥

4.51

श्लोक

पताकां च शुभां दत्त्वा तथा केशव-वेश्मनि । वायु-लोकम् अवाप्नोति बहून् अब्द-गणान् द्विजः ॥ ५१ ॥

4.52

श्लोक

दोधूयते यथा सा तु वायुना केशवालये । तथा तस्यापि सकलं देहात् पापं विधूयते ॥ ५२ ॥

4.53

श्लोक

भूप वन्दन-मालां तु कुरुते कृष्ण-वेश्मनि । देवकन्यावृतैर् लक्षैः सेव्यते सुर-नायकैः ॥ ५३ ॥

4.54

श्लोक

यः कुर्यात् कृष्ण-भवनं कदली-स्तम्भ-शोभितम् । नन्दते चाप्सरो-युक्तः स्वागतं तस्य देव-राट् ॥ ५४ ॥

4.55

श्लोक

तत्र ताम्रादि-पात्रं यत् प्रभोर् वस्त्रादिकं च यत् । पीठादिकं च तत् सर्वं यथोक्तं च विशोधयेत् ॥ ५५ ॥

4.56

श्लोक

पाद-पीठं च कृष्णस्य बिल्व-पत्रेण धर्षयेत् । उष्णाम्बुना च प्रक्षाल्य सर्व-पापैः प्रमुच्यते ॥ ५६ ॥

4.57

श्लोक

उडुम्बराणाम् अम्लेन क्षारेण त्रपु-सीसयोः । भस्माम्बुभिश् च काम्स्यानां शुद्धिः प्लावो द्रवस्य च ॥ ५७ ॥

4.58

श्लोक

मणि-वज्र-प्रवालानां मुक्ता-शङ्खोपलस्य च । सिद्धार्थकानां कल्केन तिल-कल्केन वा पुनः ॥ ५८ ॥

4.59

श्लोक

सुवर्ण-रूप्य-शङ्खाश्म-शुक्ति-रत्न-मयानि च ।कांस्यायस्-ताम्र-रैत्यानि त्रपु-सीस-मयानि च ॥ ५९ ॥

4.60

श्लोक

निर्लेपानि तु शुध्यन्ति केवलेनोदकेन तु । शूद्रोच्छिष्ठानि शोध्यानि त्रिधा क्षाराम्ल-वारिभिः ॥ ६० ॥

4.61

श्लोक

अतिदुष्टं तु पात्रादि विशोध्यातिथ्य-कर्मणे । युञ्ज्यात् तत्-परिवर्ताय प्रभु-कर्मान्तराय वा ॥ ६१ ॥

4.62

श्लोक

एतस्य परिवर्तेन प्रभवेऽन्यत् समर्पयेत् । इत्य् अयं सर्वतो लोके सदाचारो विराजते ॥ ६२ ॥

4.63

श्लोक

ताम्रायः-कांस्य-रैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षाराम्लोदक-वारिभिः ॥ ६३ ॥

4.64

श्लोक

अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस् तथा । क्षारेण शुद्धिं कांस्यस्य लौहस्य च विनिर्दिशेत् ॥ ६४ ॥

4.65

श्लोक

सूतिकोच्छिष्ठ-भाण्डस्य सुराद्य्-उपहतस्य च । त्रिः-सप्त-मार्जनाच् छुद्धिर् न तु कांस्यस्य तापनम् ॥ ६५ ॥

4.66

श्लोक

ताम्रम् अम्लेन शुध्येन न चेदामिष-लेपनम् । आमिषेण तु यल् लिप्तं पुनर् दाहेन शुध्यन्ति ॥ ६६ ॥

4.67

श्लोक

सूतिका-शव-विण्-मूत्र-रजःस्वल-हतानि च । प्रक्षेप्तव्यानि तान्य् अग्नौ यच् च यावत् सहेद् अपि ॥ ६७ ॥

4.68

श्लोक

लोहानां दहनाच् छुद्धिर् भस्मना गोमयेन वा । दहनात् खननाद् वापि शैलानाम् अम्भसापि वा ॥ ६८ ॥

4.69

श्लोक

काष्ठानां तक्षणाच् छुद्धिर् मृद्-गोमय-जलैर् अपि । मृण्-मयानां तु पात्राणां दहनाच् छुद्धिर् इष्यते ॥ ६९ ॥

4.70

श्लोक

मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैह् पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्-मयम् ॥ ७० ॥

4.71

श्लोक

संहतानां तु पात्राणां यद् एकम् उपहन्यते । तस्यैवं शोधनं प्रोक्तं सामान्य-द्रव्य-शुद्धि-कृत् ॥ ७१ ॥

4.72

श्लोक

तान्तवं मलिनं पूर्वम् अद्भिः क्षारैश् च शोधयेत् । अंशुभिः शोषयित्वा वा वायुना वा समाहरेत् ॥ ७२ ॥

4.73

श्लोक

ऊर्णा-पट्टांशुक-क्षौम-दुकूलाविक-चर्मणाम् । अल्पाशौचे भवेच् छुद्धिः शोषण-प्रोक्षणादिभिः ॥ ७३ ॥

4.74

श्लोक

तान्य् एवामेध्य-लिप्तानि नेनिज्याद् गौर-सर्षपैः । धान्य-कल्कैः पर्ण-कल्कैः रसैश् च फल-बल्कलैः ॥ ७४ ॥

4.75

श्लोक

तुलिकाद्य्-उपधानानि पुष्प-रत्नाम्बराणि च । शोधयित्वातपे किंचित् करैर् उन्मार्जयेन् मुहुः ॥ ७५ ॥

4.76

श्लोक

पश्चाच् च वारिणा प्रोक्ष्य शुचीत्य् एवम् उदाहरेत् । तान्य् अप्य् अतिमलाक्तानि यथावत् परिशोधयेत् ॥ ७६ ॥

4.77

श्लोक

कुसुम्भ-कुङ्कुमारक्तास् तथा लाक्षा-रसेन च । प्रक्षालनेन शुध्यन्ति चण्डाल-स्पर्शने तथा ॥ ७७ ॥

4.78

श्लोक

कृष्णाजिनानां वातैश् च बालानां मृद्भिर् अम्भसा । गोमूत्रेणास्थि-दन्तानां क्षौमाणां गौर-सर्षपैः ॥ ७८ ॥

4.79

श्लोक

सिद्धार्थकानां कल्केन दन्त-शृङ्ग-मयस्य च । गो-बालैः फल-पात्राणाम् अस्थ्नां स्याच् छृङ्गवत् तथा ॥ ७९ ॥

4.80

श्लोक

निर्यासानां गुडानां च लवणानां तथैव च । कुसुम्भ-कुसुमानां च ऊर्णाकार्पासयोस् तथा । प्रोक्षणात् कथिता शुद्धिर् इत्य् आह भगवान् यमः ॥ ८० ॥

4.81

श्लोक

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्य-वाससाम् । प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ ८१ ॥

4.82

श्लोक

चैलवत्-चर्मणां शुद्धिर् वैदलानां तथा-एव च । शाक-मूल-फलानां च धान्यवत्-शुद्धिर् इष्यते ॥ ८२ ॥

4.83

श्लोक

प्रोक्षणात् तृण-काष्ठं च पलालं चैव शुध्यति । मार्जन-उपाञ्जनैर् वेश्म पुनःपाकेन मृत्-मयम् ॥ ८३ ॥

4.84

श्लोक

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्-कृतः । तावन् मृद्-वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ ८४ ॥

4.85

श्लोक

वस्त्र-वैदल-चर्मादेः शुद्धिः प्रक्षालनं स्मृतम् । अतिदुष्टस्य तन्-मात्रं त्यजेच् छित्त्वा तु शुद्धये ॥ ८५ ॥

4.86

श्लोक

मृत्-पर्ण-तृण-काष्ठानां श्वास्थि-चाण्डाल-वायसैः । स्पर्शने विहितं शौचं सोम-सूर्यांशु-मारुतैः ॥ ८६ ॥

4.87

श्लोक

आसनं शयनं यानं नावः पन्थास् तृणानि च । मारुतार्केण शुध्यन्ति पक्वेष्ट-रचितानि च ॥ ८७ ॥

4.88

श्लोक

व्रीहयः प्रोक्षणाद् अद्भिः शाक-मूल-फलानि च । तन्-मात्रस्यापहाराद् वा निस्तुषीकरणेन च ॥ ८८ ॥

4.89

श्लोक

श्रपणं घृत-तैलानां प्लावनं गो-रसस्य च । भाण्डानि प्लावयेद् अद्भिः शाक-मूल-फलानि च ॥ ८९ ॥

4.90

श्लोक

द्रव-द्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा ॥ ९० ॥

4.91

श्लोक

शस्यानि व्रीहयश् चैव शाक-मूल-फलानि च । त्यक्त्वा तु दूषितं भागं प्लाव्यान्य् अथ जलेन तु ॥ ९१ ॥

4.92

श्लोक

तापनं घृत-तैलानां प्लावनं गोरसस्य च ।तन्-मात्रम् उद्धृतं शुध्येत् कठिनं तु पयोदधि ॥ ९२ ॥

4.93

श्लोक

अविलीनं तथा सर्पिर् विलीनं श्रपणेन तु । आधार-दोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ॥ ९३ ॥

4.94

श्लोक

घृतं च पायसं क्षीरं तथैक्षव-रसो गुडः । शूद्र-भाण्ड-स्थितं तक्रं तथा मधु न दुष्यति ॥ ९४ ॥

4.95

श्लोक

उच्छिष्टेन तु संस्पृष्टो द्रव्य-हस्तः कथं चन । अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ ९५ ॥

4.96

श्लोक

अन्येऽपि शुद्धि-विधयो द्रव्याणां स्मृति-शास्त्रतः । अपेक्ष्या वैष्णवैर् ज्ञेयास् तत्-तद्-विस्तारणैर् अलम् ॥ ९६ ॥

4.97

श्लोक

प्रणम्याथ महा-विष्णुं प्रार्थ्यानुज्ञां तु वैष्णवः । समाहरेत् श्री-तुलसीं पुष्पादि च यथोदितम् ॥ ९७ ॥

4.98

श्लोक

स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः । देवतास् तन् न गृह्णन्ति भस्मीभवति काष्ठवत् ॥ ९८ ॥

4.99

श्लोक

अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृ-कर्मणि । तत् सर्वं निष्फलं याति पञ्चगव्येन शुध्यति ॥ ९९ ॥

4.100

श्लोक

स्व-गृहे वाचरन् स्नानं प्रक्षाल्याङ्घ्री करौ तथा । आचम्यायम्य च प्राणान् कृत-न्यासो हरिं स्मरेत् ॥ १०० ॥