Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ८

प्रातर्-अर्चा-समापनः

8.301

श्लोक

दीप्तिमन्तं स-कर्पूरम् करोत्य् आरात्रिकं नृप । कृष्णस्य वसते लोके सप्त कल्पानि मानवाः ॥ ३०१ ॥

8.302

श्लोक

मन्त्र-हीनं क्रिया-हीनम् यत् कृतं पूजनं हरेः । सर्वं सम्पूर्णताम् एति कृते नीराजने शिवे ॥ ३०२ ॥

8.303

श्लोक

कृत्वा नीराजनं विष्णोर् दीपावल्या सुदृश्यया । तमो-विकारं जयति जिते तस्मिम्श् च को भवः ॥ ३०३ ॥

8.304

श्लोक

कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोतयः । दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखं ॥ ३०४ ॥

8.305

श्लोक

यच् च दीपस्य माहात्म्यं पूर्वं लिखितम् अस्ति तत् । द्रस्तव्यं सर्वत्रापि प्रायेनाभेदतोऽनयोः ॥ ३०५ ॥

8.306

श्लोक

अतः सादरम् उत्थाय महा-नीराजनं त्व् इदम् । द्रष्टव्यं दीपवत् सर्वैर् वन्द्यम् आरात्रिकं च यत् ॥ ३०६ ॥

8.307

श्लोक

धूपं चारात्रिकं पश्येत् कराभ्यां च प्रवन्दते । कुल-कोटिं समुद्धृत्य याति विष्णोः परं पदं ॥ ३०७ ॥

8.308

श्लोक

नीराजनं च यः पश्येद् देव-देवस्य चक्रिणः । सप्त जन्मानि विप्रः स्याद् अन्ते च परमं पदम् ॥ ३०८ ॥

8.309

श्लोक

केशवायतने राजन् कुर्वन् शङ्ख-रवं नरः । सर्व-पाप-विनिर्मुक्तो ब्रह्मणा सह मोदते ॥ ३०९ ॥

8.310

श्लोक

कर-शब्दं प्रकुर्वन्ति केशवायतनेषु ये । ते सर्वे पाप-निर्मुक्ता विमानेशा युग-द्वयम् ॥ ३१० ॥

8.311

श्लोक

तालादि-कांस्य-निनदं कुर्वन् विष्णु-गृहे नरः । यत् फलं लभते राजन् शृणुष्व गदतो मम ॥ ३११ ॥

8.312

श्लोक

सर्व-पाप-विनिर्मुक्तो विमान-शत-सङ्कुलः । गीयमानश् च गन्धर्वैर् विष्णुना सह मोदते ॥ ३१२ ॥

8.313

श्लोक

भेरी-मृदङ्ग-पटह-मुरजैश् च स-डिण्डिमैः । संप्रीणयन्ति देवेशं तेषां पुण्य-फलं शृणु ॥ ३१३ ॥

8.314

श्लोक

देव-स्त्री-गण-संयुक्ताः सर्व-कामैः समर्चिताः । स्वर्ग-लोकम् अनुप्राप्य मोदन्ते कल्प-पञ्चकम् ॥ ३१४ ॥

8.315

श्लोक

ततश् च स-जलं शङ्खं भगवन्-मस्तकोपरि । त्रि भ्रामयित्वा कुर्वीत पुनर् नीराजनं प्रभोः ॥ ३१५ ॥

8.316

श्लोक

शङ्खे कृत्वा तु पानीयं भ्रामितं केशवोपरि । सन्निधौ वसते विष्णोः कल्पान्तं क्षीर-सागरे ॥ ३१६ ॥

8.317

श्लोक

नीराजन-द्वयं चैतत् ताम्बूलस्यार्पणं परम् । केचिद् इच्छन्ति केचिच् च दर्पणार्पणतः परम् ॥ ३१७ ॥

8.318

श्लोक

पुनर् आचमनं दद्यात् करोद्वर्तनम् एव च । स-कर्पूरं च ताम्बूलम् कुर्यान् नीराजनं तथा ॥ ३१८ ॥

8.319

श्लोक

समर्प्य मुकुटादीनि भूषणानि विचक्षणः । आदर्शयेत् तथादर्शं प्रकल्प्य छत्र-चामरे ॥ ३१९ ॥

8.320

श्लोक

आचमनं च ताम्बूलम् चन्दनैः कर-मार्जनम् ॥ ३२० ॥

8.321

श्लोक

पुष्पाञ्जलिं ततः कृत्वा भक्त्यादर्शं प्रदर्शयेत् । नीराजनं पुनः कार्यं कर्पूरं विभवे सति ॥ ३२१ ॥

8.322

श्लोक

आरात्रिकं तु निःस्नेहं निःस्नेहयति देवताम् । अतः संशमयित्वैव पुनः पूजनम् आचरेत् ॥ ३२२ ॥

8.323

श्लोक

तत्रैव कृत्वा पूजादिकं सर्वं ज्वलन्तं कृष्ण-मूर्धनि । आरात्रिकं प्रकुर्वाणो मोदते कृष्ण-सन्निधौ ॥ ३२३ ॥

8.324

श्लोक

केचिन् नीराजनत् पश्चाद् इच्छन्ति प्रणतिं ततः । प्रदक्षिणं ततः स्तोत्रं गीत-नृत्यादिकं ततः ॥ ३२४ ॥

8.325

श्लोक

एवं भगवतः स्व-स्व-सम्प्रदायानुसारतः । प्रवर्तन्ते प्रभोर् भक्तौ भक्त्या सर्वं हि शोभनम् ॥ ३२५ ॥

8.326

श्लोक

ततो निक्षिप्य देवस्योपरि पुस्पाञ्जलि-त्रयम् । विचित्रैर् मधुरैः स्तोत्रैह् स्तुतिं कुर्वीत भक्तिमान् ॥ ३२६ ॥

8.327

श्लोक

आरिराधयिषुः कृष्णं वाचं जिगदिषामि यम् । तया व्यास-समासिन्या प्रीयतां मधुसूदनः ॥ ३२७ ॥

8.328

श्लोक

आरम्भे च स्तुतेर् एतम् श्लोकं स्तुति-परः पठेत् । सत्यां तस्यां समाप्तौ च श्लोकं सङ्कीर्तयेद् इमम् ॥ ३२८ ॥

8.329

श्लोक

वग्-यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ ३२९ ॥

8.330

श्लोक

ॐ नमो विश्वरूपाय विश्व-स्थित्य्-अन्त-हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥ ३३० ॥

8.331

श्लोक

नमो विज्ञान-रूपाय परमानन्द-रूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं ॥ ३३१ ॥

8.332

श्लोक

नमः कमल-नेत्राय नमः कमल-मालिने । नमः कमल-नाभाय कमला-पतये नमः ॥ ३३२ ॥

8.333

श्लोक

बर्हापीडाभिरामाय रामयाकुण्ठ-मेधसे । रमा-मानस-हंसाय गोविन्दाय नमो नमं ॥ ३३३ ॥

8.334

श्लोक

कंस-वंश-विनाशाय केशि-चाणूर-घातिने । वृषभ-ध्वज-वन्द्याय पार्थ-सारथये नमः ॥ ३३४ ॥

8.335

श्लोक

वेणु-वादन-शीलाय गोपालायाहि-मर्दिने । कालिन्दी-कूल-लोलाय लोल-कुण्डल-धारिणे ॥ ३३५ ॥

8.336

श्लोक

वल्लवी-वदनाम्भोज-मालिने नृत्य-शालिने । नमः प्रणत-पालाय श्री-कृष्णाय नमो नमः ॥ ३३६ ॥

8.337

श्लोक

नमः पाप-प्रणाशाय गोवर्धन-धराय च । पूतना-जीवितान्ताय तृणावार्तासु-हारिणे ॥ ३३७ ॥

8.338

श्लोक

निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे । अद्वितीयाय महते श्री-कृष्णाय नमो नमः ॥ ३३८ ॥

8.339

श्लोक

प्रसीद परमानन्द प्रसीद परमेश्वर । आधिव्याधिभुजङ्गेन दष्टं माम् उद्धर प्रभो ॥ ३३९ ॥

8.340

श्लोक

श्री-कृष्ण रुक्मिणी-कान्त गोपी-जन-मनोहर । संसारसागरे मग्नं माम् उद्धर जगद् गुरो ॥ ३४० ॥

8.341

श्लोक

केशव क्लेश-हरण नारायण जनार्दन । गोविन्द परमानन्द मां समुद्धर माधव ॥ ३४१ ॥

8.342

श्लोक

वन्दे महा-पुरुष ते चरणारविन्दम् ॥ ३४२ ॥

8.343

श्लोक

वन्दे महा-पुरुष ते चरणारविन्दम् ॥ ३४३ ॥

8.344

श्लोक

वैदिकानीदृशान्य् एव कृष्णे पौराणिकान्य् अपि । तान्त्रिकाणि च शास्त्राणि स्तोत्राण्य् अभिनवान्य् अपि ॥ ३४४ ॥

8.345

श्लोक

अभ्रष्ट-लक्षणैः कृत्वा स्वयं विरचिताक्षरैः । स्तवं ब्राह्मण-शार्दूलस् तस्मात् कामान् अवाप्नुयात् ॥ ३४५ ॥

8.346

श्लोक

सर्व-देवेषु यत् पुण्यं सर्व-देवेषु यत् फलम् । नरस् तत् फलम् आप्नोति स्तुत्वा देवं जनार्दनम् ॥ ३४६ ॥

8.347

श्लोक

न वित्त-दान-निचयैर् बहुभिर् मधुसूउदनः । तथा तोषम् अवाप्नोति यथा स्तोत्रैर् द्विजोत्तमः ॥ ३४७ ॥

8.348

श्लोक

स्तोत्रैर् जपैश् च देवाग्रे यः स्तौति मधुसूदनम् । सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥ ३४८ ॥

8.349

श्लोक

स्तुवन्न् अमेय-माहात्म्यं भक्ति-ग्रथित-रम्य-वाक् । भवेद् ब्रह्मादि-दुर्लभ्य-प्रभु-कारुण्य-भाजनम् ॥ ३४९ ॥

8.350

श्लोक

यथा नरस्य स्तुवतो बालकस्येव तुष्यति । मुग्ध-वाक्यैर् न हि तथा विबुधानां जगत्-पिता ॥ ३५० ॥

8.351

श्लोक

पद-लग्नं जननीव बालकम् ॥ ३५१ ॥

8.352

श्लोक

श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता । नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥ ३५२ ॥

8.353

श्लोक

स्तोत्राणां परमं स्तोत्रं विष्णोर् नाम-सहस्रकम् । हित्वा स्तोत्र-सहस्राणि पठनीयं महा-मुने ॥ ३५३ ॥

8.354

श्लोक

तेनैकेन मुनि-श्रेष्ठ पथितेन सदा हरिः । प्रीतिम् आयाति देवेशो युग-कोटि-शतानि च ॥ ३५४ ॥

8.355

श्लोक

स्नाने यत् स्तोत्र-माहात्म्यं लिखितं लेख्यम् अग्रतः । यच् च कीर्तन-माहात्म्यं सर्वं ज्ञेयं इहापि तत् ॥ ३५५ ॥

8.356

श्लोक

नूनं तत् कण्ठ-शालूकम् अथवा प्रति-जिह्विका ।रोगो वान्यो न सा जिह्वा या न स्तौति हरेर् गुणान् ॥ ३५६ ॥

8.357

श्लोक

प्रणमेद् अथ साष्टाङ्गं तन्-मुद्रां च प्रदर्शयेत् । पठेत् प्रति-प्रणामं च प्रसीद भगवन्न् इति ॥ ३५७ ॥

8.358

श्लोक

स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि । स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत् ॥ ३५८ ॥

8.359

श्लोक

शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् ॥ ३५९ ॥

8.360

श्लोक

दोर्भ्यां पद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा । मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ ३६० ॥

8.361

श्लोक

जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥ ३६१ ॥

8.362

श्लोक

गरुदं दक्षिने कृत्वा कुर्यात् तत्-पृष्ठतो बुधः । अवश्यं च प्रणामांस् त्रीन् शक्तश् चेद् अधिकाधिकान् ॥ ३६२ ॥

8.363

श्लोक

सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्व-गुरुम् एव च । द्वि-चतुर्-विंशद् अथवा चतुर्-विंशत् तद्-अर्धकम् । नमेत् तद्-अर्धम् अथवा तद्-अर्धं सर्वथा नमेत् ॥ ३६३ ॥

8.364

श्लोक

देवार्चा-दर्शनाद् एव प्रणमेन् मधुसूदनम् । स्नानापेक्षा न कर्तव्या दृष्ट्वार्चां द्विज-सत्तमः । देवार्चा-दृष्ट-पूतं हि शुचि सर्वं प्रकीर्तितम् ॥ ३६४ ॥

8.365

श्लोक

नमस्कारः स्मृतो यज्ञः सर्व-यज्ञेषु चोत्तमः । नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत् ॥ ३६५ ॥

8.366

श्लोक

दण्ड-प्रणामं कुरुते विष्णवे भक्ति-भावितः । रेणु-सङ्ख्यं वसेत् स्वर्गे मन्वन्तर-शतं नरः ॥ ३६६ ॥

8.367

श्लोक

प्रणम्य दण्डवद् भूमौ नमस्कारेण योऽर्चयेत् । स यां गतिम् अवाप्नोति न तां क्रतु-शतैर् अपि । नमस्कारेण चैकेन नरः पुतो हरिं व्रजेत् ॥ ३६७ ॥

8.368

श्लोक

भूमिम् आपीड्य जानुभ्यां शिर आरोप्य वै भुवि । प्रणमेद् यो हि देवेशम् सोऽश्वमेध-फलं लभेत् ॥ ३६८ ॥

8.369

श्लोक

तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च । नारायण-प्रणामस्य कालं नार्हन्ति षोडशीम् ॥ ३६९ ॥

8.370

श्लोक

शाठ्येनापि नमस्कारम् कुर्वतः शार्ङ्ग-धन्वने । शतशन् मार्जितं पापं तत्-क्षनाद् एव नश्यति ॥ ३७० ॥

8.371

श्लोक

रेणु-मण्डित-गात्रस्य कणा देहे भवन्ति यत् । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥ ३७१ ॥

8.372

श्लोक

अभिवाद्यं जगन्नाथं कृतार्थश् च तथा भवेत् । नमस्कार-क्रिया तस्य सर्व-पाप-प्रणाशिनी ॥ ३७२ ॥

8.373

श्लोक

जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः । कृत्वा प्रणामं देवस्य सर्वान् कामान् अवाप्नुयात् ॥ ३७३ ॥

8.374

श्लोक

अनादि-निधनं देवं दैत्य-दानव-दारणम् । ये नमन्ति नरा नित्यं न हि पश्यन्ति ते यमम् ॥ ३७४ ॥

8.375

श्लोक

ये जना जगतां नाथं नित्यं नारायणं द्विजाः । नमन्ति न हि ते विष्णोः स्नानाद् अन्यत्र गामिनः ॥ ३७५ ॥

8.376

श्लोक

कृष्ण-प्रणामी न पुनर्-भवाय ॥ ३७६ ॥

8.377

श्लोक

विष्णोर् दण्ड-प्रणामार्थं भक्तेन पतितो भुवि । पतितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥ ३७७ ॥

8.378

श्लोक

तपस् तप्त्वा नरो घोरम् अरण्ये नियतेन्द्रियः । यत् फलं समवाप्नोति तन् नत्वा गरुड-ध्वजम् ॥ ३७८ ॥

8.379

श्लोक

कृत्वापि बहुशः पापं नरो मोह-समन्वितः । न याति नरकं नत्वा सर्व-पाप-हरं हरिम् ॥ ३७९ ॥

8.380

श्लोक

अपि पापं दुराचारं नरं तत् प्रणतो हरेः । नेक्षन्ते किङ्करा याम्या उलूकास् तपनं यथा ॥ ३८० ॥

8.381

श्लोक

व्रज परिहृत्य यथाग्निम् आज्य-सिक्तम् ॥ ३८१ ॥

8.382

श्लोक

पतितानुद्धरति स्म तान् असौ ॥ ३८२ ॥

8.383

श्लोक

अलब्ध-पूर्वो ऽपसदे ऽसुरे ऽर्पितः ॥ ३८३ ॥

8.384

श्लोक

अहो भाग्यम् अहो भाग्यम् अहो भाग्यं नॄणाम् इदम् । येषां हरि-पदाब्जाग्रे शिरो न्यस्तं यथा तथा ॥ ३८४ ॥

8.385

श्लोक

तस्य वै नरसिंहस्य विष्णोर् अमित-तेजसः । प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः ॥ ३८५ ॥

8.386

श्लोक

विष्णोर् देव-जगद्-धातुर् जनार्दन-जगत्-पतेः । प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः ॥ ३८६ ॥

8.387

श्लोक

सकृद् वा न नमेद् यस् तु विष्णवे सर्म-कारिणे । शवोपरं विजानीयात् कदाचिद् अपि नालपेत् ॥ ३८७ ॥

8.388

श्लोक

पश्यन्तो भगवद्-द्वारं नाम शास्त्र-परिच्छदम् । अकृत्वा तत्-प्रणामादि यान्ति ते नरकौकसः ॥ ३८८ ॥

8.389

श्लोक

जन्म-प्रभृति यत् किञ्चित् पुमान् वै धर्मम् आचरेत् । सर्वं तन् निष्फलं यात्य् एक-हस्ताभिवादनात् ॥ ३८९ ॥

8.390

श्लोक

वस्त्र-प्रावृत-देहस् तु यो नरः प्रणमेत माम् । श्वित्री स जायते मूर्खह् सप्त जन्मानि भामिनी ॥ ३९० ॥

8.391

श्लोक

अग्रे पृष्ठे वाम-भागे समीपे गर्भ-मन्दिरे । जप-होम-नमस्कारान् न कुर्यात् केशवालये ॥ ३९१ ॥

8.392

श्लोक

सकृद् भूमौ निपतितो न शक्तः प्रणमेन् मुहुः । उत्थायोत्थाय कर्तव्यं दण्डवत् प्रणिपातनम् ॥ ३९२ ॥

8.393

श्लोक

ततः प्रदक्षिनां कुर्याद् भक्त्या भगवतो हरेः । नामानि कीर्तयन् शक्तौ तां च साष्टाङ्ग-वन्दनाम् ॥ ३९३ ॥

8.394

श्लोक

एकां चाण्ड्यां रवौ सप्त तिस्रो दद्याद् विनायके । चतस्रः केशवे दद्यात् शिवे त्व् अर्ध-प्रदक्षिनाम् ॥ ३९४ ॥

8.395

श्लोक

प्रदक्षिणां ये कुर्वन्ति भक्ति-युक्तेन चेतसा । न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥ ३९५ ॥

8.396

श्लोक

यस् त्रिः प्रदक्षिणां कुर्यात् साष्टाङ्गक-प्रणामकम् । दशाश्वमेधस्य फलं प्राप्नुयान् नात्र संशयः ॥ ३९६ ॥

8.397

श्लोक

विष्णोर् विमानं यः कुर्यात् सकृद् भक्त्या प्रदक्षिणाम् । अश्वमेध-सहस्रस्य फलम् आप्नोति मानवः ॥ ३९७ ॥

8.398

श्लोक

चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् । क्रान्तं भवति विप्राग्र्य तत् तीर्थ-गमनाधिकम् ॥ ३९८ ॥

8.399

श्लोक

प्रदक्षिणां तु यः कुर्यात् हरिं भक्त्या समन्वितः । हंस-युक्त-विमानेन विष्णु-लोकं स गच्छति ॥ ३९९ ॥

8.400

श्लोक

प्रदक्षिणेन चैकेन देव-देवस्य मन्दिरे । कृतेन यत् फलं नृणां तच् छृणुष्व नृपात्मज । पृथ्वी-प्रदक्षिण-फलं यत् तत् प्राप्य हरिं व्रजेत् ॥ ४०० ॥