Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ८

प्रातर्-अर्चा-समापनः

8.501

श्लोक

अयं पूज-विधिर् मन्त्र-सिद्ध्य्-अर्थस्य जपस्य हि । अङ्गं भक्तेस् तु तन्-निष्ठैर् न्यासादीन् अन्तरेष्यते ॥ ५०१ ॥

8.502

श्लोक

तत्र देवलये पूज नित्यत्वेन महाप्रभोः । काम्यत्वेन्âपि गेहे तु प्रायो नित्यतया मता ॥ ५०२ ॥

8.503

श्लोक

सेवादि-नियमो देवालये देवस्य चेष्यते । प्रायः स्व-गेहे स्वच्छन्द-सेवा स्व-व्रत-रक्षया ॥ ५०३ ॥

8.504

श्लोक

घृतेन स्नपितं देवं चन्दनेनानुलेपयेत् । सित-जात्याश् च कुसुमैह् पूजयेत् तद्-अनन्तरम् ॥ ५०४ ॥

8.505

श्लोक

श्वेतेन वस्त्र-युग्मेन तथा मुक्ता-फलैः शुभैः । मुख्य-कर्पूर-धूपेन पयसा पायसेन च ॥ ५०५ ॥

8.506

श्लोक

पद्म-सूत्रस्य वर्त्त्या च घृत-धूपेन चाप्य् अथ । पूजयेत् सर्वथा यत्नात् सर्व-काम-प्रदार्चनम् ॥ ५०६ ॥

8.507

श्लोक

कृत्वेमं मुच्यते रोगी रोगात् शीघ्रम् असंशयम् । दुःखार्तो मुच्यते दुःखाद् बद्धो मुच्येत बन्धनात् ॥ ५०७ ॥

8.508

श्लोक

राज-ग्रस्तश् च मुच्येत तथा राज-भयान् नरः । क्षेमेण गच्छेद् अध्वानम् सर्वानर्थ-विवर्जितः ॥ ५०८ ॥