Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ६

स्नापनिकः

6.1

श्लोक

श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् । मनोज्ञं यष्टु-कामस्य मूर्त्य्-अर्चा-विधिर् उच्यते ॥ १ ॥

6.2

श्लोक

स्वयं व्यक्ताः स्थापनाश् च मूर्तयो द्विविधा मताः । स्वयं व्यक्ताः स्वयं कृष्णः स्थापनास् तु प्रतिष्ठया ॥ २ ॥

6.3

श्लोक

शृणु देवि प्रवक्ष्यामि तद्-अर्चावसथं हरेः । स्थापनं च स्वयं व्यक्तं द्विविधं तत् प्रकीर्तितम् ॥ ३ ॥

6.4

श्लोक

शिला-मृद्-दारु-लोहाद्यैः कृत्वा प्रतिकृतिं हरेः । श्रौत-स्मार्तागम-प्रोक्त-विधिना स्थापनं हि यत् ॥ ४ ॥

6.5

श्लोक

तत् स्थापनं इति प्रोक्तं स्वयं व्यक्तं हि मे शृणु । यस्मिन् सन्निहितो विष्णुः स्वम् एव नॄणां भुवि ॥ ५ ॥

6.6

श्लोक

पाषाणदार्वोर् आत्मेशः स्वयं व्यक्तं हि तत् स्मृतम् । दुर्लभत्वात् स्वयं व्यक्त-मूर्तेः श्री-वैष्णवोत्तमः । यथाविधि प्रतिष्ठाप्य स्थापितां मूर्तिम् अर्चयेत् ॥ ६ ॥

6.7

श्लोक

नैकं स्व-वंशं तु नरस् तारयत्य् अखिलं जगत् । अर्चायाम् ईप्सितं नॄणां फलं यागादि-दुर्लभम् । प्रतिमाम् आश्रितोऽभीष्ट-प्रदां कल्प-लतां यथा ॥ ७ ॥

6.8

श्लोक

श्री-मूर्तिं क्षालनार्हां तु शस्त-गन्ध-जलादिना । प्रक्सालयेत् तद् अन्यां तु मूल-मन्त्रेण मार्जयेत् ॥ ८ ॥

6.9

श्लोक

श्री-मूर्ति-हृदयं स्पृष्ट्वा स्व-मन्त्रं चाष्टधा जपेत् । एवं प्रसादनं मूर्तेर् आत्मनस् तत्-प्रसादनात् । शुद्धिर् एका द्वितीया तु स्याद् अव्यग्रतयापि च ॥ ९ ॥

6.10

श्लोक

स्थान-शुद्धिस् तथा द्रव्य-शुद्धिश् च लिखिता पुरा । इति प्रकार-भेदेन भवेच् छुद्धि-चतुष्टयम् ॥ १० ॥

6.11

श्लोक

पुष्पेणाम्बु गृहीत्वा तु प्रोक्षयेते सर्व-साधनम् । मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥ ११ ॥

6.12

श्लोक

पुष्पाक्षतादि-द्रव्यानां कुर्यान् मन्त्रादि-शोधनम् । क्षालनेनाम्बु-लेपादेर् मूर्ति-शुद्दिं समाचरेत् । अव्यग्रत्वेनात्म-शुद्धिं क्सिति-शुद्धिं ततश् चरेत् ॥ १२ ॥

6.13

श्लोक

इति ॥ मन्त्र-शुद्धिं परां चित्त-शुद्धिं चेच्छन्ति केचन । एवं षट् शुद्धयः पुण्याः सम्प्रदायानुसारतः ॥ १३ ॥

6.14

श्लोक

ताम्रादि-पीठे श्री-खण्डाद्यालिप्तेऽष्ट-दलं लिखेत् । सकर्णिकं त्रिवृत्ताढ्यं पद्मं षोडश-केशरम् ॥ १४ ॥

6.15

श्लोक

सदलाग्रं चतुष्कोणं चतुर्द्वार-विभूषितम् । पूजा-यन्त्रं समुद्धृत्य पीठार्चां तत्र साधयेत् ॥ १५ ॥

6.16

श्लोक

पीठे भगवतो वामे श्री-गुरून् गुरु-पादुकाम् । नारदादीन् पूर्व-सिद्धान् यजेद् अन्यांश् च वैष्णवान् ॥ १६ ॥

6.17

श्लोक

दक्षिणे चार्चयेद् दुर्गां गणेशं च सरस्वतीम् । तत्र प्राग्-लिखित-न्यासस्यानुसारेण पूजयेत् ॥ १७ ॥

6.18

श्लोक

मध्ये आधार-शक्त्य्-आदीन् धर्मादींश् च विदिक्ष्व् अथ । अधर्मादींश् चतुर्-दिक्ष्व् अनन्तादीन् मध्यतः पुनः ॥ १८ ॥

6.19

श्लोक

शक्तीर् नवाष्ट-पत्रेषु कर्णिकायां च पूजयेत् । तथा तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् ॥ १९ ॥

6.20

श्लोक

तत्-पीठे मूल-मन्त्रेण श्री-मूर्तिं स्थापयेद् अथ । पुष्पाञ्जलिं गृहित्वेष्ट-देव-रूपं विचिन्तयेत् ॥ २० ॥

6.21

श्लोक

ततश् च मूल-मन्त्रेण क्षिप्त्वा पुष्पाञ्जलि-त्रयम् । निजेष्ट-देव-मूर्तेश् च परम् ऐक्यं विभावयेत् ॥ २१ ॥

6.22

श्लोक

ततो देवार्चने प्रौढ-पादताया निषेधनात् । भूमै निहित-पादः सन् कुर्याद् आवाहनादिकम् ॥ २२ ॥

6.23

श्लोक

यच् चावाह्यम् अधिष्ठानं तत्रावाहनम् आचरेत् । शालग्राम-स्थापने च नावाहन-विसर्जने ॥ २३ ॥

6.24

श्लोक

उद्वासावाहने न स्तः स्थावरे वै यथा तथा । शालग्रामार्चने नैव ह्य् आवाहन-विसर्जने ॥ २४ ॥

6.25

श्लोक

शालग्रामे तु भगवान् आविर्भूतो यथा हरिः । न तथान्यत्र सूर्यादौ वैकुण्ठेऽपि च सर्वगः ॥ २५ ॥

6.26

श्लोक

आवाहनादि-मुद्राश् च संदर्श्यावाहनं बुधः । तथा संस्थापनं सन्निधापनं सन्निरोधनम् ॥ २६ ॥

6.27

श्लोक

सकलीकरणं चावगुण्ठनं च यथाविधि । अमृतीकरणं कुर्यात् परमीकरणं तथा ॥ २७ ॥

6.28

श्लोक

आवाहनं चादरेण सम्मुखीकरणं प्रभोः । भक्त्या निवेशनं तस्य संस्थापन-मुद्रा-हृतम् ॥ २८ ॥

6.29

श्लोक

तवास्मीति त्वदीयत्व-दर्शनं सन्निधापनम् । क्रिया-समाप्ति-पर्यन्तं स्थापनं सन्निरोधनम् ॥ २९ ॥

6.30

श्लोक

सक्लईकरणं चोक्तं तत्-सर्वाङ्ग-प्रकाशनम् । आनन्द-घनतात्यन्त-प्रकाशो ह्य् अवगुठनम् ॥ ३० ॥

6.31

श्लोक

अमृतीकरणं सर्वैर् एवाङ्गैर् अवरुद्धता । परमीकरणं नामाभीष्ट-सम्पादनं परम् ॥ ३१ ॥

6.32

श्लोक

आगच्छ नरसिंहेति आवाह्याक्षत-पुष्पकैः । एतावतापि राजेन्द्र सर्व-पापैः प्रमुच्यते ॥ ३२ ॥

6.33

श्लोक

न्यसेद् यथा-सम्प्रदायं देवेऽङ्गादीनि पूर्ववत् । शङ्ख-चक्रादिकाश् चाथ मुद्रा विद्वान् प्रदर्शयेत् ॥ ३३ ॥

6.34

श्लोक

आवाहनादि-मुद्राश् च दर्शयित्वा ततः पुनः । अङ्ग-न्यासं च देवस्य कृत्वा मुद्राः प्रदर्शयेत् ॥ ३४ ॥

6.35

श्लोक

आवाहनीं स्थापनीं च तथान्यां सन्निधापनीम् । संनिरोध-करीं चान्यां सकलीकरणीं पराम् ॥ ३५ ॥

6.36

श्लोक

तथावगुण्ठनीं पश्चाद् अमृतीकरणीं तथा । परमीकरणं चान्या प्राग् अष्टौ दर्शयेद् इमाः ॥ ३६ ॥

6.37

श्लोक

शङ्खं चक्रं गदां पद्मं मुषलं शार्ङ्गम् एव च । खड्गं पाशाङ्कुशी तद्वद् वैनतेयं तथैव च ॥ ३७ ॥

6.38

श्लोक

श्रीवत्स-कौस्तुभौ वेणुम् अभीति-वरदौ तथा । वनमालां तथा मन्त्री दर्शयेत् कृष्ण-पूजने ॥ ३८ ॥

6.39

श्लोक

मुद्रा चापि प्रयोक्तव्या नित्य`अबिल्व-फलाकृतिः । इत्य् एताश् च पुनः सप्तदश मुद्राः प्रदर्शयेत् ॥ ३९ ॥

6.40

श्लोक

गन्द-दिग्धौ करौ कृत्वा मुद्राः सर्वत्र योजयेत् । योऽन्यथा कुरुते मूढो न सिद्धः फलभाग् भवेत् ॥ ४० ॥

6.41

श्लोक

एताभिः सप्तदशभिर् मुद्राभिस् तु विचक्सणः । यो वै माम् अर्चयेन् नित्यं मोहयेत् स सुरेश्वरम् । द्रापयेद् अपि विप्रेन्द्र ततः प्रार्थितम् आप्नुयत् ॥ ४१ ॥

6.42

श्लोक

नमन्त्य् अस्याधीना भवति सततं सर्व-जनता ॥ ४२ ॥

6.43

श्लोक

ततो निक्षिप्य देवस्योपरि पुष्पाञ्जलि-त्रयम् । दत्त्वासनार्थं पुस्पं च स्वागतं विधिनाचरेत् ॥ ४३ ॥

6.44

श्लोक

आसनाद्य्-उपचारेषु मुद्राः षोडश दर्शयेत् । प्रसिद्धाः पद्म-स्वस्त्य्-आद्या विद्वान् षोडशसु क्रमात् ॥ ४४ ॥

6.45

श्लोक

श्री-कृष्णायार्पयेद् अर्घ्यं पाद्यम् आचमनीयकम् । मधुपर्कं पुनश् चाचमनीयं च विधिर् यथा ॥ ४५ ॥

6.46

श्लोक

आवाहनासनं पाद्यम् अर्घ्यम् आचमनीयकम् । स्नानम् आचमनं वस्त्राचमनं चोपवीतकम् ॥ ४६ ॥

6.47

श्लोक

आचमनं गन्ध-पुष्पं धूप-दीपं प्रकल्पयेत् । नैवेद्यं पुनर् आचामं नत्वा स्तुत्वा विसर्जयेत् ॥ ४७ ॥

6.48

श्लोक

आदौ पुष्पाञ्जलिं दत्त्वा पादार्चनम् अतः परम् । पाद्यम् अर्घं त्व् आचमनं मधुपर्कं यथोदितम् ॥ ४८ ॥

6.49

श्लोक

अभ्यङ्गोद्वर्तने कृत्वा महा-स्नानं समाचरेत् । अभिषेकाङ्ग-वस्त्रं च दत्त्वा नीराजयेद् धरिम् ॥ ४९ ॥

6.50

श्लोक

श्री-मूर्तौ तु शिरस्य् अर्घ्यं दद्यात् पाद्यं च पादयोः । मुखे चाचमनीयं त्रिर् मधुपर्कं च तत्र हि ॥ ५० ॥

6.51

श्लोक

सर्वेष्व् अप्य् उपचारेषु पाद्यादिषु पृथक् पृथक् । आदौ पुष्पाञ्जलिं केचिद् इच्छन्ति भगवत्-पराः ॥ ५१ ॥

6.52

श्लोक

दत्त्वासनम् अथार्घ्यं च पाद्यम् आचमनीयकम् । देवदेवस्य विधिना सर्व-पापैः प्रमुच्यते ॥ ५२ ॥

6.53

श्लोक

आसनानां प्रदानेन स्थानं सर्वत्र विन्दति । गोदान-फलम् आप्नोति तथा पाद्य-प्रदो नरः ॥ ५३ ॥

6.54

श्लोक

ततस् त्व् अर्हण-दानेन सर्व-पापैः प्रमुच्यते । तथैवाचमईयस्य दाता ब्राहमण-सत्तमाः ॥ ५४ ॥

6.55

श्लोक

तीर्थ-तोयं तथा दत्त्वा देवस्याचमनं पुनः । स्वर्ग-लोकम् अवाप्नोति सर्व-पाप-विवर्जितः । नरस् त्व् आचमनीयस्य दाता भवति निर्मलः ॥ ५५ ॥

6.56

श्लोक

मधुपर्कस्य दानेन परं पदम् इहाश्नुते ॥ ५६ ॥

6.57

श्लोक

मधुपर्क-विधिं कृत्वा मधुपर्कं प्रयच्छति । ब्रह्मन् स याति परमं स्थानम् एतन् न संशयः ॥ ५७ ॥

6.58

श्लोक

विज्ञाप्य देवं स्नानार्थं पादुके पुरतोऽर्पयेत् । महा-विद्यादिना तं च स्नान-स्थानं ततो नयेत् ॥ ५८ ॥

6.59

श्लोक

प्राग्वत् तत्रासनं पाद्यं तत्रैवाचमनीयकम् । निवेद्य दर्शयेन् मुद्राम् अमृतीकरणीं बुधः ॥ ५९ ॥

6.60

श्लोक

शालग्राम-शिला-रूपं ततो देवं निवेशयेत् । स्नान-पात्रे निजाभीष्टां चलां श्री-मूर्तिम् एव वा ॥ ६० ॥

6.61

श्लोक

कृत्वा ताम्र-मये पात्रे योऽर्चयेन् मधुसूदनम् । फलम् आप्नोति पूजायाः प्रत्यहं शत्वार्षिकम् ॥ ६१ ॥

6.62

श्लोक

योऽर्चयेन् माधवं भक्त्या अश्वत्थ-दल-संस्थितम् । प्रत्यहं लभते पुण्यं पद्म-युत-समुद्भवम् ॥ ६२ ॥

6.63

श्लोक

रम्भा-दलोपरि हरिं कृत्वा योऽभ्यर्चयेन् नरः । वर्षायुतं भवेत् पीतः केशवः प्रियया सह ॥ ६३ ॥

6.64

श्लोक

ये पश्यन्ति सकृद् भक्त्या पद्म-पत्रोपरि स्थितम् । भक्त्या पद्मालया-कान्तं तैर् आप्तं दुर्लभ-फलम् ॥ ६४ ॥

6.65

श्लोक

ततः शङ्खेनाभिषेकं कुर्याद् घण्टादि-निःस्वनैः । मूलेन्âष्टाक्षरेणापि धूपयन्न् अन्तरान्तरा ॥ ६५ ॥

6.66

श्लोक

तत्र तु प्रथमं भक्त्या विदधीत सुगन्धिभिः । दिव्यैस् तैलादिभिर् द्रव्यैर् अभ्यङ्गं श्री-हरेः शनैः ॥ ६६ ॥

6.67

श्लोक

मालती-जातिम् आदाय सुगन्धानां तु वा पुनः ॥ ६७ ॥

6.68

श्लोक

तथान्य-पुष्प-जातीनां गृहीत्वा भक्तितो नराः । ये स्नापयन्ति देवेशम् उत्सवे वै हरेर् दिने ॥ ६८ ॥

6.69

श्लोक

मेदिनी-दान-तुल्यं हि फलम् उक्तं स्वयम्भुवा । यः पुनः पुष्प-तैलेन दिव्यौषधि-युतेन हि ॥ ६९ ॥

6.70

श्लोक

अभ्यङ्गं कुरुते विष्णोर् मध्ये क्षिप्त्वा तु कुङ्कुमम् । रोमाञ्चित-तनुर् भूत्वा प्रियया सह माधवः । प्रीत्या बिभर्ति स्वोत्सङ्गे मन्वन्तर-शतं हरिः ॥ ७० ॥

6.71

श्लोक

गन्ध-तैलानि दिव्यानि सुगन्धीनि शुचीनि च । केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते ॥ ७१ ॥

6.72

श्लोक

ततः शङ्ख-भृतेनैव क्षीरेण स्नापयेत् क्रमात् । दध्ना घृतेन मधुना खण्डेन च पृथक् पृथक् ॥ ७२ ॥

6.73

श्लोक

पञ्चामृताद्यैः स्नपनं सदा नेच्छन्ति तत् प्रियाः । किन्तु तैः काल-देशादि-विशेषे कारयन्ति तत् ॥ ७३ ॥

6.74

श्लोक

देवानां प्रतिमा यत्र घृताभ्यङ्गस् ततो भवेत् । पलानि तस्य देयानि श्रद्धया पञ्चविंशतिः ॥ ७४ ॥

6.75

श्लोक

अष्टोत्तर-पल-शतं देयं च सर्वदा । द्वे सहस्रे पलानां तु महा-स्नाने च सङ्ख्यया ॥ ७५ ॥

6.76

श्लोक

दातव्ये येन सर्वासु दिक्षु निर्याति तद्-घृतम् ॥ ७६ ॥

6.77

श्लोक

दुग्धादाव् अपि सङ्ख्येयम् एवं ज्ञेया मनीषिभिः । पल-सङ्ख्या च विज्ञेया याज्ञवल्क्यादि-वाक्यतः ॥ ७७ ॥

6.78

श्लोक

पञ्च-कृष्णलको माषस् ते सुवर्णस् तु षोडश । सुवर्णानां च चत्वारः पलम् इत्य् अभिधीयते ॥ ७८ ॥

6.79

श्लोक

स्नानार्थं सुरभी-क्षीरं महिष्याद्यास् तु कुत्सिताः ॥ ७९ ॥

6.80

श्लोक

शरीर-दुःख-शमनं मनो-दुःख-विनाशनम् । क्षीरेण स्नपनं विष्णोः क्षीराभोधि-प्रदं तथा ॥ ८० ॥

6.81

श्लोक

गवां शतस्य विप्रेभ्यः सम्यग्-दत्तस्य यत् फलम् । घृत-प्रस्थेन तद् विष्णोर् लभेत् स्नानान् न संशयः ॥ ८१ ॥

6.82

श्लोक

इन्द्रद्युम्नेन सम्प्राप्ता सप्त-द्वीपा वसुन्धरा । घृतोदकेन संयुक्ता प्रतिमा स्नापिता किल ॥ ८२ ॥

6.83

श्लोक

प्रतिमासं सिताष्टम्यां घृतेन जगतां पतिम् । स्नापयित्वा समभ्यर्च्य सर्व-पापैः प्रमुच्यते ॥ ८३ ॥

6.84

श्लोक

ज्ञानतोऽज्ञानतो वापि यत् पापं कुरुते नरः । तत् क्षालयति सन्ध्यायां घृत-स्नपन-तोषितः ॥ ८४ ॥

6.85

श्लोक

येषु क्षीरवहा नद्यो पायस-कर्दमाः । तान् लोकान् पुरुषा यान्ति क्षीर-स्नपनका हरेः ॥ ८५ ॥

6.86

श्लोक

द्वादश्यां पञ्चदश्यां च गव्येन हविसा हरेः । स्नापनं दैत्य-शार्दूल महा-पातक-नाशनम् ॥ ८६ ॥

6.87

श्लोक

दध्य्-आदीनां विकाराणां क्षीरतः सम्भवो यथा । तथैवाशेष-कामानां क्षीर-स्नानं ततो हरेः ॥ ८७ ॥

6.88

श्लोक

पयसा यस् तु देवेशं स्नापयेद् गरुड-ध्वजम् । सर्व-पाप-विशुद्धात्मा विष्णु-लोके महीयते ॥ ८८ ॥

6.89

श्लोक

स्नाप्य दध्ना सकृद् विष्णुं निर्मलं प्रिय-दर्शनम् । विष्णु-लोकम् अवाप्नोति सेव्यमानः सुरोत्तमः ॥ ८९ ॥

6.90

श्लोक

दुःस्वप्न-शमनं ज्ञेयम् अमङ्गल्य-विनाशनम् । माङ्गल्य-वृद्धि-दं दध्ना स्नपनं नर-पुङ्गव ॥ ९० ॥

6.91

श्लोक

यः करोति हरेर् अर्चां मधुना स्नापितां नरः । अग्नि-लोके स मोदित्वा पुनर् विष्णु-पुरे वसेत् ॥ ९१ ॥

6.92

श्लोक

मधुना स्नपनं कृत्वा सौभाग्यम् अधिगच्छति । लोक-मित्राण्य् अवाप्नोति तथैवेक्षु-रसेन च ॥ ९२ ॥

6.93

श्लोक

क्षीर-स्नानं प्रकुर्वन्ति ये नरा विष्णु-मूर्धनि । तेनाश्व-मेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम् ॥ ९३ ॥

6.94

श्लोक

क्षीराद् दश-गुणं दध्ना घृतं तस्माद् दशोत्तरम् । घृताद् दश-गुणं क्षौद्रं खण्डं तस्माद् दशोत्तरम् ॥ ९४ ॥

6.95

श्लोक

पुष्पोदकं च गन्धोदं वर्धते च दशोत्तरम् । मन्त्रोदकं च दर्भोदं तथैव नृप-सत्तम ॥ ९५ ॥

6.96

श्लोक

द्राक्षा-रसं चूत-रसं शत-वाजि-मखैः समम् । तथैव तीर्थ-नीरं च फलं यच्छति भूमिप ॥ ९६ ॥

6.97

श्लोक

स्नापनं कृष्ण-देवस्य यः करोति स्व-शक्तितः । फलम् आप्नोति तत् प्रोक्तं निष्कामो मुक्तिम् आप्नुयात् ॥ ९७ ॥

6.98

श्लोक

तीर्थोदकानि पुण्यानि स्वयम् आनीय मानवः । तैलस्य स्नपनं दत्त्वा सर्व-पापैः प्रमुच्यते ॥ ९८ ॥

6.99

श्लोक

स्नान-काले तु कृष्णस्य अगुरुं दहते तु यः । प्रविष्टो नासिका-रन्ध्रं पापं जन्मायुतं दहेत् ॥ ९९ ॥

6.100

श्लोक

उद्वर्तनं च तैलादेर् अपसारण-कारणम् । देवस्य कारयेद् द्रव्यैर् उपयुक्त्यैर् अनन्तरम् ॥ १०० ॥