Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १

गौरवः

1.1

श्लोक

चैतन्य-देवं भगवन्तम् आश्रये श्री-वैष्णवानां प्रमुदेऽञ्जसा लिखन् । आवश्यकं कर्म विचार्य साधुभिः सार्धं समाहृत्य समस्त-शास्त्रतः ॥ १ ॥

1.2

श्लोक

भक्तेर् विलासांश् चिनुते प्रबोधा- नन्दस्य शिष्यो भगवत्-प्रियस्य । गोपाल-भट्टो रघुनाथ-दासं सन्तोषयन् रूप-सनातनौ च ॥ २ ॥

1.3

श्लोक

मथुरा-नाथ-पादाब्ज-प्रेम-भक्ति-विलासतः । जातं भक्ति-विलासाख्यं तद्-भक्ताः शीलयन्त्व् इमम् ॥ ३ ॥

1.4

श्लोक

जीयासुर् आत्यन्तिक-भक्ति-निष्ठाः श्री-वैष्णवा माथुर-मण्डलेऽत्र । काशीश्वरः कृष्ण-वने चकास्तु श्री-कृष्ण-दासश् च स-लोकनाथः ॥ ४ ॥

1.5

श्लोक

आदौ स-कारणं लेख्यं श्री-गुर्व्-आश्रयणं ततः । गुरुः शिष्यः परीक्षादिर् भगवान् मनवोऽस्य च । मन्त्राधिकारी सिद्ध्य्-आदि-शोधनं मन्त्र-संस्क्रियाः ॥ ५ ॥

1.6

श्लोक

दीक्षा नित्यं ब्राह्म-काले शुभोत्थानं पवित्रता ॥ ६ ॥

1.7

श्लोक

प्रातः स्मृत्यादि कृष्णस्य वाद्यादैश् च प्रबोधनम् । निर्माल्योत्तारणाद्य्-आदौ मङ्गलारात्रिकं ततः ॥ ७ ॥

1.8

श्लोक

मैत्रादि-कृत्यं शौचाचमनं दन्तस्य धावनम् । स्नानं तान्त्रिक-सन्ध्यादि देव-सद्मादि-संस्क्रिया ॥ ८ ॥

1.9

श्लोक

तुलस्याद्याहृतिर् गेह-स्नानम् उष्णोदकादिकम् । वस्त्रं पीठं चोर्ध्व-पुण्ड्रं श्री-गोपी-चन्दनादिकम् ॥ ९ ॥

1.10

श्लोक

चक्रादि-मुद्रा माला च गृह-सन्ध्यार्चनं गुरोः । माहात्म्यं चाथ कृष्णस्य द्वार-वेश्मान्तरार्चनम् ॥ १० ॥

1.11

श्लोक

पूजार्थासनम् अर्घ्यादि-स्थापनं विघ्न-वारणम् । श्री-गुर्व्-आदि-नतिर् भूत-शुद्धिः प्राण-विशोधनम् ॥ ११ ॥

1.12

श्लोक

न्यास-मुद्रा-पञ्चकं च कृष्ण-ध्यानान्तरार्चने । पूजा पदानि श्री-मूर्ति-शालग्राम-शिलास् तथा ॥ १२ ॥

1.13

श्लोक

द्वारकोद्भव-चक्राणि शुद्धयः पीठ-पूजनम् । आवाहनादि तन्-मुद्रा आसनादि-समर्पणम् ॥ १३ ॥

1.14

श्लोक

स्नपनं शङ्ख-घण्टादि-वाद्यं नाम-सहस्रकम् । पुराण-पाठो वसनम् उपवीतं विभूषणम् ॥ १४ ॥

1.15

श्लोक

गन्धः श्री-तुलसी-काष्ठ-चन्दनं कुसुमानि च । पत्राणि तुलसी चाङ्गोपाङ्गावरण-पूजनम् ॥ १५ ॥

1.16

श्लोक

धूपो दीपश् च नैवेद्यं पानं होमो बलि-क्रिया । अवगण्डूषाद्यास्यवासो दिव्य-गन्धादिकं पुनः ॥ १६ ॥

1.17

श्लोक

राजोपचारा गीतादि महा-नीराजनं तथा । शङ्खादि-वादनं साम्बु-शङ्ख-नीराजनं स्तुतिः ॥ १७ ॥

1.18

श्लोक

नतिः प्रदक्षिणा कर्माद्य्-अर्पणं जप याचने । आगः-क्षमापणं नानागांसि निर्माल्य-धारणम् ॥ १८ ॥

1.19

श्लोक

शङ्खाम्बु-तीर्थं तुलसी-पूजा तन्-मृत्तिकादि च । धात्री-स्नान-निषेधस्य कालो वृत्तेर् उपार्जनम् ॥ १९ ॥

1.20

श्लोक

मध्याह्ने वैश-देवादि-श्राद्धं चानर्प्यम् अच्युते । विनार्चाम् अशने दोषास् तथानर्पित-भोजने ॥ २० ॥

1.21

श्लोक

नैवेद्य-भक्षणं सन्तः सत्-सङ्गोऽसद्-असङ्गतिः । असद्-गतिर् वैष्णवोपहास-निन्दादि-दुष्फलम् ॥ २१ ॥

1.22

श्लोक

सतां भक्तिर् विष्णु-शास्त्रं श्रीमद्-भागवतं तथा । लीला-कथा च भगवद्-धर्माः सायं निज-क्रियाः ॥ २२ ॥

1.23

श्लोक

कर्म-पात-परीहारस् त्रिकालार्चा विशेषतः । नक्तं कृत्यान्यथो पूजा-फल-सिद्ध्य्-आदि-दर्शनम् ॥ २३ ॥

1.24

श्लोक

विष्ण्व्-अर्थ-दानं विविधोपचारा न्यून-पूरणम् । शयनं महिमार्चायाः श्रीमन्-नाम्नस् तथाद्भुतः ॥ २४ ॥

1.25

श्लोक

नामापराधा भक्तिश् च प्रेमाथाश्रयणादयः । पक्षेष्व् एकादशी साङ्गा श्री-द्वादश्य्-अष्टकं महत् ॥ २५ ॥

1.26

श्लोक

कृत्यानि मार्ग-शीर्षादि-मासेषु द्वाद्शेष्व् अपि । पुरश्चरण-कृत्यानि मन्त्रं सिद्धस्य लक्षणम् ॥ २६ ॥

1.27

श्लोक

मूर्त्याविर्भावनं मूर्ति-प्रतिष्ठा कृष्ण-मन्दिरम् । जीर्णोद्धृतिः श्री-तुलसी-विवाहोऽनन्य-कर्म च ॥ २७ ॥

1.28

श्लोक

कृपया कृष्ण-देवस्य तद्-भक्त-जन-सङ्गतः । भक्तेर् माहात्म्यम् आकर्ण्य ताम् इच्छन् सद्-गुरुं भजेत् ॥ २८ ॥

1.29

श्लोक

अत्रानुभूयते नित्यं दुःख-श्रेणी परत्र च । दुःसहा श्रूयते शास्त्रात् तितीर्षेद् अपि तां सुधीः ॥ २९ ॥

1.30

श्लोक

लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः । तूर्णं यतेत न पतेद् अनु-मृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ ३० ॥

1.31

श्लोक

नृ-देहम् आद्यं सु-लभं सु-दुर्लभं प्लवं सु-कल्पं गुरु-कर्ण-धारम् । मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्म-हा ॥ ३१ ॥

1.32

श्लोक

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ ३२ ॥

1.33

श्लोक

मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् ॥ ३३ ॥

1.34

श्लोक

विप्रं प्रध्वस्त-काम-प्रभृति-रिपु-घटं निर्मलाङ्गं गरिष्ठां भक्तिं कृष्णाङ्घ्रि-पङ्केरुह-युगल-रजोरागिणीम् उद्वहन्तम् । वेत्तारं वेद-शास्तागम-विमल-पथां सम्मतं सत्सु दान्तं विद्यां यः संविवित्सुः प्रवण-तनु-मना देशिकं संश्रयेत ॥ ३४ ॥

1.35

श्लोक

तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् । आचार्यवान् पुरुषो वेद ॥ ३५ ॥

1.36

श्लोक

विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः । व्यसन-शतान्विताः समवहाय गुरोश् चरणं वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥ ३६ ॥

1.37

श्लोक

नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ॥ ३७ ॥

1.38

श्लोक

अवदातान्वयः शुद्धः स्वोचिताचार-तत्-परः । आश्रमी क्रोध-रहितो वेदवित् सर्व-शास्त्रवित् ॥ ३८ ॥

1.39

श्लोक

श्रद्धावान् अनसूयश् च प्रिय-वाक् प्रिय-दर्शनः । शुचिः सुवेशस् तरुणः सर्व-भूत-हिते रतः ॥ ३९ ॥

1.40

श्लोक

धीमान् अनुद्धत-मतिः पूर्णोऽहन्ता विमर्शकः । स-गुणोऽर्चासु कृतधीः कृतज्ञः शिष्य-वत्सलः ॥ ४० ॥

1.41

श्लोक

निग्रहानुग्रहे शक्तो होम-मन्त्र-परायणः । ऊहापोह-प्रकार-ज्ञः शुद्धात्मा यः कृपालयः । इत्य् आदि-लक्षणैर् युक्तो गुरुः स्याद् गरिमा-निधिः ॥ ४१ ॥

1.42

श्लोक

देवतोपासकः शान्तो विषयेष्व् अपि निःस्पृहः । अध्यात्मविद् ब्रह्म-वादी वेद-शास्त्रार्थ-कोविदः ॥ ४२ ॥

1.43

श्लोक

उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः । तत्त्वज्ञो यन्त्र-मन्त्राणां मर्म-भेत्ता रहस्यवित् ॥ ४३ ॥

1.44

श्लोक

पुरश्चरण-कृद् धोम-मन्त्र-सिद्धः प्रयोगवित् । तपस्वी सत्य-वादी च गृहस्थो गुरुर् उच्यते ॥ ४४ ॥

1.45

श्लोक

परिचर्या-यशो-लाभ-लिप्सुः शिष्याद् गुरुर् नहि । कृपा-सिन्धुः सुसम्पूर्णः सर्व-सत्त्वोपकारकः ॥ ४५ ॥

1.46

श्लोक

निःस्पृहः सर्वतः सिद्धः सर्व-विद्या-विशारदः । सर्व-संशय-संछेत्ता नालसो गुरुर् आहृतः ॥ ४६ ॥

1.47

श्लोक

ब्राह्मणः सर्व-काल-ज्ञः कुर्यात् सर्वेष्व् अनुग्रहम् । तद्-अभावाद् द्विज-श्रेष्ठः शान्तात्मा भगवन्-मयः ॥ ४७ ॥

1.48

श्लोक

भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्-क्रिया-परः । सिद्धि-त्रयम् आयुक्त आचार्यत्वेऽभिषेचितः ॥ ४८ ॥

1.49

श्लोक

क्षत्र-विट्-शूद्र-जातीनां क्षत्रियोऽनुग्रहे क्षमः । क्षत्रियस्यापि च गुरोर् भावाद् ईदृशो यदि ॥ ४९ ॥

1.50

श्लोक

वैश्यः स्यात् तेन कार्यश् च द्वये नित्यम् अनुग्रहः । सजातीयेन शूद्रेण तादृशेन महा-मते । अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा ॥ ५० ॥

1.51

श्लोक

वर्णोत्तमेऽथ च गुरौ सति या विश्रुतेऽपि च । स्वदेशतोऽथ वान्यत्र नेदं कार्यं शुभार्थिना ॥ ५१ ॥

1.52

श्लोक

विद्यमाने तु यः कुर्यात् यत्र तत्र विपर्ययम् । तस्येहामुत्र नाशः स्यात् तस्माच् छास्त्रोक्तम् आचरेत् ॥ क्षत्र-विट्-शूद्र-जातीयः प्रातिलोम्यं न दीक्षयेत् ॥ ५२ ॥

1.53

श्लोक

महा-भागवतः श्रेष्ठो ब्राह्मणो वै गुरुर् नृणाम् । सर्वेषाम् एव लोकानाम् असौ पूज्यो यथा हरिः ॥ ५३ ॥

1.54

श्लोक

महा-कुल-प्रसूतोऽपि सर्व-यज्ञेषु दीक्षितः । सहस्र-शाखाध्यायी च न गुरुः स्याद् अवैष्णवः ॥ ५४ ॥

1.55

श्लोक

गृहीत-विष्णु-दीक्षाको विष्णु-पूजा-परो नरः । वैष्णवोऽभिहितोऽभिज्ञैर् इतरोऽस्माद् अवैष्णवः ॥ ५५ ॥

1.56

श्लोक

बह्वाशी दीर्घ-सूत्री च विषयादिषु लोलुपः । हेतु-वाद-रतो दुष्टोऽवाग्-वादी गुण-निन्दकः ॥ ५६ ॥

1.57

श्लोक

अरोमा बहु-रोमा च निन्दिताश्रम-सेवकः । काल-दन्तोऽसितौष्ठश् च दुर्गन्धि-श्वास-वाहकः ॥ ५७ ॥

1.58

श्लोक

दुष्ट-लक्षण-सम्पन्नो यद्यपि स्वयम् ईश्वरः । बहु-प्रतिग्रहासक्त आचार्यः श्री-क्षयावहः ॥ ५८ ॥

1.59

श्लोक

शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रिय-दर्शनः । सत्य-वाक् पुण्य-चरितोऽदभ्र-धीर् दम्भ-वर्जितः ॥ ५९ ॥

1.60

श्लोक

काम-क्रोध-परित्यागी भक्तश् च गुरु-पादयोः । देवता-प्रवणः काय-मनो-वाग्भिर् दिवा-निशम् ॥ ६० ॥

1.61

श्लोक

नीरुजो निर्जिताशेष-पातकः श्रद्ध्यान्वितः । द्विज-देव-पितॄणां च नित्यम् अर्चा-परायणः ॥ ६१ ॥

1.62

श्लोक

युवा विनियताशेष-करणः करुणालयः । इत्य् आदि-लक्षणैर् युक्तः शिष्यो दीक्षाधिकारवान् ॥ ६२ ॥

1.63

श्लोक

अमान्य् अमत्सरो दक्षो निर्ममो दृठ-सौहृदः । असत्वरोऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् ॥ ६३ ॥

1.64

श्लोक

अलसा मलिनाः क्लिष्टा दाम्भिकाः कृपणास् तथा । दरिद्रा रोगिणो रुष्टा रागिणो भोग-लालसाः ॥ ६४ ॥

1.65

श्लोक

असूया-मत्सर-ग्रस्ताः शठाः परुष-वादिनः । अन्यायोपार्जित-धनाः पर-दार-रताश् च ये ॥ ६५ ॥

1.66

श्लोक

विदुषां वैरिणश् चैव अज्ञाः पण्डित-मानिनः । भ्रष्ट-व्रताश् च ये कष्ट-वृत्तयः पिशुनाः खलाः ॥ ६६ ॥

1.67

श्लोक

बह्व्-आशिनः क्रूर-चेष्टा दुरात्मनश् च निन्दित । इत्य् एवम् आदयोऽप्य् अन्ये पापिष्ठाः पुरुषाधमाः ॥ ६७ ॥

1.68

श्लोक

अकृत्येभ्योऽनिवार्याश् च गुरु-शिक्षा-सहिष्णवः । एवम्भूताः परित्याज्याः शिष्यत्वे नोपकल्पिताः ॥ ६८ ॥

1.69

श्लोक

यद्य् एते ह्य् उपकल्पेरन् देवताक्रोश-भाजनाः । भवन्तीह दर्द्रास् ते पुत्र-दार-विवर्जिताः ॥ ६९ ॥

1.70

श्लोक

नारकाश् चैव देहान्ते तिर्यञ्चः प्रभवन्ति ते ॥ ७० ॥

1.71

श्लोक

जैमिनिः सुगतश् चैव नास्तिको नग्न एव च ।कपिलश् चाक्षपादश् च षड् एते हेतु-वादिनः ॥ ७१ ॥

1.72

श्लोक

एतन्-मतानुसारेण वर्तन्ते ये नराधमाः । ते हेतु-वादिनः प्रोक्तास् तेभ्यस् तन्त्रं न दापयेत् ॥ ७२ ॥

1.73

श्लोक

तयोः परीक्षा चान्योऽन्यम् एकाब्दं सह-वासतः । व्यवहार-स्वभावानुभवेनैवाभिजायते ॥ ७३ ॥

1.74

श्लोक

तयोर् वत्सर-वासेन ज्ञातान्योन्य-स्वभावयोः । गुरुता शिष्यता चेति नान्यथैवेति निश्चयः ॥ ७४ ॥

1.75

श्लोक

नासंवत्सर-वासिने देयात् ॥ ७५ ॥

1.76

श्लोक

सद्-गुरुः स्वाश्रितं शिष्यं वर्षम् एकं परीक्षयेत् ॥ ७६ ॥

1.77

श्लोक

राज्ञि चामात्यजा दोषाः पत्नी-पापं स्व-भर्तरि । तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितम् ॥ ७७ ॥

1.78

श्लोक

सन्तोषयेद् अकुटिलार्द्रेतरान्तरात्मा तं स्वैर् धनैश् च वपुषाप्य् अनुकूलवाण्या । अब्द-त्रयङ्कमलन्âभधियाऽतिधीरस् तुष्टे विवक्षतु गुराव् अथ मन्त्र-दीक्षाम् ॥ ७८ ॥

1.79

श्लोक

उद-कुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा । मार्जनं लेपनं नित्यम् अङ्गानां वाससां चरेत् ॥ ७९ ॥

1.80

श्लोक

नास्य निर्माल्य-शयनं पादुकोपासनहाव् अपि । आक्रामेद् आसनं छ्यायाम् आसन्दीं वा कदाचन ॥ ८० ॥

1.81

श्लोक

साधयेद् दन्त-काष्ठादीन् कृत्यं चास्मै निवेदयेएत् ॥ ८१ ॥

1.82

श्लोक

अनापृच्छ्य न गन्तव्यं भवेत् प्रिय-हिते रसः । न पादौ सारयेद् अस्य सन्निधाने कदाचन ॥ ८२ ॥

1.83

श्लोक

जृम्भा-हास्यादिकं चैव कण्ठ-प्रावरणं तथा । वर्जयेत् सन्निधौ नित्यम् अथास्फोटनम् एव च ॥ ८३ ॥

1.84

श्लोक

श्रेयस् तु गुरुवद् वृत्तिर् नित्यम् एव समाचरेत् । गुरु-पुत्रेषु दारेषु गुरोश् चैव स्व-बन्धुषु ॥ ८४ ॥

1.85

श्लोक

उत्सादनं वै गात्राणां स्नापनोच्छिष्ट-भोजने । न कुर्याद् गुरु-पुत्रस्य पादयोः शौचम् एव च ॥ ८५ ॥

1.86

श्लोक

गुरुवत् परिपूज्याश् च स-वर्णा गुरु-योषितः । असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ ८६ ॥

1.87

श्लोक

अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च । गुरु-पत्न्या च कार्याणि केशानां च प्रसाधनम् ॥ ८७ ॥

1.88

श्लोक

गुरु-शय्यासनं यानं पादुके पाद-पीठकम् । स्नानोदकं तथा छायां लङ्घयेन् न कदाचन ॥ ८८ ॥

1.89

श्लोक

गुरोर् अग्रे पृथक्-पूजाम् अद्वैतं च परित्यजेत् । दीक्षां व्याख्यां प्रभुत्वं च गुरोर् अग्रे विवर्जयेत् ॥ ८९ ॥

1.90

श्लोक

यत्र यत्र गुरुं पश्येत् तत्र तत्र कृताञ्जलि । प्रणमेत् दण्डवद् भूमौ छिन्न-मूल इव द्रुमः ॥ ९० ॥

1.91

श्लोक

गुरोर् वाक्यासनं यानं पादुकोपानहौ तथा । वस्त्रं छायां तथा शिष्यो लङ्घयेन् न कदाचन ॥ ९१ ॥

1.92

श्लोक

नोदाहरेद् गुरोर् नाम परोक्षम् अपि केवलम् । न चैवास्यानुकुर्वीत गति-भाषण-चेष्टितम् ॥ ९२ ॥

1.93

श्लोक

गुरोर् गुरौ सन्निहिते गुरुवद् धृतिम् आचरेत् । न चाविसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥ ९३ ॥

1.94

श्लोक

यथा तथा यत्र तत्र न गृह्णीयाच् च केवलम् । अभक्त्या न गुरोर् नाम गृह्णीयाच् च यतात्मवान् ॥ ९४ ॥

1.95

श्लोक

प्रणवः श्रीस् ततो नाम विष्णु-शब्दाद् अनन्तरम् । पाद-शब्द-समेतं च नत-मूर्धाञ्जली-युतः ॥ ९५ ॥

1.96

श्लोक

न तम् आज्ञापयेन् मोहात् तस्याज्ञां न च लङ्घयेत् । नानिवेद्य गुरोः किञ्चिद् भोक्तव्यं वा गुरोस् तथा ॥ ९६ ॥

1.97

श्लोक

आयान्तम् अग्रतो गच्छेद् गच्छन्तं तम् अनुव्रजेत् । आसने शयने वापि न तिष्ठेद् अग्रतो गुरोः ॥ ९७ ॥

1.98

श्लोक

यत् किञ्चिद् अन्न-पानादि प्रियं द्रव्यं मनोरमम् । समर्प्य गुरवे पश्चात् स्वयं भुञ्जीत प्रत्यहम् ॥ ९८ ॥

1.99

श्लोक

न गुरोर् अप्रियं कुर्यात् ताडितः पीडितोऽपि वा । नावमन्येत तद्-वाक्यं नाप्रियं हि समाचरेत् ॥ ९९ ॥

1.100

श्लोक

आचार्यस्य प्रियं कुर्यात् प्राणैर् अपि धनैर् अपि । कर्मणा मनसा वाचा स याति परमां गतिम् ॥ १०० ॥