Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ८

प्रातर्-अर्चा-समापनः

8.201

श्लोक

इत्थं समर्प्य नैवेद्यम् दत्त्वा जवनिकं ततः । बहिर्-भूय यथा-सक्ति जपं सन्ध्यानम् आचरेत् ॥ २०१ ॥

8.202

श्लोक

भुङ्क्ते पात्रे कनक-घटिते षड्-रसं श्री-रमेशः ॥ २०२ ॥

8.203

श्लोक

एकन्तिभिश् चात्म-कृतं स-वयस्यस्य गोकुले । यशोदा-लाल्यमानस्य ध्येयं कृष्णस्य भोजनम् ॥ २०३ ॥

8.204

श्लोक

नित्यं चावश्यकं होमं कुर्यात् शक्त्य्-अनुसारतः । होमाशक्तौ तु कुर्वीत जपं तस्य चतुर्-गुणम् ॥ २०४ ॥

8.205

श्लोक

केऽप्य् एवं मन्वतेऽवश्यम् नित्य-होमं सदाचरेत् । पुरश्चरन-होमस्याशक्तौ हि स विधिर् मतः ॥ २०५ ॥

8.206

श्लोक

पूर्वं दीक्षा-विधौ होम-विधिश् च लिखितः कियान् । तद्-विस्तारश् च विज्ञेयस् तत्-तच्-छास्त्रात् तद्-इच्छुभिः ॥ २०६ ॥

8.207

श्लोक

समाप्तिं भोजने ध्यात्वा दत्त्वा गण्डूषिकं जलम् । अमृतापिधानम् असि स्वाहेत्य् उच्चारयेत् सुधीः ॥ २०७ ॥

8.208

श्लोक

विसृजेद् देव-वक्त्रे तत् तेजः संहार-मुद्रया । नैकन्ती तेजसः कुर्यान् निष्क्रान्तिं इव सङ्क्रमम् ॥ २०८ ॥

8.209

श्लोक

ततो जवनिका विद्वान् अपसार्य यथाविधि । विष्वक्सेनाय भगवन्-नैवेद्यांशं निवेदयेत् ॥ २०९ ॥

8.210

श्लोक

विश्वक्सेनाय दातव्यं नैवेद्यं तच्-छतांशकम् । पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय च ॥ २१० ॥

8.211

श्लोक

मुख्याद् ईसानतः पात्रान् नैवेद्यांशं समुद्धरेत् । सर्व-देव-स्वरुपाय पराय परमेष्ठिने ॥ २११ ॥

8.212

श्लोक

श्री-कृष्ण-सेव-युक्ताय विष्वक्सेनाय ते नमः । इत्य् उक्त्वा श्री-हरेर् वामे तीर्थ-क्लिन्नं समर्पयेत् ॥ २१२ ॥

8.213

श्लोक

सतंसं वा सहस्रांशम् अन्यथा निष्फलं भवेत् ॥ २१३ ॥

8.214

श्लोक

पश्चाच् च बलिर् इत्य् आदि श्लोकाव् उच्चार्य वैष्णवः । सर्वेभ्यो वैष्णवेभ्यस् तच्-छतांसं विनिवेदयेत् ॥ २१४ ॥

8.215

श्लोक

बलिर् विभीषणो भीष्मः कपिलो नारदोऽर्जुनः । प्रह्लादश् चाम्बरीषश् च वसुर् वायु-सुतः सिवः ॥ २१५ ॥

8.216

श्लोक

विष्वक्सेनोद्धवाक्रूरः सनकाद्याः शुकादयः । श्री-कृष्णस्य प्रसादोऽयं सर्वे गृह्णन्तु वैष्णवाः ॥ २१६ ॥

8.217

श्लोक

इदं यद्यपि युज्येत दर्पणार्पणतः परम् । तथापि भक्त-वात्सल्यात् कृष्णस्यात्रापि सम्भवेत् ॥ २१७ ॥

8.218

श्लोक

ततस् तद्-अन्न-शेषेण पार्षदेभ्यः समन्ततः । पुष्पाक्षतैर् विमिश्रेण बलिं यस् तु प्रयच्छति ॥ २१८ ॥

8.219

श्लोक

बलिना वैष्णवेनाथ तृप्तः सन्तो दिवौकसः । शान्तिं तस्य प्रयच्छन्ति श्रियम् आरोग्यम् एव च ॥ २१९ ॥

8.220

श्लोक

उपलिप्य ततो भूमिं पुनर् गाण्डूषिकं जलम् । दद्यात् त्रिर् अग्रे कृष्णस्य ततोऽस्मै दन्त-सोधनम् ॥ २२० ॥

8.221

श्लोक

पुनर् आचमनं दत्त्वा श्री-पाण्योः श्री-मुखस्य च । मार्जनायांशुकं दत्त्वा सर्वाण्य् अङ्गानि मार्जयेत् ॥ २२१ ॥

8.222

श्लोक

परिधाप्य् अपरे वस्त्रे पुनर् दत्त्वासनान्तरम् । पद्यम् आचमनीयं च पूर्ववत् पुनर् अर्पयेत् ॥ २२२ ॥

8.223

श्लोक

चन्दनागुरु-चूर्णादि प्रदद्यात् कर-मार्जनम् । कर्पूरद्य्-आस्य-वासं च ताम्बूलं तुलसीम् अपि ॥ २२३ ॥

8.224

श्लोक

पूग-जाति-फलं दत्त्वा जाति-पत्रं तथैव च । लवङ्ग-फल-कक्कोल-मेल-कत-फलं तथा ॥ २२४ ॥

8.225

श्लोक

ताम्बूलीनां किशलयं स्वर्ग-लोकम् अवाप्नुयात् । सौभाग्यम् अतुलं लोके तथा रूपम् अनुत्तमम् ॥ २२५ ॥

8.226

श्लोक

ताम्बूलं च स-कर्पूरम् स-पूगं नर-नायक । कृष्णाय यच्छति प्रीत्या तस्य तुष्टो हरिः सदा ॥ २२६ ॥

8.227

श्लोक

दिव्यं गन्धं पुनर् दत्त्वा यथेष्टम् अनुलेपनैः । दिव्यैर् विचित्रैः श्री-कृष्णम् भक्ति-च्छेदेन लेपयेत् ॥ २२७ ॥

8.228

श्लोक

रम्याणि चोर्ध्व-पुण्ड्राणि सद्-वर्णेन यथास्पदम् । सु-गन्धिनानुलेपेन कृष्णस्य रचयेत्तराम् ॥ २२८ ॥

8.229

श्लोक

ललाटे हृदये कुक्षौ कण्ठे बह्वोश् च पार्श्वयोः । विराजतोर्ध्व-पुण्ड्रेण सौवर्णेन विभूषितम् ॥ २२९ ॥

8.230

श्लोक

दिव्यानि कञ्चुकोष्णीष-काञ्च्य्-आदीनि पराण्य् अपि । वस्त्राणि सु-विचित्राणि श्री-कृष्णं परिधापयेत् ॥ २३० ॥

8.231

श्लोक

ततो दिव्य-किरीटादि-भूषणनि यथा-रुचि । विचित्र-दिव्य-माल्यानि परिधाप्य विभूषयेत् ॥ २३१ ॥

8.232

श्लोक

ततश् च चामर-च्छत्र-पादुकादीन् परान् अपि । महाराजोपचाराम्श् च दत्त्वादर्शं प्रदर्शयेत् ॥ २३२ ॥

8.233

श्लोक

यथादेशं यथा-कलं राज-लिङ्गं सुरालये । दत्त्वा भवति राजैव नात्र कार्या विचारणा ॥ २३३ ॥

8.234

श्लोक

तथा चामर-दानेन श्रीमान् भवति भू-तले । मुच्यते च तथा पापैः स्वर्ग-लोकं च गच्छति ॥ २३४ ॥

8.235

श्लोक

छत्रं बहु-शलाकं च झल्लरी-वस्त्र-संयुतम् । दिव्य-वस्त्रैश् च संयुक्तं हेम-दण्ड-समन्वितम् ॥ २३५ ॥

8.236

श्लोक

यः प्रयच्छति कृष्णस्य छत्र-लक्ष-युतैर् वृतः । प्रार्थ्यते सोऽमरैः सर्वैः क्रीडते पितृभिः सह ॥ २३६ ॥

8.237

श्लोक

राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्विजोत्तमः । नाप्नोति रिपुजं दुःखं सङ्ग्रामे रिपु-जिद् भयेत् ॥ २३७ ॥

8.238

श्लोक

उपानत्-सम्प्रदानेन विमानम् अधिरोहति । यथेष्टं तेन लोकेषु विचरत्य् अमर-प्रभः ॥ २३८ ॥

8.239

श्लोक

लोकेषु ध्वज-भूतः स्याद् दत्त्वा विष्णोर् वरं ध्वजम् । शक्र-लोकम् अवाप्नोति बहून् अब्द-गणान् नरः ॥ २३९ ॥

8.240

श्लोक

युक्तं पीत-पताकाभिर् निवेद्य गरुड-ध्वजम् । केशवाय द्विज-श्रेष्ठः सर्व-लोके महीयते इति ॥ २४० ॥

8.241

श्लोक

यत्-प्रसादे ध्वजारोप-माहात्म्यं लिखितं पुरा । तद् अत्राप्य् अखिलं ज्ञेयं तत्रात्रत्यं इदं तथा ॥ २४१ ॥

8.242

श्लोक

विष्णोर् ध्वजे तु सौवर्णम् दण्डं कुर्याद् विचक्षणः । पताका चापि पीता स्याद् गरुडस्य समीप-गा ॥ २४२ ॥

8.243

श्लोक

तल-व्र्ण्त-प्रदानेन निर्वृतिं प्राप्नुयात् परम् ॥ २४३ ॥

8.244

श्लोक

वितानक-प्रदानेन सर्व-पापैः प्रमुच्यते । परं निर्वृतिम् आप्नोति यत्र तत्राभिजायते ॥ २४४ ॥

8.245

श्लोक

दत्त्वा निस्त्रिंशकान् मुख्यान् शत्रुभिर् नाभिभूयते । दत्त्वा तद्-बन्धनं मुख्यम् अग्न्य्-आधेय-फलं लभेत् ॥ २४५ ॥

8.246

श्लोक

पतद्-ग्रहं तथा दत्त्वा शुभदस् त्व् अभिजायते । पाद-पीठ-प्रदानेन स्थानं सर्वत्र विन्दति ॥ २४६ ॥

8.247

श्लोक

दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् । मार्जयित्वा तथा तं च शुभगस् त्व् अभिजायते ॥ २४७ ॥

8.248

श्लोक

यत् किञ्चिद् देव-देवाय दद्याद् भक्ति-समन्वितः । तद् एवाक्षयम् आप्नोति स्वर्ग-लोकं स गच्छति ॥ २४८ ॥

8.249

श्लोक

श्रद्दधानैर् भक्ति-परैर् यान्य् उद्दिश्य जनार्दनम् । बलि-दानानि दीयन्ते अक्षयानि विदुर् बुधः ॥ २४९ ॥

8.250

श्लोक

अत्रापि केचिद् इच्छन्ति दत्त्वा पुष्पाञ्जलि-त्रयम् ।पूर्वोक्त दश शङ्खाद्या मुद्राः सन्दर्शयेत् ॥ २५० ॥

8.251

श्लोक

ततो विचित्रैर् ललितैः कारितैर् वा स्वयं कृतैः । गीतैर् वाद्यैश् च नृत्यैश् च श्री-कृष्णं परितोषयेत् ॥ २५१ ॥

8.252

श्लोक

नृत्यादि कुर्वतो भक्तान् नोपविष्टोऽवलोकयेत् । न च तिर्यग् व्रजेत् तत्र तैः सहान्तरयन् प्रभुम् ॥ २५२ ॥

8.253

श्लोक

नृत्यन्तं वैष्णवं हर्साद् आसीनो यस् तु पश्यति । खञ्जो भवति राजेन्द्र सोऽयं जन्मनि जन्मनि ॥ २५३ ॥

8.254

श्लोक

नृत्यतां गायतां मध्ये भक्तानां केशवस्य च । तान् ऋते यस् तिरो याति तिर्यग्-योनिं स गच्छति ॥ २५४ ॥

8.255

श्लोक

गीत-वाद्यादिकं नाट्यम् शङ्ख-तुर्यादि-निस्वनम् । यः कारयति विष्णोस् तु सन्ध्यायां मन्दिरे नरः । सर्व-काले विशेषेण कामगः काम-रूपवान् ॥ २५५ ॥

8.256

श्लोक

सु-सङ्गीत-विदग्धैश् च सेव्यमानोऽप्सरो-गणैः । महार्हेण विमानेन विचित्रेण विराजता । स्वर्गात् स्वर्गम् अनुप्राप्य विष्णु-लोके महीयते ॥ २५६ ॥

8.257

श्लोक

गीतं वाद्यं च नृत्यं च नाट्यं विष्णु-कथां मुने । यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः ॥ २५७ ॥

8.258

श्लोक

देवतायतने यस् तु भक्ति-युक्तः प्रनृत्यति । गीतानि गायत्य् अथवा तत्-फलं शृणु भू-पते ॥ २५८ ॥

8.259

श्लोक

गन्धर्व-राजतां गणैर् नृत्याद् रुद्र-गणेशताम् । प्राप्नोत्य् अष्ट-कुलैर् युक्तस् ततः स्यान् मोक्ष-भाङ् नरः ॥ २५९ ॥

8.260

श्लोक

विष्णु-क्षेत्रे तु यो विद्वान् कारयेद् भक्ति-संयुतः । गन-नृत्यादिकं चैव विष्ण्व्-आख्यं च कथां तथा ॥ २६० ॥

8.261

श्लोक

जातिं स्मृतिं च मेधां च तथैव परमां स्थितिम् । प्राप्नोति विष्णु-सालोक्यं सत्यम् एतन् नाराधिप ॥ २६१ ॥

8.262

श्लोक

विसृज्य लज्जां योऽधीते गायते नृत्यतेऽपि च । कुल-कोटि-समायुक्तो लभते मामकं पदम् ॥ २६२ ॥

8.263

श्लोक

भारते नृत्य-गीते तु कुर्यात् स्वाभाविकेऽपि वा । स्वाभाविकेन भगवान् प्रीणातीत्य् आह शौनकः ॥ २६३ ॥

8.264

श्लोक

विष्णोर् गीतं च नृत्यं च नटानां च विशेषतः । ब्रह्मन् ब्राह्मण-जातीनां कर्तव्यं नित्य-कर्म-वत् ॥ २६४ ॥

8.265

श्लोक

गीत-नृत्यानि कुर्वीत देव-द्विजादि-तुष्टये । न जीवनाय युञ्जीत विप्रो पाप-भिया क्वचित् ॥ २६५ ॥

8.266

श्लोक

एवं कृष्ण-प्रीणनत्वाद् गीतादेर् नित्यता परा । संसिद्धैर् अविशेषेन ज्ञेया सा हरि-वसरे ॥ २६६ ॥

8.267

श्लोक

केशवाग्रे नृत्य-गीतं न करोति हरेर् दिने । वह्निना किं न दग्धोऽसौ गतः किं न रसातलं ॥ २६७ ॥

8.268

श्लोक

कृष्णं सन्तोषयेद् यस् तु सु-गीतैर् मधुर-स्वनैः । सर्व-वेद-फलं तस्य जायते नात्र संशयः ॥ २६८ ॥

8.269

श्लोक

श्रुति-कोटि-समं जप्यं जप-कोटि-समं हविः । हविह्-कोटि-समं गेयं गेयं गेय-समं विदुः ॥ २६९ ॥

8.270

श्लोक

यदि गीतं क्वचिद् गीतं श्रीमद्-धरि-हराङ्कितम् । मोक्षं तु तत् फलं प्राहुह् सान्निध्यम् अथवा तयोः ॥ २७० ॥

8.271

श्लोक

रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि । मयि बुद्धिं समास्थाय गायेथ मम सत्-कथाः ॥ २७१ ॥

8.272

श्लोक

ध्वान्तं किम् अत्र विलसत्य् अमले द्यु-नाथे ॥ २७२ ॥

8.273

श्लोक

यद् आनन्द-कलं गायन् भक्तः पुण्याश्रु वर्षति । तत् सर्व-तीर्थ-सलिल-स्नानं स्व-मल-शोधनं ॥ २७३ ॥

8.274

श्लोक

ब्राह्मणो वासुदेवार्थं गायमनोऽनिशं परम् । सम्यक् ताल-प्रयोगेण सन्निपातेन वा पुनः ॥ २७४ ॥

8.275

श्लोक

नव वर्ष-सहस्राणि नव वर्ष-शतानि च । कुवेर-भवनं गत्वा मोदते वै यदृच्छया ॥ २७५ ॥

8.276

श्लोक

कुवेर-भवनाद् भ्रष्टः स्वच्छन्द-गमनालयः । फलम् आप्नोति सुश्रोणि मम कर्म-परायणः ॥ २७६ ॥

8.277

श्लोक

नारायणानां विधिना गानं श्रेष्ठतमं स्मृतम् । गानेनाराधितो विष्णुह् स्व-कीर्ति-जन-वर्चसा ददाति । तुष्टः स्थानं स्वं यथास्मै कौशिकया वै ॥ २७७ ॥

8.278

श्लोक

एष वो मुनि-शार्दूलः प्रोक्तो गीत-क्रमो मुनेः । ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं परम् ॥ २७८ ॥

8.279

श्लोक

हरेः सालोक्यम् आप्नोति रुद्र-गानाधिको भवेत् । कर्मणा मनसा वाचा वासुदेव-परायणः । गायन् नृत्यंस् तम् आप्नोति तस्माद् गेयं परं विदुः ॥ २७९ ॥

8.280

श्लोक

प्रगायतः स्व-वीर्याणि तीर्थ-पदः प्रिय-श्रवः । अहुत इव मे सिघ्रम् दर्शनं याति चेतसि ॥ २८० ॥

8.281

श्लोक

तद् एव पुण्यं भगवद्-गुनोदयम् ॥ २८१ ॥

8.282

श्लोक

तद् एव शश्वन् मनसो महोत्सवम् ।तद् एव शोकार्णव-शोषणं नॄणां यद् उत्तम-श्लोक-यशोऽनुगीयते ॥ २८२ ॥

8.283

श्लोक

दत्त्वा च गीतं धर्म-ज्ञा गन्धर्वैः सह मोदते । स्वयं गीतेन सम्पूज्य तस्यैवानुचरो भवेत् ॥ २८३ ॥

8.284

श्लोक

नाहं वसामि वैकुण्ठे न योगि-हृदयेषु वा । मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥ २८४ ॥

8.285

श्लोक

तेषां पूजादिकं गन्ध-पद्याद्यैः क्रियते नरैः । तेन प्रीतिं परां यामि न तथा मत्-पूजनात् ॥ २८५ ॥

8.286

श्लोक

कर्माण्य् औपायिकत्वेन ब्राह्मणोऽन्य इति स्मृतः । कारिकायाम् अतः प्रोक्तं विप्रो गीतै रमेद् इति ॥ २८६ ॥

8.287

श्लोक

यो नृत्यति प्रहृष्टात्मा भावैर् बहु-सुभक्तितः । स निर्दहति पापानि जन्मान्तर-शतेष्व् अपि ॥ २८७ ॥

8.288

श्लोक

बहुधोत्सार्यते हर्षाद् विष्णु-भक्तस्य नृत्यतः । पद्भ्यां भूमेर् दिशोऽक्षिभ्यां दोर्भ्यां वामङ्गलं दिवः ॥ २८८ ॥

8.289

श्लोक

यश् च नृत्यति सुश्रोणि पुराणोक्तं समासतः । त्रिंशद्-वर्ष-सहस्राणि त्रिंशद्-वर्ष-शतानि च । पुष्कर-द्वीपम् आसाद्य मोदते वै यदृच्छया ॥ २८९ ॥

8.290

श्लोक

पुष्कराच् च परिभ्रष्टः स्वच्छन्द-गमनालयः । फलम् आप्नोति सुश्रोणि मम कर्म-परायणः ॥ २९० ॥

8.291

श्लोक

नृत्यं दत्त्वा तथाप्नोति रुद्र-लोकम् असंशयम् । स्वयं नृत्येन सम्पूज्य तस्यैवानुचरो भवेत् ॥ २९१ ॥

8.292

श्लोक

नृत्यतां श्रीपतेर् अग्रे तालिका-वादनैर् भृशम् । उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥ २९२ ॥

8.293

श्लोक

वीणा-वादन-तत्त्व-ज्ञह् श्रुति-जाति-विशारदः । तालज्ञश् चाप्रयासेन मोक्ष-मार्गं नियच्छति ॥ २९३ ॥

8.294

श्लोक

वाद्यं दत्त्वा तथा विप्रह् शक्र-लोकम् अवाप्नुयात् । स्वयं वद्येन सम्पूज्य तस्यैवनुचरो भवेत् ॥ २९४ ॥

8.295

श्लोक

वाद्यानाम् अपि देवस्य तन्त्री-वाद्यं सदा प्रियम् । तेन सम्पूज्य वरदं गाणपत्यम् अवाप्नुयात् ॥ २९५ ॥

8.296

श्लोक

शक्तश् चेत् स-परिवारं कृष्णं गन्धादिभिः पुनः । पञ्चोपचारैर् मूलेन सम्पूज्यार्घ्यं समर्पयेत् ॥ २९६ ॥

8.297

श्लोक

ततश् च मूल-मन्त्रेन दत्त्वा पुष्पाञ्जलि-त्रयम् । महा-नीराजनं कुर्यान् महा-वाद्य-जय-स्वनैः ॥ २९७ ॥

8.298

श्लोक

प्रज्वलयेत् तद्-अर्थं च कर्पूरेण घृतेन वा । आरात्रिकं शुभे पात्रे विषमानेक-वर्तिकं ॥ २९८ ॥

8.299

श्लोक

बहु-वर्त्ति-समायुक्तं ज्वलन्तं केशवोपरि । कुर्याद् आरात्रिकं यस् तु कल्प-कोटिं वसेद् दिवि ॥ २९९ ॥

8.300

श्लोक

कर्पूरेन तु यः कुर्याद् भक्त्या केशव-मुर्धनि । आरात्रिकं मुनि-श्रेष्ठ प्रविशेद् विष्णुम् अव्ययं ॥ ३०० ॥