Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ८

प्रातर्-अर्चा-समापनः

8.101

श्लोक

जलेन मूल-जप्तेन प्रोक्ष्य तच् चामृतात्मकम् । सर्वं विचिन्त्य संस्पृश्य मूलं वाराष्टकं जपेत् ॥ १०१ ॥

8.102

श्लोक

अमृती-कृत्य तद् धेनु-मुद्रया सलिलादिभिः । तच् च कृष्णं च सम्पूज्य गृहित्वा कुसुमाञ्जलिम् ॥ १०२ ॥

8.103

श्लोक

श्री-कृष्णं प्रार्थ्य तद्-वक्त्रात् तेजो ध्यात्वा विनिर्गतम् । संयोज्य च निवेद्यैतत् पत्रं वामेन संस्पृशन् ॥ १०३ ॥

8.104

श्लोक

दक्षेण पाणिनादाय गन्ध-पुष्पान्वितं जलम् । स्वाहान्तं मूलम् उच्चार्य तज्-जलं विसृजेद् भुवि ॥ १०४ ॥

8.105

श्लोक

तत् पाणिभ्यां समुत्थाय निवेद्यं तुलसी-युतम् । पत्राढ्यं तस्य मन्त्रेण भक्त्या भागवतेऽर्पयेत् ॥ १०५ ॥

8.106

श्लोक

निवेदयमि भवते जुसनेदं हविर् हरे ॥ १०६ ॥

8.107

श्लोक

अमृतोपस्तरनम् असि स्वाहेत्य् उच्चारयन् हरेः । दत्त्वाथ विधिवद् वारि-गण्डूषं वाम-पाणिना । दर्शयेद् ग्रास-मुद्रां तु प्रफुल्लोत्पल-सन्निभम् ॥ १०७ ॥

8.108

श्लोक

प्राणादि-मुद्रा-हस्तेन दक्षिणेन तु दर्शयेत् । मन्त्रैश् चतुर्थी-स्वाहान्तैस् ताराद्यैस् तत्-तद्-आह्वयैः ॥ १०८ ॥

8.109

श्लोक

ततः स्पृशम्श् च करयोर् अङ्गुष्ठाभ्याम् अनामिके । प्रदर्शयेन् निवेद्यस्य मुद्रां तस्य मनुं जपन् ॥ १०९ ॥

8.110

श्लोक

मास-पार्श्वम् अनिलस् तथाऽमि-युक् ॥ ११० ॥

8.111

श्लोक

निवेद्यस्य मनुत्वेन स्वाभीष्टं मनुम् एव ते । एकान्तिनो जपन्तस् तु ग्रास-मुद्रां वितन्वते ॥ १११ ॥

8.112

श्लोक

न च ध्यायन्ते ते कृष्ण-वक्त्रात् तेजो-विनिर्गमम् । मञ्जुल-व्यवहारेण भोजयन्ति हरिं मुदा ॥ ११२ ॥

8.113

श्लोक

स्वादियः शाकराजि-परिकरम् अमृताहार-जोषं जुषस्व ॥ ११३ ॥

8.114

श्लोक

नैवेद्यं परया भक्त्या घण्टाद्यैर् जय-निस्वनैः । नीराजनैश् च हरये दद्याद् दीपासनं बुधः ॥ ११४ ॥

8.115

श्लोक

नैवेद्य-पात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं रजतं ताम्रं कंस्यं मृन्-मयम् एव च । पलाशं पद्म-पत्रं च पात्रं विष्णोर् अति-प्रियम् ॥ ११५ ॥

8.116

श्लोक

पत्राणां तु प्रदानेन नरकं च न गच्छति ॥ ११६ ॥

8.117

श्लोक

षट्-त्रिंशद्-अङ्गुलं पात्रम् उत्तमं परिकीर्तितम् । मध्यमं च त्रिभागोनं कन्यसं द्वादशाङ्गुलम् । वस्व्-अङ्गुल-विहीनं तु न पात्रं कारयेत् क्वचित् ॥ ११७ ॥

8.118

श्लोक

गुड-पायस-सर्पींषि सष्कुल्यापूप-मोदकान् । संयाव-दधि-सूपाम्श् च नैवेद्यं सति कल्पयेत् ॥ ११८ ॥

8.119

श्लोक

यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ ११९ ॥

8.120

श्लोक

नैवेद्यं चाधि-गुणवद् दद्यात् पुरुष-तुष्टि-दम् ॥ १२० ॥

8.121

श्लोक

केवलं घृत-संयुक्तं ॥ १२१ ॥

8.122

श्लोक

हविषा संस्कृता ये च यव-गोधूम-शलयः । तिल-मुद्गादयो माषा व्रीहयश् च प्रिया हरेः ॥ १२२ ॥

8.123

श्लोक

अन्नं चतुर्-विधं पुण्यम् गुणाढ्यं चामृतोपमम् । निष्पण्णं स्व-गृहे यद् वा श्रद्धया कल्पयेद् धरेः ॥ १२३ ॥

8.124

श्लोक

पुष्पं धूपं तथा दीपं नैवेद्यं सु-मनोहरम् । खण्ड-लड्डुक-श्री-वेस्त-कासाराशोक-वर्तिकाः ॥ १२४ ॥

8.125

श्लोक

स्वस्तिकोल्लसिक-दुग्ध-तिल-वेष्ट-किलाटिकाः । फलानि चैव पक्वानि नागरङ्गादिकानि च ॥ १२५ ॥

8.126

श्लोक

अन्यानि विधिना दत्त्वा भक्ष्याणि विविधानि च । एवम् आदिनि दापयेद् भक्तितो न्र्प ॥ १२६ ॥

8.127

श्लोक

यस् तु भागवतो देवि अन्नाद् येन तु प्रीणयेत् । प्रीणितस् तिष्ठतेऽसौ वा बहु-जन्मानि माधवि ॥ १२७ ॥

8.128

श्लोक

सर्व-व्रीहि-मयं गृह्यम् शुभं सर्व-रसान्वितम् । मन्त्रेण मे प्रदीयेत न किंचिद् अपि संस्पृशेत् ॥ १२८ ॥

8.129

श्लोक

इङ्गुदि-फल-बिल्वानि बदरामलकानि च । खर्जुराम्श् चासनाम्श् चैव मानवाम्श् च परूषकान् ॥ १२९ ॥

8.130

श्लोक

शालोड्डम्बरिकाम्श् चैव तथा प्लक्ष-फलानि च । पैप्पलं कण्टकीयं च तुम्बुरुं च प्रियङ्गुकम् ॥ १३० ॥

8.131

श्लोक

मरीचं शिंश-पाकं च भल्लातकर-मर्दकम् । द्राक्षां च दाडिमं चैव पिण्ड-खर्जूरम् एव च ॥ १३१ ॥

8.132

श्लोक

सौवीरं केलिकं चैव तथा शुभ-फलानि च । पिण्डारक-फलं चैव पुन्नाग-फलम् एव च ॥ १३२ ॥

8.133

श्लोक

शमीं चैव कवीरं च खर्जूरक-महाफलम् । कुमुदस्य फलं चैव वहेडक-फलं तथा ॥ १३३ ॥

8.134

श्लोक

अजं कर्कोटकं चैव तथा तल-फलानि च । कदम्बः कौमुदं चैव द्वि-विधं स्थल-कञ्जयोः ॥ १३४ ॥

8.135

श्लोक

पिण्डिकण्डेति विख्यातं वंश-नीपं ततः परम् । मधु-कण्डेति विख्यातं माहिषं कण्डम् एव च ॥ १३५ ॥

8.136

श्लोक

कर-मर्दक-कन्दं च तथा निलोत्पलस्य च । मृणालं पौष्करं चैव शालूकस्य फलं तथा ॥ १३६ ॥

8.137

श्लोक

एते चान्ये च बहवः काण्ड-मूल-फलानि च । एतानि चोपयोज्यानि ये मया परिकल्पिताः ॥ १३७ ॥

8.138

श्लोक

मूलकस्य ततः शाकम् चिञ्च-शाकं तथैव च । शाकं चैव कलायस्य सर्षपस्य तथैव च ॥ १३८ ॥

8.139

श्लोक

वंसकस्य तु शाकं च शाकम् एव कलम्बिकम् । आर्द्रकस्य च शाकं वै पालङ्कं शाकम् एव च ॥ १३९ ॥

8.140

श्लोक

अम्बिलोडक-शाकं च काशं कौमारकं तथा । शुक-मण्डल-पत्रं च द्वाव् एव तरु-वानकौ ॥ १४० ॥

8.141

श्लोक

चरस्य चैव शाकं च मधु-कोड्डुम्बरं तथा । एते चान्ये च बहवह् शतशोऽथ सहस्रशः । कर्मण्याश् चैव सर्वे वै ये मया परिकीर्तिताः ॥ १४१ ॥

8.142

श्लोक

व्रीहीणां च प्रवक्ष्यामि उपयोगाम्श् च माधवि । एक-चित्तं समाधाय तत् सर्वं शृणु सुन्दरि ॥ १४२ ॥

8.143

श्लोक

धर्माधार्मिक-रक्तं च सु-गन्धं रक्त-शालिकम् । दीर्घशूकं महाशालिं वर-कुङ्कुम-पत्रकम् ॥ १४३ ॥

8.144

श्लोक

ग्राम-शालिं समद्राशाम् स-श्रीशां कुश-शालिकाम् । यवाश् च द्वि-विधा ज्ञेयाः कर्मण्या मम सुन्दरि ॥ १४४ ॥

8.145

श्लोक

कर्मण्याश् चैव मुद्गाश् च तिलाः कृष्णाः कुलत्थकाः । गोधूमकं महा-मुद्ग-मुद्गाष्टकम् अवाट-जित् ॥ १४५ ॥

8.146

श्लोक

कर्मण्य् एतानि चोक्तानि व्यजनानि प्रियान्वितान् । प्रतिगृह्णाम्य् अहं ह्य् एतान् सर्वान् भागवतान् प्रियान् ॥ १४६ ॥

8.147

श्लोक

ये मयैवोपयोज्यानि गव्यं दधि पयो घृतम् ॥ १४७ ॥

8.148

श्लोक

हविः शल्योदनं दिव्यम् आज्य-युक्तं स-शर्करम् । नैवेद्यं देव-देवाय यावकं पायसं तथा ॥ १४८ ॥

8.149

श्लोक

नैवेद्यानाम् अभावे तु फलानि विनिवेदयेत् । फलानाम् अप्य् अभावे तु तृण-गुल्मौषधीर् अपि ॥ १४९ ॥

8.150

श्लोक

औषधीनाम् अलाभे तु तोयं च विनिवेदयेत् । तद्-अलाभे तु सर्वत्र मानसं प्रवरं स्मृतम् ॥ १५० ॥

8.151

श्लोक

यच्छन्ति तुलसी-शाकं श्रुतं ये माधवाग्रतः । कल्पान्तं विष्णु-लोके तु वसन्ति पितृभिः सह ॥ १५१ ॥

8.152

श्लोक

नाभक्ष्यं नैवेद्यार्थे भक्ष्येस्व् अप्य् अजा-महिषी-क्षीरं पञ्च-नखा मत्स्याश् च ॥ १५२ ॥

8.153

श्लोक

नीली-क्षेत्रं वापयन्ति मूलकं भक्षयन्ति ये । नैवास्ति नरकोत्तारह् कल्प-कोटि-शतैर् अपि ॥ १५३ ॥

8.154

श्लोक

माहिषं चाविकं चाजम् अयज्ञीयम् उदाहृतम् ॥ १५४ ॥

8.155

श्लोक

माहिषं वर्जयेन् मह्यं क्षीरं दधि घृतं यदि ॥ १५५ ॥

8.156

श्लोक

अभक्ष्यं चप्य् अहृद्यं च नैवेद्यं न निवेदयेत् । केश-कीटावपन्नं च तथा चाविहितं च यत् ॥ १५६ ॥

8.157

श्लोक

मूषिका-लाङ्गुलोपेतम् अवधूतम् अवक्षुतम् ।उड्डुम्बरं कपित्थं च तथा दन्त-शठं च यत् । एवम् आदीनि देवाय न देयानि कदाचन ॥ १५७ ॥

8.158

श्लोक

वृन्ताकं जालिका-शाकं कुसुम्भाश्मन्तकं तथा । पलाण्डुं लशुनं शुक्लम् निर्यासं चैव वर्जयेत् ॥ १५८ ॥

8.159

श्लोक

गृञ्जनं किंशुकं चैव कुकुण्डं च तथैव च । उडुम्बरम् अलाबुं च जग्ध्वा पतति वै द्विजः ॥ १५९ ॥

8.160

श्लोक

भुञ्जीतोद्धृत-साराणि न कदाचिन् नरेश्वर ॥ १६० ॥

8.161

श्लोक

न भक्षयति वृन्ताकं तस्य दूरतरो हरिः ॥ १६१ ॥

8.162

श्लोक

दोर्भ्यां पाद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा । मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ १६२ ॥

8.163

श्लोक

जानुभ्याम् चैव बाहुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥ १६३ ॥

8.164

श्लोक

यत्र मद्यं तथा मांसम् तथा वृन्ताक-मूलके । निवेदयेन् नैव तत्र हरेर् ऐकान्तिकी रतिः ॥ १६४ ॥

8.165

श्लोक

नैवेद्यानि मनोज्ञानि कृष्णस्याग्रे निवेदयेत् । कल्पान्तं तत्-पितॄणं तु तृप्तिर् भवति शाश्वती ॥ १६५ ॥

8.166

श्लोक

फलानि यच्छते यो वै सुहृद्यानि नरेश्वर । कल्पान्तं जायते तस्य स-फलं च मनोरथः ॥ १६६ ॥

8.167

श्लोक

हविः शाल्योदनं दिय्यम् आज्य-युक्तं स-शर्करम् । निवेद्य नरसिंहाय यावकं पायसं तथा ॥ १६७ ॥

8.168

श्लोक

समास् तण्डुल-शङ्ख्याया यावत्यस् तावतीर् नृप । विष्णु-लोके महा-भोगन् भुञ्जानस् ते स-वैष्णवाः ॥ १६८ ॥

8.169

श्लोक

अन्न-दस् तृप्तिम् आप्नोति स्वर्ग-लोकं च गच्छति । दत्त्वा च संविभागाय तथैवान्नम् अतन्द्रितः । त्रैलोक्य-तर्पिते पुण्यं तत्-क्षनात् समवाप्नुयात् ॥ १६९ ॥

8.170

श्लोक

अक्षय्यम् अन्न-पानं च पितृभ्यश् चोपतिष्ठते । ओदनं व्यजनोपेतम् दत्त्वा स्वर्गम् अवाप्नुयात् ॥ १७० ॥

8.171

श्लोक

परमान्नं तथा दत्त्वा तृप्तिम् आप्नोति शश्वतिम् । विष्णु-लोकम् अवाप्नोति कुलम् उद्धरते तथा ॥ १७१ ॥

8.172

श्लोक

घृतौदन-प्रदानेन दीर्घम् आयुर् अवाप्नुयात् । दध्य्-ओदन-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् ॥ १७२ ॥

8.173

श्लोक

क्षीरोदन-प्रदानेन दीर्घ-जीवितम् आप्नुयात् । इक्षूणां च प्रदानेन परं सौभाग्यम् अश्नुते ॥ १७३ ॥

8.174

श्लोक

रत्नानां चैव भागी स्यात् स्वर्ग-लोकं च गच्छति । फाणितस्य प्रदानेन अग्न्य्-आधान-फलं लभेत् ॥ १७४ ॥

8.175

श्लोक

तथा गुड-प्रदानेन कामिताभीष्टम् आप्नुयात् ॥ १७५ ॥

8.176

श्लोक

निवेद्येक्षु-रसं भक्त्या परं सौभाग्यम् आप्नुयात् । सर्वान् कामान् अवाप्नोति क्षौद्रं यश् च प्रयच्छति ॥ १७६ ॥

8.177

श्लोक

तद् एव तुहितोपेतम् राजसूयम् अवाप्नुयात् । वह्निष्टोमम् अवाप्नोति यवाकस्य निवेदकः । अति-रात्रम् अवाप्नोति तथा पूप-निवेदकः ॥ १७७ ॥

8.178

श्लोक

वैदलानां च भक्ष्याणां दानात् कामान् अवाप्नुयात् । दीर्घ-जीवितम् आप्नोति घृत-पूर-निवेदकः ॥ १७८ ॥

8.179

श्लोक

मोदकानां प्रदानेन कामान् आप्नोत्य् अभीप्सितान् ॥ १७९ ॥

8.180

श्लोक

नाना-विधानां भक्ष्याणां दानात् स्वर्गम् अवाप्नुयात् । भोजनीय-प्रदानेन तृप्तिम् आप्नोत्य् अनुत्तमाम् ॥ १८० ॥

8.181

श्लोक

तथा लेह्य-प्रदानेन सौभाग्यम् अधिगच्छति । बल-वर्णम् अवाप्नोति चूष्याणां च निवेदने ॥ १८१ ॥

8.182

श्लोक

कुल्माषोल्लासिक-दाता वह्न्य्-आधेयं फलं लभेत् । तथा कृषार-दानेन वह्निष्टोमम् अवाप्नुयात् ॥ १८२ ॥

8.183

श्लोक

धनानां क्षौद्र-युक्तानां लाजानां च निवेदकः । मुख्यं चैव शक्तूनां वह्निष्टोमम् अवाप्नुयात् ॥ १८३ ॥

8.184

श्लोक

वानप्रस्थाश्रितं पुण्यम् लभेच् छाक-निवेदकः । दत्त्वा हरितकं चैव तद् एव फलम् आप्नुयात् ॥ १८४ ॥

8.185

श्लोक

दत्त्वा शाकानि रम्याणि विशोकस् त्व् अभिजायते । दत्त्वा च व्यजनार्थाय तथोपकरणानि च ॥ १८५ ॥

8.186

श्लोक

सु-कुले लभते जन्म कन्द-मूल-निवेदकः । नीलोत्पल-विदरीणां तरुटस्य तथा द्विजः ॥ १८६ ॥

8.187

श्लोक

कन्द-दानाद् अवाप्नोति वानप्रस्थ-फलं शुभम् । त्रपुषेर् वारुकं दत्त्वा पुण्डरीक-फलं लभेत् ॥ १८७ ॥

8.188

श्लोक

कर्कन्धु-वदरे दत्त्वा तथा पारैवतं कलम् । परूषकं तथाभ्रं च पनसं नारिकेलकम् ॥ १८८ ॥

8.189

श्लोक

भव्यं मोचं तथा चोचम् खर्जूरम् अथ दाडिमम् । आम्रातक-स्रुवाम्लोट-फल-मान-प्रियालकम् ॥ १८९ ॥

8.190

श्लोक

जम्बू-बिल्वामलं चैव जात्यं वीणातकं तथा । नारङ्ग-बीज-पूरे च बीज-फल्गु-फलन्य् अपि ॥ १९० ॥

8.191

श्लोक

एवम् आदीनि दिव्यनि यः फलानि प्रयच्छति । तथा कन्दानि मुख्यानि देव-देवाय भक्तितः ॥ १९१ ॥

8.192

श्लोक

क्रिया-साफल्यम् आप्नोति स्वर्ग-लोकं तथैव च । प्राप्नोति फलम् आरोग्यम् मृद्वीकानां निवेदकः ॥ १९२ ॥

8.193

श्लोक

रसान् मुख्यान् अवाप्नोति सौभाग्यम् अपि चोत्तमम् । आम्रैर् अभ्यर्च्य देवेशम् अश्वमेध-फलं लभेत् ॥ १९३ ॥

8.194

श्लोक

मोचकं पनसं जम्बू तथान्यत् कुम्भालि-फलम् । प्राचीनामलकं श्रेष्ठं मधुकोड्डुम्बरस्य च । यत्न-पक्वम् अपि ग्राह्यं कदली-फलम् उत्तमम् ॥ १९४ ॥

8.195

श्लोक

यत् किञ्चिद् अल्पं नैवेद्यम् भक्त-भक्ति-रस-प्लुतम् । प्रतिभोजयति श्रीशस् तद्-दातॄन् स्व-सुखं द्रुतम् इति ॥ १९५ ॥

8.196

श्लोक

ततः प्राग्वद् विचित्राणि पनकान्य् उत्तमानि च । सु-गन्धि शीतलं स्वच्छं जलम् अप्य् अर्पयेत् ततः ॥ १९६ ॥

8.197

श्लोक

पानकानि सु-गन्धीनि शीतलानि विशेषतः । निवेद्य देव-देवाय वाजिमेधम् अवाप्नुयात् ॥ १९७ ॥

8.198

श्लोक

त्वगेला-नाग-कुसुम-कर्पूर-सित-संयुतैः । सिता-क्षौद्र-गुडोपेतैर् गन्ध-वर्ण-गुणान्वितैः ॥ १९८ ॥

8.199

श्लोक

बीज-पूरक-नारङ्ग-सहकार-समन्वितैः । राजसूयम् अवाप्नोति पनकैर् विनिवेदितैः ॥ १९९ ॥

8.200

श्लोक

निवेद्य नारिकेलाम्बु-वह्निष्टोम-फलं लभेत् । सर्व-काम-वहा नद्यो नित्यं यत्र मनोरमाः । तत्र पान-प्रदा यान्ति यत्र रामा गुणान्विताः ॥ २०० ॥