Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ७

पौष्पिकः

7.201

श्लोक

रक्तानि यानि धर्मज्ञाश् चैत्य-वृक्षोद्भवानि च । यानि श्मशान-जातानि तथा चाकालजानि च । दानं विवर्जयेद् यत्नात् पुष्पाणाम् अप्य् अगन्धिनाम् ॥ २०१ ॥

7.202

श्लोक

पारक्यारामजातैश् च कुसुमैर् अर्चयेत् सुरान् । तेन पापेन लिप्येयं यद्य् एतद् अनृतं वदे ॥ २०२ ॥

7.203

श्लोक

कलिकाभिस् तथा नेज्यं विना चम्पकजैः शुभैः । शुष्कैर् न पूजयेद् विष्णुं पत्रैः पुष्पैः फलैर् अपि ॥ २०३ ॥

7.204

श्लोक

जाति-यूथ्योस् तथा मल्ली-नव-मालिकयोर् अपि । कलिकाभिर् हरेर् भक्तैः सौरभ्यात् कैश्चिद् इष्यते ॥ २०४ ॥

7.205

श्लोक

न शुष्कैः पूजयेद् विष्णुं कुसुमैर् न मही-गतैः । नाविशीर्ण-दलैः क्लिष्टैर् न चैवाशु-विकाशितैः ॥ २०५ ॥

7.206

श्लोक

कीट-कोषोप-बिद्धानि शीर्ण-पर्युषितानि च । वर्जयेद् ऊर्णनाभेन वासितं यदि शोभनम् ॥ २०६ ॥

7.207

श्लोक

गन्धवन्त्य् अपवित्राणि उग्र-गन्धीनि वर्जयेत् ॥ २०७ ॥

7.208

श्लोक

गन्ध-हीनम् अपि ग्राह्यं पवित्रं यत् कुशादिकम् ॥ २०८ ॥

7.209

श्लोक

चतुष्पथ-शिवावास-श्मशानावनि-मध्यतः । सुगन्धि-फल-पुष्पाणि नाद-दीतार्चने हरेः ॥ २०९ ॥

7.210

श्लोक

न विशीर्ण-दलैः श्लिष्टैर् नाशुभैर् नाविकाशिभिः । पूति-गन्ध्य्-उग्र-गन्धीनि अम्ल-गन्धानि वर्जयेत् ॥ २१० ॥

7.211

श्लोक

कीट-कोषोपबिद्धानि शीर्ण-पर्युषितानि च । भग्न-पत्रं च न ग्राह्यं कृमि-दुष्टं न चाहरेत् ॥ २११ ॥

7.212

श्लोक

वर्जयेद् ऊर्णनाभेन वासितं यदि शोभनम् । स्थलस्थं नोद्धरेत् पुष्पं छेदयेज् जलजं न तु । यानि स्पृष्टानि चास्पृश्यैर् लोकायुक्तैश् च वर्जयेत् ॥ २१२ ॥

7.213

श्लोक

न पर्युषित-दोषोऽस्ति जलजोत्पल-चम्पके । तुलस्य्-अगस्त्य-बकुले बिल्वे गङ्गा-जले तथा ॥ २१३ ॥

7.214

श्लोक

न गृहे करवीरस्थैः कुसुमैर् अर्चयेद् धरिम् । पतितैर् मुकुलैर् म्लानैः श्वासैर् वा जन्तु-दूषितैः । आघातैर् अङ्ग-संस्पृष्टैर् दूषितैश् चैव नार्चयेत् ॥ २१४ ॥

7.215

श्लोक

क्रकरस्य च पुष्पाणि तथा दुस्तूरकस्य च । कृष्णं च कूटजं चार्कं नैव देयं जनार्दने ॥ २१५ ॥

7.216

श्लोक

नार्कं नोमत्तकं झिण्टिं तथैव गिरि-कर्णिकाम् । न कण्टकारिका-पुष्पम् अच्युताय निवेदयेत् ॥ २१६ ॥

7.217

श्लोक

कूटजं शाल्मली-पुष्पं शिरीषं च जनार्दने । निवेदितं भयं चोग्रं निःसत्त्वं च प्रयच्छति ॥ २१७ ॥

7.218

श्लोक

येऽर्चयन्ति त्रिलोकेशम् अर्क-पुष्पैर् जनार्दनम् । तेभ्यः क्रुद्धो भयं दुःखं क्रोधं विष्णुः प्रयच्छति ॥ २१८ ॥

7.219

श्लोक

उन्मत्तकेन ये मूढाः पूजयन्ति त्रिविक्रमम् । उन्मादं दारुणं तेभ्यो ददाति गरुडध्वजः ॥ २१९ ॥

7.220

श्लोक

काञ्चनावयवैः पुष्पैर् येऽर्चयन्त्य् असुर-द्विषम् । दारिद्र्यं दुःख-बहुलं तेषां विष्णुः प्रयच्छति ॥ २२० ॥

7.221

श्लोक

गिरि-कर्णिकया विष्णुं येऽर्चयन्त्य् अबुधा नराः । तेषां कुल-क्षयं घोरं कुरुते मधुसूदनः ॥ २२१ ॥

7.222

श्लोक

मध्याह्ने स्नानम् आचर्य समाहृतैः । नैव सम्पूजयेद् विष्णुं यन् निषिद्धानि तान्य् अपि ॥ २२२ ॥

7.223

श्लोक

स्नानं कृत्वा तु यत् किंचित् पुष्पं गृह्णन्ति वै नराः । देवतास् तन् न गृह्णन्ति पितरः खलु वै द्विज । ऋषयस् तन् न गृह्णन्ति भस्मीभवति काष्ठवत् ॥ २२३ ॥

7.224

श्लोक

कुसुमानाम् अलाभे तु चौर्यादानं न दुष्यति । देवतार्थं तु कुसुमम् अस्तेयं मनुर् अब्रवीत् ॥ २२४ ॥

7.225

श्लोक

पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे । अदत्तादानम् अस्तेयं मनुः प्राह प्रजापतिः ॥ २२५ ॥

7.226

श्लोक

गृहीतव्यानि पुष्पाणि देवार्चन-विधौ द्विजाः । नैकस्माद् एव नियतम् अननुज्ञाप्य केवलम् ॥ २२६ ॥

7.227

श्लोक

विहितेषु निषिद्धानां विहितालाभतो मतम् । कुसुमानाम् उपादानं निषिद्धानां न कर्हिचित् ॥ २२७ ॥

7.228

श्लोक

विहित-प्रतिषिद्धैस् तु निहितालाभतोऽर्चयेत् ॥ २२८ ॥

7.229

श्लोक

क्लिष्टं पर्युषितं च भूमि-पतितं छिद्रं च कीटान्वितं यत् केशोपहतं च गन्ध-रहितं यच् चोग्र-गन्धान्वितम् । हस्ते यद् विधृतं प्रणाम-समये यद् वाम-हस्ते कृतं यच् चान्तर्-जलधौ तम् अर्चन-विधौ पुष्पं च तद् वर्जयेत् ॥ २२९ ॥

7.230

श्लोक

भङ्क्त्वा यद् विटपादिकं क्षितिरुहं चोत्पाट्य यच् चाहृतं यच् चाक्रम्य समाहृतं तद् अखिलं पुष्पं भवत्य् आसुरम् । चौर्याकृष्टम् अनुक्ति-दुष्टम् अशुचि-स्पृष्टं यद् अप्रोक्षितं यच् चाघ्रातम् अधोऽम्बरे विनिहितं क्रीतं च तद् वर्जयेत् ॥ २३० ॥

7.231

श्लोक

पत्राणि चापयेद् ऊर्वाद्य्-अङ्कुरान् अपि भक्तितः । किन्तु श्री-तुलसी-पत्रं सर्वत्रैव विशेषतः ॥ २३१ ॥

7.232

श्लोक

पुष्पाभावेन यो दद्याद् अत्र दूर्वाङ्कुरान् अपि । सोऽपि पुण्यम् अवाप्नोति पुष्प-दानस्य वै द्विजाः ॥ २३२ ॥

7.233

श्लोक

पुष्पाभावे हि देयानि पत्राण्य् अपि जनार्दने । पत्राभावे पयो देयं तेन पुण्यम् अवाप्नुयात् ॥ २३३ ॥

7.234

श्लोक

निवेद्य भक्त्या मधुसूदनाय द्रुम-च्छदं वाप्य् अथ सत्-प्रसूनम् । दूर्वाङ्कुरं वा सलिलं द्विजेन्द्राः प्राप्नोति तत्-तन्-मनसा यथेच्छति ॥ २३४ ॥

7.235

श्लोक

भृङ्ग-राजस्य बिल्वस्य बक-पुष्पस्य च द्विजाः । जबाम्र-बीज-पूराणां पत्राणि विनिवेदयेत् ॥ २३५ ॥

7.236

श्लोक

एतेषाम् अपि चैकस्य पत्र-दानं महा-फलम् । पत्राणि स-सुगन्धीनि पल्लवानि मृदूनि च । तेन पुण्यम् अवाप्नोति पुष्प-दान-समुद्भवम् ॥ २३६ ॥

7.237

श्लोक

पत्राण्य् अपि सुपुण्यानि हरि-प्रीति-कराणि च । प्रवक्ष्यामि नृप-श्रेष्ठ शृणुष्व गदतो मम । अपामार्गं तु प्रथम्ं भृङ्ग-राजं ततः परम् ॥ २३७ ॥

7.238

श्लोक

ततस् तमाल-पत्रं च ततश् च शमि-पत्रकम् । दूर्वा-पत्रं ततः श्रेष्ठं ततोऽपि कुश-पत्रकम् ॥ २३८ ॥

7.239

श्लोक

तस्माद् आमलकं श्रेष्ठं ततो बिल्वस्य पत्रकम् । बिल्व-पत्राद् अपि हरेस् तुलसी-पत्रम् उत्तमम् ॥ २३९ ॥

7.240

श्लोक

एतेषां च यथा-लब्धैः पत्रैर् यश् चार्चयेद् धरिम् । सर्व-पाप-विनिर्मुक्तो विष्णु-लोके महीयते ॥ २४० ॥

7.241

श्लोक

बिल्व-पत्रं समी-पत्रं भृङ्गरजस्य च । तमालामलकी-पत्रं शस्तं केशव-पूजने ॥ २४१ ॥

7.242

श्लोक

तेषां न सन्ति पुष्पाणि प्रशस्तान्य् अर्चने विभोः । पल्लवान्य् अपि तेषां स्युः शस्तान्य् अर्चा-विधौ हरेः ॥ २४२ ॥

7.243

श्लोक

केतकी-पुष्प-पत्रं च भृगराजस्य पत्रकम् । तुलसी काल-तुलसी सद्यस् तुष्टि-करं हरेः ॥ २४३ ॥

7.244

श्लोक

बिल्व-पत्रं शमी-पत्रं पत्रं भृङ्गरजस्य च । तमाल-पत्रस्य हरेः सद्यस् तुष्टि-करं भवेत् ॥ २४४ ॥

7.245

श्लोक

शमी-पत्रैश् च यो देवं पूजयत्य् असुर-द्विषम् । यम-मार्गो महा-घोरो निस्तीर्णस् तेन नारद ॥ २४५ ॥

7.246

श्लोक

कुम्भी-पत्रेण देवर्षे येऽर्चयन्ति जनार्दनम् । कोटि-जन्मार्जितं पापं दहते गरुड-ध्वजः ॥ २४६ ॥

7.247

श्लोक

सकृद् अभ्यर्च्य गोविन्दं बिल्व-पत्रेण मानवः । हरिर् दद्यात् फलं तस्मै सर्व-यज्ञैः सुदुर्लभम् ॥ २४७ ॥

7.248

श्लोक

बिल्व-पत्रेण ये देवं कार्त्तिके कलि-वर्धन । पूजयन्ति महा-भक्त्या मुक्तिस् तेषां मयोदिता ॥ २४८ ॥

7.249

श्लोक

मारुकं केतकी-पत्रं तथा दमनकं मुने । दत्त-मात्रं हरेः प्रीतिं करोति शत-वार्षिकीम् ॥ २४९ ॥

7.250

श्लोक

दमनैकेन देवेशं सम्प्राप्ते मधु-माधवे । गो-सहस्रस्य तु मुने सम्पूज्य लभते फलम् ॥ २५० ॥

7.251

श्लोक

दूर्वाङ्कुरं हरेर् यस् तु पूजा-काले प्रयच्छति । पूजा-फलं शत-गुणं सम्यग् आप्नोति मानवः ॥ २५१ ॥

7.252

श्लोक

मञ्जरीं सहकारस्य केशवे यदि नारद । ये यच्छन्ति महा-भागास् ते कोटि-फल-भागिनः ॥ २५२ ॥

7.253

श्लोक

शक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितो मधुसूदनः । ददाति हि फलं नूनं यज्ञ-दानादि-दुर्लभम् ॥ २५३ ॥

7.254

श्लोक

बिल्व-पत्रैर् अखण्डैश् च सकृद् देवं प्रपूज्य वै । सर्व-पाप-विनिर्मुको मम लोके स तिष्ठति ॥ २५४ ॥

7.255

श्लोक

सकृद् अभ्यर्च्य गोविन्दं बिल्व-पत्रेण मानवः । मुक्ति-भागी निरातङ्कः क्नस्यानुचरो भवेत् ॥ २५५ ॥

7.256

श्लोक

मरुको दमनश् चैव सद्यस् तुष्टिकरो हरेः ॥ २५६ ॥

7.257

श्लोक

पुष्पं वा यदि वा पत्रं फलं नेष्टम् अधोमुखम् । दुःखदं तत् समाख्यातं यथोत्पन्नं तथार्पणम् ॥ २५७ ॥

7.258

श्लोक

पुष्पं वा यदि वा पत्रं फलं नेष्टम् अधोमुखम् । दुःखदं तत् समाख्यातं यथोत्पन्नं तथार्पणम् ॥ २५८ ॥

7.259

श्लोक

तुलसी न येषां हरि-पूजनार्थं सम्पद्यते माधव-पुष्य-वासरे । धिग् यौवनं जीवनम् अर्थ-सन्ततिं तेषां सुखं नेह च दृश्यते परे ॥ २५९ ॥

7.260

श्लोक

तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् । तस्याहं प्रतिगृह्णामि न पूजां शतवार्षिकीम् ॥ २६० ॥

7.261

श्लोक

यद् गृहे नास्ति तुलसी शालग्राम-शिलार्चने । श्मशान-सदृशं विद्यात् तद्-गृहं शुभ-वर्जितम् ॥ २६१ ॥

7.262

श्लोक

तुलसीं विना या क्रियते न पूजा स्नानं न तद् यत् तुलसीं विना कृतम् । भुक्तं न तद् यत् तुलसीं विना कृतं पीतं न तद् यत् तुलसीं विना कृतम् ॥ २६२ ॥

7.263

श्लोक

तुलसी-रहितां पूजां न गृह्णाति सदा हरिः । काष्ठं वा स्पर्शयेत् तत्र नो चेत् तन् नामतो यजेत् ॥ २६३ ॥

7.264

श्लोक

तुलसी-दलम् आदाय योऽन्यं देवं प्रपूजयेत् । ब्रह्महा स हि गोघ्नश् च स एव गुरु-तल्पगः ॥ २६४ ॥

7.265

श्लोक

तुलसी-दल-संमिश्रं हरेर् यच्छेच् च तत् सदा ॥ २६५ ॥

7.266

श्लोक

भगवद्-दुर्लभायास् तु तुलस्या महिमाद्भुतः । सर्व-शास्त्रेषु विख्यातः संक्षेपेणेह लिख्यते ॥ २६६ ॥

7.267

श्लोक

सर्वौषधि-रसनैव पुरा ह्य् अमृत-मन्थने । सर्व-सत्त्वोपकाराय विष्णुना तुलसी कृता ॥ २६७ ॥

7.268

श्लोक

न विप्र-सदृशं पात्रं न दानं सुरभी-समम् । न च गङ्गा-समं तीर्थं न पत्रं तुलसी-समम् ॥ २६८ ॥

7.269

श्लोक

अभिन्न-पत्रां हरितां हृद्य-मञ्जरि-संयुताम् । क्षीरोदार्णव-सम्भूतां तुलसीं दापयेद् धरेः ॥ २६९ ॥

7.270

श्लोक

तावद् गर्जन्ति पुष्पाणि मालत्य्-आदीनि भूसुर । यावन् न प्राप्यते पुण्या तुलसी कृष्ण-वल्लभा ॥ २७० ॥

7.271

श्लोक

कृष्णा वाप्य् अथवाकृष्णा तुलसी कृष्ण-वल्लभा । सिता वाप्य् अथवा कृष्णा द्वादशी वल्लभा हरेः ॥ २७१ ॥

7.272

श्लोक

तावद् गर्जन्ति रत्नानि कौस्तुभादीन्य् अहर्निशम् । यावन् न प्राप्यते कृष्णा तुलसी-पत्र-मञ्जरी ॥ २७२ ॥

7.273

श्लोक

पूर्वम् उग्र-तपः कृत्वा वरं वव्रे मनस्विनी । तुलसी सर्व-पुष्पेभ्यः पत्रेभ्यो वल्लभा ततः ॥ २७३ ॥

7.274

श्लोक

सर्वासां पत्र-जातीनां तुलसी केशव-प्रिया ॥ २७४ ॥

7.275

श्लोक

सर्वथा सर्व-कालेषु तुलसी विष्णु-वल्लभा ॥ २७५ ॥

7.276

श्लोक

तुलसी-दल-पूजाया मया वक्तुं न शक्यते । अत्यन्त-वल्लभा सा हि शालग्रामाभिधे हरौ ॥ २७६ ॥

7.277

श्लोक

पातिव्रत्येन वृन्दासौ हरिम् आराध्य कर्मणा । पूर्व-जन्मन्य् असौ लेभे कृष्ण-संयोगम् उत्तमम् ॥ २७७ ॥

7.278

श्लोक

सत्यं प्रीति-करं वाक्यं कोपस् तस्यास् तु तामसः । भाव-द्वयं हरौ जातं यत् तद् वर्ण-द्वयं ह्य् अभूत् । श्यामापि तुलसी विष्णोः प्रिया गौरी विशेषतः ॥ २७८ ॥

7.279

श्लोक

यथा लक्ष्मीः प्रिया विष्णोस् तुलसी च ततोऽधिका ॥ २७९ ॥

7.280

श्लोक

योगिनां विरतौ वाञ्छा कामिनां च यथा रतौ । पुष्पेष्व् अपि च सर्वेषु तुलस्यां च तथा हरेः ॥ २८० ॥

7.281

श्लोक

निरस्य मालती-पुष्पं मुक्त्वा पुष्पं सरोरुहम् । गृह्णाति तुलसीं शुष्काम् अपि पर्युषितां हरिः ॥ २८१ ॥

7.282

श्लोक

सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूल-फलादिभिः । शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम् ॥ २८२ ॥

7.283

श्लोक

कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये । सह त्वालि-कुलैर् बिभ्रद् दृष्टस् ते ऽति-प्रियो ञ्च्युतः ॥ २८३ ॥

7.284

श्लोक

यत् फलं सर्व-पुष्पेषु सर्व-पत्रेषु नारद । तुलसी-दल-मात्रेण प्राप्यते केशवार्चने ॥ २८४ ॥

7.285

श्लोक

त्यक्त्वा तु मालती-पुष्पं मुक्त्वा च सरसीरुहम् । गृहीत्वा तुलसी-पत्रं भक्त्या माधवम् अर्चयेत् । तस्य पुण्य-फलं वक्तुम् अलं शेषोऽपि नो भवेत् ॥ २८५ ॥

7.286

श्लोक

मणि-काञ्चन-पुष्पाणि तथा मुक्ता-मयानि च । तुलसी-पत्र-दानस्य कलां नार्हन्ति षोडशीम् ॥ २८६ ॥

7.287

श्लोक

नीलोत्पल-सहस्रेण त्रिसन्ध्यं योऽर्चयेद् धरिम् । फलं वर्ष-शतेनापि तदीयं नैव लभ्यते ॥ २८७ ॥

7.288

श्लोक

विद्वत् सर्वेषु पुष्पेषु पङ्कजं श्रेष्ठम् उच्यते । तत् पुष्पेष्व् अपि तन्-माल्यं कोटि-कोटि-गुणं भवेत् ॥ २८८ ॥

7.289

श्लोक

विष्णोः शिरसि विन्यस्तम् एकं श्री-तुलसी-दलम् । अनन्त-फलदं विद्वन् मन्त्रोच्चारण-पूर्वकम् ॥ २८९ ॥

7.290

श्लोक

वर्णाश्रमेतराणां च पूजायाश् चैव साधनम् । अपेक्षितार्थदं नान्यत् जगत्य् अस्ति तपोधन ॥ २९० ॥

7.291

श्लोक

वर्ज्यं पर्युषितं तोयं वर्ज्यं पर्युषितं दलम् । न वर्ज्यं तुलसी-पत्रम् न वर्ज्यं जाह्नवी-जलम् ॥ २९१ ॥

7.292

श्लोक

श्रीमत्-तुलस्यार्चयते सकृद् धरिं पत्रैः सुगन्धैर् विमलैर् अखण्डितैः । यस् तस्य पापं पट-संस्थितं प्रभुर् निरीक्षयित्वा मृजते स्वयं यमः ॥ २९२ ॥

7.293

श्लोक

तुलसी-दल-लक्षेण योऽर्चयेद् द्वारका-प्रियम् । जन्मायुत-सहस्राणां पापस्य कुरुते क्षयम् ॥ २९३ ॥

7.294

श्लोक

लिङ्गम् अभ्यर्चितं दृष्ट्वा प्रतिमां केशवस्य च । तुलसी-पत्र-निकरैर् मुच्यते ब्रह्म-हत्यया ॥ २९४ ॥

7.295

श्लोक

नित्यम् अभ्यर्चयेद् यो वै तुलस्या हरिम् ईश्वरम् । महापापानि नश्यन्ति किं पुनश् चोपपातकम् ॥ २९५ ॥

7.296

श्लोक

गुह्यानि यानि पापानि अनाख्येयानि मानवैः । नाशयेत् तानि तुलसी दत्ता माधव-मूर्धनि ॥ २९६ ॥

7.297

श्लोक

हरेर् गुहं यदा यस् तु तुलसी-दल-विप्रुषैः । त्रिसन्ध्यं प्रोक्षयेद् भक्त्या महा-पापैः प्रमुच्यते ॥ २९७ ॥

7.298

श्लोक

किं करिष्यति संरुष्टो यमोऽपि सह किङ्करैः । तुलसी-दलेन देवेशः पूजितो येन दुःखहा ॥ २९८ ॥

7.299

श्लोक

न तस्य नरक-क्लेशो योऽर्चयेत् तुलसी-दलैः । पापिष्ठो वाप्य् अपापिष्ठः सत्यं सत्यं न संशयः ॥ २९९ ॥

7.300

श्लोक

पुरा क्रौञ्च-वधार्थाय कोमलैस् तुलसी-दलैः । अर्चयित्वा हृषीकेशं स्वामिना निहतो रिपुः ॥ ३०० ॥