Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ७

पौष्पिकः

7.301

श्लोक

माल्यानि तन्वते लक्ष्मीं कुसुमान्तरितान्य् अपि । तुलस्याः स्वयम् आनीय निर्मितानि तपोधन ॥ ३०१ ॥

7.302

श्लोक

कृष्ण-मूर्धनि विन्यस्ता तुलसी-पत्र-मञ्जरी । सुवर्ण-कोटि-पुण्यानां फलं यच्छत्य् अतोऽधिकम् ॥ ३०२ ॥

7.303

श्लोक

तीर्थ-यात्रादिभिर् अहो काल-क्षेपेण किं जनाः । येऽर्चयन्ति हरेर् बिम्बं तुलसी-दल-कोमलैः ॥ ३०३ ॥

7.304

श्लोक

पुष्पान्तरैर् अन्तरितं निर्मितं तुलसी-दलैः । माल्यं मलयजालिप्तं दद्यात् श्री-राम-मूर्धनि ॥ ३०४ ॥

7.305

श्लोक

किं तस्य बहुभिर् यज्ञैः सम्पूर्ण-वर-दक्षिणैः । किं तीर्थ-सेवया दानैर् उग्रेण तपसापि वा ॥ ३०५ ॥

7.306

श्लोक

वाचं नियम्य चात्मानं मनो विष्णौ निधाय च । योऽर्चयेत् तुलसी-माल्यैर् यज्ञ-कोटि-फलं भवेत् ॥ ३०६ ॥

7.307

श्लोक

भवान्ध-कूप-मग्नानाम् एतद् उद्धार-कारणम् ॥ ३०७ ॥

7.308

श्लोक

यस्यारामोद्भवैः पत्रैस् तुलसी-सम्भवैर् हरिः । पूज्यते खग-शार्दूल त्रिदशं पुण्यम् आप्नुयान् ॥ ३०८ ॥

7.309

श्लोक

तुलसी-दल-माल्येन विष्णु-पूजां करोति यः । पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् ॥ ३०९ ॥

7.310

श्लोक

गृहीत्वा तुलसी-पत्रं भक्त्या विष्णुं समर्चयेत् । अर्चितं तेन सकलं सद् एवासुर-मानुषम् ॥ ३१० ॥

7.311

श्लोक

शालग्राम-शिला येन पूजिता तुलसी-दलैः । स-पारिजात-मालाभिः पूज्यते सुर-सद्मनि ॥ ३११ ॥

7.312

श्लोक

समञ्जरी-दलैर् युक्तं तुलसी-सम्भवैः क्षितौ । कुर्वन्ति पूजनं विष्णोस् ते कृतार्थाः कलौ नराः ॥ ३१२ ॥

7.313

श्लोक

पत्रं पुष्पं फलं चैव श्री-तुलस्याः समर्पितम् । रामाय मुक्ति-मार्गस्य द्योतकं सर्व-सिद्धिम् ॥ ३१३ ॥

7.314

श्लोक

तुलसी-मञ्जरीभिर् यः कुर्याद् धरि-हरार्चनम् । न स गर्भ-गृहं याति मुक्ति-भागी भवेन् नरः ॥ ३१४ ॥

7.315

श्लोक

तावद् भ्रमति संसारे विमूढः कलि-वर्त्मनि । यावन् नाराधयेद् देवं तुलसीभिः प्रयत्नतः ॥ ३१५ ॥

7.316

श्लोक

तुलसी-पत्रम् आदाय यः करोति ममार्चनम् । न पुनर् योनिम् आयाति मुक्ति-भागी भवेन् नरः ॥ ३१६ ॥

7.317

श्लोक

तुलसी-पत्रम् आदाय योऽर्चयेद् रामम् अन्वहम् । स याति शाश्वतं ब्रह्म पुनर् आवृत्ति-दुर्लभम् ॥ ३१७ ॥

7.318

श्लोक

पूजायोग्यैः फलैः पत्रैः पूपैर् वा योऽर्चयेद् धरिम् । स मातुर् गर्भ-वासादि दुःखं नैव लभेत् क्वचित् ॥ ३१८ ॥

7.319

श्लोक

आरोप्य तुलसीं वैश्य सम्पूज्य तद्-दलैर् हरिम् । वसन्ति मोदमानास् ते यत्र देवश् चतुर्भुजः ॥ ३१९ ॥

7.320

श्लोक

तुलसी कृष्ण-गौराभा तयाभ्यर्च्य जनार्दनम् । नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वती गतिम् ॥ ३२० ॥

7.321

श्लोक

कृष्णं कृष्ण-तुलस्या हि यो भक्त्या पूजयेन् नरः । स याति भुवनं शुभ्रं यत्र विष्णुः श्रिया सह ॥ ३२१ ॥

7.322

श्लोक

योऽर्चयेद् धरि-पादाब्जं तुलसी-कोमल-च्छदैः । न तस्य पुनर् आवृत्तिर् ब्रह्म-लोकात् कदाचन ॥ ३२२ ॥

7.323

श्लोक

कृष्णार्चनार्थं भिक्षूणां यच्छन्ति तुलसी-दलम् । अन्येषाम् अपि भक्तानां यान्ति तत् परमं पदम् ॥ ३२३ ॥

7.324

श्लोक

सुकृती दुष्कृती वापि तुलस्या योऽर्चयेद् धरिम् । तस्यान्ते हि वयं नेशा विष्णुदूतैः स नीयते ॥ ३२४ ॥

7.325

श्लोक

योऽभ्यस्येत् परमात्मानं त्यक्त-सर्वैषणो मुनिः । तुलस्या योऽर्चयेद् विष्णुं जगतः सम्मताव् उभौ ॥ ३२५ ॥

7.326

श्लोक

तुलसी-दल-गन्धेन मालती-कुसुमेन च । कपिलाक्षीर-दानेन सद्यस् तुष्यति केशवः ॥ ३२६ ॥

7.327

श्लोक

इत्य् एवं वल्लभा विष्णोः पूर्व-जन्मन् अथाधुना । प्रीयते पूजितो ह्य् अस्या दलैर् दैत्य-बलान्तकः ॥ ३२७ ॥

7.328

श्लोक

सुवर्ण-मणि-पुष्पैस् तु प्रीतो भवति नाच्युतः । तुलसी-दल-भागेन यथा प्रीयेत केशवः ॥ ३२८ ॥

7.329

श्लोक

पत्रं पुष्पं फलं तोयं तुलसी-गन्ध-वासितम् । फलं लक्ष-गुणं प्रोक्तं केशवाय निवेदितम् ॥ ३२९ ॥

7.330

श्लोक

तुलसी-गन्ध-मिश्रं तु यत् किंचित् कुरुते हरेः । कल्प-कोटि-सहस्राणि प्रीतो भवति केशवः ॥ ३३० ॥

7.331

श्लोक

यः पुनस् तुलसी-पत्रैः कोमलैर् मञ्जरी-युतैः । पूजयेत् सूत्र-बद्धैस् तु कृष्णं देवकि-नन्दनम् ॥ ३३१ ॥

7.332

श्लोक

या गतिर् योग-युक्तानां या गतिर् यज्ञ-शीलिनाम् । या गतिर् दान-शीलानां या गतिस् तीर्थ-सेविनाम् ॥ ३३२ ॥

7.333

श्लोक

या गतिर् मातृ-भक्तानां द्वादशी-वेध-वर्जिनाम् । कुर्वतां जागरं विष्णोर् नृत्यतां गायतां फलम् ॥ ३३३ ॥

7.334

श्लोक

वैष्णवानां तु भक्तानां यत् फलं वेद-वादिनाम् । पठतां वैष्णवं शास्त्रं वैष्णवेभ्यश् च यच्छताम् । फलम् एतन् महीपाल लभते नात्र संशयः ॥ ३३४ ॥

7.335

श्लोक

गवाम् अयुत-दानेन यत् फलं लभते खग । तुलसी-पत्रकैकेन तत् फलं कार्त्तिके स्मृतम् ॥ ३३५ ॥

7.336

श्लोक

तुलसी-दल-लक्षेण कार्त्तिके योऽर्चयेद् धरिम् । पत्रे पत्रे मुनि-श्रेष्ठ मौक्तिकं लभते फलम् ॥ ३३६ ॥

7.337

श्लोक

तुलसी-दलानि पुण्यानि ये यच्छन्ति जनार्दन । कार्त्तिकं सकलं वत्स पापं जन्मायुतं दहेत् ॥ ३३७ ॥

7.338

श्लोक

इष्ट्वा क्रतु-शतैः पुण्यैर् दत्त्वा रत्नान्य् अनेकशः । तुलसी-दलेन तत् पुण्यं कार्त्तिके केशवार्चनात् ॥ ३३८ ॥

7.339

श्लोक

यः पुनस् तुलसीं पाप्य कार्त्तिकं सकलं मुने । अर्चयेद् देव-देवेशं स याति परमां गतिम् ॥ ३३९ ॥

7.340

श्लोक

मञ्जरीभिः सपत्राभिर् मालाभिश् चापि केशवः । तुलस्याः कार्त्तिके प्रीतो ददाति पदम् अव्ययम् ॥ ३४० ॥

7.341

श्लोक

स्नात्वा महा-नदी-तोये कोमलैस् तुलसी-दलैः । योऽर्चयेन् माधवं माघे कुलानां तारयेच् छतम् ॥ ३४१ ॥

7.342

श्लोक

सुकोमलैर् दलैर् यस् तु मञ्जरीभिर् जनार्दनम् । अर्चयेन् माघ-मासे तु क्रतूनां लभते फलम् ॥ ३४२ ॥

7.343

श्लोक

सम्पूज्य तुलसी-भक्त्या घन-श्यामं जनार्दनम् । चतुरो वार्षिकान् मासान् अश्वमेधायुतं लभेत् ॥ ३४३ ॥

7.344

श्लोक

तुलसी गौर-कृष्णाख्या तयाभ्यर्च्य मधुद्विषम् । विशेषेण तु वैशाखे नरो नारायणो भवेत् ॥ ३४४ ॥

7.345

श्लोक

माधवं सकलं मासं तुलस्या योऽर्चयेन् नरः । त्रिसन्ध्यं मधुहन्तारं नास्ति तस्य पुनर्-भवः ॥ ३४५ ॥

7.346

श्लोक

अस्नात्वा तुलसीं छित्त्वा य पूजां कुरुते नरः । सोऽपराधी भवेत् सत्यं तत् सर्वं निष्फलं भवेत् ॥ ३४६ ॥

7.347

श्लोक

तुलस्यामृत-जन्मासि सदा त्वं केशव-प्रिये । केशवार्थं विचिन्वामि वरदा भव शोभने ॥ ३४७ ॥

7.348

श्लोक

त्वद्-अङ्ग-सम्भवैः पत्रैः पूजयामि यथा हरिम् । तथा कुरु पवित्राङ्गि कलौ मल-विनाशिनि ॥ ३४८ ॥

7.349

श्लोक

मोक्षैकहेतो धरणी-प्रशस्ते विष्णोः समस् तस्य गुरोः प्रियेति । आराधनार्थं वर-मञ्जरीकं लुनामि पत्रं तुलसि क्षमस्व ॥ ३४९ ॥

7.350

श्लोक

इत्य् उक्त्वा तुलसीं नत्वा चित्वा दक्षिण-पाणिना । पत्राण्य् एकैकशो न्यस्येत् सत्-पात्रे मञ्जरिर् अपि ॥ ३५० ॥

7.351

श्लोक

मन्त्रेणानेन यः कुर्याद् गृहीत्वा तुलसी-दलम् । पूजनं वासुदेवस्य लक्ष-कोटि-फलं लभेत् ॥ ३५१ ॥

7.352

श्लोक

शालग्राम-शिलार्चार्थं प्रत्यहं तुलसी-क्षितौ । तुलसीं ये विचिन्वन्ति धन्यास् ते कर-पल्लवा ॥ ३५२ ॥

7.353

श्लोक

सङ्क्रान्त्य्-आदौ निषिद्धोऽपि तुलस्य्-अवचयः स्मृतौ । परं श्री-विष्णु-भक्तेस् तु द्वादश्याम् एव नेष्यते ॥ ३५३ ॥

7.354

श्लोक

न छिन्द्यात् तुलसीं विप्रा द्वादश्यां वैष्णवः क्वचित् ॥ ३५४ ॥

7.355

श्लोक

भानु-वारं विना दूर्वा तुलसीं द्वादशीं विना । जीवितस्याविनाशाय न विचिन्वीत धर्म-वित् ॥ ३५५ ॥

7.356

श्लोक

द्वादश्यां तुलसी-पत्रं धात्री-पत्रं च कार्त्तिके । लुनाति स नरो गच्छेन् निरयानति-गर्हितान् ॥ ३५६ ॥

7.357

श्लोक

देवार्थे तुलसी-च्छेदो होमार्थे समिधां तथा । इन्दु-क्षये न दुष्येत गर्वार्थे तु तृणस्य च ॥ ३५७ ॥

7.358

श्लोक

एवं कृत्वा महा-पूजाम् अङ्गोपाङ्गादिकं प्रभोः । क्रमाद् यथा-सम्प्रदायं तत्-तत्-स्थानेषु पूजयेत् ॥ ३५८ ॥

7.359

श्लोक

मन्त्र-वर्ण-पदान्य् आदौ तत्-तन्-न्यास-पदेषु च । वेणुं च मालां श्रीवत्सं कौस्तुभं च यथास्पदम् ॥ ३५९ ॥

7.360

श्लोक

ततश् च मूल-मन्त्रेण क्षिप्त्वा पुष्पाञ्जलि-त्रयम् । प्रार्थ्यानुज्ञां भगवतोऽर्चयेद् आवृत्ति-देवता ॥ ३६० ॥

7.361

श्लोक

ताश् च प्रत्येकम् आवाह्य स्नानादि परिकल्प्य च । पूजयेद् गन्ध-पुष्पाभ्यां यथा-स्थानं यथा-क्रमम् ॥ ३६१ ॥

7.362

श्लोक

कर्णिकायां चतुर्-दिक्षु द्योतमानान् प्रभोः सखान् । वसुदामं सुदामं च दामं च किङ्किणीं यजेत् ॥ ३६२ ॥

7.363

श्लोक

तद्-बहिश् चाग्नि-कोणादौ केशरेष्व् आग्ग-देवताः । हृदयादि-युताः पूज्याः स्व-स्व-वर्णादि-शोभिताः ॥ ३६३ ॥

7.364

श्लोक

ततो बहिश् च पूर्वादि-दिग्-दलेष्व् अष्टसु प्रभोः । महिषी रुक्मिणी सत्यभामा नाग्नजिती क्रमात् ॥ ३६४ ॥

7.365

श्लोक

सुनन्दा मित्रविन्दा च सम्पूज्याथ सुलक्षणा । जाम्बवती सुशीला च तत्-तद्-द्रव्यादि-भूषिता ॥ ३६५ ॥

7.366

श्लोक

पूर्वाद्य्-अष्ट-दलाग्रेषु वसुदेवं च देवकीम् । श्री-नन्दं श्री-यशोदां च बलभद्रं सुभद्रिकाम् ॥ ३६६ ॥

7.367

श्लोक

गोपान् गोपीश् च तद्-भाव-त्रपया दूरतः स्थिताः । विचित्र-रूप-वेशादि-शोभमानान् इमान् यजेत् ॥ ३६७ ॥

7.368

श्लोक

तद्-बहिश् चतुरसान्त-पूर्वाद्याशा-चतुष्टये । सन्तानं पारिजातं च कल्प-द्रुमम् अथार्चयेत् ॥ ३६८ ॥

7.369

श्लोक

हरिचन्दनम् अप्य् एवं दिव्य-वृक्षान् अभीष्टदान् । कर्णिकायां च सम्पूज्य मन्दारं देव-पृष्ठतः ॥ ३६९ ॥

7.370

श्लोक

तद् बहिश् चाष्ट-दिक्-पालान् स्व-स्व-दिक्ष्व् एव पूजयेत् । तत्-तद्-बीजाधिपत्यास्त्र-वाहन-स्वजनान्वितान् ॥ ३७० ॥

7.371

श्लोक

तत्-तद्-वर्णान् दिव्य-वेशाननं तं च तथार्चयेत् । निरृत्य्-अम्बु-पयोर् मध्ये ब्रह्माणं चेन्द्र-रुद्रयोः ॥ ३७१ ॥

7.372

श्लोक

ततो बहिश् चाष्ट-दिक्षु मौलि-स्थानात्म-लक्षणान् । भगवत्-पार्षदांस् तत्र वर्णायुध-विभूषणान् ॥ ३७२ ॥

7.373

श्लोक

वज्रं शक्तिं च दण्डं च खड्ग-पाशाङ्कुशान् क्रमात् । यजेद् गदां त्रिशूलं चक्राब्जे त्व् अध-ऊर्ध्वयोः ॥ ३७३ ॥

7.374

श्लोक

शङ्खं चक्रं गदां पद्म तोमरं मुषलं हलम् । अन्यद् वापि हरेः शस्त्रं स्मृत्वा पापात् प्रमुच्यते ॥ ३७४ ॥

7.375

श्लोक

सर्वानन्द-प्रदं ह्य् एतत् सप्तावरण-पूजनम् । अशक्तोऽङ्गेन्द्र-वज्राद्यम् आवृति-त्रयम् अर्चयेत् ॥ ३७५ ॥

7.376

श्लोक

ईदृक् चैकान्तिभिर् ज्ञेयं तत्-तत्-कामवतां मतम् । अन्यथा गोकुले कृष्ण-देवे तत्-तद्-अस्मभवात् ॥ ३७६ ॥

7.377

श्लोक

एकान्तिभिस् तु राधाद्या यथा-ध्यानं प्रभोः प्रियाः । प्रथमावरणे पूज्याः काले कृष्णान्तिकं गताः ॥ ३७७ ॥

7.378

श्लोक

ततो गोप-कुमाराश् च तद्-वयस्यास् ततो बहिः । नन्दो यशोदा-रोहिण्यौ गोपा गोप्यश् च तत्-समाः ॥ ३७८ ॥

7.379

श्लोक

ततश् च वत्सा गावश् च वृषारण्य-मृगादयः । ततो ब्रह्मादयो देवाः प्राप्ता नीराजनोत्सवे ॥ ३७९ ॥

7.380

श्लोक

रामः कदाचित् कृष्णस्य कदाचिन् मातुर् अन्तिके । श्री-नारदश् च परितो भ्रमन् हर्ष-भराकुलः ॥ ३८० ॥

7.381

श्लोक

एवं यद्-ध्यान-पूजादाव् एकान्तिभ्यः प्ररोचते । कृष्णाय रोचतेऽत्यन्तं तद् एव च सतां मतम् ॥ ३८१ ॥

7.382

श्लोक

तान्य् एव ते ऽभिरूपाणि रूपाणि भगवंस् तव । यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः ॥ ३८२ ॥

7.383

श्लोक

यद्-यद्-धिया त उरुगाय विभावयन्ति तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय ॥ ३८३ ॥

7.384

श्लोक

ततोऽष्ट-नामभिः कृष्णं पुष्पाञ्जलिभिर् अर्चयेत् । कुर्यात् तैर् एव वा पूजाम् अशक्तोऽखिलदैः प्रभोः ॥ ३८४ ॥

7.385

श्लोक

श्री-कृष्णो वासुदेवश् च तथा नारायणः स्मृतः । देवकी-नन्दनश् चैव यदु-श्रेष्ठस् तथैव च ॥ ३८५ ॥

7.386

श्लोक

वार्ष्णेयश् चासुराक्रान्त-भार-हारी तथा परः । धर्म-संस्थापकश् चेति चतुर्थन्तरि नमो-युतः ॥ ३८६ ॥