Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ७

पौष्पिकः

7.101

श्लोक

स्वयम् एव तथा लक्ष्मीर् भजते नात्र संशयः । रक्त-पद्म-प्रदानाद् धि श्वेतस्य द्विगुणं फलम् ॥ १०१ ॥

7.102

श्लोक

कमलैः कमलाकान्तः पूजितः कर्त्तिके तु यैः । कमला अनुगा तेषां जन्मान्तर-शतेष्व् अपि ॥ १०२ ॥

7.103

श्लोक

कार्त्तिके नार्चितो यैस् तु कमलैः कमलेक्षणः । जन्म-कोटिषु विप्रेन्द्र न तेषां कमला गृहे ॥ १०३ ॥

7.104

श्लोक

दत्त्वा नीलोत्पलं मुख्यं कुसुमं कुङ्कुमस्य च । तुल्यं फलम् अवाप्नोति बन्धु-जीवस्य च द्विजाः ॥ १०४ ॥

7.105

श्लोक

सुवर्ण-दश-दानस्य फलं प्राप्नोति मानवः । दत्त्वा नीलोत्पलं विष्णोर् नात्र कार्या विचारणा ॥ १०५ ॥

7.106

श्लोक

नीलोत्पल-शतं दत्त्वा वह्निष्टोम-फलं लभेत् । नीलोत्पल-सहस्रेण पुण्डरीकम् अवाप्नुयात् । लक्ष-पूजां नरः कृत्वा राजसूय-फलं लभेत् ॥ १०६ ॥

7.107

श्लोक

रुक्म-माषक-दानस्य फलं कुमुदतो भवेत् । कुमुदानां शतं दत्त्वा चन्द्र-लोके महीयते ॥ १०७ ॥

7.108

श्लोक

सहस्रं च तथा दत्त्वा यथेष्टां गतिम् आप्नुयात् । अश्वमेधम् अवाप्नोति लक्ष-पूजा-विधायकः ॥ १०८ ॥

7.109

श्लोक

रक्तोत्पल-प्रदे विष्णोस् तथा स्याद् द्विगुणं फलम् ॥ १०९ ॥

7.110

श्लोक

जात-रूप-निभैर् विष्णुं कदम्ब-कुसुमैर् मुने । येऽर्चयन्ति च गोविन्दं न तेषां सौरिजं भयम् ॥ ११० ॥

7.111

श्लोक

कदम्ब-कुसुमैर् हृद्यैर् येऽर्चयन्ति जनार्दनम् । तेषां यम्लयो नैव न जायन्ते कुयोनिषु ॥ १११ ॥

7.112

श्लोक

न तथा केतकी-पुष्पैर् मालती-कुसुमैर् न हि । तोषम् आयाति देवेशः कदम्ब-कुसुमैर् यथा ॥ ११२ ॥

7.113

श्लोक

दृष्ट्वा कदम्ब-पुष्पाणि प्रीतो भवति माधवः । किं पुनः पूजितस् तैश् च सर्व-काम-प्रदो हरिः ॥ ११३ ॥

7.114

श्लोक

यथा पद्यालयां प्राप्य प्रीतो भवति माधवः । कदम्ब-कुसुमं लब्ध्वा तथा प्रीणाति लोक-कृत् ॥ ११४ ॥

7.115

श्लोक

सकृत् कदम्ब-पुष्पेण हेलया हरिर् अर्चितः । सप्त जन्मानि देवेशस् तस्य लक्ष्मीर् अदूरतः ॥ ११५ ॥

7.116

श्लोक

कदम्ब-पुष्प-गन्धेन केशवो वा सुवासितः । जन्मायुतार्जितस् तेन निहतः पाप-सञ्चयः ॥ ११६ ॥

7.117

श्लोक

घनागमे घन-श्यामः कदम्ब-कुसुमार्चितः । ददाति वाञ्छितान् कामान् शत-जन्मानि सम्पदः ॥ ११७ ॥

7.118

श्लोक

कदम्ब-कुसुमैर् देवं घन-वर्णं घनागमे । येऽर्चयन्ति मुनि-श्रेष्ठ तैर् आप्तं जन्मनः फलम् ॥ ११८ ॥

7.119

श्लोक

करवीरैर् महादेवि यः पूजयति केशवम् । दश-सौवर्णकैः पुष्पैर् यत् फलं तद् अवाप्नुयात् ॥ ११९ ॥

7.120

श्लोक

करवीरैः सुरक्तैश् च यो विष्णुं सकृद् अर्चयेत् । गवाम् अयुत-दानस्य फलं प्राप्नोति मानवः ॥ १२० ॥

7.121

श्लोक

येऽर्चयन्ति सुराध्यक्षं करवीरैः सितासितैः । चतुर्युगानि विप्रेन्द्र प्रीतो भवति केशवः ॥ १२१ ॥

7.122

श्लोक

सित-रक्तैर् महा-पुण्यैः कुसुमैः करवीरजैः । योऽच्युतं पूजयेद् भक्त्या स याति गरुडध्वजम् ॥ १२२ ॥

7.123

श्लोक

पुरन्ध्रि-पुष्पैर् यः कुर्यात् पूजां मधुरिपोर् नरः । तस्य प्रसादम् आयाति देवश् चक्र-गदाधरः ॥ १२३ ॥

7.124

श्लोक

रम्याः पुरन्ध्रि-मञ्जर्यो दयितास् तस्य नित्यशः । पुरन्ध्रि-पुष्पं यो दद्याद् एकम् अप्य् अस्य मण्डले ॥ १२४ ॥

7.125

श्लोक

तिल-प्रस्थ-प्रदानस्य फलं प्राप्नोत्य् असंशयम् । पुरन्ध्रि-मञ्जरी-पुष्पैः सहस्रेणार्चयेद् धरिम् ॥ १२५ ॥

7.126

श्लोक

अग्निष्टोमम् अवाप्नोति कुलम् उद्धरते तथा । कर्पूर-पट-वासेन पुरन्ध्रिम् अधिवासिताम् ॥ १२६ ॥

7.127

श्लोक

महा-रजन-रक्ते च तथा सूत्रे निवेशिताम् । मालां पुष्प-सहस्रेण यः प्रयच्छति भक्तितः ॥ १२७ ॥

7.128

श्लोक

अश्वमेध-फलं तस्य नात्र कार्या विचारणा । शतेन वाजपेयस्य फलम् आप्नोत्य् असंशयम् । लक्ष-पूजां तथा कृत्वा सर्व-ज्ञानम् अवाप्नुयात् ॥ १२८ ॥

7.129

श्लोक

अगस्त्य-कुसुमैर् देवं येऽर्चयन्ति जनार्दनम् । दर्शनात् तस्य देवर्षे नरकाग्निः प्रशाम्यति ॥ १२९ ॥

7.130

श्लोक

न तत् करोति विप्रेन्द्र तपसा तोषितो हरिः । यत् करोति हृषीकेशो मुनि-पुष्पैर् अलङ्कृतः ॥ १३० ॥

7.131

श्लोक

मुनि-पुष्प-कृतां मालां ये यच्छन्ति जनार्दने । देवेन्द्रोऽपि मुनि-श्रेष्ठ कम्पते तस्य शङ्कया ॥ १३१ ॥

7.132

श्लोक

मुनि-पुष्प-कृतां मालां दृष्ट्वा कण्ठे विलम्बिताम् । प्रीतो भवति दैत्यारिर् दश-जन्मानि नारद ॥ १३२ ॥

7.133

श्लोक

अगस्त्य-वृक्ष-सम्भूतैः कुसुमैर् असितैः सितैः । येऽर्चयिष्यन्ति देवेशं सम्प्राप्तं परमं पदम् ॥ १३३ ॥

7.134

श्लोक

अगस्त्य-सम्भवैः पुष्पैः किंशुकैः सुमनोहरैः । समभ्यर्च्य हृषीकेशं जन्म-दुःखाद् विमुच्यते ॥ १३४ ॥

7.135

श्लोक

विहाय सर्व-पुष्पाणि मुनि-पुष्पेण केशवम् । कार्त्तिके योऽर्चयेद् भक्त्या वाजिमेध-फलं लभेत् ॥ १३५ ॥

7.136

श्लोक

मुनि-पुष्पार्चितो विष्णुः कार्त्तिके पुरुषोत्तमः । ददात्य् अभिमतान् कामान् शशि-सूर्य-स्थितो यथा ॥ १३६ ॥

7.137

श्लोक

गवाम् अयुत-दानेन यत् फलं प्राप्यते मुने । मुनि-पुष्पेण चैकेन कार्त्तिके तत् फलं स्मृतम् ॥ १३७ ॥

7.138

श्लोक

मुनि-पुष्पैर् यदि हरिः पूजितः कार्त्तिके नरैः । मुनीनाम् एव गतिदो ज्ञानिनाम् ऊर्ध्व-रेतसाम् ॥ १३८ ॥

7.139

श्लोक

केतकी-पुष्पकेणैव पूजितो गरुडध्वजः । समाः सहस्रं सुप्रीतो जायते मधुसूदनः ॥ १३९ ॥

7.140

श्लोक

अर्चयित्वा हृषीकेशं कुसुमैः केतदोद्भवैः । पुण्यं तद्-भवनं याति केशवस्य रमालयम् ॥ १४० ॥

7.141

श्लोक

सुवर्ण-केतकी-पुष्पं यो ददाति जनार्दने । सुवर्ण-दानजं पुण्यं लभते स महामुने ॥ १४१ ॥

7.142

श्लोक

केशवः केतकी-पुष्पैर् मिथुनस्थे दिवाकरे । येनार्चितः सकृद् भक्त्या स मुक्तो नरकार्णवात् ॥ १४२ ॥

7.143

श्लोक

केतकी-पुष्पम् आदाय मिथुनस्थे दिवाकरे । येनार्चितो हरिर् भक्त्या प्रीतो मन्वन्तरं मुने ॥ १४३ ॥

7.144

श्लोक

कर्कराशिगते सूर्ये केतकी-पत्र-कोमलैः । येऽर्चयिष्यन्ति गोविन्दं सम्प्राप्ते दक्षिणायने ॥ १४४ ॥

7.145

श्लोक

कृत्वा पाप-सहस्राणि महा-पाप-शतानि च ।तेऽपि यास्यन्ति विप्रेन्द्र यत्र विष्णुः श्रिया सह ॥ १४५ ॥

7.146

श्लोक

कार्त्तिके केतकी-पुष्पं दत्तं येन कलौ हरेः । दीप-दानं च देवर्षे तारिते स्व-कुलायुतम् ॥ १४६ ॥

7.147

श्लोक

अब्यर्च्य कुन्द-कुसुमैः केशवं कल्मषापहम् । प्रयाति भवनं विष्णोर् वन्दितं मुनि-चारणैः ॥ १४७ ॥

7.148

श्लोक

अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः कुन्दस्रजः कुलपतेर् इह वाति गन्धः ॥ १४८ ॥

7.149

श्लोक

कुन्द-दाम-कृत-कौतुक-वेषो गोप-गोधन-वृतो यमुनायाम् । नन्द-सूनुर् अनघे तव वत्सो नर्म-दः प्रणयिणां विजहार ॥ १४९ ॥

7.150

श्लोक

अर्चयित्वा हृषीकेशं पावन्ती-कुसुमैर् नरः । हृष्ट-पुष्ट-गणाकीर्णं कार्ष्णं लोकम् अवाप्नुयात् ॥ १५० ॥

7.151

श्लोक

कर्णिकार-मयैः पुष्पैः कान्तैः कनक-सुप्रभैः । अर्चयित्वाच्युतं लोके तस्य लोके महीयते ॥ १५१ ॥

7.152

श्लोक

बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं विभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् । रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर् वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥ १५२ ॥

7.153

श्लोक

कुङ्कुमारुण-वर्णाढ्यां शत-पत्रिकाम् । यो ददाति जगन्नाथे श्वेतद्वीपात् पतेन् नहि ॥ १५३ ॥

7.154

श्लोक

सेवन्ती-कुसुमैः पुष्पैः किंशुकैः सुमनोहरैः । समभ्यर्च्य हृषीकेशं जन्म-दुःखाद् विमुच्यते ॥ १५४ ॥

7.155

श्लोक

गन्धाढ्यैर् विमलैर् वन्यैः कुसुमैः कुब्जकोद्भवैः । भक्त्याभ्यर्च्य हृषीकेशं श्वेतद्वीपे वसेन् नरः ॥ १५५ ॥

7.156

श्लोक

नीलोत्पल-समं दानं चम्पकस्य जनार्दने ॥ १५६ ॥

7.157

श्लोक

वर्षा-काले तु देवेशं कुसुमैश् चम्पकोद्भवैः । येऽर्चयन्ति नरा भक्त्या संसारे न पुनर् गतिः ॥ १५७ ॥

7.158

श्लोक

अशोक-कुसुमै रम्यैर् जन्म-शोक-भयापहम् । पूजयित्वा हरिं देवं याति विष्णुम् अनायम् ॥ १५८ ॥

7.159

श्लोक

बकुलाशोक-कुसुमेऽर्येऽर्चयन्ति जगत्-पतिम् । ते वसन्ति हरेर् लोके यावच् चन्द्र-दिवाकरौ ॥ १५९ ॥

7.160

श्लोक

येऽर्चयेत् पाटला-पुष्पैः सर्व-पाप-हरं हरिम् । स पुण्यात्मा परं स्थानं वैष्णवं व्रजते ध्रुवम् ॥ १६० ॥

7.161

श्लोक

यः पुनः पाटला-पुष्पैर् वसन्ते गरुडध्वजम् । अर्चयेत् परया भक्त्या मुक्ति-भागी भवेद् धि सः ॥ १६१ ॥

7.162

श्लोक

तिलकस्योज्ज्वलैः पुष्पैः सम्पूज्य मधुसूदनम् । धूत-पाप्मा निरातङ्कः कृष्णस्यानुचरो भवेत् ॥ १६२ ॥

7.163

श्लोक

समुज्ज्वलैर् जवा-पुष्पैर् अभ्यर्च्य जल-शायिनम् । सुपुण्यां गतिम् आप्नोति वीत-भीर् वीत-मत्सरः ॥ १६३ ॥

7.164

श्लोक

जवापुष्पैः पुमान् भक्त्या सम्पूज्य पुरुषोत्तमम् । उत्तमां गतिम् आप्नोति प्रसन्ने गरुडध्वजे ॥ १६४ ॥

7.165

श्लोक

अटरूषक-पुष्पैर् यः पूजयेत् जगतां पतिम् । स पुण्यवान् नरो याति विष्णोस् तत् परमां गतिम् ॥ १६५ ॥

7.166

श्लोक

कुसुम्भ-कुसुमैर् हृद्यैर् येऽर्चयन्ति जनार्दनम् । तेषां ममालये वासः प्रसादाच् चक्रपाणितः ॥ १६६ ॥

7.167

श्लोक

मल्लिका-पुष्प-जातीनां यूथिकायास् तथैव च ।तथा कुब्जक-जातीनां फलस्यार्धं प्रकीर्तितम् ॥ १६७ ॥

7.168

श्लोक

सुगन्धैर् मल्लैका-पुष्पैर् अर्चयित्वाच्युतं नरः । सर्व-पाप-विनिर्मुक्तो विष्णु-लोके महीयते ॥ १६८ ॥

7.169

श्लोक

मल्लिका-कुसुमैर् देवं वसन्ते गरुड-ध्वजम् । योऽर्चयेत् परया भक्त्या दहेत् पापं त्रिधार्जितम् ॥ १६९ ॥

7.170

श्लोक

कुम्भी-पुष्पं तु देवर्षे यः प्रयच्छेज् जनार्दने । सुवर्ण-पल-मात्रं तु पुष्पे पुष्पे भवेन् मुने ॥ १७० ॥

7.171

श्लोक

गोकर्ण-नाग-कर्णाभ्यां तथा विल्लातकेन च । अर्चयित्वाच्युतं देवं देवानाम् अधिपो भवेत् ॥ १७१ ॥

7.172

श्लोक

अञ्जली-बोतकी-पुष्पैः कुष्माण्ड-तिमिरोद्भवैः । अलङ्कृत्वा नरः कृष्णं कृतार्थो हरि-लोक-भाक् ॥ १७२ ॥

7.173

श्लोक

गृह-दूर्वाभवैः पुष्पैस् तथा काश-कुशोद्भवैः । भूधरं समलङ्कृत्य विष्णु-लोके व्रजेन् नरः ॥ १७३ ॥

7.174

श्लोक

शर-दूर्वामयैः पुष्पैस् तथा काश-कुशोद्भवैः । भुवनेशम् अलङ्कृत्य विष्णु-लोके व्रजेन् नरः ॥ १७४ ॥

7.175

श्लोक

वर्ण-भेदेन पुष्पाणां फल-भेदश् च दर्शितः । तथा तेषां च सर्वेषां मालाया महिमाधिकः ॥ १७५ ॥

7.176

श्लोक

श्वेतैः पुष्पैः समभ्यर्च्य नरो मोक्षम् अवाप्नुयात् ॥ १७६ ॥

7.177

श्लोक

कामान् अवाप्नुयाल् लोके पीतैर् देवं समर्चयन् । शत्रूणाम् अभिचारेषु तथा कृष्णैः प्रपूजयेत् ॥ १७७ ॥

7.178

श्लोक

स्वर्ण-लक्षाधिकं पुष्पं माला कोटि-गुणाधिका । दत्ता भवति कृष्णाय नरैर् भक्ति-समन्वितैः ॥ १७८ ॥

7.179

श्लोक

मल्लिकां तु दिवारात्र्योर् नक्तं सम्पाक-यूथिके । नन्द्यावर्तं चार्ध-रात्रे मालतीं प्रातर् एव हि ॥ १७९ ॥

7.180

श्लोक

इतराणि च पुष्पाणि दिवा भगवतेऽर्पयेत् । एवं केचिच् च मन्यन्ते पूजा-विधि बकं तथा ॥ १८० ॥

7.181

श्लोक

प्रहरं तिष्ठते जाती करवीरम् अहर्निशम् । जलजं सप्त-रात्राणि षण्-मासं तु बकं तथा ॥ १८१ ॥

7.182

श्लोक

अवचयोत्तरे काले ज्ञेयम् एतद् विचक्षणैः ॥ १८२ ॥

7.183

श्लोक

पुष्पाणां मण्डपं छत्रं वितानं वैष्णवोत्तमः । दोलादिकं च निर्माय श्री-कृष्णाय समर्पयेत् ॥ १८३ ॥

7.184

श्लोक

कृष्ण-वेश्मनि यः कुर्यात् सुरूपं पुष्प-मण्डपम् । स पुष्पक-विमानैस् तु कोटिभिः क्रीडते दिवि ॥ १८४ ॥

7.185

श्लोक

कृत्वा पुष्प-गृहं विष्णोः पुष्पैर् वा तद्-वितानकम् । फलेन योगम् आयाति राजसूयाश्वमेधयोः ॥ १८५ ॥

7.186

श्लोक

केशवोपरि यः कुर्याच् छत्रं वा पुष्प-मण्डपम् । पुष्पैस् तन्-मञ्चकं वापि तस्य पुण्यं वदाम्य् अहम् ॥ १८६ ॥

7.187

श्लोक

प्राप्तैश्वर्यो महाभागैः क्रीडा-रति-समन्वितैः । नित्यं तु मोदते स्वर्गे स नरो नात्र संशयः ॥ १८७ ॥

7.188

श्लोक

मालती-मालया येन कार्त्तिके पुष्प-मण्डपम् । केशवस्य गृहे चक्रे न मया विदितं फलम् ॥ १८८ ॥

7.189

श्लोक

स्वर्ण-रत्नादि-पुष्पैश् च भगवन्तं समर्चयेत् । न च निर्माल्यतां यान्ति तानि तन् मुहुर् अर्पयेत् ॥ १८९ ॥

7.190

श्लोक

न निर्माल्यं हेम-पुष्पम् अर्पयेद् अर्पितं सदा ॥ १९० ॥

7.191

श्लोक

कृत्रिमाण्य् अनुलेपानि गन्धेनाति-सुगन्धिना । धूपेन पटवासेन चन्दनाद्य्-अनुलेपनैः ॥ १९१ ॥

7.192

श्लोक

स्वर्ण-पुष्पार्चितो यस्य गृहे तिष्ठति केशवः । तस्यैव पाद-रजसा शुध्यति क्षिति-मण्डलम् ॥ १९२ ॥

7.193

श्लोक

सुवर्ण-पुष्पैर् अभ्यर्च्य राजसूय-फलं लभेत् । रत्नैर् देवम् अथाभ्यर्च्य राजा भवति भूतले ॥ १९३ ॥

7.194

श्लोक

पुष्पजातिषु सर्वासु सौवर्णं पुष्पम् उत्तमम् ॥ १९४ ॥

7.195

श्लोक

एवम् उक्तैर् अनुक्तैश् च शोभाढ्यैर् वा सुगन्धिभिः । सम्पूज्यो भगवान् पुष्पैर् न निषिद्धैस् तु दुःखदैः ॥ १९५ ॥

7.196

श्लोक

श्मशान-चैत्य-द्रुमजं भूमौ वापि निपातितम् । कलिका च न दातव्या देवदेवस्य चक्रिणः ॥ १९६ ॥

7.197

श्लोक

शुक्लान्य-वर्ण-कुसुमं न देयं च तथा भवेत् । सुगन्धि शुक्लं देयं स्याज् जातं कण्टकिनो द्रुमात् ॥ १९७ ॥

7.198

श्लोक

दत्त्वा कण्टकि-सद्-भूतम् अनुक्तं परिभूयते । अनुक्त-रक्त-कुसुमाद् असौभाग्यम् अवाप्नुयात् ॥ १९८ ॥

7.199

श्लोक

उग्र-गन्धि तथा दत्त्वा नित्यम् उद्वेगम् आप्नुयात् । अगन्धि दत्त्वा वाप्नोति ह्य् अशुभं परमं नरः ॥ १९९ ॥

7.200

श्लोक

उग्र-गन्धीन्य् अगन्धीनि कुसुमानि न दापयेत् । अन्यायतन-जातानि कण्टकीनि तथैव च ॥ २०० ॥