Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ५

आधिष्ठानिकः

5.301

श्लोक

स्थूला निहति चैवायुर् निष्फला तु अलाञ्छिता । कपिला कर्बुरा भग्ना बहु-चक्रैक-चक्रिका ॥ ३०१ ॥

5.302

श्लोक

बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः ॥ ३०२ ॥

5.303

श्लोक

बद्ध-चक्राथवा या स्याद् भग्न-चक्रा त्व् अधो-मुखी । पूजयेद् यः प्रमादेन दुःखम् एव लभेत सः ॥ ३०३ ॥

5.304

श्लोक

तथा व्याल-मुखी भग्ना विषया बद्ध-चक्रिका । विकारावर्तनाभिश् च नारसिंही तथैव च ॥ ३०४ ॥

5.305

श्लोक

कपिला विभ्रमावर्ता रेखावर्ता च या शिला । दुःखदा सा तु विज्ञेया सुखदा न कदाचन ॥ ३०५ ॥

5.306

श्लोक

स्निग्धा श्यामा तथा मुक्तामाया वा सम-चक्रिका । घोणि-मूर्तिर् अनन्ताख्या गम्भीरा सम्पुटा तथा ॥ ३०६ ॥

5.307

श्लोक

सूक्ष्म-मूर्तिर् अमूर्तिश् च सम्मुखा सिद्धि-दायिका । धात्री-फल-प्रमाणा या करेणोभय-सम्पुटा । पूजनीया प्रयत्नेन शिला चैतादृशी शुभा ॥ ३०७ ॥

5.308

श्लोक

इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् । पूजिते फलम् आप्नोति इह-लोके परत्र च ॥ ३०८ ॥

5.309

श्लोक

खण्डितं स्फुटितं भग्नं पार्श्व-भिन्नं विभेदितम् ।शालग्राम-समुद्भूतं शैलं दोषावहं न हि ॥ ३०९ ॥

5.310

श्लोक

खण्डितं त्रुटितं भग्नं शालग्रामे न दोष-भाक् । इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ॥ ३१० ॥

5.311

श्लोक

चक्रं वा केवलं तत्र पद्मेन सह संयुतम् । केवला वनमाला वा हरिर् लक्ष्म्या सह स्थितः ॥ ३११ ॥

5.312

श्लोक

मुख्याः स्निघ्दादयस् तत्रामुख्या रक्तादयो मताः । मुख्याभावे त्व् अमुख्या हि पूज्या इत्य् उच्यते परैः ॥ ३१२ ॥

5.313

श्लोक

निवसामि सदा ब्रह्मन् शालाग्रामाख्य-वेश्मनि । तत्रैव रथ-चक्राङ्क-भेद-नामानि मे शृणु ॥ ३१३ ॥

5.314

श्लोक

द्वार-देशे समे चक्रे दृश्यते नान्तरीयके । वासुदेवः स विज्ञेयः शुक्लाभश् चातिशोभनः ॥ ३१४ ॥

5.315

श्लोक

द्वे चक्रे एक-लग्ने तु पूर्व-भागस् तु पुष्कलः । सङ्कर्षणाख्यो विज्ञेयो रक्ताभिश् चातिशोभनः ॥ ३१५ ॥

5.316

श्लोक

प्रद्युम्नः सूक्ष्म-चक्रस् तु पीत-दीप्तिस् तथैव च । शुषिरं छिद्र-बहुलं दीर्घाकारं तु तद् भवेत् ॥ ३१६ ॥

5.317

श्लोक

अनिरुद्धस् तु नीलाभो वर्तुलश् चातिशोभनः । रेखा-त्रयं तु तद् द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥ ३१७ ॥

5.318

श्लोक

सौभाग्यं केशवो दद्यात् चतुष्कोणो भवेत् तु यः । श्यामं नारायणं विद्यान् नाभि-चक्रं तथोन्नतम् ॥ ३१८ ॥

5.319

श्लोक

दीर्घ-रेखा-समोपेतं दक्षिणे शुषिरं पृथु । ऊर्ध्वं मुखं विजानीयात् द्वारे च हरि-रूपिणम् ॥ ३१९ ॥

5.320

श्लोक

कामदं मोक्षदं चैव अर्थदं च विशेषतः । परमेष्ठी लोहितभः पद्म-चक्र-समन्वितः ॥ ३२० ॥

5.321

श्लोक

बिल्वाकृतिस् तथा पृष्ठे शुषिरं चातिपुष्कलम् । कृष्ण-वर्णस् तथा विष्णुः स्थूले चक्रे सुशोभनः । ब्रमचर्येण पूज्योऽसाव् अन्यथा विघ्नदो भवेत् ॥ ३२१ ॥

5.322

श्लोक

कपिलो नरसिंहोऽथ पृथु-चक्रे च शोभने । ब्रह्मचर्याधिकारी स्यान् नान्यथा पूजनं भवेत् ॥ ३२२ ॥

5.323

श्लोक

नरसिंहस् त्रिबिन्दुः स्यात् कपिलः पञ्च-बिन्दुकः । ब्रह्मचर्येण पूज्यः स्याद् अन्यथा सर्व-विघ्नदः ॥ ३२३ ॥

5.324

श्लोक

स्थूलं चक्र-द्वयं मध्ये गुड-लाक्षा-सवर्णकम् । द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥ ३२४ ॥

5.325

श्लोक

स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् । सम्पूज्य मुक्तिम् आप्नोति संग्रामे विजयी भवेत् ॥ ३२५ ॥

5.326

श्लोक

यस्य दीर्घं मुखं पूर्व-कथितैर् लक्षणैर् युतम् । रेखाश् च केशराकारा नारसिंहो मतो हि सः ॥ ३२६ ॥

5.327

श्लोक

वाराहं शक्ति-लिङ्गे च चक्रे च विषमे स्मृते । इन्द्रनील-निभं स्थूलं त्रि-रेखा-लाञ्छितं शुभम् ॥ ३२७ ॥

5.328

श्लोक

वराहाकृतिर् आभुग्नश् चक्र-रेखास्व् अलङ्कृतः । वाराह इति स प्रोक्तो भुक्ति-मुक्ति-फल-प्रदः ॥ ३२८ ॥

5.329

श्लोक

दीर्घा काञ्चन-वर्णा या बिन्दु-त्रय-विभूषिता । मत्स्याख्या सा शिला ज्ञेया भुक्ति-मुक्ति-फल-प्रदा ॥ ३२९ ॥

5.330

श्लोक

मत्स्य-रूपं तु देवेशं दीर्घाकारं तु यद् भवेत् । बिन्दु-त्रयम् आयुक्तं कास्य-वर्णं विशोभनम् ॥ ३३० ॥

5.331

श्लोक

कूर्मस् तथोन्नतः पृष्ठे वर्तुलावर्त-पूरितः । हरितं वर्णम् आधत्ते कौस्तुभेन च चिह्नितः ॥ ३३१ ॥

5.332

श्लोक

कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः ॥ ३३२ ॥

5.333

श्लोक

हयग्रीवोऽङ्कुशाकारो रेखा चक्र-शमीपगाः । बहु-चक्र-समायुक्तं पृष्ठे नीरद-नीलकम् ॥ ३३३ ॥

5.334

श्लोक

हयग्रीवाङ्कुशाकारे रेखाः पञ्च भवन्ति हि । बहु-बिन्दु-समाकीर्णे दृश्यन्ते नील-रूपकाः ॥ ३३४ ॥

5.335

श्लोक

हायग्रीवा यथा लम्बा रेखाङ्का या शिला भवेत् । तथासौ स्याद् धयग्रीवः पूजितो ज्ञानदो भवेत् ॥ ३३५ ॥

5.336

श्लोक

अश्वाकृति मुखं यस्य साक्षमालं शिरस् तथा । पद्माकृतिर् भवेद् वापि हयशीर्षस् त्व् असौ मतः ॥ ३३६ ॥

5.337

श्लोक

वैकुण्ठम् मणि-वर्णाभं चक्रम् एकं तथा ध्वजम् । द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥ ३३७ ॥

5.338

श्लोक

श्रीधरस् तु तथा देवश् चिह्नितो वनमालया । कदम्ब-कुसुमाकारो रेखा-पञ्चक-भूषितः ॥ ३३८ ॥

5.339

श्लोक

वर्तुलश् चातिह्रस्वश् च वामनः परिकीर्तितः । अतसी-कुसुम-प्रख्यो बिन्दुना परिशोभितः ॥ ३३९ ॥

5.340

श्लोक

वामनाख्यो भवेद् देवो ह्रस्वो यः स्यान् महा-द्युतिः । ऊर्ध्व-चक्रस् त्व् अधश् चक्रः सोऽभीष्टार्थ-प्रदोऽर्चितः ॥ ३४० ॥

5.341

श्लोक

सुदर्शनस् तथा देवः श्याम-वर्णो महा-द्युतिः । वाम-पार्श्वे गदा-चक्रे रेखे चैव तु दक्षिणे ॥ ३४१ ॥

5.342

श्लोक

चक्राकारेण पङ्क्तिः सा यत्र रेखा-मयी भवेत् । स सुदर्शन इत्य् एवं ख्यातः पूजा-फल-प्रदः ॥ ३४२ ॥

5.343

श्लोक

दामोदरस् तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् । दूर्वाभं द्वार-सङ्कीर्णं पीता रेखा तथैव च ॥ ३४३ ॥

5.344

श्लोक

उपर्य्-अधश् च चक्रे द्वे नातिदीर्घं मुखे बिलम् । चक्रे च रेखा लम्बैका स च दामोदरः स्मृतः ॥ ३४४ ॥

5.345

श्लोक

स्थूलो दामोदरो ज्ञेयः सूक्ष्म-रन्ध्रो भवेत् तु यः । चक्रे च मध्य-देश-स्थे पूजितः सुखदः सदा ॥ ३४५ ॥

5.346

श्लोक

नाना-वर्णो ह्य् अनन्ताख्यो नाग-भोगेन चिह्नितः । अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः ॥ ३४६ ॥

5.347

श्लोक

अनन्त-चक्रो बहुभिश् चिह्नैर् अप्य् उपलक्षितः । अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः ॥ ३४७ ॥

5.348

श्लोक

दृश्यते शिखरे लिङ्गं शालग्राम-समुद्भवम् । यस्य योगेश्वरो नाम ब्रह्म-हत्यां व्यपोहति ॥ ३४८ ॥

5.349

श्लोक

आरक्तः पद्मनाभाख्यं पङ्कज-च्छत्र-संयुतम् । तुलस्या पूजयेन् नित्यं दरिद्रस् त्व् ईश्वरो भवेत् ॥ ३४९ ॥

5.350

श्लोक

चन्द्राकृतिं हिरण्याख्यं रश्मि-जालं विनिर्दिशेत् । सुवर्ण-रेखा-बहुलं स्फटिक-द्युति-शोभितम् ॥ ३५० ॥

5.351

श्लोक

अर्ध-चन्द्राकृतिर् देवो हृषीकेश उदाहृतः । तम् अर्च्य लभते स्वर्गं विषयांश् च समीहिताम् ॥ ३५१ ॥

5.352

श्लोक

वाम-पार्श्वे समे चक्रे कृष्ण-वर्णः स बिन्दुकः । लक्ष्मी-नृसिंहो विख्यातो भुक्ति-मुक्ति-फल-प्रदः ॥ ३५२ ॥

5.353

श्लोक

त्रिविक्रमस् तथा देवः श्याम-वर्णो महा-द्युतिः । वाम-पार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे ॥ ३५३ ॥

5.354

श्लोक

प्रदक्षिणावर्त-कृत-वनमाला-विभूषिता । या शिला कृष्ण-संज्ञा सा धन-धान्य-सुख-प्रदा ॥ ३५४ ॥

5.355

श्लोक

बहुभिर् जन्मभिः पुण्यैर् यदि कृष्ण-शिलां लभेत् । गोष्पदेन तु चिह्नेन जनुस् तेन समाप्यते ॥ ३५५ ॥

5.356

श्लोक

चतस्रो यत्र दृश्यन्ते रेखाः पार्श्व-समीपगाः । द्वे चक्रे मध्य-देशे तु सा शिला तु चतुर्मुखा ॥ ३५६ ॥

5.357

श्लोक

वज्र-कीटोद्भवा रेखाः पङ्क्तीभूताश् च यत्र वै । शालग्राम-शिला या सा विष्णु-पञ्जर-संज्ञिता ॥ ३५७ ॥

5.358

श्लोक

नागवत् कुण्डली-भूत-रेखा-पङ्क्तिः स शेषकः । पद्माकारे च पङ्क्ती द्वे मध्ये लम्बा च रेखिका । गरुडः स तु विज्ञेयश् चतुश् चक्रो जनार्दनः ॥ ३५८ ॥

5.359

श्लोक

चतुश् चक्रः सूक्ष्म-द्वारो वनमालाङ्कितोदरः । लक्ष्मी-नारायणः श्रीमान् भुक्ति-मुक्ति-फल-प्रदः ॥ ३५९ ॥

5.360

श्लोक

एतल् लक्षण-युक्तास् तु शालग्राम-शिलाः शुभाः । याश् च तास्व् अपि सूक्ष्माः स्युस् ताः प्रशस्त-कराः स्मृताः ॥ ३६० ॥

5.361

श्लोक

यथा यथा शिला सूक्ष्मा महत् पुण्यं तथा तथा । तस्मात् तां पूजयेन् नित्यं धर्म-कामार्थ-सिद्धये ॥ ३६१ ॥

5.362

श्लोक

तत्राप्य् आमलकी-तुल्या सूक्ष्मा चातीव या भवेत् । तस्याम् एव सदा ब्रह्मन् श्रिया सह वसाम्य् अहम् ॥ ३६२ ॥

5.363

श्लोक

शालग्राम-शिला-स्पर्शात् कोटि-जन्माघ-नाशनम् । किं पुनर् यजनं तत्र हरि-सान्निध्य-कारकम् ॥ ३६३ ॥

5.364

श्लोक

यः पूजयेद् धरिं चक्रे शालग्राम-शिलोद्भवे । राजसूय-सहस्रेण तेनेष्टं प्रतिवासरम् ॥ ३६४ ॥

5.365

श्लोक

यद् आमनन्ति वेदान्ता ब्रह्म निर्गुणम् अच्युतम् । तत्-प्रसादो भवेन् नृणां शालग्राम-शिलार्चनात् ॥ ३६५ ॥

5.366

श्लोक

महाकाष्ठ-स्थितो वह्निर् मथ्यमानः प्रकाशते । यथा तथा हरिर् व्यापी शालग्रामे प्रकाशते ॥ ३६६ ॥

5.367

श्लोक

अपि पाप-समाचाराः कर्मण्य् अनधिकारिणः । शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥ ३६७ ॥

5.368

श्लोक

न तथा रमते लक्ष्म्यां न तथा निज-मन्दिरे । शालग्राम्-शिला-चक्रे यथा स रमते सदा ॥ ३६८ ॥

5.369

श्लोक

अग्निहोत्रं हुतं तेन दत्ता पृथ्वी स-सागरा । येनार्चितो हरिश् चक्रे शालग्राम-शिलोद्भवे ॥ ३६९ ॥

5.370

श्लोक

कामैः क्रोधैः प्रलोभैश् च व्याप्तो योऽत्र नराधमः । सोऽपि याति हरेर् लोकं शालग्राम-शिलार्चनात् ॥ ३७० ॥

5.371

श्लोक

यः पूजयति गोविन्दं शालग्रामे सदा नरः । आहूत-सम्प्लवं यावत् न स प्रच्यवते दिवः ॥ ३७१ ॥

5.372

श्लोक

विना तीर्थैर् विना दानैर् विना यज्ञैर् विना मतिम् । मुक्तिं याति नरो वैश्य शालग्राम-शिलार्चनात् ॥ ३७२ ॥

5.373

श्लोक

नरकं गर्भ-वासं च तिर्यक्त्वं कृमि-योनिताम् । न याति वैश्य पापोऽपि शालग्रामेऽच्युतार्चकः ॥ ३७३ ॥

5.374

श्लोक

दीक्षा-विधान-मन्त्र-ज्ञश् चक्रे यो बलिम् आहरेत् । स याति वैष्णवं धाम सत्यं सत्यं मयोदितम् ॥ ३७४ ॥

5.375

श्लोक

नैवेद्यैर् विविधैः पुष्पैर् धूपैर् दीपैर् विलेपनैः । गीत-वादित्र-स्तोत्राद्यैः शालग्राम-शिलार्चनम् ॥ ३७५ ॥

5.376

श्लोक

कुरुते मानवो यस् तु कलौ भक्ति-परायणः । कल्प-कोटि-सहस्राणि रमते सन्निधौ हरेः ॥ ३७६ ॥

5.377

श्लोक

लिङ्गैस् तु कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः । शालग्राम-शिलायां तु एकेनापीह तत् फलम् ॥ ३७७ ॥

5.378

श्लोक

शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः । तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ ३७८ ॥

5.379

श्लोक

शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः । पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि ॥ ३७९ ॥

5.380

श्लोक

शालग्राम-शिला यत्र तत्-तीर्थं योजन-त्रयम् । यत्र दानं जपो होमः सर्वं कोटि-गुणं भवेत् ॥ ३८० ॥

5.381

श्लोक

शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः । कीकटोऽपि मृतो याति वैकुण्ठ-भवनं नर ॥ ३८१ ॥

5.382

श्लोक

शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् । भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम् ॥ ३८२ ॥

5.383

श्लोक

शालग्राम-शिलायां तु त्रैलोक्यं स-चराचरम् । मया सह महासेन लीनं तिष्ठति सर्वदा ॥ ३८३ ॥

5.384

श्लोक

दृषा प्रणमिता येन स्नापिता पूजिता तथा । यज्ञ-कोटि-समं पुण्यं गवां कोटि-फलं लभेत् ॥ ३८४ ॥

5.385

श्लोक

कामासक्तोऽपि यो नित्यं भक्ति-भाव-विवर्जितः । शालग्राम-शिलां विप्र सम्पूज्यैवाच्युतो भवेत् ॥ ३८५ ॥

5.386

श्लोक

शालग्राम-शिला-बिम्बं हत्या-कोटि-विनाशनम् । स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥ ३८६ ॥

5.387

श्लोक

शालग्राम-शिलां दृष्ट्वा यान्ति पापान्य् अनेकशः । सिंहं दृष्ट्वा यथा यान्ति वने मृग-गणा भयात् ॥ ३८७ ॥

5.388

श्लोक

नमस्करोति मनुजः शालग्राम-शिलार्चने । पापानि विलयं यान्ति तमः सूर्योदये यथा ॥ ३८८ ॥

5.389

श्लोक

कामासक्तोऽथवा क्रुद्धः शालग्राम-शिलार्चनम् । भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिम् अवाप्नुयात् ॥ ३८९ ॥

5.390

श्लोक

वैवस्वतं भयं नास्ति तथा मरण-जन्मनोः । यः कथां कुरुते विष्णोः शालग्राम-शिलाग्रतः ॥ ३९० ॥

5.391

श्लोक

गीतैर् वाद्यैस् तथा स्तोत्रैः शालग्राम-शिलार्चनम् । कुरुते मानवो यस् तु कलौ भक्ति-परायणः । कल्प-कोटि-सहस्राणि रमते विष्णु-सद्मनि ॥ ३९१ ॥

5.392

श्लोक

शालग्राम-नमस्कारेऽभावेनापि नरैः कृते । भयं नैव करिष्यन्ति मद्-भक्ता ये नरा भुवि ॥ ३९२ ॥

5.393

श्लोक

मद्-भक्ति-बल-दर्पिष्ठा मत्-प्रभुं न नमन्ति ये । वासुदेवं न ते ज्ञेया मद्-भक्ताः पापिनो हि ते ॥ ३९३ ॥

5.394

श्लोक

शालग्राम-शिलायां तु सदा पुत्र वसाम्य् अहम् । दत्तं देवेन तुष्टेन स्व-स्थानं मम भक्तितः ॥ ३९४ ॥

5.395

श्लोक

पद्म-कोटि-सहस्रैस् तु पूजिते मयि यत् फलम् । तत् फलं कोटि-गुणितं शालग्राम-शिलार्चने ॥ ३९५ ॥

5.396

श्लोक

पूजितो ऽहं न तैर् मर्त्यैर् नमितोऽहं न तैर् नरैः । न कृतं मर्त्य-लोके यैः शालग्राम-शिलार्चनम् ॥ ३९६ ॥

5.397

श्लोक

शालग्राम-शिलाग्रे तु यः करोति ममार्चनम् । तेनार्चितोऽहं सततं युगानाम् एकविंशतिम् ॥ ३९७ ॥

5.398

श्लोक

किम् अर्चितैर् लिङ्ग-शतैर् विष्णु-भक्ति-विवर्जितैः । शालग्राम-शिला-बिम्बं नार्चितं यदि पुत्रक ॥ ३९८ ॥

5.399

श्लोक

अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्राम-शिला-लग्नं सर्वं याति पवित्रताम् ॥ ३९९ ॥

5.400

श्लोक

यो हि माहेश्वरो भूत्वा वैष्णव-लिङ्गम् उत्तमम् ॥ द्वेष्टि वै याति नरकं यावद् इन्द्राश् चतुर्दश ॥ ४०० ॥