Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ५

आधिष्ठानिकः

5.401

श्लोक

सकृद् अप्य् अर्चिते बिम्बे शालग्राम-शिलोद्भवे । मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः ॥ ४०१ ॥

5.402

श्लोक

मल्-लिङ्गैः कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः । शालग्राम-शिलायां तु एकेनापि हि तद् भवेत् ॥ ४०२ ॥

5.403

श्लोक

तस्माद् भक्त्या च मद्-भक्तैः प्रीत्य्-अर्थे मम पुत्रक । कर्तव्यं सततं भक्त्या शालग्राम-शिलार्चनम् ॥ ४०३ ॥

5.404

श्लोक

शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः । तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ ४०४ ॥

5.405

श्लोक

शालग्राम-शिलाग्रे तु सकृत् पिण्डेन तर्पिताः । वसन्ति पितरस् तस्य न सङ्ख्या तत्र विद्यते ॥ ४०५ ॥

5.406

श्लोक

प्रमाणम् अस्ति सर्वस्य सुकृतस्य हि पुत्रक । फलं प्रमाण-हीनं तु शालग्राम-शिलार्चने ॥ ४०६ ॥

5.407

श्लोक

यो ददाति शिलां विष्णोः शालग्राम-समुद्भवाम् । विप्राय विष्णु-भक्ताय तेनेष्टं बहुभिः मखैः ॥ ४०७ ॥

5.408

श्लोक

मानुष्ये दुर्लभा लोके शालग्रामोद्भवा शिला । प्राप्यते न विना पुण्यैः कलि-काले विशेषतः ॥ ४०८ ॥

5.409

श्लोक

स धन्यः पुरुषो लोके सफलं तस्य जीवितम् । शालग्राम-शिला शुद्धा गृहे यस्य च पूजिता ॥ ४०९ ॥

5.410

श्लोक

संनियम्येन्द्रिय-ग्रामं शालग्राम-शिलार्चनम् । यः कुर्यान् मानवो भक्त्या पुष्पे पुष्पेऽश्वमेध-भाक् ॥ ४१० ॥

5.411

श्लोक

काले वा यदि वाकाले शालग्राम-शिलार्चनम् । भक्त्या वा यदि वाभक्त्या यः करोति स पुण्य-भाक् ॥ ४११ ॥

5.412

श्लोक

द्वेषेणापि च लोभेन दम्भेन कपटेन वा । शालग्रामोद्भवं देवं दृष्ट्वा पापात् प्रमुच्यते ॥ ४१२ ॥

5.413

श्लोक

अशुचिर् वा दुराचारः सत्य-शौच-विवर्जितः । शालग्राम-शिलां स्पृष्ट्वा सद्य एव शुचिर् भवेत् ॥ ४१३ ॥

5.414

श्लोक

तिल-प्रस्थ-शतं भक्त्या यो ददाति दिने दिने । तत् फलं समवाप्नोति शालग्राम-शिलार्चने ॥ ४१४ ॥

5.415

श्लोक

पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षतं सुत । जायते मेरुणा तुल्यं शालग्राम-शिलार्पितम् ॥ ४१५ ॥

5.416

श्लोक

विधि-हीनोऽपि यः कुर्यात् क्रिया-मन्त्र-विवर्जितः । चक्र-पूजाम् अवाप्नोति सम्यक् शास्त्रोदितं फलम् ॥ ४१६ ॥

5.417

श्लोक

स्कन्धे कृत्वा तु योऽध्वानं वहते शैल-नायकम् । तेनोढं तु भवेत् सर्वं त्रैलोक्यं स-चराचरम् ॥ ४१७ ॥

5.418

श्लोक

ब्रह्म-हत्यादिकं पापं यत् किञ्चित् कुरुते नरः । तत् सर्वं निर्दहत्य् आशु शालग्राम-शिलार्चनम् ॥ ४१८ ॥

5.419

श्लोक

न पूजनं न मन्त्राश् च न जपो न च भावना । न स्तुतिर् नोपचारश् च शालग्राम-शिलार्चने ॥ ४१९ ॥

5.420

श्लोक

शालग्राम-शिला यत्र तत् तीर्थं योजन-त्रयम् । तत्र दानं च होमश् च सर्वं कोटि-गुणं भवेत् ॥ ४२० ॥

5.421

श्लोक

शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः । पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि ॥ ४२१ ॥

5.422

श्लोक

शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः । कीकटोऽपि मृतो याति वैकुण्ठ-भुवनं नरः ॥ ४२२ ॥

5.423

श्लोक

शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् । भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम् ॥ ४२३ ॥

5.424

श्लोक

चक्राङ्किता यस्य वसन्ति गेहे ॥ ४२४ ॥

5.425

श्लोक

शालग्राम-शिलायां तु यैर् नरैः पूजितो हरिः । संशोध्य तेषां पापानि मुक्तये बुद्धितो भवेत् ॥ ४२५ ॥

5.426

श्लोक

कार्त्तिके मथुरायां तु सारूप्यं दिशते हरिः । शालग्राम-शिलायां वै पितॄण् उद्दिश्य पूजितः । कृष्णः समुद्धरेत् तस्य पितॄन् एतान् स्वलोकताम् ॥ ४२६ ॥

5.427

श्लोक

शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः । न बाधन्तेऽसुरास् तत्र भूत-वेतालकादयः ॥ ४२७ ॥

5.428

श्लोक

शालग्राम-शिला यत्र तत्-तीर्थं तत् तपो-वनम् । यतः सन्निहितस् तत्र भगवान् मधुसूदनः ॥ ४२८ ॥

5.429

श्लोक

शालग्राम-शिलास् ताश् च यदि द्वादश पूजिताः । शतं वा पूजितं भक्त्या तदा स्याद् अधिकं फलम् ॥ ४२९ ॥

5.430

श्लोक

शिला द्वादश भो वैश्य शालग्राम-शिलोद्भवाः । विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥ ४३० ॥

5.431

श्लोक

कोटि-द्वादश-लिङ्गैस् तु पूजितैः स्वर्ण-पङ्कजैः । यत् स्याद् द्वादश-कालेषु दिनेनैकेन तद् भवेत् ॥ ४३१ ॥

5.432

श्लोक

यः पुनः पूजयेद् भक्त्या शालग्राम-शिलाशतम् । उषित्वा स हरेर् लोके चक्रवर्तीह जायते ॥ ४३२ ॥

5.433

श्लोक

द्वादशैव शिला यो वै शालग्राम-समुद्भवाः । अर्चयेद् वैष्णवो नित्यं तस्य पुण्यं निबोध मे ॥ ४३३ ॥

5.434

श्लोक

कोटि-लिङ्ग-सहस्रैस् तु पूजितैर् जाह्नवी-तटे । काशी-वासे युगान्य् अष्टौ दिनेनैकेन तद् भवेत् ॥ ४३४ ॥

5.435

श्लोक

किं पुनर् बहुना यस् तु पुजयेद् वैष्णवो नरः । न हि ब्रह्मादयो देवाः संख्यां कुर्वन्ति पुण्यतः ॥ ४३५ ॥

5.436

श्लोक

शालग्राम-शिलायां यो मूल्यम् उद्घातयेन् नरः । विक्रेता चानुमन्ता च यः परीक्षाम् उदीरयेत् ॥ ४३६ ॥

5.437

श्लोक

सर्वे ते नरकं यान्ति यावद् आहूत-सम्प्लवम् । अतः संवर्जयेद् विप्र चक्रस्य क्रय-विक्रयम् ॥ ४३७ ॥

5.438

श्लोक

शालग्राम-शिलायां तु प्रतिष्ठा नैव विद्यते । महा-पूजां तु कृत्वादौ पूजयेत् तां ततो बुधः ॥ ४३८ ॥

5.439

श्लोक

अतोऽधिष्ठान-वर्गेषु सूर्यादिष्व् इव मूर्तिषु । शालग्राम-शिलैव स्याद् अधिष्ठानोत्तमं हरेः ॥ ४३९ ॥

5.440

श्लोक

हृदि सूर्ये जले वाथ प्रतिमा-स्थण्डिलेषु च । समभ्यर्च्य हरिं यान्ति नरास् ते वैष्णवं पदम् ॥ ४४० ॥

5.441

श्लोक

अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः । शालग्रामे-शिला-चक्रे वज्र-कीट-विनिर्मिते ॥ ४४१ ॥

5.442

श्लोक

अधिष्ठानं हि तद् विष्णोः सर्व-पाप-प्रणाशनम् । सर्व-पुण्य-प्रदं वैश्य सर्वेषाम् अपि मुक्तिदम् ॥ ४४२ ॥

5.443

श्लोक

पूजा च विहिता तस्य प्रतिमायां नृपात्मज । शैली दारुमयी लौही लेप्या लेख्या च सैकता । मनोमयी मणिमयी श्री-मूर्तिर् अष्टधा स्मृता ॥ ४४३ ॥

5.444

श्लोक

शालग्राम-शिलायां तु साक्षात् श्री-कृष्ण-सेवनम् । नित्यं संनिहितस् तत्र वासुदेवो जगद्-गुरुः ॥ ४४४ ॥

5.445

श्लोक

सुवर्णार्चा न रत्नार्चा न शिलार्चा सुरोत्तम । शालग्राम-शिलायां तु सर्वदा वसते हरिः ॥ ४४५ ॥

5.446

श्लोक

शालग्राम-शिला-नृसिंह-महिमा कोऽप्य् एष लोकोत्तरः ॥ ४४६ ॥

5.447

श्लोक

शालग्राम-शिला-रूप-भगवन्-महिमाम्बुधेः । ऊर्मीन् गणयितुं शक्यः श्री-चैतन्याश्रितोऽपि कः ॥ ४४७ ॥

5.448

श्लोक

शालग्राम-शिला-पूजा विना योऽश्नाति किञ्चन । स चण्डालादि-विष्ठायाम् आकल्पं जायते कृमिः ॥ ४४८ ॥

5.449

श्लोक

गौरवाचल-शृङ्गाग्रैर् भिद्यते यस्य वै तनुः । न मतिर् जायते यस्य शालग्राम-शिलार्चने ॥ ४४९ ॥

5.450

श्लोक

एवं श्री-भगवान् सर्वैः शालग्राम-शिलात्मकः । द्विजैः स्त्रीभिश् च शूद्रैश् च पूज्यो भगवतः परैः ॥ ४५० ॥

5.451

श्लोक

ब्राह्मण-क्षत्रिय-विशां सच्-छूद्राणाम् अथापि वा । शालग्रामेऽधिकारोऽस्ति न चान्येषां कदाचन ॥ ४५१ ॥

5.452

श्लोक

स्त्रियो वा यदि वा शूद्रा ब्राह्मणाः क्षत्रियादयः । पूजयित्वा शिला-चक्रं लभन्ते शाश्वतं पदम् ॥ ४५२ ॥

5.453

श्लोक

अतो निषेधकं यद् यद् वचनं श्रूयते स्फुटम् । अवैष्णव-परं तत् तद् विज्ञेयं तत्त्व-दर्शिभिः ॥ ४५३ ॥

5.454

श्लोक

ब्राह्मणस्यैव पूज्योऽहं शुचेर् अप्य् अशुचेर् अपि । स्त्री-शूद्र-कर-संस्पर्शो वज्राद् अपि सुदुःसहः ॥ ४५४ ॥

5.455

श्लोक

प्रणवोच्चारणार्चैव शालग्राम-शिलार्चनात् । ब्राह्मणी-गमनाच् चैव शूद्रश् चण्डालताम् इयात् ॥ ४५५ ॥

5.456

श्लोक

सन्धार्यआ वैष्णवैर् यत्नाच् छालग्राम-शिलाऽसुवत् । सा चार्च्या द्वारका-चक्राङ्कितोपेतैव सर्वदा ॥ ४५६ ॥

5.457

श्लोक

शालग्रामोद्भवो देवो देवो द्वारवती-भवः । उभयोः सङ्गमो यत्र मुक्तिस् तत्र न संशयः ॥ ४५७ ॥

5.458

श्लोक

चक्राङ्किता शिला यत्र शालग्राम-शिलाग्रतः । तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः ॥ ४५८ ॥

5.459

श्लोक

प्रत्यहं द्वादश शिलाः शालग्रामस्य योऽर्चयेत् । द्वारवत्याः शिला-युक्ताः स वैकुण्ठे महीयते ॥ ४५९ ॥

5.460

श्लोक

एकः सुदर्शनो द्वाभ्यां लक्ष्मी-नारायणः स्मृतः । त्रिभिस् त्रिविक्रमो नाम चतुर्भिश् च जनार्दनः ॥ ४६० ॥

5.461

श्लोक

सप्तभिर् बलदेवस् तु अष्टभिः पुरुषोत्तमः ॥ ४६१ ॥

5.462

श्लोक

नवभिश् च नव-व्यूहो दशभिर् दश-मूर्तिकः । एकादशैश् चानिरुद्धो द्वादशैर् द्वादशात्मकः । अन्येषू बहु-चक्रेषु अनन्तः परिकीर्तितः ॥ ४६२ ॥

5.463

श्लोक

ये केचिच् चैव पाषाणा विष्णु-चक्रेण मुद्रिताः । तेषां स्पर्शन-मात्रेण मुच्यते सर्व-पातकैः ॥ ४६३ ॥

5.464

श्लोक

सुदर्शनाद्यास् तु शिलाः पूजिताः सर्व-कामदाः ॥ ४६४ ॥

5.465

श्लोक

भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन् नरः । अपि चेत् सुदुराचारो मुच्यते नात्र संशयः ॥ ४६५ ॥

5.466

श्लोक

एतद् वै चक्र-तीर्थं तु यच् छिला चक्र-चिह्निता । मुक्तिदा पापिनां लोके म्लेच्छ-देशेऽपि पूजिता ॥ ४६६ ॥

5.467

श्लोक

एक-चक्रस् तु पाषाणो द्वारवत्याः सुशोभनः । सुदर्शनाभिधो योऽसौ मोक्षैक-फल-दायकः ॥ ४६७ ॥

5.468

श्लोक

लक्ष्मी-नारायणो द्वाभ्यां भुक्ति-मुक्ति-फल-प्रदः । एभिश् चाच्युत-रूपोऽसौ फलम् ऐन्द्रं प्रयच्छति ॥ ४६८ ॥

5.469

श्लोक

चतुर्-भुजश् चतुश्-चक्रश् चतुर्-वर्ग-फल-प्रदः । पञ्चभिर् वासुदेवश् च जन्म-मृत्यु-भयापहः ॥ ४६९ ॥

5.470

श्लोक

षड्भिः प्रद्युम्न एवासौ लक्ष्मीं कान्तिं ददाति सः । सप्तभिर् बलभद्रोऽसौ गोत्र-कीर्ति-विवर्धनः ॥ ४७० ॥

5.471

श्लोक

ददाति वाञ्छितं सर्वम् अष्टभिः पुरुषोत्तमः । नव-चक्रो नृसिंहस् तु फलं यच्छत्य् अनुत्तमम् ॥ ४७१ ॥

5.472

श्लोक

राज्य-प्रदो दशभिस् तु दशावतारकः स्मृतः । एकादशभिर् ऐश्वर्यम् अनिरुद्धः प्रयच्छति ॥ ४७२ ॥

5.473

श्लोक

निर्वाणं द्वादशात्मासौ सौख्यदश् च सुपूजितः ॥ ४७३ ॥

5.474

श्लोक

कृष्ण मृत्यु-प्रदो नित्यं धूम्रश् चैव भयावहः । अस्वास्थ्यं कर्बुरो दद्यान् नीलस् तु धन-हानिदः ॥ ४७४ ॥

5.475

श्लोक

छिद्रो दारिद्र्य-दुःखानि दद्यात् सम्पूजितो ध्रुवम् । पाण्डरस् तु महद् दुःखं भग्नो भार्या-वियोगदः ॥ ४७५ ॥

5.476

श्लोक

पुत्र-पौत्र-धनैश्वर्य-सुखम् अत्यन्तम् उत्तमम् । ददाति शुक्ल-वर्णश् च तस्माद् एनं समर्चयेत् ॥ ४७६ ॥

5.477

श्लोक

कृष्णा मृत्यु-प्रदा नित्यं कपिला च भयावहा । रोगार्तिं कर्बुरा दद्यात् पीता वित्त-विनाशिनी ॥ ४७७ ॥

5.478

श्लोक

धूम्राभा वित्त-नाशाय भग्ना भार्या-विनाशिका । सच्-छिद्रा च त्रिकोणा च तथा विषम-चक्रिका । अर्ध-चन्द्राकृतिर् या च पूज्यास् ता न भवन्ति हि ॥ ४७८ ॥

5.479

श्लोक

सुखदा सम-चक्रा तु द्वादशी चोत्तमा शुभा । वर्तुला चतुरस्रा च नराणां च सुख-प्रदा ॥ ४७९ ॥

5.480

श्लोक

त्रिकोणा विषमा चैव छिद्रा भग्ना तथैव च । अर्ध-चन्द्राकृतिर् या तु पूजार्हा न भवेत् तु सा । फलं नोत्पद्यते तत्र पूजितायां कदाचन ॥ ४८० ॥