Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ५

आधिष्ठानिकः

5.201

श्लोक

सव्ये सकान्तान् अथ यक्ष-सिद्ध- गन्धर्व-विद्याधर-चारणांश् च । स-किन्नरान् अप्सरसश् च मुख्याः कामार्थिनो नर्तन-गीत-वाद्यैः ॥ २०१ ॥

5.202

श्लोक

शङ्खेन्दु-कुन्द-धवलं सकलागम-ज्ञं सौदामनी-तति-पिङ्ग-जटा-कलापम् । तत्-पाद-पङ्कज-गताम् अचलां च भक्तिं वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम् ॥ २०२ ॥

5.203

श्लोक

नाना-विध-श्रुति-गणान्वित-सप्त-राग- ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः । सम्प्रीणयन्तम् उदिताभिर् अमुं महत्या सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् ॥ २०३ ॥

5.204

श्लोक

पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥ २०४ ॥

5.205

श्लोक

रक्त-नेत्राधरं रक्त-पाण-पाद-नखं शुभम् । कौस्तुभोद्भासितोरस्कं नाना-रत्न-विभूषितम् ॥ २०५ ॥

5.206

श्लोक

तद्-धाम-विलसन्-मुक्ता-बद्ध-हारोपशोभितम् । नाना-रत्न-प्रभोद्भासि-मुकुटं दिव्य-तेजसम् ॥ २०६ ॥

5.207

श्लोक

हर-केयूर-कटक-कुण्डलैः परिमण्डितम् । श्रीवत्स-वक्षसं चारु-नूपुराद्य्-उपशोभितम् ॥ २०७ ॥

5.208

श्लोक

नाना-रत्न-विचित्रैश् च कटि-सूत्राङ्गुलीयकैः । बर्हि-पत्र-कृतापीडं वन्य-पुष्पैर् अलङ्कृतम् ॥ २०८ ॥

5.209

श्लोक

कदम्ब-कुसुमोद्बद्ध-वन-माला-विभूषितम् । स-चन्द्र-तारकानन्दि-विमलाम्बर-सन्निभम् ॥ २०९ ॥

5.210

श्लोक

वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् । गायन्तं दिव्य-गानैश् च गोष्ठ-मध्य-गतं हरिम् ॥ २१० ॥

5.211

श्लोक

स्वर्गाद् इव परिभ्रष्ट-कन्यका-शत-वेष्टितम् । सर्व-लक्षण-सम्पन्नं सौन्दर्येणाभिशोभितम् ॥ २११ ॥

5.212

श्लोक

मोहनं सर्व-गोपीनां सर्वासां च गवाम् अपि । लेलिह्यमानं वत्सैश् च धेनुभिश् च समन्ततः ॥ २१२ ॥

5.213

श्लोक

सिद्ध-गन्धर्व-यक्षैश् च अप्सरोभिर् विहङ्गमैः । सुरासुर-मनुष्यैश् च स्थावरैः पन्नगैर् अपि ॥ २१३ ॥

5.214

श्लोक

मृगैर् विद्याधरैश् चैव वीक्ष्यमाणं सुविस्मितैः । नारदेन वशिष्ठेन विश्वामित्रेण धीमता ॥ २१४ ॥

5.215

श्लोक

पराशरेण व्यासेन भृगुणाङ्गिरसा तथा । दक्षेण शौनकात्रिभ्यां सिद्धेन कपिलेन च ॥ २१५ ॥

5.216

श्लोक

सनकाद्यिर् मुनीन्द्रैश् च ब्रह्म-लोक-गतैर् अपि । अन्यैर् अपि च संयुक्तं कृष्णं ध्यायेद् अहर्निशम् ॥ २१६ ॥

5.217

श्लोक

अव्यान् मीलत्-कलाय-द्युतिर् अहि-रिपु-पिच्छोल्लसत् केश-जालो गोपी-नेत्रोत्सवाराधित-ललित-वपुर् गोप-गो-वृन्द-वीतः । श्रीमद्-वक्त्रारविन्द-प्रतिसहित्-शशाङ्काकृतिः पीत-वासा देवोऽसौ वेणु-नाद-क्षपित-जन-धृतिर् देवकी-नन्दनो नः ॥ २१७ ॥

5.218

श्लोक

ध्यात्वैवं भगवन्तं तं सम्प्रार्थ्य च यथा-सुखम् । आदौ सम्पूजयेत् सर्वैर् उपचारैश् च मानसैः ॥ २१८ ॥

5.219

श्लोक

लेख्या ये बहिर् अर्चयाम् उपचारा विभागशः । ते सर्वेऽप्य् अन्तर्-अर्चायां कल्पनीया यथा-रुचि ॥ २१९ ॥

5.220

श्लोक

स्वागतं देव-देवेश सन्निधौ भव केशव । गृहाण मानसीं पूजां यथार्थ-परिभाविनाम् ॥ २२० ॥

5.221

श्लोक

अथोपचारैर् बाह्यैश् च स्वात्मन्य् एव स्थितं प्रभुम् । पूजयन् स्थापयेद् आदौ शङ्खं सत्-सम्प्रदायतः ॥ २२१ ॥

5.222

श्लोक

स्वस्य वामाग्रतो भूमाव् उल्लिख्य त्र्य्-अस्र-मण्डलम् । ततास्त्र-क्षालितं शङ्खं साधारं स्थापयेद् बुधः ॥ २२२ ॥

5.223

श्लोक

शङ्खे हृदय-मन्त्रेण गन्ध-पुष्पाक्षतान् क्षिपेत् । व्युत्क्रान्तैर् मातृकार्णैस् तं शिरोऽन्तैः केन पूरयेत् ॥ २२३ ॥

5.224

श्लोक

स-बिन्दुना म-कारेण तद्-आधारेऽग्नि-मण्डलम् । सम्पूजयेद् अ-कारेण शङ्खे चादित्य-मण्डलम् ॥ २२४ ॥

5.225

श्लोक

उ-कारेण जले सोम-मण्डलं च तथार्चयेत् । तीर्थ-मन्त्रेण तीर्थान्य् आवाहयेच् चार्क-मण्डलम् ॥ २२५ ॥

5.226

श्लोक

कृष्णं चावाह्य हृत्-पद्माद् गालिनीं शिखयेक्षयेत् । नेत्र-मन्त्रेण वीक्ष्यान्तः कवचेनावगुण्ठएत् ॥ २२६ ॥

5.227

श्लोक

कुर्यान् न्यासं जले मूल-मन्त्राङ्गानां ततो दिशः । बद्ध्वास्त्रेणामृतीकुऋयाद् अथ तद्-धेनु-मुद्रया ॥ २२७ ॥

5.228

श्लोक

तच् चक्र-मुद्रया रक्ष्य सलिलं मत्स्य-मुद्रया । आच्छाद्य संस्पृशन् शङ्खं जपेन् मूलं ततोऽष्टशः ॥ २२८ ॥

5.229

श्लोक

तज् जलं प्रोक्षणी-पात्रे किंचित् क्षिप्त्वा त्रिर् उक्षयेत् ॥ तच्-छेषेणार्चन-द्रव्य-जातानि स्व-तनूम् अपि ॥ २२९ ॥

5.230

श्लोक

कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् । तर्जनी-मध्यमानामाः संहता भुग्न-सज्जिताः । मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ २३० ॥

5.231

श्लोक

ततोऽपास्यावशिष्टान्तः शङ्खं वर्धनिकाम्बुना । पुनर् आपूर्य कृष्णाग्रे न्यसेद् आचारतः सताम् ॥ २३१ ॥

5.232

श्लोक

गुरून् मूर्ध्नि गणेशं च मूलाधारेऽभिपूज्य तम् । पीठ-न्यासानुसारेण पीठं चात्मनि पूजयेत् ॥ २३२ ॥

5.233

श्लोक

ततो जपन् काम-बीजं त्रि-स्थान-स्थं परं महः । मूल-मन्त्रात्मकं बीजेनैकीभूतं विचिन्तयेत् ॥ २३३ ॥

5.234

श्लोक

तच् च पञ्चाङ्ग-न्यासेन साकारं स्वेष्ट-दैवतम् । विचिन्त्य पञ्चाङ्गादीनि न्यस्येत् तस्मिन् यथात्मनि ॥ २३४ ॥

5.235

श्लोक

कुर्युर् भगवति प्रादुर्भूते कृष्णे च वैष्णवाः । तत्-तन्-न्यासान् अभेदाय मनोर् भगवता सह ॥ २३५ ॥

5.236

श्लोक

केचिन् न्यस्यन्ति तत्त्वादीन्न् अव्यक्तानि यथोदितम् । मन्त्रार्णैः स्वर-हंसाद्यैर् भूषणेषु प्रभोः क्रमात् ॥ २३६ ॥

5.237

श्लोक

तस्मिन् पीठे तम् आसीनं भगवन्तं विभावयन् । आसनाद्यैस् तु पुष्पान्तैर् यथा-विध्य् अर्चयेद् बुधः ॥ २३७ ॥

5.238

श्लोक

ततो मुखेऽर्चयेद् वेणुं वनमालां च वक्षसि । दक्षस्तनोर्ध्वे श्रीवत्सं सव्ये तत्रैव कौस्तुभम् ॥ २३८ ॥

5.239

श्लोक

वैष्णवश् चन्दनेनामुम् आलिप्योपक-निष्ठया । प्राग्वद् दीप-शिखाकार-तिलकानि द्विषड् लिखेत् ॥ २३९ ॥

5.240

श्लोक

यथोक्तं पञ्चभिः पुष्पाञ्जलिभिश् चाभिपूज्य तम् । धूपं दीपं च नैवेद्यं मुख-वासादि चार्पयेत् ॥ २४० ॥

5.241

श्लोक

गीतादिभिश् च सन्तोष्य कृष्णम् अस्मै ततोऽखिलम् । अशक्तो बहिर् अर्चायाम् अर्पयेज् जपम् आचरेत् ॥ २४१ ॥

5.242

श्लोक

अश्वमेध-सहस्राणि वाजपेय-शतानि च । एकस्य ध्यान-योगस्य कलां नार्हन्ति षोडशीम् ॥ २४२ ॥

5.243

श्लोक

यन्-नामोच्चारणाद् एव सर्वे नश्यन्त्य् उपद्रवाः । स्तोत्रैर् वा अर्हणाभिर् वा किम् उ ध्यानेन कथ्यते ॥ २४३ ॥

5.244

श्लोक

अयं यो मानसो यागो जरा-व्याधि-भयापहः । सर्व-पापौघ-शमनो भावाभाव-करो द्विज । सतताभ्यास-योगेन देह-बन्धाद् विमोचयेत् ॥ २४४ ॥

5.245

श्लोक

यश् चैवं परया भक्त्या सकृत् कुर्यान् महामते । क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने ॥ २४५ ॥

5.246

श्लोक

स्मरण-ध्यानयोः पूर्वं माहात्म्यं लिखितं च यत् । ज्ञेयं तद्-अधिकं चात्रान्तर्यागाङ्गतया तयोः ॥ २४६ ॥

5.247

श्लोक

एवं यथा-सम्प्रदायं शक्त्या यावन्-मनः-सुखम् । अन्तः-पूजां विधायादाव् आरभेत बहिस् ततः ॥ २४७ ॥

5.248

श्लोक

ध्यात्वा षोडश-सङ्ख्यातैर् उपचारैश् च मानसैः । सम्यग् आराधनं कृत्वा बाह्य-पूजां समाचरेत् ॥ २४८ ॥

5.249

श्लोक

अनुज्ञां देहि भगवन् बहिर् योगे मम प्रभो । श्री-कृष्णम् इत्य् अनुज्ञाप्य बहिः पूजां समाचरेत् ॥ २४९ ॥

5.250

श्लोक

तत्र त्व् अनेकशः सन्ति पूजा-स्थानानि तत्र च । श्री-मूर्तयो बहु-विधाः शालग्राम-शिलास् तथा ॥ २५० ॥

5.251

श्लोक

शालग्रामे मनौ यन्त्रे स्थण्डिले प्रतिमादिषु । हरेः पूजा तु कर्तव्या केवले भूतले न तु ॥ २५१ ॥

5.252

श्लोक

सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् । भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥ २५२ ॥

5.253

श्लोक

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥ २५३ ॥

5.254

श्लोक

वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया । वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः ॥ २५४ ॥

5.255

श्लोक

स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि । क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥ २५५ ॥

5.256

श्लोक

धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः । युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥ २५६ ॥

5.257

श्लोक

शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्ट-विधा मता ॥ २५७ ॥

5.258

श्लोक

चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् । उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥ २५८ ॥

5.259

श्लोक

अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ २५९ ॥

5.260

श्लोक

गोपाल-मन्त्रोद्दिष्टत्वात् तच्-छ्री-मूर्तिर् अपेक्षिता । तथापि वैष्णव-प्रीत्यै लेख्याः श्री-मूर्तयोऽखिलाः ॥ २६० ॥

5.261

श्लोक

आदि-मूर्तिर् वासुदेवः सङ्कर्षणम् अथासृजत् । चतुर्मूर्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा । केशवादि-प्रभेदेन मूर्ति-द्वादशकं स्मृतम् ॥ २६१ ॥

5.262

श्लोक

पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि । वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् । आदि-मूर्तेस् तु भेदोऽयं केशवेति पर्कीर्त्यते ॥ २६२ ॥

5.263

श्लोक

अधरोत्तर-भावेन कृतम् एतत् तु यत्र वै । नारायणाख्या सा मूर्तिः स्थापिता भुक्ति-मुक्तिदा ॥ २६३ ॥

5.264

श्लोक

सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि । दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् । आदिमूर्तेस् तु भेदोऽयं माधवेति प्रकीर्त्यते ॥ २६४ ॥

5.265

श्लोक

दक्षिणाधः-स्थितं चक्रं गदा यस्योपरि स्थिता । वामोर्ध्व-संस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् । सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्त्यते ॥ २६५ ॥

5.266

श्लोक

दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिता । सङ्कर्षणस्य भेदोऽयं विष्णुर् इत्य् अभिशब्द्यते ॥ २६६ ॥

5.267

श्लोक

दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्श्यते । वामोपरि तथा पद्मं गदा चाधः प्रदर्श्यते । मधुसूदन-नामायं भेदः सङ्कर्षणस्य च ॥ २६७ ॥

5.268

श्लोक

वामोर्ध्व-संस्थितं चक्रम् अधः शङ्खं प्रदर्श्यते । ब्रह्माण्डगं वाम-पादं दक्षिणं शेष-पृष्ठगम् ॥ २६८ ॥

5.269

श्लोक

वलिवञ्चन-संयुक्तं वामनञ् चाप्य् अधः स्थितम् । वामोद्ध्र्वे कौमुदी यस्य पुण्डरीकम् अधः स्थितम् ॥ २६९ ॥

5.270

श्लोक

दक्षिणोर्ध्वं सहस्रारं पाञ्चजन्यम् अधः-स्थितम् । सप्त-ताल-प्रमाणेन वामनं कारयेत् सदा ॥ २७० ॥

5.271

श्लोक

ऊर्ध्वं दक्षिणतश् चक्रम् अधः पद्मं व्यवस्थितम् । पद्मा पद्म-करा वामे पार्श्वे यस्य व्यवस्थिता ॥ २७१ ॥

5.272

श्लोक

स्थितो वाप्य् उपविष्टो वा सानुरागो विलासवान् । प्रद्युम्नस्य हि भेदोऽयं श्रीधरेति प्रकीर्त्यते ॥ २७२ ॥

5.273

श्लोक

दक्षिणोर्ध्वं महा-चक्रं कौमुदी तद्-अधः-स्थिता । वामोर्ध्वे नलिनं यस्य अधः शङ्खं विराजते । हृषीकेशेति विज्ञेयः स्थापितः सर्व-कामदः ॥ २७३ ॥

5.274

श्लोक

दक्षिणोर्ध्वे पुण्डरीकं पाञ्चजन्यम् अधस् तथा । वामोर्ध्वे संस्थितं चक्रं कौमुदी तद्-अधः-स्थिता । पद्मनाभेति सा मूर्तिः स्थापिता मोक्ष-दायिनी ॥ २७४ ॥

5.275

श्लोक

दक्षिणोर्ध्वे पाञ्चजन्यम् अधस्तात् तु कुशेशयम् । सवोर्ध्वे कौमुदी चैव हेति-राजम् अधः-स्थितम् । अनिरुद्धस्य भेदोऽयं दामोदर इति स्मृतः ॥ २७५ ॥

5.276

श्लोक

एतेषां तु स्त्रियौ कार्ये पद्म-वीणाधरे शुभे ॥ २७६ ॥

5.277

श्लोक

वासुदेवो गदा-शङ्ख-चक्र-पद्म-धरो मतः । पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥ २७७ ॥

5.278

श्लोक

शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा । गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥ २७८ ॥

5.279

श्लोक

चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः । पद्मं कौमोदकीं शङ्खं चक्रं धत्तेऽप्य् अधोक्षजः ॥ २७९ ॥

5.280

श्लोक

सङ्कर्षणो गदा-शङ्ख-पद्म-चक्र-धरः स्मृतः । चक्रं गदां पद्म-शङ्खौ गोविन्दो धरते भुजैः ॥ २८० ॥

5.281

श्लोक

गदां पद्मं तथा शङ्खं चक्रं विष्णुर् बिभर्ति यः । चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ॥ २८१ ॥

5.282

श्लोक

गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा । शङ्खं कौमोदकीं चक्रम् उपेन्द्रः पद्मम् उद्वहेत् ॥ २८२ ॥

5.283

श्लोक

चक्र-शङ्ख-गदा-पद्म-धरः प्रद्युम्न उच्यते । पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥ २८३ ॥

5.284

श्लोक

शङ्खं चक्रं गदां पद्मं वामनो वहते सदा । पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः ॥ २८४ ॥

5.285

श्लोक

चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः । पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ॥ २८५ ॥

5.286

श्लोक

अनिरुद्धश् चक्र-गदा-शङ्ख-पद्म-लसद्-भुजः । हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ॥ २८६ ॥

5.287

श्लोक

पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा । पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा ॥ २८७ ॥

5.288

श्लोक

शङ्खं चक्रं सरोजं च गदां वहति यो हरिः । शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर् बिभर्ति यः ॥ २८८ ॥

5.289

श्लोक

एताश् च मूर्तयो ज्ञेया दक्षिणाधः-कर-क्रमात् ॥ २८९ ॥

5.290

श्लोक

एतद्-उद्देशतः प्रोक्तं प्रतिमा-लक्षणं तथा । विस्तरेण न शक्नोति बृहस्पतिर् अपि द्विजाः ॥ २९० ॥

5.291

श्लोक

सेवा-निष्ठा हरेः श्रीमद्-वैष्णवाः पाञ्चरात्रिकाः । प्राकट्याद् अखिलाङ्गानां श्री-मूर्तिं बहु मन्यते ॥ २९१ ॥

5.292

श्लोक

सेव्या निज-निजैर् एव मन्त्रैः स्व-स्वेष्ट-मूर्तयः । शालग्रामात्मके रूपे नियमो नैव विद्यते ॥ २९२ ॥

5.293

श्लोक

द्विभुजा जलद-श्यामा त्रिभङ्गी मधुराकृतिः । सेव्या ध्यानानुरूपैश् च मूर्तिः कृष्णस्य दैवतैः ॥ २९३ ॥

5.294

श्लोक

अन्याश् च विविधा श्रीमद्-अवतारादि-मूर्तयः । प्रादुर्भाव-विधाव् अग्रे लेख्यास् तत्-तद्-विशेषतः ॥ २९४ ॥

5.295

श्लोक

नित्य-कर्म-प्रसङ्गेऽत्र मूर्ति-जन्म-प्रतिष्ठयोः । विधिर् न लिखितुं योग्यः स तु लेखिष्यतेऽग्रतः ॥ २९५ ॥

5.296

श्लोक

गण्डक्याश् चैव देशे च शालग्राम-स्थलं महत् । पाषाणं तद्-भवं यत् तत् शालग्रामम् इति स्मृतम् ॥ २९६ ॥

5.297

श्लोक

स्निग्धा कृष्णा पाण्डरा वा पीता नीला तथैव च । वक्रा रुक्षा च रक्ता च महा-स्थूला त्व् अलाञ्छिता ॥ २९७ ॥

5.298

श्लोक

कपिला दर्दुरा भग्ना बहु-चक्रैक-चक्रिका । बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः । बद्ध-चक्राथवा काचिद् भग्न-चक्रा त्व् अधोमुखी ॥ २९८ ॥

5.299

श्लोक

स्निग्धा सिद्धि-करी मन्त्रे कृष्णा कीर्तिं ददाति च । पाण्डरा पाप-दहनी पीता पुत्र-फल-प्रदा ॥ २९९ ॥

5.300

श्लोक

नीला सन्दिशते लक्ष्मीं रक्ता रोग-प्रदायिका । रक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्य-दायिका ॥ ३०० ॥