Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ५

आधिष्ठानिकः

5.101

श्लोक

त्रिविक्रमो वामनोऽथ श्रीधरश् च ततः परम् । ऋषीकेशः पद्मनाभस् ततो दामोदरस् तथा ॥ १०१ ॥

5.102

श्लोक

वासुदेवः सङ्कर्षणः प्रद्युम्नोऽथानिरुद्धकः । चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा ॥ १०२ ॥

5.103

श्लोक

मुषली च तथा शूली पाशी चैवाङ्कुशी तथा । मुकुन्दो नन्दजश् चैव तथा नन्दी नरस् तथा ॥ १०३ ॥

5.104

श्लोक

नरकजिद् धरिः कृष्णः सत्यः सात्वत एव च । ततः शौरिस् तथा शूरस् ततः पश्चाज् जनार्दनः ॥ १०४ ॥

5.105

श्लोक

भूधरो विश्वमूर्तिश् च वैकुण्ठः पुरुषोत्तमः । बलो बलानुजो बालो वृषघ्नो वृष एव च ॥ १०५ ॥

5.106

श्लोक

हंसो वराहो विमलो नृसिंहश् चेति मूर्तयः ॥ १०६ ॥

5.107

श्लोक

कीर्तिः कान्तिस् तुष्टि-पुष्टी धृतिः शान्तिः क्रिया दया । मेधा हर्षा तथा श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥ १०७ ॥

5.108

श्लोक

प्रीती रतिर् जया दुर्गा प्रभा सत्या च चण्डिका । वाणी विलासिनी चैव विजया विरजा तथा ॥ १०८ ॥

5.109

श्लोक

विश्वा च विनदा चैव सुनन्दा च स्मृतिस् तथा । ऋद्धिः समृद्धिः शुद्धिश् च बुद्धिर् मूर्तिर् नतिः क्षमा ॥ १०९ ॥

5.110

श्लोक

रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा । परायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा ॥ ११० ॥

5.111

श्लोक

अमोघा विद्युतेत्य् एक-पञ्चाशत् शक्तयो मताः । ददात्य् अयं केशवादि-न्यासोऽत्राखिल-सम्पदम् ॥ १११ ॥

5.112

श्लोक

अमुत्राच्युत-सारूप्यं नयति न्यास-मात्रतः ॥ ११२ ॥

5.113

श्लोक

सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः ॥ ११३ ॥

5.114

श्लोक

केशवादिर् अयं न्यासो न्यास-मात्रेण देहिनः । अच्युतत्वं ददात्य् एव सत्यं सत्यंन संशयः ॥ ११४ ॥

5.115

श्लोक

यश् च कुर्याद् इमं न्यासं लक्ष्मी-बीज-पुरःसरम् । भक्तिं मुक्तिं च भुक्तिं च कृष्णं च लभतेऽचिरात् ॥ ११५ ॥

5.116

श्लोक

पुनर् अन्ते हरितां व्रजत्य् असौ ॥ ११६ ॥

5.117

श्लोक

म-कारादि-क-कारान्त-वर्णैर् युक्तं स-बिन्दुकैः । नमः परायेति पूर्वम् आत्मने नम इत्य् अनु ॥ ११७ ॥

5.118

श्लोक

नाम जीवादि-तत्त्वानां न्यसेत् तत्-तत्-पदे क्रमात् । न्यासेनानेन लोको हि भवेत् पूजाधिकारवान् ॥ ११८ ॥

5.119

श्लोक

तत्रादौ सकले न्यसेज् जीव-प्राणौ कलेवरे । हृदये मत्य् अहङ्कार-मनांसीति त्रयं ततः ॥ ११९ ॥

5.120

श्लोक

शब्दं स्पर्शं ततो रूपं रसं गन्धं च मस्तके । मुखे हृदि च गुह्ये च पादयोश् च यथा-क्रमम् ॥ १२० ॥

5.121

श्लोक

श्रोत्रं त्वचं दृशं जिह्वां घ्राणं स्व-स्व-पदे ततः । वाक्-पाणि-पायूपस्थानि स्व-स्व-पदे तथा ॥ १२१ ॥

5.122

श्लोक

आकाश-वायु-तेजांसि जलं पृथ्वीं च मूर्धनि । वदने हृदये लिङ्गे पादयोश् च यथा-क्रमम् ॥ १२२ ॥

5.123

श्लोक

हृदि हृत्-पुण्डरीकं च द्विषट्-द्व्यष्टदशादिकम् । कला-व्याप्तेति पूर्वं च सूर्य-चन्द्राग्नि-मण्डलम् । वर्णैः सह सरेफैश् च क्रमान् न्यसेत् स-बिन्दुकैः ॥ १२३ ॥

5.124

श्लोक

वासुदेवं ष-कारेण परमेष्ठि-युतं च के । य-कारेण मुखे सङ्कर्षणं न्यसेत् पुमन्वितम् ॥ १२४ ॥

5.125

श्लोक

हृदि न्यसेल् ल-कारेण प्रद्युम्नं विश्व-संयुतम् । अनिरुद्धं निवृत्त्य्-आढ्यं व-कारेण च गुह्यके । नारायणं च सर्वाढ्यं ल-कारेणैव पादयोः ॥ १२५ ॥

5.126

श्लोक

नृसिंहं कोप-संयुक्तं तद्-बीजेनाखिलात्मनि । तत्त्व-न्यासोऽयम् अचिरात् कृष्ण-सान्निध्य-कारकः ॥ १२६ ॥

5.127

श्लोक

अतत्त्व-व्याप्त्य-रूपस्य तत्-प्राप्तेर् हेतुना पुनः । तत्त्व-न्यासम् इति प्राहुर् न्यास-तत्त्व-विदो बुधाः ॥ १२७ ॥

5.128

श्लोक

यः कुर्यात् तत्त्व-विन्यासं स पूतो भवति ध्रुवम् । तद्-आत्मनानुप्रविश्य भगवान् इह तिष्ठति । यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम् ॥ १२८ ॥

5.129

श्लोक

प्राणायामांस् ततः कुर्यान् मूल-मन्त्रं जपन् क्रमात् । वारौ द्वौ चतुरः षट् च रेच-पूरक-कुम्भकः ॥ १२९ ॥

5.130

श्लोक

अथवा रेचकादींस् तान् कुर्याद् वारांस् तु षोडश । द्वात्रिंशच् च चतुःषष्ठिं काम-बीजं जपन् क्रमात् ॥ १३० ॥

5.131

श्लोक

रेचयेन् मारुतं दक्षया दक्षिणः पूरयेद् वामया मध्य-नाड्या पुनः । धारयेद् ईरितं रेचकादि-त्रयं स्यात् कलादन्त-विद्याख्य-मात्राच्युकम् ॥ १३१ ॥

5.132

श्लोक

पुरतो जपस्य परतोऽपि विहितम् अथ तत्-त्रयं बुधैः । षोडश य इह समाचरेद् दिनेशः परिपूयते स खलु मासतोऽं हंसः ॥ १३२ ॥

5.133

श्लोक

ततो निज-तनूम् एव पूजा-पीठं प्रकल्पयेत् । पीठस्याधार-शक्त्यादीन् न्यसेत् स्वाङ्गेषु तारवत् ॥ १३३ ॥

5.134

श्लोक

आधार-शक्तिं प्रकृतिं कूर्मानन्तौ च तत्र तु । पृथिवीं क्षीर-सिन्धुं च श्वेतद्वीपं च भास्वरम् ॥ १३४ ॥

5.135

श्लोक

श्री-रत्न-मण्डपं चैव कल्प-वृक्षं तथा हृदि । न्यसेत् प्रदक्षिणत्वेन धर्म-ज्ञाने ततोऽंसयोः ॥ १३५ ॥

5.136

श्लोक

ऊर्वोर् वैराग्यम् ऐश्वर्यं तथैवाधर्मम् आनने । त्रिकेऽज्ञानम् अवैराग्यम् अनैश्वर्यं च पार्श्वयोः ॥ १३६ ॥

5.137

श्लोक

हृद्-अब्जेऽनन्त-पद्मं च सूर्येन्दु-शिखिनान् तथा । मण्डलानि क्रमाद् वर्णैः प्रणवांशैः स-बिन्दुकैः ॥ १३७ ॥

5.138

श्लोक

सत्त्व रजस् तमश् चात्मान्तरात्मानौ च तत्र हि । परमात्मानम् अप्य् आत्माद्य्-आद्य-वर्णैः स-बिन्दुकैः ॥ १३८ ॥

5.139

श्लोक

ज्ञानात्मानं च भुवनेश्वरी-बीजेन संयुतम् । तस्याष्ट-दिक्षु मध्येऽपि नव-शक्तीश् च दिक्-क्रमात् ॥ १३९ ॥

5.140

श्लोक

विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः । प्रह्वी सत्या तथेशानानुग्रहा नवम् स्मृता ॥ १४० ॥

5.141

श्लोक

न्यसेत् तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् । ऋष्य्-आदिकं स्मरेद् अस्याष्टादशार्ण-मनोस् ततः ॥ १४१ ॥

5.142

श्लोक

ज्ञेयाश् चैकान्तिभिः क्षीर-समुद्रादि-चतुष्टयम् । क्रमाच् छ्री-मथुरा-वृन्दावनं तत्-कुञ्ज-नीपकाः ॥ १४२ ॥

5.143

श्लोक

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ १४३ ॥

5.144

श्लोक

एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा । ङेऽन्ताः स-वासुदेवाः सर्वात्म-युतं च संयोगं ॥ १४४ ॥

5.145

श्लोक

योगावधश् च पद्मं पीठात् ङे-युतो नतिश् चान्ते । पीठ-महा-मनुर् व्यक्तः पर्याप्तोऽयं सपर्यासु ॥ १४५ ॥

5.146

श्लोक

ॐ अष्टादशाक्षर-मन्त्रस्य श्री-नारद ऋषिर् गायत्री-च्छन्दः, सकल-लोक-मङ्गलो नन्द-तनयो देवता, ह्रीं बीजं, स्वाहा शक्तिः, कृष्णः प्रकृतिर्, दुर्गाधिष्ठात्री देवता, अभिमतार्थे विनियोगः ॥ १४६ ॥

5.147

श्लोक

ऋषिर् नारद इत्य् उक्तो गायत्री-च्छन्द उच्यते । गोप-वेश-धरः कृष्णो देवता परिकीर्तितः ॥ १४७ ॥

5.148

श्लोक

बीजं मन्मथ-संज्ञं तु प्रिया शक्तिर् हविर् भुजः । त्वम् एव परमेशानि अस्याधिष्ठातृ-देवता । चतुर्वर्ग-फलावाप्त्यै विनियोगः प्रकीर्तितः ॥ १४८ ॥

5.149

श्लोक

चतुश् चतुर्भिर् वर्णैश् च चत्वार्य् अङ्गानि कल्पयेत् । द्वाभ्याम् अस्त्राख्यम् अङ्गं च तस्येत्य् अङ्गानि पञ्च वै ॥ १४९ ॥

5.150

श्लोक

न्यस्येच् च व्यापकत्वेन तान्य् अङ्गानि कर-द्वये । तान्य् अङ्गुलीषु पञ्चाथ केचिद् वर्णान् स्वरान् अपि ॥ १५० ॥

5.151

श्लोक

द्रावण-क्षोभणाकर्ष-वशीकृत्-स्रावणास् तथा । शोषणो मोहनः सन्दीपनस् तापन-मादनौ ॥ १५१ ॥

5.152

श्लोक

नमोऽन्तं हृदयं चाङ्गैः शिरः स्वाहान्वितं शिखाम् । वषड्-युतं च कवचं हुं-युग्-अस्त्रं च फड्-युतम् ॥ १५२ ॥

5.153

श्लोक

न्यस्यन्ति पुनर् अङ्गुष्ठौ तर्जन्यौ मध्यमे तथा । अनामिके कनिष्ठे च क्रमाद् अङ्गैश् च पञ्चभिः ॥ १५३ ॥

5.154

श्लोक

पुनश् च हृदयादीनि तथाङ्गुष्ठादिकानि च । न्यस्यन्ति युगपत् सर्वाण्य् अङ्गैस् तैः पञ्चभिः क्रमात् ॥ १५४ ॥

5.155

श्लोक

न्यस्यन्ति च षड्-अङ्गानि हृदयादीनि तन्-मनोः । हृदयादिषु चैतेषां पञ्चैकं दिक्षु च क्रमात् ॥ १५५ ॥

5.156

श्लोक

वर्र्णेनैकेन हृदयं तिर्भिर् एव शिरो मतम् । चतुर्भिश् च शिखा प्रोक्ता तथैव कवचं मतम् । नेत्रं तथा चतुर्वर्णैर् अस्त्रं द्वाभ्यां तथा मतम् ॥ १५६ ॥

5.157

श्लोक

ततश् चापादम् आकेशान् न्यसेद् दोर्भ्याम् इमं मनुम् । वारांस् त्रीन् व्यापकत्वेन न्यसेच् च प्रणवं सकृत् ॥ १५७ ॥

5.158

श्लोक

ततोऽष्टादश-वर्णांश् च मन्त्रस्यास्य यथा-क्रमम् । दन्ते ललाटे भ्रू-मध्ये कर्णयोर् नेत्रयोर् द्वयोः ॥ १५८ ॥

5.159

श्लोक

नासयोर् वदने कण्ठे हृदि नाभौ कटि-द्वये । गुह्ये जानु-द्वये चैकं न्यसेद् एकं च पादयोः ॥ १५९ ॥

5.160

श्लोक

सन्तो न्यस्यन्ति तारादि-नमोऽनन्तांस् तान् स-बिन्दुकान् । श्री-शक्ति-काम-बीजैश् च सृष्ट्य्-आदि-क्रमतोऽपरे ॥ १६० ॥

5.161

श्लोक

तारं शिरसि विन्यस्य पञ्च मन्त्र-पदानि च । न्यसेन् नेत्र-द्वये वक्त्रे हृद्-गुह्याङ्घ्रिषु च क्रमात् ॥ १६१ ॥

5.162

श्लोक

देहे च व्यापकत्वेन न्यसेत् तान्य् अखिले पुनः । केचित् तानि नमोऽन्तानि न्यस्यन्त्य् आद्याक्षरैः सह ॥ १६२ ॥

5.163

श्लोक

स्वाहान्तानि तथा त्रीणि संमिश्राण्य् उत्तरोत्तरैः । गुह्याद् गलान् मस्तकाच् च व्यापय्य चरणावधि ॥ १६३ ॥

5.164

श्लोक

न्यासोऽत्र ज्ञान-निष्ठानां गुह्यादि-विषयस् तु यः । स्व-स्व-वर्ण-तनोः कार्यस् तत्-तद्-वर्णेषु वैष्णवैः ॥ १६४ ॥

5.165

श्लोक

ऋष्य्-आदीन् सप्त-भागांश् च न्यसेद् अस्य मनोः क्रमात् । मूर्धास्य-हृत्सु कुचयोः पुनर् हृदि पुनर् हृदि ॥ १६५ ॥

5.166

श्लोक

वेण्व्-आख्यां वन-मालाख्यां मुद्रां सन्दर्शयेत् ततः । श्री-वत्साख्यां कौस्तुभाख्यां ब्लिवाख्यां च मनोरमाम् ॥ १६६ ॥

5.167

श्लोक

इत्थं नय्स्त-शरीरः सन् कृत्वा दिग्-बन्धनं पुनः । कर-कच्छपिकां कृत्वा धायेच् छ्री-नन्द-नन्दनम् ॥ १६७ ॥

5.168

श्लोक

प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः । प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥ १६८ ॥

5.169

श्लोक

विकासि-सुमनोरसास्वादन-मञ्जुलैः सञ्चरच्- छिलीमुख-मुखोद्गतैर् मुखरितान्तरं झङ्कृतैः । कपोत-शुक-शारिका-परभृतादिभिः पत्रिभिर् विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥ १६९ ॥

5.170

श्लोक

कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर् विनिद्र-सरसी-रुहोदर-रजश्-चयोद्धूसरैः । प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां विलोलन-विहारिभिः सतत-सेवितं मारुतैः ॥ १७० ॥

5.171

श्लोक

प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौक्तिक- प्रकर-कोरकं कमल-राग-नाना-फलम् ।स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं तद्-अन्तर् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥ १७१ ॥

5.172

श्लोक

सुहेम-शिखरावलेर् उदित-भानुवद् भास्वरम् अधोऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः । प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां स्मरेत् पुनर् अतन्द्रितो विगत-षट्-तरङ्गां बुधः ॥ १७२ ॥

5.173

श्लोक

तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग— पीठेऽष्ट-पत्रम् अरणं कमलं विचिन्त्य । उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये सञ्चिन्तयेत् स्सुख-निविष्टम् अथो मुकुन्दम् ॥ १७३ ॥

5.174

श्लोक

सूत्रामरत्न-दलिताञ्जन-मेघ-पुञ्ज- प्रत्यग्र-नील-जलजन्म-समान-भासम् । सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥ १७४ ॥

5.175

श्लोक

रोलम्ब-लालित-सुर-द्रुम-सून-कल्पि- तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् । लोलालक-स्फुरित-भाल-तल-प्रदीप्त- गोरोचना-तिलकम् उच्चल-चिल्लि-मालम् ॥ १७५ ॥

5.176

श्लोक

आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब- कान्ताननं कमल-पत्र-विशाल-नेत्रम् । रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त- गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥ १७६ ॥

5.177

श्लोक

सिन्दूर-सुन्दरतराधरम् इन्दु-कुन्द- मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् । वन्य-प्रवाल-कुसुम-प्रचयावकॢप्त- ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कष्ठम् ॥ १७७ ॥

5.178

श्लोक

मत्त-भ्रमद्-भ्रमर-जुष्ट-विलम्बमान- सन्तानक-प्रसव-दाम-परिष्कृतांसम् । हारावली-भगण-राजित-पीवरोरो- व्योम-स्थली-ललित-कौस्तुभ-भानुमन्तम् ॥ १७८ ॥

5.179

श्लोक

श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांस- आजानु-पीन-परिवृत्त-सुजात-बाहुम् । आबन्धुरोदरम् उदार-गभीर-नाभिं भृङ्गाङ्गनानिकर-वञ्जुल-रोम-राजिम् ॥ १७९ ॥

5.180

श्लोक

नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि- ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् । दिव्याङ्ग-राग-परिपिञ्जरिताङ्ग-यष्टि- मापीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥ १८० ॥

5.181

श्लोक

चारूरुजानु-मनुवृत्त-मनोज्ञ-जङ्घं कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।माणिक्य-दर्âण-लसन्-नखराजिराज- द्रत्नाङ्गुलि-च्छदन-सुन्दर-पाद-पद्मम् ॥ १८१ ॥

5.182

श्लोक

मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र- संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् । लावण्य-सार-समुदाय-विनिर्मिताङ्ग- सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥ १८२ ॥

5.183

श्लोक

आस्यारविन्द-परिपूरित-वेणु-रन्ध्र- लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः । शश्वद्-द्द्रवीकृत-विकृष्ट-समस्त-जन्तु- सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥ १८३ ॥

5.184

श्लोक

गोभिर् मुखाम्बुज-विलीन-विलोचनाभि- रूधोभर-स्खलित-मन्थर-मन्दगाभिः । दन्ताग्र-दष्ट-परिशिष्ट-तृणाङ्कुराभि- रालम्ब्-वालधि-लताभिवीतम् ॥ १८४ ॥

5.185

श्लोक

सप्रस्रवस्तन-विचूषण-पूर्ण-निश्च- लास्यावटक्षरित-फेनिल-दुग्ध-मुग्धैः । वेणु-प्रवर्तित-मनोहर-मन्द्रगीत- दत्तोच्च-कर्ण-युगलैर् अपि तर्णकैश् च ॥ १८५ ॥

5.186

श्लोक

प्रत्यग्र-शृङ्ग-मृदु-मस्तक-सम्प्रहार- संरम्भ-वल्गन-विलोल-खुराग्र-पातैः । आमेदुरैर् बहुल-सास्न-गलैर् उदग्र- पुच्छैश् च वत्सतर-वत्सतरी-निकायैः ॥ १८६ ॥

5.187

श्लोक

हम्बा-रव-क्षुभित-दिग्-वलयैर् महद्भि- रप्य् उक्षभिः पृथु-ककुद्भर-भार-खिन्नैः । उत्तम्भित-श्रुति-पुटी-परिवीत-वंश- ध्वानामृतोद्धत-विकाशि-विशाल-घोणैः ॥ १८७ ॥

5.188

श्लोक

गोपैः समान-गुण-शील-वयो-विलास- वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः । मन्द्रोच्चतार-पट-गान-परैर् विलोल- दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः ॥ १८८ ॥

5.189

श्लोक

जङ्घान्त-पीवर-कटीर-तटी-निबद्ध- व्यालोल-किङ्किणि-घटारटितैर् अटद्भिः । मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषै- रव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् ॥ १८९ ॥

5.190

श्लोक

पृथु-निविवीष-नितम्ब-मन्थराणाम् । गुरु-कुच-भर-भङ्गुरावलग्न- त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥ १९० ॥

5.191

श्लोक

तद्-अतिमधुर-चारु-वेणु-वाद्या- मृत-रस-पल्लविताङ्गजाङ्घ्रिपाणाम् । मुकुल-विसर-रम्य-रूढ-रोमो- द्गम-समलङ्कृत-गान-वल्लरीणाम् ॥ १९१ ॥

5.192

श्लोक

तद्-अतिरुचिर-मन्द-हास-चन्द्रा- तप-परिजृम्भित-राग-वारि-राशेः । तरलतर-तरङ्ग-भङ्ग-विप्रुट्- प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥ १९२ ॥

5.193

श्लोक

तद्-अतिललित-मन्द-चिल्लि-चाप- च्युत-निशितेक्षण-मार-बाण-वृष्ट्या । दलित-सकल-मर्म-विह्वलाङ्ग- प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥ १९३ ॥

5.194

श्लोक

तद्-अतिसुभग-कम्र-रूप-शोभा- मृत-रस-पान-विधान-लालसाभ्याम् । प्रणय-सलिल-पूर-वाहिनीना- मलस-विलोल-विलोचनाम्बुजाभ्याम् ॥ १९४ ॥

5.195

श्लोक

विस्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-स्रव- न्-माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः । मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उच्छ्वस- न्नीवी-विश्लथ-मान-चीन-हिचयान्ताविर्-नितम्ब-त्विषाम् ॥ १९५ ॥

5.196

श्लोक

स्खलित-ललित-पादाम्भोज-मन्दाभिधान- क्वणित-मणि-तुलाकोट्य्-आकुलाशामुखानाम् । चलद्-अधर-दलानां कुट्-नल-पक्ष्मलाक्षि- द्वय-सरसिरुहाणाम् उल्लसत्-कुण्डलानाम् ॥ १९६ ॥

5.197

श्लोक

द्राघिष्ठ-श्वसन-समीरणाभिताप- प्रम्लानीभवद्-अरुणोष्ठ-पल्लवानाम् । नानोपायन-विलसत्-कराम्बुजाना- मालीभिः सतत-निषेवितं समन्तात् ॥ १९७ ॥

5.198

श्लोक

तासाम् आयत-लोल-नील-नयन-व्याकोष-नीलाम्बुज- स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विनोदास्पदम् । तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादिनीं विभ्राणं प्रणयोन्मदाक्षि-मधु-कृन्-मालां मनोहारिणीम् ॥ १९८ ॥

5.199

श्लोक

गोप-गोपी-पशूनां बहिः स्मरेद् अग्रतोऽस्य गीर्वाण-घटाम् । वित्तार्थिनीं विरिञ्चि-त्रिनयन- शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥ १९९ ॥

5.200

श्लोक

तद्-दक्षिणतो मुनि-निकरं दृढ-धर्म-वाञ्छम् आनाय-परम् । योगीन्द्रान् अथ पृष्ठे मुमुक्ष- माणान् समाधिना सनकाद्यान् ॥ २०० ॥