Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ४

श्री-वैष्णवालङ्कारः

4.201

श्लोक

अशुचिर् वाप्य नाचारो मनसा पापम् आचरन् । शुचिर् एव भवेन् नित्यम् ऊर्ध्व-पुण्ड्राङ्कितो नरः ॥ २०१ ॥

4.202

श्लोक

ऊर्ध्व-पूण्ड्र-धरो मर्त्यो म्रियते यत्र कुत्रचित् । श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ २०२ ॥

4.203

श्लोक

ऊर्ध्व-पूण्ड्र-धरो मर्त्यो गृहे यस्यान्नम् अश्नुते । तदा विंशत्-कुलं तस्य नरकाद् उद्धराम्य् अहं ॥ २०३ ॥

4.204

श्लोक

वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः । ऊर्ध्व-पूण्ड्रं महा-भाग स याति परमां गतिम् ॥ २०४ ॥

4.205

श्लोक

दशाङ्गुल-प्रमाणं तु उत्तमोत्तमम् उच्यते । नवाङ्गुलं मध्यमं स्याद् अष्टाङ्गुलम् अतः परम् ॥ २०५ ॥

4.206

श्लोक

एतैर् अङ्गुलि-भेदैस् तु कारयेन् न नखैः स्पृशेत् ॥ २०६ ॥

4.207

श्लोक

एकान्तिनो महा-भागाः सर्व-भूत-हिते रताः । सान्तरालं प्रकुर्वीरन् पुण्ड्रं हरि-पदाकृतिम् ॥ २०७ ॥

4.208

श्लोक

श्यामं शान्ति-करं प्रोक्तं रक्तं वश्य-करं तथा । श्री-करं पीतम् इत्य् आहुः श्वेतं मोक्ष-करं शुभम् ॥ २०८ ॥

4.209

श्लोक

वर्तुलं तिर्यग् अछिद्रं ह्रस्वं दीर्घं ततं तनुम् । वक्रं विरूपं बद्धाग्रं छिन्न-मूलं पद-च्युतम् ॥ २०९ ॥

4.210

श्लोक

अशुभं रूक्षम् आसक्तं तथा नाङ्गुलि-कल्पितम् । विगन्धम् अवसह्यं च पुण्ड्रम् आहुर् अनर्थकम् ॥ २१० ॥

4.211

श्लोक

आरभ्य नासिका-मूलं ललाटान्तं लिखेन् मृदा । नासिकायास् त्रयो भागा नासा-मूलं प्रचक्ष्यते ॥ २११ ॥

4.212

श्लोक

समारभ्य भ्रुवोर् मध्यम् अन्तरालं प्रकल्पयेत् ॥ २१२ ॥

4.213

श्लोक

निरन्तरालं यः कुर्याद् ऊर्ध्व-पुण्ड्रं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ २१३ ॥

4.214

श्लोक

अच्छिद्रम् ऊर्ध्व-पुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः । तेषां ललाटे सततं शुनः पादो न संशयः ॥ २१४ ॥

4.215

श्लोक

तस्माच् छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् । विप्राणां सततं कार्यं स्त्रीणां च शुभ-दर्शने ॥ २१५ ॥

4.216

श्लोक

नासादि-केश-प्रयन्तम् ऊर्ध्व-पुण्ड्रं सुशोभनम् । मध्ये छिद्र-समायुक्तं तद् विद्याद् हरिमन्दिरम् ॥ २१६ ॥

4.217

श्लोक

वाम-पार्श्वे स्थितो ब्रह्मा दक्षिणे च सदा-शिवः । मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत् ॥ २१७ ॥

4.218

श्लोक

अधृत्वा चोर्ध्व-पुण्ड्रं च हरेः पूजां करोति यः । तिर्यक्-पुण्ड्र-धरो यस् तु यजेद् देवं जनार्दनम् ॥ २१८ ॥

4.219

श्लोक

अच्चिद्रेणोर्ध्व-पुण्ड्रेण भस्मना तिर्यग्-अङ्गिना । अधृत्वा शङ्ख-चक्रे च चेत्य् आदिना दोष उक्तः ॥ २१९ ॥

4.220

श्लोक

हरेः पदाक्रान्तिम् आत्मनि धारयति यः । स परस्य प्रियो भवति स पुण्यवान् । मध्ये छिद्रम् ऊर्ध्व-पुण्ड्रं यो धारयति स मुक्तिभाग् भवति ॥ २२० ॥

4.221

श्लोक

अनामिका कामदोक्ता मध्यम् आयुस्करी भवेत् । अङ्गुष्ठः पुष्टिदः प्रोक्तस् तर्जनी मोक्ष-दायिनी ॥ २२१ ॥

4.222

श्लोक

पर्वताग्रे नदी-तीरे बिल्व-मूले जलाशये । सिन्धु-तीरे च वल्मीके हरि-क्षेत्रे विशेषतः ॥ २२२ ॥

4.223

श्लोक

विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः । पुण्ड्राणां धारणार्थाय गृह्णीयात् तत्र मृत्तिकाम् ॥ २२३ ॥

4.224

श्लोक

श्री-रङ्गे वेङ्कटाद्रौ च श्री-कूर्मे द्वारके शुभे । प्रयागे नारसिंहाद्रौ वाराहे तुलसी-वने ॥ २२४ ॥

4.225

श्लोक

गृहीत्वा मृत्तिकां भक्त्या विष्णु-पाद-जलैः सह । धृत्वा पुण्ड्राणि चाङ्गेषु विष्णु-सायुज्यम् आप्नुयात् ॥ २२५ ॥

4.226

श्लोक

यत् तु दिव्यं हरि-क्षेत्रे तस्यैव मृदम् आहरेत् ॥ २२६ ॥

4.227

श्लोक

ब्रह्मघ्नो वाथ गो-घ्नो वा हैतुकः सर्व-पाप-कृत् । गोपी-चन्दन-सम्पर्कात् पूतो भवति तत्-क्षणात् ॥ २२७ ॥

4.228

श्लोक

गोपी-चन्दन-खण्डं तु यो ददातिइ हि वैष्णवे । कुलम् एकोत्तरं तेन सम्भवेत् तारितं शतम् ॥ २२८ ॥

4.229

श्लोक

शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः । गोपी-चन्दन-लिप्ताङ्गो दृष्टश् चेत् तद् अघं कृतः ॥ २२९ ॥

4.230

श्लोक

गोपी-मृत्-तुलसी शङ्खः शालग्रामः सचक्रकः । गृहेऽपि यस्य पञ्चैते तस्य पाप-भयं कुतः ॥ २३० ॥

4.231

श्लोक

श्रीखण्डे क्व स आमोदः स्वरोवर्णः क्व तादृशः । तत् पावित्र्यं क्व वै तीर्थे श्री-गोपी-चन्दने यथा ॥ २३१ ॥

4.232

श्लोक

यो मृत्तिकां द्वारवती-समुद्भवां करे समादाय ललाट-पट्टके । करोति नित्यं त्व् अथ चोर्ध्व-पुण्ड्रं क्रिया-फलं कोटि-गुणं सदा भवेत् ॥ २३२ ॥

4.233

श्लोक

क्रिया-विहीनं यदि मन्त्र-हीनं श्रद्धा-विहीनं यदि काल-वर्जितम् । कृत्वा ललाटे यदि गोपी-चन्दनं प्राप्नोति तत् कर्म-फलं सदा क्षयम् ॥ २३३ ॥

4.234

श्लोक

गोपी-चन्दन-सम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो नित्यं धारयते यदि द्विज-पते रात्रौ दिवा सर्वदा । यत् पुण्यं कुरु-जाङ्गले रवि-ग्रहे माध्यां प्रयागे तथा तत् प्राप्नोति खगेन्द्र विष्णु-सदने सन्तिष्ठते देववत् ॥ २३४ ॥

4.235

श्लोक

यस्मिन् गृहे तिष्ठति गोपीचन्दनं भक्त्या ललाटे मनुजो बिभर्ति । तस्मिन् गृहे तिष्ठति सर्वदा हरिः श्रद्धान्वितः कंसहा विहङ्गम ॥ २३५ ॥

4.236

श्लोक

यो धारयेत् कृष्ण-पुरी-समुद्भवां सदा पवित्रां कलि-किल्बिषापहाम् । नित्यं ललाटे हरि-मन्त्र-संयुतां यमं न पश्येद् यदि पाप-संवृतः ॥ २३६ ॥

4.237

श्लोक

यस्यान्त-काले खग गोपी-चन्दनं बाह्वोर् ललाटे हृदि मस्तके च । प्रयाति लोकं कमलालयं प्रभोर् गो-बाल-घाती यदि ब्रह्म-हा भवेत् ॥ २३७ ॥

4.238

श्लोक

ग्रहा न पीडन्ति न रक्षसां गणाः यक्षाः पिशाचोरग-भूत-दानवाः । ललाट-पट्टे खग गोपी-चन्दनं सन्तिष्ठते यस्य हरेः प्रसादतः ॥ २३८ ॥

4.239

श्लोक

अम्बरीष महाघस्य क्षयार्थे कुरु वीक्षणम् । ललाटे यैः कृतं नित्यं गोपी-चन्दन-पुण्ड्रकम् ॥ २३९ ॥

4.240

श्लोक

दूताः शृणुत यद्-भालं गोपी-चन्दन-लाञ्छितम् । ज्वलद्-इन्धनवत् सोऽपि त्याज्यो दूरे प्रयत्नतः ॥ २४० ॥

4.241

श्लोक

तत्रैव वैष्णवैः कार्यम् ऊर्ध्व-पुण्ड्रं मनोहरम् ॥ २४१ ॥

4.242

श्लोक

तन्-मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः । प्रमाणकं कृतं तैस् तु मोक्षाय गमनं प्रति ॥ २४२ ॥

4.243

श्लोक

तुलसी-मृत्तिका-पुण्ड्रं ललाटे यस्य दृश्यते । देहं न स्पृशति पापं क्रियमाणस् तु नारद ॥ २४३ ॥

4.244

श्लोक

तुलसी-मृत्तिका-पुण्ड्रं यः करोति दिने दिने । तस्यावलोकनात् पापं याति वर्ष-कृतं नृणाम् ॥ २४४ ॥

4.245

श्लोक

तस्योपरिष्ठाद् भगवन्-निर्माल्यम् अनुलेपनम् । तथैव धार्यम् एवं हि त्रिविधं तिलकं स्मृतम् ॥ २४५ ॥

4.246

श्लोक

ततो नारायणीं मुद्रां धारयेत् प्रीतये हरेः । मत्स्य-कूर्मादि-चिह्नानि चक्रादीन्य् आयुधानि च ॥ २४६ ॥

4.247

श्लोक

अङ्कितः शङ्ख-चक्राभ्याम् उभयोर् बाहु-मूलयोः । समर्चयेद् धरिं नित्यं नान्यथा पूजनं भवेत् ॥ २४७ ॥

4.248

श्लोक

शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-रहितं ब्राह्मणाधमम् । गर्दभं तु समारोप्य राजा राष्ट्रात् प्रवासयेत् ॥ २४८ ॥

4.249

श्लोक

सर्व-कर्माधिकारश् च शुचीनाम् एव चोदितः । शुचित्वं च विजानीयान् मदीयायुध-धारणात् ॥ २४९ ॥

4.250

श्लोक

शङ्ख-चक्रादिभिश् चिह्नैर् विप्रः प्रियतमैर् हरेः । रहितः सर्व-धर्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥ २५० ॥

4.251

श्लोक

धृतोर्ध्व-पुण्ड्रः कुत-चक्र-धारी विष्णुं परं ध्यायति यो महात्मा । स्वरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन् महतो महान्तम् ॥ २५१ ॥

4.252

श्लोक

एभिर् वयम् उरुक्रमस्य चिह्नैर् अङ्किता लोके सुभगा भवेम । तद् विष्णोः परमं पदं ये गच्छन्ति लाङ्छिताः ॥ २५२ ॥

4.253

श्लोक

कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः । द्वादशाब्दार्जितं पुण्यं चाफलयोपगच्छति ॥ २५३ ॥

4.254

श्लोक

यो विष्णु-भक्तो विप्रेन्द्र शङ्ख-चक्रादि-चिह्नितः । स याति विष्णु-लोकं वै दाह-प्रलय-वर्जितम् ॥ २५४ ॥

4.255

श्लोक

नारायणायुधैर् नित्यं चिह्नितं यस्य विग्रहम् । पाप-कोटि-युक्तस्य तस्य किं कुरुते यमः ॥ २५५ ॥

4.256

श्लोक

शङ्खोद्धारे तु यत् प्रोक्तं वसतां वर्ष-कोटिभिः । तत् फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे ॥ २५६ ॥

4.257

श्लोक

यत् फलं पुष्करे नित्यं पुण्डरीकाक्ष-दर्शने । शङ्खोपरि कृते पद्मे तत् फलं समवाप्नुयात् ॥ २५७ ॥

4.258

श्लोक

वामे भुजे गदा यस्य लिखिता दृश्यते कलौ । गदाधरो गया-पुण्यं प्रत्यहं तस्य यच्छति ॥ २५८ ॥

4.259

श्लोक

यच् चानन्द-पुरे प्रोक्तं चक्र-स्वामी-समीपतः । गदाधोल्लिखिते चक्रे तत् फलं कृष्ण-दर्शने ॥ २५९ ॥

4.260

श्लोक

यः पुनः कलि-काले तु मत्-पुरी-सम्भवां मृदम् । मत्स्य-कूर्मादिकां चिह्नं गृहीत्वा कुरुते नरः ॥ २६० ॥

4.261

श्लोक

देहे तस्य प्रविष्टोऽहं जानन्तु त्रिदशोत्तमाः । तस्य मे नान्तरं किंचित् कर्तव्यं श्रेय इच्छता ॥ २६१ ॥

4.262

श्लोक

ममावतार-चिह्नानि दृश्यन्ते यस्य विग्रहे । मर्त्यैर् मर्त्यो न विज्ञेयः स नूनं मामकी तनूः ॥ २६२ ॥

4.263

श्लोक

पापं सुकृत-रूपं तु जायते तस्य देहिनः । ममायुधानि तस्याङ्गे लिखितानि कलौ युगे ॥ २६३ ॥

4.264

श्लोक

उभाभ्याम् अपि चिह्नाभ्यां योऽङ्कितो मत्स्य-मुद्रया । कूर्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे ॥ २६४ ॥

4.265

श्लोक

शङ्खं च पद्मं च गदां रथाङ्गं मत्स्यं च कूर्मं रचितं स्व-देहे । करोति नित्यं सुकृतस्य वृद्धिं पाप-क्षयं जन्म-शतार्जितस्य ॥ २६५ ॥

4.266

श्लोक

कृष्ण-शस्त्राङ्क-कवचं दुर्भेद्यं देव-दानवैः । अदृश्यं सर्व-भूतानां शत्रूणां रक्षसाम् अपि ॥ २६६ ॥

4.267

श्लोक

लक्ष्मीः सरस्वती दुर्गा सावित्री हरि-वल्लभा । नित्यं तस्य वसेद् देहे यस्य शङ्खाङ्किता तनुः ॥ २६७ ॥

4.268

श्लोक

गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च । नित्यं तस्य सदा तिष्ठेद् यस्य पदाङ्कितं वपुः ॥ २६८ ॥

4.269

श्लोक

यस्य कौमोदकी-चिह्नं भुजे वामे कलि-प्रिय । प्रत्यहं तत्र द्रष्टव्यो गङ्गा-सागर-सङ्गमः ॥ २६९ ॥

4.270

श्लोक

सव्ये करे गदाधस्तद् रथाङ्गं तिष्ठते यदि । कृष्णेन सहितं तत्र त्रैलोक्यं स-चराचरम् ॥ २७० ॥

4.271

श्लोक

त्रयोऽग्नयस् त्रयो देवा विष्णोस् त्रीणि पदानि च । निवसन्ति सदा यस्य यस्य देहे सुदर्शनम् ॥ २७१ ॥

4.272

श्लोक

कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे । ऊर्ध्व-लोकाधिकारी च स ज्ञेयस् त्रिदशां पतिः ॥ २७२ ॥

4.273

श्लोक

कृष्ण-मुद्रा-प्रयुक्तस् तु दैवं पित्र्यं करोति यः । नित्यं नैमित्तिकं काम्यं प्रत्यहं चाक्षयं भवेत् ॥ २७३ ॥

4.274

श्लोक

पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः । अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे ॥ २७४ ॥

4.275

श्लोक

कृष्णायुधाङ्कितं देहं गोपी-चन्दन-मृत्स्नया । प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥ २७५ ॥

4.276

श्लोक

यदा यस्य प्रपश्येत देहं शङ्खादि-चिह्नितम् । तदा तस्य जगत्-स्वामी तुष्टो हरति पातकम् ॥ २७६ ॥

4.277

श्लोक

भवते यस्य देहे तु अहो-रात्रं दिने दिने । शङ्ख-चक्र-गदा-पद्मं लिखितं सोऽच्युतः स्वयम् ॥ २७७ ॥

4.278

श्लोक

नारायणायुधैर् युक्तं कृत्वात्मानं कलौ युगे । कुरुते पुण्य-कर्माणि मेरु-तुल्यानि तानि वै ॥ २७८ ॥

4.279

श्लोक

शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्विज । विधि-हीनं तु सम्पूर्णं पितॄणां तु गया-समम् ॥ २७९ ॥

4.280

श्लोक

यथाग्निर् दहते काष्ठं वायुना प्रेरितो भृशम् । तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै ॥ २८० ॥

4.281

श्लोक

विष्णु-नामाङ्कितां मुद्राम् अष्टाक्षर-समन्विताम् । शङ्खादिकायुधादिकैर् युक्तां स्वर्ण-रूप्य-मयीम् अपि ॥ २८१ ॥

4.282

श्लोक

धत्ते भागवतो यस् तु कलिकाले विशेषतः । प्रह्लादस्य समो क्षेयो नान्यथा कल-वल्लभ ॥ २८२ ॥

4.283

श्लोक

शङ्खाङ्कित-तनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि । तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥ २८३ ॥

4.284

श्लोक

कृष्णायुधाङ्कितो यस् तु श्मशाने म्रियते यदि । प्रयागे या गतिः प्रोक्ता सा गतिस् तस्य नारद ॥ २८४ ॥

4.285

श्लोक

कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् । तत्राश्रयं प्रकुर्वन्ति विवधा वासवादयः ॥ २८५ ॥

4.286

श्लोक

यः करोति हरेः पूजां कृष्ण-शस्त्राङ्कितो नरः । अपराध-सहस्राणि नित्यं हरति केशवः ॥ २८६ ॥

4.287

श्लोक

कृत्वा काष्ठ-मयं बिम्बं कृष्ण-शस्त्रैस् तु चिह्नितम् । यो ह्य् अङ्कयति चात्मानं तत्-समो नास्ति वैष्णवः ॥ २८७ ॥

4.288

श्लोक

पाषण्ड-पतित-व्रात्यैर् नास्तिकालाप-पातकैः । न लिप्यते कलि-कृतैः कृष्ण-शस्त्राङ्कितो नरः ॥ २८८ ॥

4.289

श्लोक

अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी भवेत् । शङ्ख-पद्मादिभिर् युक्ता पूज्यतेऽसौ सुरासुरैः ॥ २८९ ॥

4.290

श्लोक

धृता नारायणी मुद्रा प्रह्लादेन पुरा कृते । विभीषणेन बलिना ध्रुवेण च शुकेन च ॥ २९० ॥

4.291

श्लोक

मान्धातृणाम्बरीषेण मार्कण्ड-प्रमुखैर् द्विजैः । शङ्खादि-चिह्नितैः शस्त्रैर् देहे कृत्वा कलिप्रिय । आराध्य केशवात् प्राप्तं समीहित-फलं महत् ॥ २९१ ॥

4.292

श्लोक

गोपी-चन्दन-मृत्स्नाया लिखितं यस्य विग्रहे । शङ्ख-पद्मादि-चक्रं वा तस्य देहे वसेद् धरिः ॥ २९२ ॥

4.293

श्लोक

यस्य नारायणी मुद्रा देहं शङ्खादि-चिह्नितम् । धात्री-फल-कृता माला तुलसी-काष्ठ-सम्भवा ॥ २९३ ॥

4.294

श्लोक

द्वादशाक्षर-मन्त्रैस् तु नियुक्तानि कलेवरे । आयुधानि च विप्रस्य मत्-समः स च वैष्णवः ॥ २९४ ॥

4.295

श्लोक

यस्य नारायणी मुद्रा देहे शङ्खादि चिह्निता । सर्वाङ्गं चिह्नितं यस्य सस्त्रैर् नारायणोद्भवैः । प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम् ॥ २९५ ॥

4.296

श्लोक

एभिर् भागवतैश् चिह्नैः कलि-काले द्विजातयः । भवन्ति मर्त्य-लोके ते शापानुग्रह-कारकाः ॥ २९६ ॥

4.297

श्लोक

चक्रं च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे । गदां वामे गदाधस्तात् पुनश् चक्रं च धारयेत् ॥ २९७ ॥

4.298

श्लोक

शङ्खोपरि तथा पद्मं पुनः पद्मं च दक्षिणे । खड्गं वक्षसि चापं च स-शरं शीर्ष्णि धारयेत् ॥ २९८ ॥

4.299

श्लोक

मत्स्यं च दक्षिणे हस्ते कूर्मं वाम-करे तथा ॥ २९९ ॥

4.300

श्लोक

दक्षिणे तु भुजे विप्रो विभृषाद् वै सुदर्शनम् । मत्स्यं पद्मं चापरेऽथ शङ्खं पद्मं गदास् तथा ॥ ३०० ॥