Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ४

श्री-वैष्णवालङ्कारः

4.101

श्लोक

ततो गङादिकं स्मृत्वा तुलसी-मिश्रितैर् जलैः । पूर्णे पात्रे समस्तानि तीर्थान्य् आवाहयेत् कृती ॥ १०१ ॥

4.102

श्लोक

गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १०२ ॥

4.103

श्लोक

इति ॥ अथवा जाह्नवीम् एव सर्व-तीर्थ-मयीं बुधः । आवाहयेद् द्वादशभिर् नामभिर् जल-भाजने ॥ १०३ ॥

4.104

श्लोक

नलिनी नन्दिनी सीता मालिनी च महापगा ।विष्णु-पादार्घ्य-सम्भूता गङ्गा त्रिपथ-गामिनी । भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ॥ १०४ ॥

4.105

श्लोक

नन्दिनीत्य् एव ते नाम वेदेषु नलिनीति च । दक्षा पृथ्वी च विहगा विश्व-गाथा शिव-प्रिया ॥ १०५ ॥

4.106

श्लोक

विद्याधरी महा-देवी तथा लोक-प्रसादिनी । क्षेमंकरी जाह्नवी च शान्ता शान्ति-प्रदायिनी ॥ १०६ ॥

4.107

श्लोक

अथाचम्य गुरुं स्मृतानुज्ञां प्रार्थ्य च पूर्ववत् । कृष्ण-पादाब्जतो गङ्गां पतन्तीं मूर्ध्नि चिन्तयेत् ॥ १०७ ॥

4.108

श्लोक

स्वस्थितं पुण्डरीकाक्षं मन्त्र-मूर्तिं प्रभुं स्मरेत् । अनन्तादित्य-सङ्काशं वासुदेवं चतुर्भुजम् ॥ १०८ ॥

4.109

श्लोक

शङ्ख-चक्र-गदा-पद्मधरं पीताम्बरावृतम् । श्यामलं शान्त-वदनं प्रसन्नं वरदेक्षणम् ॥ १०९ ॥

4.110

श्लोक

दिव्य-चन्दन-लिप्ताङ्गं चारहास-मुखाम्बुजम् । अनेक-रत्न-संछन्न-ज्वलन्-मकर-कुण्डलम् ॥ ११० ॥

4.111

श्लोक

वनमाला-परिवृतं नारदादिभिर् अर्चितम् । केयूर-वलयोपेतं सुवर्ण-मुकुटोज्ज्वलम् । सर्वाङ्ग-सुन्दरं देवं सर्वाभरण-भूषितम् ॥ १११ ॥

4.112

श्लोक

तत्-पाद-पङ्कजाद् धारां निपतन्तीं स्व-मूर्धनि । चिन्तयेद् ब्रह्म-रन्ध्रेण प्रविशन्तीं स्वकां तनुम् । तया संक्षालयेत् सर्वम् अन्तर्-देह-गतं मलम् ॥ ११२ ॥

4.113

श्लोक

तत्-क्षणाद् विरजा मन्त्री जायते स्फटिकोपमः । इदं स्नानान्तरं मान्त्रात् सहस्रम् अधिकं स्मृतम् ॥ ११३ ॥

4.114

श्लोक

सकृन् नारायणेत्य् आदि वचनं तत्र कीर्तयेत् । स्नान-काले तु तन्-नाम संस्मरेच् च महाप्रभुम् ॥ ११४ ॥

4.115

श्लोक

आपो नारायणोद्भूतास् ता एवास्यायनं यथः । तस्मान् नारायणं देवं स्नान-काले स्मरेद् बुधः ॥ ११५ ॥

4.116

श्लोक

स्नायाद् उष्णोदकेनापि शक्तोऽप्य् आमलकैस् तथा । तिलैस् तैलैश् च संवर्ज्य प्रतिषिद्ध-दिनानि तु ॥ ११६ ॥

4.117

श्लोक

आपः स्वभावतो मेध्या विशेषाद् अग्नि-योगतः । तेन सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा ॥ ११७ ॥

4.118

श्लोक

आपः स्वयं सदा पूता वह्नि-तप्ता विशेषतः । तस्मात् सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् ॥ ११८ ॥

4.119

श्लोक

स्नातस्य वह्नि-तप्तेन तथैवातप-वारिणा । शरीर-शुद्धिर् विज्ञेया न तु स्नान-फलं भवेत् ॥ ११९ ॥

4.120

श्लोक

तत् तु काम्य-नैमित्तिक-विषयम् । अत एवोक्तं गर्गेण— कुर्यान् नैमित्तिकं स्नानं शीताद्भिः काम्यम् एव च । नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥ १२० ॥

4.121

श्लोक

पुत्र-जन्मनि सङ्क्रान्तौ ग्रहणे चन्द्र-सूर्ययोः । अस्पृश्य-स्पर्शने चैव न स्नायाद् उष्ण-वारिणा ॥ १२१ ॥

4.122

श्लोक

पौर्णमास्यां तथा दर्शे यः स्नायाद् उष्ण-वारिणा । स गोहत्या-कृतं पापं प्राप्नोतीह न संशयः ॥ १२२ ॥

4.123

श्लोक

तुष्यत्य् आमलकैर् विष्णुर् एकादश्यां विशेषतः । श्री-कामः सर्वदा स्नानं कुर्वीतामलकैर् नरः ॥ १२३ ॥

4.124

श्लोक

सप्तम्यां न स्पृशेत् तैलं नीलीवस्त्रं न धारयेत् । न चाप्य् आमलकं स्नायान् न कुर्यात् कलहं नरः ॥ १२४ ॥

4.125

श्लोक

अमां षष्ठीं सप्तमीं च नवमीं च त्रयोदशीम् । सङ्क्रान्तौ रवि-वारे च स्नान-मालकैस् त्यजेत् ॥ १२५ ॥

4.126

श्लोक

धात्री-फलैर् अमावस्या-सप्तमी-नवमीषु च । यः स्नायात् तस्य हीयन्ते तेजश् चायुर्धनं सुताः ॥ १२६ ॥

4.127

श्लोक

सर्व-कालं तिलैः स्नानं पुनर् व्यासोऽब्रवीन् मुनिः ॥ १२७ ॥

4.128

श्लोक

तथा सप्तम्य्-अमावस्या-सङ्क्रान्ति-ग्रहणेषु च । धन-पुत्र-कलत्रार्थी तिल-स्पृष्टं न संस्पृशेत् ॥ १२८ ॥

4.129

श्लोक

षष्ठ्यां तैलम् अनायुष्यं चतुर्थीष्व् अपि च पर्वसु ॥ १२९ ॥

4.130

श्लोक

दशम्यां तैलम् अपृष्ट्वा यः स्नायाद् अविचक्षणः । चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशोधनम् ॥ १३० ॥

4.131

श्लोक

मोहात् प्रतिपदं षष्ठीं कुहूं रिक्तातिथिं तथा । तैलेनाभ्यञ्जयेद् यस् तु चतुर्भिः परिहीयते ॥ १३१ ॥

4.132

श्लोक

पञ्चदश्यां चतुर्दश्यां सप्तम्यां रवि-सङ्क्रमे । द्वादश्यां सप्तमीं षष्ठीं तैल-स्पर्शं विवर्जयेत् ॥ १३२ ॥

4.133

श्लोक

सप्तम्यां न स्पृशेत् तैलं नवम्यां प्रतिपद्य् अपि । अष्टम्यां च चतुर्दश्यांम् अमावस्यां विशेषतः ॥ १३३ ॥

4.134

श्लोक

स्नाने वा यदि वास्नाने पक्क-तैलं न दुष्यति ॥ १३४ ॥

4.135

श्लोक

तैलाभ्युक्तो घृताभ्यक्तो विण्-मूत्रे कुरुते द्विजः । अहो-रात्रोषितो भूत्वा पञ्च-गव्येन शुध्यति ॥ १३५ ॥

4.136

श्लोक

अथाङ्गम् अलम् उत्तार्य स्नात्वा विधिवद् आचरेत् । नासालग्नेन चुलुकोदकेनैवाघ-मर्षणम् ॥ १३६ ॥

4.137

श्लोक

ततो गुर्व्-आदि-पादोदैः प्राग्वत् कृत्वाभिषेचनम् । कार्योऽभिषेकः शङ्खेन तुलसी-मिश्रितैर् जलैः ॥ १३७ ॥

4.138

श्लोक

मार्जयत्य् अभिषेके तु तुलस्या वैष्णवो नरः । सर्व-तीर्थ-मयं देहं तत्-क्षणात् द्विज जायते ॥ १३८ ॥

4.139

श्लोक

तुलसी-दलज-स्नाने एकादश्यां विशेषतः । मुच्यते सर्व-पापेभ्यो यद्यपि ब्रह्महा भवेत् ॥ १३९ ॥

4.140

श्लोक

तन्-मूल-मृत्तिकाभ्यङ्गं कृत्वा स्नाति दिने दिने । दशाश्वमेधावभृतं लभते स्नान-जं फलम् ॥ १४० ॥

4.141

श्लोक

तुलसी-दल-संमिश्रं तोयं गङ्गा-समं विदुः । यो वहेच् छिरसा नित्यं धृता भवति जाह्नवी ॥ १४१ ॥

4.142

श्लोक

पादोदकं ताम्र-पात्रे कृत्वा स-तुलसी-दलम् । शङ्खं कृत्वाभिषिञ्चेत मूलेनैव स्व-मूर्धनि ॥ १४२ ॥

4.143

श्लोक

द्वारका-चक्र-संयुक्त-शालग्राम-शिला-जलम् । शङ्खे कृत्वा तु निक्षिप्तं स्नानार्थं ताम्र-भाजने । तुलसी-दल-संयुक्तं ब्रह्म-हत्या-विनाशनम् ॥ १४३ ॥

4.144

श्लोक

स्नान-शाटीतरेणैव वाससाम्भांसि गात्रतः । संमार्ज्य वाससी दध्यात् परिधानोत्तरीयके ॥ १४४ ॥

4.145

श्लोक

अधौतं कारु-धौतं वा परेद्यु-धौतम् एव वा । काषायं मलिनं वस्त्रं कौपीनं च परित्यजेत् ॥ १४५ ॥

4.146

श्लोक

न चार्द्रम् एव वसनं परिदध्यात् कदाचन ॥ १४६ ॥

4.147

श्लोक

नग्नो मलिन-वस्त्रः स्यात् नग्नश् चार्ध-पटस् तथा । नग्नो द्विगुण-वस्त्रः स्यान् नग्नो रक्त-पटस् तथा ॥ १४७ ॥

4.148

श्लोक

नग्नश् च स्यूत-वस्त्रः स्यान् नग्नः स्निग्ध-पटस् तथा । द्विकच्छोऽनुत्तरीयश् च नग्नश् चावस्त्र एव च ॥ १४८ ॥

4.149

श्लोक

श्रौतं स्मार्तं तथा कर्म न नग्नश् चिन्तयेद् अपि । मोहात् कुर्वन्न् अधो गच्छेत् तद् भवेद् आसुरं स्मृतम् ॥ १४९ ॥

4.150

श्लोक

जप-होमोपवासेषु धौत-वस्त्र-धरो भवेत् । अलङ्कृतः शुचिर् मौनी श्राद्धादौ च जितेन्द्रियः ॥ १५० ॥

4.151

श्लोक

एक-वस्त्रो न भुञ्जीत न कुर्याद् देवनार्चनम् ॥ १५१ ॥

4.152

श्लोक

शुक्ल-वासो भवेन् नित्यं रक्तं चैव विवर्जयेत् ॥ १५२ ॥

4.153

श्लोक

शौचं सहस्र-रोमाणां वाय्व्-अग्न्य्-अर्केन्दु-रश्मिभिः । रेतः-स्पृष्टं शव-स्पृष्टम् आविकं नैव दुष्यति ॥ १५३ ॥

4.154

श्लोक

छिन्नं वा सन्धितं दग्ध्म् आविकं न प्रदुष्यति । आविकेन तु वस्त्रेण मानवः श्राद्धम् आचरेत् । गया-श्राद्ध-समं प्रोक्तं पितृभ्यो दत्तम् अक्षयम् ॥ १५४ ॥

4.155

श्लोक

न कुर्यात् सन्धितं वस्त्रं देव-कर्मणि भूमिप । न दग्धं न च वै छिन्नं पारक्यं न तु धारयेत् ॥ १५५ ॥

4.156

श्लोक

काक-विष्ठा-समं ह्य् उक्तम् अविधौतं च यद् भवेत् । रजकाद् आहृतं यच् च न तद् वस्त्रं भवेच् छुचि ॥ १५६ ॥

4.157

श्लोक

कीट-स्पृष्टं तु यद् वस्त्रं पुरीषं येन कारितम् । मूत्रं वा मैथुनं वापि तद् वस्त्रं परिवर्जयेत् ॥ १५७ ॥

4.158

श्लोक

आविकं तु सदा वस्त्रं पवित्रं राज-सत्तम । पितृ-देव-मनुष्याणां क्रियायां च प्रशस्यते ॥ १५८ ॥

4.159

श्लोक

धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् । शुक्र-मूत्र-रक्त-लिप्तं तथापि परमं शुचि ॥ १५९ ॥

4.160

श्लोक

अग्निर् आविक-वस्त्रं च ब्रह्मणाश् च तथा कुशाः । चतुर्णां न कृतो दोषो ब्रह्मणा परमेष्ठिना ॥ १६० ॥

4.161

श्लोक

धारयेद् वाससी शुद्धे परिधानोत्तरीयके । अच्छिन्न-सुदशे शुक्ले आचामेत् पीठ-संस्थितः ॥ १६१ ॥

4.162

श्लोक

यतीनाम् आसनं शुक्लं कूर्माकारं तु कारयेत् । अन्येषां तु चतुष्पादं चतुरस्रं तु कारयेत् ॥ १६२ ॥

4.163

श्लोक

गो-शकृन्-मयं भिन्नं तथा पलाश-पैप्पलम् । लोह-बद्धं सदैवार्कं वर्जयेद् आसनं बुधः ॥ १६३ ॥

4.164

श्लोक

दानम् आचमनं होमं भोजनं देवतार्चनम् । प्रौढ-पादो न कुर्वीत स्वाध्यायं चैव तर्पणम् ॥ १६४ ॥

4.165

श्लोक

आसनारूढ-पादस् तु जानुनोर् वाथ जङ्घयोः । कृतावस्क्थिको यस् तु प्रौढ-पादः स उच्यते ॥ १६५ ॥

4.166

श्लोक

ततो भूमि-गताङ्घ्रिः सन् निविश्याचम्य दर्भ-भृत् । ऊर्ध्व-पुण्ड्रादिकं कुर्यात् श्री-गोपी-चन्दनादिना ॥ १६६ ॥

4.167

श्लोक

तत्रादाव् अनुलेपेन भगवच्-चरणाब्जयोः । निर्माल्येन प्रसादेन सर्वाण्य् अङ्गानि मार्जयेत् ॥ १६७ ॥

4.168

श्लोक

शालग्राम-शिला-लग्नं चन्दनं धारयेत् सदा । सर्वाङ्गेषु महा-शुद्धि-सिद्धये कमलासन ॥ १६८ ॥

4.169

श्लोक

ततो द्वादशभिः कुर्यान् नामभिः केशवादिभिः । द्वादशाङ्गेषु विधिवद् ऊर्ध्व-पुण्ड्राणि वैष्णवः ॥ १६९ ॥

4.170

श्लोक

ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥ १७० ॥

4.171

श्लोक

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥ १७१ ॥

4.172

श्लोक

श्रीधरं वाम-बाहौ तु हृषीकेशं तु कन्धरे । पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत् ॥ १७२ ॥

4.173

श्लोक

तत्-प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥ १७३ ॥

4.174

श्लोक

ऊर्ध्व-पुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् । ललाटादि-क्रमेणैव धारणं तु विधीयते ॥ १७४ ॥

4.175

श्लोक

एवं न्यासं समाचर्य सम्प्रदायानुसारतः । न्यसेत् किरीट-मन्त्रं च मूर्ध्नि सर्वार्थ-सिद्धये ॥ १७५ ॥

4.176

श्लोक

ॐ श्री-किरीट-केयूर-हार-मकर-कुण्डल-चक्र-शङ्ख-गदा-पद्म-हस्त-पीताम्बर-धर श्रीवत्साङ्कित-वक्षः-स्थल श्री-भूमि-सहित-स्वात्म-ज्योतिर् दीप्ति-कराय सहस्रादित्य-तेजसे नमो नमः ॥ १७६ ॥

4.177

श्लोक

मत्-प्रियार्थं शुभार्थं वा रक्षार्थे चतुरानन । मत्-पूजा-होम-काले च सायं प्रातः समाहितः । मद्-भक्तो धारयेन् नित्यम् ऊर्ध्व-पुण्ड्रं भयापहम् ॥ १७७ ॥

4.178

श्लोक

यज्ञो दानं तपो होमः स्वाध्यायः पितृ-तर्पणम् । व्यर्थं भवति तत् सर्वम् ऊर्ध्व-पुण्ड्रं विना कृतम् ॥ १७८ ॥

4.179

श्लोक

ऊर्ध्व-पुण्ड्रैर् विहीनस् तु किंचित् कर्म करोति यः । इष्टापूर्तादिकं सर्वं निष्फलं स्यान् न संशयः ॥ १७९ ॥

4.180

श्लोक

ऊर्ध्व-पुण्ड्रैर् विहीनस् तु सन्ध्या-कर्मादिकं चरेत् । तत् सर्वं राक्षसं नित्यं नरकं चाधिगच्छति ॥ १८० ॥

4.181

श्लोक

ऊर्ध्व-पुण्ड्रे त्रि-पुण्ड्रं यः कुरुते नराधमः । भङ्क्त्वा विष्णु-गृहं पुण्ड्रं स याति नरकं ध्रुवम् ॥ १८१ ॥

4.182

श्लोक

यच् छरीरं मनुष्याणाम् ऊर्ध्व-पुण्ड्रं विना कृतम् । द्रष्टव्यं नैव तत् तावत् श्मशान-सदृशं भवेत् ॥ १८२ ॥

4.183

श्लोक

ऊर्ध्व-पुण्ड्रं मृदा सौम्यं ललाटे यस्य दृश्यते । स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥ १८३ ॥

4.184

श्लोक

तिर्यक्-पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च ।नैवान्यन् नाम च ब्रूयात् पुमान् नारारायणाद् ऋते ॥ १८४ ॥

4.185

श्लोक

धारयेद् विष्णु-निर्माल्यं धूप-शेषं विलेपनम् । वैष्णवं कारयेत् पुण्ड्रं गोपी-चन्दन-सम्भवम् ॥ १८५ ॥

4.186

श्लोक

यस्योर्ध्व-पुण्ड्रं दृश्येत ललाटे नो नरस्य हि । तद्-दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥ १८६ ॥

4.187

श्लोक

वैष्णवानां ब्राह्मणानाम् ऊर्ध्व-पुण्ड्रं विधीयते ।अन्येषां तु त्रि-पुण्ड्रं स्याद् इति ब्रह्म-विदो विदुः ॥ १८७ ॥

4.188

श्लोक

त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्व-पुण्ड्रं न दृश्यते । तं स्पृष्ट्वाप्य् अथवा दृष्ट्वा स-चेलं स्नानम् आचरेत् ॥ १८८ ॥

4.189

श्लोक

ऊर्ध्व-पुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् । कृत-त्रि-पुण्ड्र-मर्त्यस्य क्रिया न प्रीतये हरेः ॥ १८९ ॥

4.190

श्लोक

अश्वत्थ-पत्र-सङ्काशो वेणु-पत्राकृतिस् तथा । पद्म-कुट्मल-सङ्काशो मोहनं त्रितयं स्मृतम् ॥ १९० ॥

4.191

श्लोक

ऊर्ध्व-पुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते । चण्डालोऽपि विशुद्धात्मा याति ब्रहम् सनातनम् ॥ १९१ ॥

4.192

श्लोक

ऊर्ध्व-पुण्ड्रे स्थिता लक्ष्मीर् ऊर्ध्व-पुण्ड्रे स्थितं यशः । ऊर्ध्व-पुण्ड्रे स्थिता मुक्तिर् ऊर्ध्व-पुण्ड्रे स्थितो हरिः ॥ १९२ ॥

4.193

श्लोक

ऊर्ध्व-पुण्ड्रं मुदा सौम्यं ललाटे यस्य दृश्यते । स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥ १९३ ॥

4.194

श्लोक

ऊर्ध्व-पुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । लक्ष्म्या सार्धं समासीनो देव-देवो जनार्दनः ॥ १९४ ॥

4.195

श्लोक

तस्माद् यस्य शरीरे तु ऊर्ध्व-पुण्ड्रं धृतो भवेत् । तस्य देहं भगवतो विमलं मन्दिरं शुभम् ॥ १९५ ॥

4.196

श्लोक

ऊर्ध्व-पुण्ड्र-धरो विप्रः सर्व-लोकेषु पूजितः । विमान-वरम् आरुह्य याति विष्णोः परं पदम् ॥ १९६ ॥

4.197

श्लोक

ऊर्ध्व-पुण्ड्र-धरं दृष्ट्वा सर्व-पापैः प्रमुच्यते । नमस्कृत्वाथवा भक्त्या सर्व-दान-फलं लभेत् ॥ १९७ ॥

4.198

श्लोक

ऊर्ध्व-पुण्ड्र-धरं विप्रं यः श्राद्धे भोजयिष्यति । आकल्प-कोटि-पितरस् तस्य तृप्ता न संशयः ॥ १९८ ॥

4.199

श्लोक

ऊर्ध्व-पुण्ड्र-धरो यस् तु कुर्याच् छ्राद्धं शुभानने । कल्प-कोटि-सहस्राणि गया-श्राद्ध-फलं लभेत् ॥ १९९ ॥

4.200

श्लोक

यज्ञ-दान-तपश्-चर्या-जप-होमादिकं च यत् । ऊर्ध्व-पुण्ड्र-धरः कुर्यात् तस्य पुण्यम् अनन्तकम् ॥ २०० ॥