Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ४

श्री-वैष्णवालङ्कारः

4.301

श्लोक

साम्प्रदायिक-शिष्टानाम् आचाराच् च यथारुचि । शङ्ख-चक्रादि-चिह्नानि सर्वेष्व् अङ्गेषु धारयेत् ॥ ३०१ ॥

4.302

श्लोक

भक्त्या निजेष्ट-देवस्य धारयेल् लक्षणान्य् अपि ॥ ३०२ ॥

4.303

श्लोक

चक्र-शङ्खौ च धार्यते संमिश्राव् एव कैश्चन ॥ ३०३ ॥

4.304

श्लोक

श्री-गोपी-चन्दनेनैवं चक्रादीनि बुधोऽन्वहम् । धारयेच् छयनादौ तु तप्तानि किल तानि हि ॥ ३०४ ॥

4.305

श्लोक

द्वादशारं तु षट्-कोणं वलयत्रय-संयुतम् । चक्रं स्याद् दक्षिणावर्तं शङ्खं च श्री-हरेः स्मृतः ॥ ३०५ ॥

4.306

श्लोक

गदा-पद्मादिकं लोक-सिद्धम् एव मतं बुधैः । मुद्रा वा भगवन्-नामाङ्किता वाष्टाक्षरादिभिः ॥ ३०६ ॥

4.307

श्लोक

ततः कृष्णार्पिता माला धारयेत् तुलसी-दलैः । पद्माक्षैस् तुलसी-काष्ठैः फलैर् धात्र्याश् च निर्मिताः ॥ ३०७ ॥

4.308

श्लोक

धारयेत् तुलसी-काष्ठ-भूषणानि च वैष्णवः । मस्तके कर्णयोर् बाह्वोः करयोश् च यथा-रुचि ॥ ३०८ ॥

4.309

श्लोक

सन्निवेद्यैव हरये तुलसी-काष्ठ-सम्भवाम् । मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः ॥ ३०९ ॥

4.310

श्लोक

हरये नार्पयेद् यस् तु तुलसी-काष्ठ-सम्भवाम् । मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम् ॥ ३१० ॥

4.311

श्लोक

क्षालितां पञ्च-गव्येन मूल-मन्त्रेण मन्त्रिताम् । गायत्र्या चाष्त कृत्वा वै मन्त्रितां धूपयेच् च ताम् । विधिवत् परया भक्त्या सद्यो-जातेन पूजयेत् ॥ ३११ ॥

4.312

श्लोक

तुलसी-काष्ठ-सम्भूते माले कृष्ण-जन-प्रिये । बिभर्मि त्वाम् अहं कण्ठे कुरु मां कृष्ण-वल्लभम् ॥ ३१२ ॥

4.313

श्लोक

यथा त्वं वल्लभा विष्णोर् नित्यं विष्णु-जन-प्रिया । तथा मां कुरु देवेशि नित्यं विष्णु-जन-प्रियम् ॥ ३१३ ॥

4.314

श्लोक

दाने ला-धातुर् उद्दिष्टो लासि मां हरि-वल्लभे । भक्तेभ्यश् च समस्तेभ्यस् तेन माला निगद्यसे ॥ ३१४ ॥

4.315

श्लोक

एवं सम्प्रार्थ्य विधिवन् मालां कृष्ण-गलेऽर्पिताम् । धारयेद् वैष्णवो यो वै स गच्छेद् वैष्णवं पदम् ॥ ३१५ ॥

4.316

श्लोक

धात्री-फल-कृतां मालां कण्ठस्थां यो वहेन् न हि । वैष्णवो न स विज्ञेयो विष्णु-पूजा-रतो यदि ॥ ३१६ ॥

4.317

श्लोक

धारयन्ति न ये मालां हैतुकाः पाप-बुद्धयः । नरकान् न निवर्तन्ते दग्धाः कोपाग्निना हरेः ॥ ३१७ ॥

4.318

श्लोक

न जह्यात् तुलसी-मालां धात्री-मालां विशेषतः । महा-पातक-संहन्त्रीं धर्म-कामार्थ-दायिनीम् ॥ ३१८ ॥

4.319

श्लोक

निर्माल्य-तुलसी-माला-युक्तो यश् चार्चयेद् धरिम् । यद् यत् करोति तत् सर्वम् अनन्त-फलदं भवेत् ॥ ३१९ ॥

4.320

श्लोक

ये कण्ठ-लग्न-तुलसी-नलिनाक्ष-माला ये वा ललाट-फल्के लसद् ऊर्ध्व-पुण्ड्राः । ये बाहु-मूल-परिचिह्नित-शङ्ख-चक्रास् ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥ ३२० ॥

4.321

श्लोक

भुज-युगम् अपि चिह्नैर् अङ्कितं यस्य विष्णोः परम-पुरुष-नाम्नां कीर्तनं यस्य वाचि । ऋजुतरम् अपि पुण्ड्रं मस्तके यस्य कण्ठे सरसिज-मणि-माला यस्य तस्यास्मि दासः ॥ ३२१ ॥

4.322

श्लोक

तुलसी-काष्ठ-मालां च कण्ठ-स्थां वहते तु यः । अप्य् अशौचोऽप्य् अनाचारो माम् एवैति न संशयः ॥ ३२२ ॥

4.323

श्लोक

धात्री-फल-कृता माला तुलसी-काष्ठ-सम्भवा । दृश्यते यस्य देहे तु स वै भागवतोत्तमः ॥ ३२३ ॥

4.324

श्लोक

तुलसी-दलजां मालां कण्ठस्थां वहते तु यः । विष्णूत्तीर्णा विशेषेण स नमस्यो दिवौकसाम् ॥ ३२४ ॥

4.325

श्लोक

तुलसी-दलजा माला धात्री-फल-कृतापि च । ददाति पापिनां मुक्तिं किं पुनर् विष्णु-सेविनाम् ॥ ३२५ ॥

4.326

श्लोक

यः पुनस् तुलसी-मालां कृत्वा कण्ठे जनार्दनम् । पूजयेत् पुण्यम् आप्नोति प्रतिपुष्पं गवायुतम् ॥ ३२६ ॥

4.327

श्लोक

यावल् लुठति कण्ठ-स्था धात्री-माला नरस्य हि । तावत् तस्य शरीरे तु प्रीत्या लुठति केशवः ॥ ३२७ ॥

4.328

श्लोक

स्पृशेच् च यानि लोमानि धात्री-माला कलौ नृणाम् । तावद् वर्ष-सहस्राणि वसते केशवालये ॥ ३२८ ॥

4.329

श्लोक

यावद् दिनानि वहते धात्री-मालां कलौ नरः । तावद्-युग-सहस्राणि वैकुण्ठे वसतिर् भवेत् ॥ ३२९ ॥

4.330

श्लोक

माला-युग्मं वहेद् यस् तु धात्री-तुलसि-संभवम् । वहते कण्ठ-देशे तु कल्प-कोटि-ं दिवं वसेत् ॥ ३३० ॥

4.331

श्लोक

तुलसी-दलजां मालां कृष्णोत्तीर्णा वहेत् तु यः । पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् ॥ ३३१ ॥

4.332

श्लोक

तुलसी-काष्ठ-सम्भूतां यो मालां वहते नरः । फलं यच्छति दैतारिः प्रत्यहं द्वारकोद्भवम् ॥ ३३२ ॥

4.333

श्लोक

निवेद्य विष्णवे मालां तुलसी-काष्ठ-सम्भवम् । वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥ ३३३ ॥

4.334

श्लोक

सदा प्रीतमनास् तस्य कृष्ण देवकी-नन्दनः । तुलसी-काष्ठ-सम्भूतां यो मालां वहते नरः । प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे ॥ ३३४ ॥

4.335

श्लोक

तुलसी-काष्ठ-सम्भूतां शिरसो यस्य भूषणम् । बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः ॥ ३३५ ॥

4.336

श्लोक

तुलसी-काष्ठ-मालाभिर् भूषितः पुण्यम् आचरेत् । पितॄणां देवतानां च कृतं कोटि-गुणं कलौ ॥ ३३६ ॥

4.337

श्लोक

तुलसी-काष्ठ-मालां तु प्रेत-राजस्य दूतकाः । दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् ॥ ३३७ ॥

4.338

श्लोक

तुलसी-काष्ठ-मालाभिर् भूषितो भ्रमते यदि । दुःस्वप्नं दुर्निमित्तं च न भयं शस्त्रजं क्वचित् ॥ ३३८ ॥

4.339

श्लोक

सन्ध्योपास्त्य्-आदिकं कर्म ततः कुर्यात् यथा-विधि । कृष्ण-पादोदकेनैव तत्र देवादि-तर्पणम् ॥ ३३९ ॥

4.340

श्लोक

शिरसा विष्णु-निर्माल्यं पादोदेनापि तर्पणम् । पितॄणां देवतानां च वैष्णवैस् तु समं मतम् ॥ ३४० ॥

4.341

श्लोक

गृहे त्व् एक-गुणा सन्ध्या गोष्ठे दश-गुणा स्मृता । शत-साहस्रिका नद्याम् अनन्ता विष्णु-सन्निधौ ॥ ३४१ ॥

4.342

श्लोक

पूजयिष्यंस् ततः कृष्णम् आदौ सन्निहितं गुरुम् । प्रणम्य पूजयेद् भक्त्या दत्त्वा किंचिद् उपाअयनम् ॥ ३४२ ॥

4.343

श्लोक

रिक्त-पाणिर् न पश्येत राजानं भिषजं गुरुम् । नोपायन-करः पुत्रं शिष्यं भृत्यं निरीक्षयेत् ॥ ३४३ ॥

4.344

श्लोक

प्रथमं तु गुरुं पूज्य ततश् चैव ममार्चनम् । कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥ ३४४ ॥

4.345

श्लोक

गुरौ सन्निहिते यस् तु पूजयेद् अन्यम् अग्रतः । स दुर्गतिम् अवाप्नोति पूजनं तस्य निष्फलम् ॥ ३४५ ॥

4.346

श्लोक

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ ३४६ ॥

4.347

श्लोक

आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् । न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥ ३४७ ॥

4.348

श्लोक

नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन च । तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥ ३४८ ॥

4.349

श्लोक

यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ । मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत् ॥ ३४९ ॥

4.350

श्लोक

साधकस्य गुरौ भक्तिं मन्दीकुर्वन्ति देवताः । यन् नोऽतीत्य व्रजेद् विष्णुं शिष्यो भक्त्या गुरौ ध्रुवन् ॥ ३५० ॥

4.351

श्लोक

अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥ ३५१ ॥

4.352

श्लोक

गुरुर् ब्रह्मा गुरुर् विष्णुर् गुरुर् देवो महेश्वरः । गुरुर् एव परं ब्रह्म तस्मात् सम्पूजयेत् सदा ॥ ३५२ ॥

4.353

श्लोक

यो मन्त्रः स गुरुः साक्षात् यो गुरुः स हरिः स्मृतः । गुरुर् यस्य भवेत् तुष्टस् तस्य तुष्टो हरिः स्वयम् ।गुरोः समासने नैव न चैवोच्चासने वसेत् ॥ ३५३ ॥

4.354

श्लोक

तस्मात् सर्व-प्रयत्नेन यथा-विधि तथा गुरुम् । अभेदेनार्चयेत् यस् तु स मुक्ति-फलम् आप्नुयात् ॥ ३५४ ॥

4.355

श्लोक

गुरु-सुश्रूषणं नाम सर्व-धर्मोत्तमोत्तमम् । तस्माद् धर्मात् परो धर्मः पवित्रं नैव विद्यते ॥ ३५५ ॥

4.356

श्लोक

काम-क्रोधादिकं यद् यद् आत्मनोऽनिष्ट-कारणम् । एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् ॥ ३५६ ॥

4.357

श्लोक

पितुर् आधिक्य-भावेन येऽर्चयन्ति गुरुं सदा । भवन्त्य् अतिथयो लोके ब्रह्मणस् ते विशां वर ॥ ३५७ ॥

4.358

श्लोक

भक्तिर् यथा हरौ मेऽस्ति तद्वन् निष्ठा गुरौ यदि । ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः ॥ ३५८ ॥

4.359

श्लोक

अविद्यो वा स-विद्यो वा गुरुर् एव जनार्दनः । मार्गस्थो वाप्य् अमार्ग-स्थो गुरुर् एव सदा गतिः ॥ ३५९ ॥

4.360

श्लोक

हरौ रुष्टे गुरुस् त्राता गुरौ रुष्टे न कश्चन । तस्मात् सर्व-प्रयत्नेन गुरुम् एव प्रसादयेत् ॥ ३६० ॥

4.361

श्लोक

अपि घ्नन्तः शपन्तो वा विरुद्धा अपि ये क्रुधाः । गुरवः पूजनीयास् ते गृहं नत्वा नयेत तान् ॥ ३६१ ॥

4.362

श्लोक

तत् श्लाघ्यं जन्म धन्यं तत् दिनं पुण्याथ नाडिका । यस्यां गुरुं प्रणमते समुपास्य तु भक्तितः ॥ ३६२ ॥

4.363

श्लोक

उपदेष्टारम् आम्नायागतं परिहरन्ति ये । तान् मृतान् अपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते ॥ ३६३ ॥

4.364

श्लोक

बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् । गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः ॥ ३६४ ॥

4.365

श्लोक

प्रतिपद्य गुरुं यस् तु मोहाद् विप्रतिपद्यते । स कल्प-कोटिं नरके पच्यते पुरुषाधमः ॥ ३६५ ॥

4.366

श्लोक

अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् । पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥ ३६६ ॥

4.367

श्लोक

ये गुर्व्-आज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः । न तेषां नरक-क्लेश-निस्तारो मुनि-सत्तम ॥ ३६७ ॥

4.368

श्लोक

यैः शिष्यैः शश्वद् आराध्या गुरवो ह्य् अवमानिताः । पुत्र-मित्र-कलत्रादि-सम्पद्भ्यः प्रच्युता हि ते ॥ ३६८ ॥

4.369

श्लोक

अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये । शूकरत्वं भवत्य् एव तेषां जन्म-शतेष्व् अपि ॥ ३६९ ॥

4.370

श्लोक

ये गुरु-द्रोहिणो मूढाः सततं पाप-कारिणः । तेषां च यावत् सुकृतं दुष्कृतं स्यान् न संशयः ॥ ३७० ॥

4.371

श्लोक

अतः प्राग् गुरुम् अभ्यर्च्य कृष्ण-भावेन बुद्धिमान् । त्र्य्-अवरान् असमान् कुर्यात् प्रणामान् दण्ड-पातवत् ॥ ३७१ ॥

4.372

श्लोक

व्यत्यस्त पाणिना कार्यम् उपसङ्ग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ ३७२ ॥

4.373

श्लोक

प्राक् संस्कृतं हरेर् गेहं प्रवेक्ष्यन् पादुके त्यजेत् ॥ ३७३ ॥

4.374

श्लोक

अग्न्य्-आगारे गवां गोष्ठे देव-ब्राह्मण-सन्निधौ । जपे भोजन-काले च पादुके परिवर्जयेत् ॥ ३७४ ॥

4.375

श्लोक

ततः श्री-भगवत्-पूजा-मन्दिरस्याङ्गनं गतः । प्रक्षाल्य हस्तौ पादौ च द्वि-राचमनम् आचरेत् ॥ ३७५ ॥

4.376

श्लोक

देवार्चनादि-कार्याणि तथा गुर्व्-अभिवादनम् । कुर्वीत सम्यग् आचम्य तद्वद् एव भुजि-क्रियाम् ॥ ३७६ ॥