Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ३

शौचीयः

3.201

श्लोक

नैक-हस्तार्पिउत्त-जलैर् विना सूत्रेण वा पुनः । न पादुकासन-स्थो वा बहिर् जानुर् अथापि वा ॥ २०१ ॥

3.202

श्लोक

त्रिः-पाने केशवं नारायणं माधवम् अप्य् अथ । प्रक्षालने द्वयोः पाण्योर् गोविन्दं विष्णुम् अप्य् उभौ ॥ २०२ ॥

3.203

श्लोक

मधुसूदनम् एकं च मार्जनेऽन्यं त्रिविक्रमम् ॥ २०३ ॥

3.204

श्लोक

उन्मार्जनेऽप्य् अधरयोर् वामन-श्रीधराव् उभौ ॥ २०४ ॥

3.205

श्लोक

प्रक्षालने पुनः पाण्योर् हृषीकेशं च पादयोः । पद्मनाभं प्रोक्षणे तु मूर्ध्नो दामोदरं ततः ॥ २०५ ॥

3.206

श्लोक

वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नम् इत्य् उभौ । नासयोर् नेत्र-युगलेऽनिरुद्धं पुरुषोत्तमम् । अधोक्षजं नृसिंहं च कर्णयोर् नाभितोऽच्युतम् ॥ २०६ ॥

3.207

श्लोक

जनार्दनं च हृदये उपेन्द्रं मस्तके ततः । दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि । नमोऽनन्तं च चतुर्थ्य्-अन्तम् आचामेत् क्रमतो जपन् ॥ २०७ ॥

3.208

श्लोक

अशक्तः केवलम् दक्षं स्पृशेत् कर्णं तथा च वाक् । कुर्वीतालभनं वापि दक्षिण-श्रवणस्य वै ॥ २०८ ॥

3.209

श्लोक

उत्थाय नेत्रं प्रक्षाल्य शुचिर् भूत्वा समाहितः । परिजप्य च मन्त्रेण भक्षयेद् दन्त-धावनम् ॥ २०९ ॥

3.210

श्लोक

आयुर् बलं यशो वर्चः प्रजा पशु-वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥ २१० ॥

3.211

श्लोक

अथो मुख-विशुद्ध्य्-अर्थं गृह्णीयाद् दन्त-धावनम् । आचान्तोऽप्य् अशुचिर् यस्माद् अकृत्वा दन्त-धावनम् ॥ २११ ॥

3.212

श्लोक

दन्त-काष्ठम् अखादित्वा यस् तु माम् उपसर्पति । सर्व-काल-कृतं कर्म तेन चैकेन नश्यति ॥ २१२ ॥

3.213

श्लोक

चतुर्दश्य्-अष्टमी-दर्श-पौर्णमास्य्-अर्क-सङ्क्रमः । एषु स्त्री-तैल-मांसानि दन्त-काष्ठानि वर्जयेत् ॥ २१३ ॥

3.214

श्लोक

आद्ये तिथौ नवम्यां च क्षये चन्द्रमसस् तथा । आदित्य्-वारे शौरे च वर्जयेद् दन्त-धावनम् ॥ २१४ ॥

3.215

श्लोक

प्रतिपद्-दर्श-षष्ठीषु नवम्यां च विशेषतः । दन्तानां काष्ठ-संयोगो दहत्य् आसप्तमं कुलम् ॥ २१५ ॥

3.216

श्लोक

उपवासे तथा श्राद्धेन खादेद् दन्त-धावनम् ।दन्तानां काष्ठ-संयोगो हन्ति सप्त-कुलानि वै ॥ २१६ ॥

3.217

श्लोक

प्रतिपद्-दर-षष्ठीषु नवम्य्-एकादशी-रवौ । दन्तानां काष्ठ-संयोगो हन्ति पुण्यं पुरा-कृतम् ॥ २१७ ॥

3.218

श्लोक

दिनेष्व् एतेषु काष्ठैर् हि दन्तानां धावनस्य तु । निषिद्धत्वात् तृणैः कुर्यात् तथा काष्ठेतरैश् च तत् ॥ २१८ ॥

3.219

श्लोक

प्रतिपद्-दर्श-षष्ठीषु नवम्यां दन्त-धावनम् । पर्णैर् अन्यत्र काष्ठैश् च जीवोल्लेख्हः सदैव हि ॥ २१९ ॥

3.220

श्लोक

अलाभे च निषेधे वा काष्ठानां दन्त-धावनम् । पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि ॥ २२० ॥

3.221

श्लोक

काष्ठैः प्रतिपद्-आदौ यन् निषिद्धं दन्त-धावनम् । तृण-पर्णैस् तु तत् कुर्याद् अमाम् एकादशीं विना ॥ २२१ ॥

3.222

श्लोक

अलाभे दन्त-काष्ठानां निषिद्धायां तथा तिथौ । अपां द्वादश-गण्डूषैर् विदध्याद् दन्त-धावनम् ॥ २२२ ॥

3.223

श्लोक

अलाभे दन्त-काष्ठानां निषिद्धे वाथ वासरे । गण्डूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ॥ २२३ ॥

3.224

श्लोक

इति ॥ तृण-पर्णादिना केचित् उपवास-दिनेष्व् अपि । दन्त-धावनम् इच्छन्ति मुख-शोधन-तत्पराः ॥ २२४ ॥

3.225

श्लोक

मुखे पर्युषिते यस्माद् भवेद् अशुचि-भाग् नरः । ततः कुर्यात् प्रयत्नेन शुद्ध्य्-अर्थं दन्त-धावनम् ॥ २२५ ॥

3.226

श्लोक

उपवासेऽपि नो दुष्येद् दन्त-धावनम् अञ्जनम् । गन्धालङ्कार-सद्-वस्त्र-पुष्प-मालानुलेपनम् ॥ २२६ ॥

3.227

श्लोक

सर्व कण्टकिनः पुण्याः आयुर्दाः क्षीरिणः स्मृताः । कटु-तिक्त-कषायाश् च बलारोग्य-सुख-प्रदाः ॥ २२७ ॥

3.228

श्लोक

पलाशानां दन्त-काष्ठं पादुके चैव वर्जयेत् । वर्जयेच् च प्रयत्नेन बटं वाश्वत्थम् एव च ॥ २२८ ॥

3.229

श्लोक

मध्याङ्गुलि-समस्थौल्यं द्वादशाङ्गुल-सम्मितम् । स-त्वचं दन्त-काष्ठं यत् तद्-अग्रे न तु धारयेत् ॥ २२९ ॥

3.230

श्लोक

क्षीरि-वृक्ष-समुद्भूतं मालती-सम्भवं शुभम् । अपामार्गं च बिल्वं वा कर-वीरं विशेषतह् ॥ २३० ॥

3.231

श्लोक

वर्जयित्वा निनितानि गृहीत्वैकं यथोदितम् । परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥ २३१ ॥

3.232

श्लोक

न पाटयेत् दन्त-काष्ठं नाङ्गुल्य्-अग्रेण धारयेत् । प्रक्षाल्य भुक्त्वा तज् जह्यात् शुचौ देशे समाहितः ॥ २३२ ॥

3.233

श्लोक

कनिष्ठाग्र-परीणाहं स-त्वचं निर्व्रणं ऋजुम् । द्वादशाङ्गुल-मानं च सार्द्रं स्याद् दन्त-धावनम् । जिह्वोल्लेखनिकाम् वापि कुर्याच् चापाकृतिं शुभाम् ॥ २३३ ॥

3.234

श्लोक

दन्तोल्लेखो वितस्त्या भवति परिमिताद् अन्नम् इत्य् आदि-मन्त्रात् प्रातः क्षीर्य्-आदि-काष्ठाद् वट-खदिर-पलाशैर् विनार्काम्र-बिल्वैः । भुक्त्वा गण्डूष-षट्कं द्विर् अपि कुशम् ऋते देशिनीम् अङ्गुलीभिर् नन्दाभूताष्ट-पर्वण्य् अपि न खलु नवम्य्-अर्क-सङ्क्रान्ति-पाते ॥ २३४ ॥

3.235

श्लोक

ततश् चाचम्य विधिवत् कृत्वा केश-प्रसाधनम् । स्मृत्वा प्रणव-गायत्र्यौ निबध्नीयाच् छिखां द्विजः ॥ २३५ ॥

3.236

श्लोक

न दक्षिणा-मुखो नोर्ध्वं कुर्यात् केश-प्रसाधनम् । स्मृत्वोङ्कारं च गायत्रीं निबध्नीयाच् चिखान्ततः ॥ २३६ ॥

3.237

श्लोक

नदी-नद-तडागेषु देव-खात-जलेषु च । नित्य-क्रियार्थं स्नायीत गिरि-प्रस्रवणेषु च ॥ २३७ ॥

3.238

श्लोक

कूपेषूद्धृत-तोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृत-तोयेन अथवा भुव्य् असम्भवे ॥ २३८ ॥

3.239

श्लोक

यथाहनि तथा प्रातर् नित्यं स्नायाद् अनातुरः । अत्यन्त-मलिनः कायो नव-च्छिद्र-समन्वितः । स्रवत् एव दिवा-रात्रौ प्रातः-स्नानं विशोधनम् ॥ २३९ ॥

3.240

श्लोक

प्रातर्-मध्याह्नयोः स्नानं वानप्रस्थ-गृहस्थयोः । यतेस् त्रि-सवनं स्नानं सकृत् तु ब्रह्मचारिणः ॥ २४० ॥

3.241

श्लोक

सर्वे चापि सकृत् कुर्युर् अशक्तौ चोदकं विना ॥ २४१ ॥

3.242

श्लोक

अशिरस्कं भवेत् स्नानम् अशक्तौ कर्मिणां सदा । आर्द्रेण वाससा वापि पाणिना वापि मार्जनम् ॥ २४२ ॥

3.243

श्लोक

अस्नातस् तु पुमान् नार्हो जपादि-हवनादिषु ॥ २४३ ॥

3.244

श्लोक

प्रातः-स्नानं विना पुंसां पापित्वं कर्मसु स्मृतम् । होमे जपे विशेषेण तस्मात् स्नानं समाचरेत् ॥ २४४ ॥

3.245

श्लोक

प्रस्वेद-लालसाद्याक्लिन्नो निद्राधीनो यतो नरः । प्रातः-स्नानात् ततोऽर्हः स्यान् मन्त्र-स्तोत्र-जपादिषु ॥ २४५ ॥

3.246

श्लोक

स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः । अस्नायिनोऽशुचेस् तस्य विमुखाः पितृ-देवताः ॥ २४६ ॥

3.247

श्लोक

स्नान-हीनो नरः पापः स्नान-हीनो नरोऽशुचिः । अस्नायी नरकं भुङ्क्ते पुंस्-कीटादिषु जायते ॥ २४७ ॥

3.248

श्लोक

गुणा दश स्नान-शीलं भजन्ते बलं रूपं स्वर-वर्ण-प्रशुद्धिः । स्पर्शश् च गन्धश् च विशुद्धता च श्रीः सौकुमार्यं प्रवराश् च नार्यः ॥ २४८ ॥

3.249

श्लोक

याम्यं हि यातना-दुःखं नित्य-स्नायी न पश्यति । नित्य-स्नानेन पूयन्ते अपि पाप-कृतो नराः ॥ २४९ ॥

3.250

श्लोक

प्रातः-स्नानं हरेद् वैश्य बाह्याभ्यन्तरजं मलम् । प्रातः-स्नानेन निष्पापो नरो न निरयं व्रजेत् ॥ २५० ॥

3.251

श्लोक

ये पुनः स्रोतसि स्नानम् आचरन्तीह पर्वणि । तेनैव नरकं यान्ति न जायन्ते कुयोनिषु ॥ २५१ ॥

3.252

श्लोक

दुःस्वप्ना दुष्ट-चिन्ताश् च बन्ध्या भवन्ति सर्वदा । प्रातः-स्नानेन शुद्धानां पुरुषाणां विशां वर ॥ २५२ ॥

3.253

श्लोक

स्नाने मनः-प्रसादः स्याद् देवा अभिमुखाः सदा । सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥ २५३ ॥

3.254

श्लोक

महा-पापान्य् अलक्ष्मीं च दुरितं दुर्विचिन्तितम् । शोक-दुःखादि हरते प्रातः-स्नानं विशेषतः ॥ २५४ ॥

3.255

श्लोक

प्रातः-स्नानं प्रशंसन्ति दृष्टादृष्ट-करं हि तत् । प्रातः-स्नानेन पापानि पूयन्ते नात्र संशयः ॥ २५५ ॥

3.256

श्लोक

प्रातः-स्नानात् यतः शुध्येत् कायोऽयं मलिनः सदा । छिद्रितो नवभिश् छिद्रैः स्रवत्य् एव दिवा-निशम् ॥ २५६ ॥

3.257

श्लोक

उत्साह-मेधा-सौभाग्य-रूप-सम्पत्-प्रवर्तकम् । मनः-प्रसन्नता-हेतुः प्रातः-स्नानं प्रशस्यते ॥ २५७ ॥

3.258

श्लोक

प्रातः प्रातस् तु यत् स्नानं संजाते चारुणोद्वये । प्राजापत्य-समं प्राहुस् तन् महाघ-विघातकृत् ॥ २५८ ॥

3.259

श्लोक

प्रातः-स्नानं हरेत् पापम् अलक्ष्मीं ग्लानिम् एव च । अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥ २५९ ॥

3.260

श्लोक

नोपसर्पन्ति वै दुष्टाः प्रातः-स्नायि-जनं क्वचित् । दृष्टादृष्ट-फलं तस्मात् प्रातः-स्नानं समाचरेत् ॥ २६० ॥

3.261

श्लोक

स्नान-मात्रं तथा प्रातः-स्नानं चात्र नियोजितम् । यद्यप्य् अन्योऽन्य-मिलिते पृथग् ज्ञेये तथाप्य् अमू ॥ २६१ ॥

3.262

श्लोक

मृत्तिकां च तटे न्यस्य स्नायात् स्व-स्व-विधानतः ॥ २६२ ॥

3.263

श्लोक

अधौतेन तु वस्त्रेण नित्य-नैमित्तिकीं क्रियाम् । कुर्वन् न फलम् आप्नोति कृता चेन् निष्फला भवेत् ॥ २६३ ॥

3.264

श्लोक

धौताङ्घ्रि-पाणिर् आचान्तः कृत्वा सङ्कल्पम् आदरात् । गङ्गादि-स्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत् ॥ २६४ ॥

3.265

श्लोक

सागर-स्वन-निर्घोष-दण्ड-हस्तासुरान्तक । जगत्-स्रष्टर् जगन्-मर्दिन् नमामि त्वां सुरेश्वर ॥ २६५ ॥

3.266

श्लोक

इमं मन्त्रं समुच्चार्य तीर्थ-स्नानं समाचरेत् । अन्यथा तत्-फलस्यार्धं तीर्थेशो हरति स्वयम् ॥ २६६ ॥

3.267

श्लोक

नत्वाथ तीर्थं स्नानार्थम् अनुज्ञां प्रार्थयेद् इमाम् । देवदेव जगन्नाथ शङ्ख-चक्र-गदाधर । देहि विष्णो ममानुज्ञां तव तीर्थ-निषेवणे ॥ २६७ ॥

3.268

श्लोक

विधिवन् मृदम् आदाय तीर्थ-तोये प्रविश्य च । प्रवाहाभिमुखो नद्यां स्याद् अन्यत्रार्क-सम्मुखः ॥ २६८ ॥

3.269

श्लोक

दिग्-बन्धं विधिनाचर्य तीर्थानि परिकल्प्य च । आवाहयेद् भगवतीं गङ्गाम् आदित्य-मण्डलात् ॥ २६९ ॥

3.270

श्लोक

दर्भ-पाणिः कृत-प्राणायामः कृष्ण-पदाम्बुजम् । ध्यात्वा तन्-नाम सङ्कीर्त्य निमज्जेत् पुण्य-वारिणि ॥ २७० ॥

3.271

श्लोक

आचम्य मूल-मन्त्रं च स-प्राणायामकं जपन् । कृष्णं ध्यायन् जले भूयो निमज्ज्य स्नानम् आचरेत् ॥ २७१ ॥

3.272

श्लोक

कृत्वाघ-मर्षणान्तं च नामभिः केशवादिभिः । तत्र द्वादशधा तोये निमज्ज्य स्नानम् आचरेत् ॥ २७२ ॥

3.273

श्लोक

प्रसिद्धेषु च तीर्थेषु यद्य् अन्यस्याभिधां स्मरेत् ।स्नातकं तं तु तत् तीर्थम् अभिशप्य क्षणाद् व्रजेत् ॥ २७३ ॥

3.274

श्लोक

एवम् उच्चार्य तत्-तीर्थे पादौ प्रक्षाल्य वाग् यतः । स्मरन् नारायणं देवं स्नानं कुर्याद् विधानतः ॥ २७४ ॥

3.275

श्लोक

तीर्थं प्रकल्पयेद् धीमान् मूल-मन्त्रम् इमं पठन् । ॐ नमो नारायणाय मूल-मन्त्र उदाहृतः ॥ २७५ ॥

3.276

श्लोक

दर्भ-पाणिस् तु विधिवद् आचान्तः प्रणतो भुवि । चतुर्-हस्त-समायुक्तं चतुरस्रं समन्ततः ॥ २७६ ॥

3.277

श्लोक

प्रकल्प्यावाहयेद् गङ्गां मन्त्रेणानेन मानवः । विष्णु-पाद-प्रसूतासि वैष्णवी विष्णु-देवता । त्राहि नस् त्वेनसस् तस्माद् आजन्म-मरणान्तिकात् ॥ २७७ ॥

3.278

श्लोक

सप्त-वाराभिजप्तेन कर-सम्पुट-योजिते । मूर्ध्नि कृत्वा जलं भूपश् चतुर् वा पञ्च सप्त वा । स्नानं कृत्वा मृदा तद्वद् आमन्त्र्य तु विधानतः ॥ २७८ ॥

3.279

श्लोक

अश्व-क्रान्ते रथ-क्रान्ते विष्णु-क्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥ २७९ ॥

3.280

श्लोक

उद्धृतासि वराहेण विष्णुना शत-बाहुना । नमस् ते सर्व-लोकानां प्रभवारणि सुव्रते ॥ २८० ॥

3.281

श्लोक

गुरोः सन्निहितस्याथ पित्रोश् च चरणोदकैः । विप्राणां च पदाम्भोधिः कुर्यान् मूर्धन्य् अभिषेचनम् ॥ २८१ ॥

3.282

श्लोक

गुरोः पादोदकं पुत्र तीर्थ-कोटि-फल-प्रदम् ॥ २८२ ॥

3.283

श्लोक

विप्र-पादोदक-क्लिन्नं यस्य तिष्ठति वै शिरः । तस्य भागीरथी-स्नानम् अहन्य् अहनि जायते ॥ २८३ ॥

3.284

श्लोक

पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । स-सागराणि तीर्थानि पादे विप्रस्य दक्षिणे ॥ २८४ ॥

3.285

श्लोक

शङ्खे वसन्ति सर्वाणि तीर्थानि च विशेषतः । शङ्खेन मूल-मन्त्रेणाभिषेकं पुनर् आचरेत् ॥ २८५ ॥

3.286

श्लोक

तथैव तुलसी-मिश्र-शालग्राम-शिलाम्भसा । अभिषेकं विदध्याच् च पीत्वा तत् किंचिद् अग्रतः ॥ २८६ ॥

3.287

श्लोक

शालग्राम-शिला-तोयं तुलसी-गन्ध-मिश्रितम् । कृत्वा शङ्खे भ्रामयंस् त्रिः प्रक्षिपेन् निज-मूर्धनि ॥ २८७ ॥

3.288

श्लोक

शालग्राम-शिला-तोयम् अपीत्वा यस् तु मस्तके । प्रेक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥ २८८ ॥

3.289

श्लोक

विष्णु-पादोदकात् पूर्वं विप्र-पादोदकं पिबेत् । विरुद्धम् आचरन् मोहाद् ब्रह्महा स निगद्यते ॥ २८९ ॥

3.290

श्लोक

अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥ २९० ॥

3.291

श्लोक

लेख्योऽग्रे कृष्ण-पादाब्ज-तीर्थ-धारण-पानयोः । महिमात्र तु तत्-तीर्थेनाभिषेकस्य लिख्यते ॥ २९१ ॥

3.292

श्लोक

स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः । शालग्राम-शिला-तोयैर् योऽभिषेकं समाचरेत् ॥ २९२ ॥

3.293

श्लोक

गङ्गा गोदावरी रेवा नद्यो मुक्ति-प्रदास् तु याः । निवसन्ति सतीर्थास् ताः शालग्राम-शिला-जले ॥ २९३ ॥

3.294

श्लोक

कोटि-तीर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् । तीर्थं यदि भवेत् पुण्यं शालग्राम-शिलोद्भवम् ॥ २९४ ॥

3.295

श्लोक

येषां धौतानि गात्राणि हरेः पादोदकेन वै । अम्बरीष कुले तेषां दासोऽस्मि वशगः सदा ॥ २९५ ॥

3.296

श्लोक

राजन्ते तानि तावच् च तीर्थानि भुवन-त्रये । यावन् न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥ २९६ ॥

3.297

श्लोक

गृहेऽपि वसतस् तस्य गङ्गा-स्नानं दिने दिने । शालग्राम-शिला-तोयैर् योऽभिषिञ्चति मानवः ॥ २९७ ॥

3.298

श्लोक

यानि कानि च तीर्थानि ब्रह्माद्या देवतास् तथा । विष्णु-पादोदकस्यैते कलां नार्हन्ति षोडशीम् ॥ २९८ ॥

3.299

श्लोक

शालग्रामोद्भवो देवो देवो द्वारवती-भवः । उभयोः स्नान-तोयेन ब्रह्म-हत्या निवर्तते ॥ २९९ ॥

3.300

श्लोक

स वै चावभृत-स्नातः स च गङ्गा-जलाप्लुतः । विष्णु-पादोदकं कृत्वा शङ्खेयः स्नाति मानवः ॥ ३०० ॥