Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ३

शौचीयः

3.101

श्लोक

सम्प्रदायानुसारेण भूत-शुद्धिं विधाय च । प्राणायामांश् च विधिवत् कृष्णं ध्यायेत् यथोदितम् ॥ १०१ ॥

3.102

श्लोक

उपपातकेषु सर्वेषु पातकेषु महत्सु च । प्रविश्य रजनी-पादं विष्णु-ध्यानं समाचरेत् ॥ १०२ ॥

3.103

श्लोक

तथैव रात्रि-शेषं तु कालं सूर्योदयावधि । कर्तव्यं सजपं ध्यानं नित्यम् आराधकेन वै ॥ १०३ ॥

3.104

श्लोक

विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम् । जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः ॥ १०४ ॥

3.105

श्लोक

रात्रेस् तु पश्चिमे यामे मुहूर्तौ ब्राह्म्य उच्यते ॥ १०५ ॥

3.106

श्लोक

पादोदपानादीनां च स विधिर् महिमाग्रतः । लेख्योऽधुना तु ध्यानस्य स सङ्क्षेपेण लिख्यते ॥ १०६ ॥

3.107

श्लोक

सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥ १०७ ॥

3.108

श्लोक

गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् । द्वियालङ्करणोपेतं रत्न-पङ्कज-मध्यगम् ॥ १०८ ॥

3.109

श्लोक

कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् । चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ १०९ ॥

3.110

श्लोक

स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् । गोविन्दं पुण्डरीकाक्षं गोप-कन्याः सहस्रशः ॥ ११० ॥

3.111

श्लोक

आत्मनो वदनाम्भोज-प्रेरिताक्षि-मधु-व्रताः । काम-बाणेन विवशाश् चिरम् आश्लेषेणोत्सुकाः ॥ १११ ॥

3.112

श्लोक

मुक्ताहार-लसत्-पीनोत्तुङ्गस्तन-भरानताः । स्रस्त-धम्मिल्ल-वसना मद-स्खलित-भाषणाः ॥ ११२ ॥

3.113

श्लोक

दन्त-पङ्क्ति-प्रभोद्भासि-स्पन्दमानाधराञ्चिताः । विलोभयन्तीर् विविधैर् विभ्रमैर् भाव-गर्भितैः ॥ ११३ ॥

3.114

श्लोक

फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥ ११४ ॥

3.115

श्लोक

श्री-गौतमीय-तन्त्रादौ तद्-ध्यानं प्रथितं परम् । अग्रतोऽत्रापि संलेख्यं यद् इष्टं तत्र तद् भजेत् ॥ ११५ ॥

3.116

श्लोक

पक्षोपवासाद् यत् पापं पुरुषस्य प्रणश्यति । प्राणायाम-शतेनैव यत् पापं नश्यते नॄणाम् ॥ ११६ ॥

3.117

श्लोक

प्राणायाम-सहस्रेण यत् पापं नश्यते नॄणाम् । क्षण-मात्रेण तत् पापं हरेर् ध्यानात् प्रणश्यति ॥ ११७ ॥

3.118

श्लोक

सर्व-पाप-प्रसक्तोऽपि ध्यायन् निमिषम् अच्युतम् । भूतस् तपस्वी भवति पङ्क्ति-पावन-पावनः ॥ ११८ ॥

3.119

श्लोक

ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु । प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति निश्चितम् ॥ ११९ ॥

3.120

श्लोक

समस्त-जगद्-आधारं परमार्थ-स्वरूपिणम् । घोरे कलि-युगे प्राप्ते विष्णुं ध्यायन् न सीदति ॥ १२० ॥

3.121

श्लोक

किन्त्व् अस्य बहुभिस् तीर्थैः किं तस्य बहुभिर् व्रतैः । यो नित्यं ध्यायते देवं नारायणम् अनन्य-धीः ॥ १२१ ॥

3.122

श्लोक

ये मानवा विगत-राग-परावर-ज्ञा नारायणं सुर-गुरुं सततं स्मरन्ति । ध्यानेन तेन हत किल्बिष-चेतनास् ते मातुः पयोधर-रसं न पुनः पिबन्ति ॥ १२२ ॥

3.123

श्लोक

मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः । सोऽपि सद्-गतिम् आप्नोति किं पुनस् तत्-परायणः ॥ १२३ ॥

3.124

श्लोक

ध्यायन्ति पुरुषं दिव्यम् अच्युतं ये स्मरन्ति च । लभन्ते तेऽच्युत-स्थानं श्रुतिर् एषा पुरातनी ॥ १२४ ॥

3.125

श्लोक

वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- शाल्वादयो गति-विलास-विलोकनाद्यैः । ध्यायन्त आकृत-धियः शयनासनादौ तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ १२५ ॥

3.126

श्लोक

भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् । भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे ॥ १२६ ॥

3.127

श्लोक

आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः । इदमे एव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ १२७ ॥

3.128

श्लोक

ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः । ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः ॥ १२८ ॥

3.129

श्लोक

स्मरणे यत् तन्-माहात्म्यं तद् ध्यानेऽप्य् अखिलं विदुः । भेदः कल्प्येत सामान्य-विशेषाभ्यां तयोः कियान् ॥ १२९ ॥

3.130

श्लोक

ततो देवालये गत्वा घण्टाद्य्-उद्घोष-पूर्वकम् । प्रबोध्य स्तुतिभिः कृष्णं नीराज्यं प्रार्थयेद् इदम् ॥ १३० ॥

3.131

श्लोक

सोऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्व-विजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥ १३१ ॥

3.132

श्लोक

देव-प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकन-दानेन भूयो मां पारयाच्युत ॥ १३२ ॥

3.133

श्लोक

देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् । कृष्णस्य तुलसी-वर्जं निर्माल्यम् अपसारयेत् ॥ १३३ ॥

3.134

श्लोक

प्रातः-काले सदा कुर्यान् निर्माल्योत्तारणं बुधः । तृषिताः पशवो बद्धाः कन्यका च रजस्वला । देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥ १३४ ॥

3.135

श्लोक

देव-माल्यापनयनं देवागारे समूहनम् । स्नापनं सर्व-देवानां गो-प्रदान-समं स्मृतम् ॥ १३५ ॥

3.136

श्लोक

यः प्रातर् उत्थाय विधाय नित्यं निर्माल्यम् ईशस्य निराकरोति । न तस्य दुःखं न दरिद्रता च नाकाल-मृत्युर् न च रोग-मात्रम् ॥ १३६ ॥

3.137

श्लोक

अरुणोदय-वेलायां निर्माल्यं शल्यतां व्रजेत् । प्रातस् तु स्यान् महाशल्यं घटिका-मात्र-योगतः ॥ १३७ ॥

3.138

श्लोक

अतिशल्यं विजानीयात् ततो वज्र-प्रहारवत् । अरुणोदय-वेलायां शल्यं तत् क्षमते हरिः ॥ १३८ ॥

3.139

श्लोक

घटिकायाम् अतिक्रान्तौ क्षुद्रं पातकम् आवहेत् । मुहूर्ते समतिक्रान्ते पूर्णं पातकम् उच्यते ॥ १३९ ॥

3.140

श्लोक

अतिपातकम् एव् स्यात् घटिकानां चतुष्टये । मुहूर्त-त्रितये पूर्णे महा-पातकम् उच्यते ॥ १४० ॥

3.141

श्लोक

ततः परं ब्रह्म-वधो महा-पातक-पञ्चकम् । प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥ १४१ ॥

3.142

श्लोक

निर्माल्यस्य विलम्बे तु प्रायश्चित्तम् अथोच्यते । अतिक्रान्ते मुहूर्तार्धे सहस्रं जपम् आचरेत् ॥ १४२ ॥

3.143

श्लोक

पूर्णे मुहूर्ते सञ्जाते सहस्रं सार्धम् उच्यते । सहस्र-द्वितीयं कुर्यात् घटिकानां चतुष्टये ॥ १४३ ॥

3.144

श्लोक

मुहूर्त-त्रितयेऽतीते अयुतं जपम् आचरेत् । प्रहरे पूर्णतां याते पुरश्चरणम् उच्यते । प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥ १४४ ॥

3.145

श्लोक

श्री-हस्ताङ्घ्रि-मुखाम्भोज-क्षालनाय च तद्-गृहे । गण्डूषाणि जलैर् दत्त्वा दन्त-काष्ठं समर्पयेत् ॥ १४५ ॥

3.146

श्लोक

जिह्वोल्लेखनिकां दत्त्वा पादुके शुद्ध-मृत्तिकाम् । सलिलं च पुनर् दद्याद् वासोऽपि मुख-मार्जनम् ॥ १४६ ॥

3.147

श्लोक

ततः श्री-तुलसीं पुण्याम् अर्पयेत् भगवत्-प्रियाम् । तन्-माहात्म्यं च तन्-मुख्य-प्रसङ्गे लेख्यम् अग्रतः ॥ १४७ ॥

3.148

श्लोक

दन्त-काष्ठ-प्रदानेन दन्त-सौभाग्यम् ऋच्छति । जिह्वोल्लेखनिकां दत्त्वा विरोगस् त्व् अभिजायते ॥ १४८ ॥

3.149

श्लोक

पादुकायाः प्रदानेन गतिम् इष्टाम् अवाप्नुयात् । मृद्-भाग-दानाद् देवस्य भूमिम् आप्नोत्य् अनुत्तमाम् ॥ १४९ ॥

3.150

श्लोक

पठित्वाथ प्रियान् श्लोकान् महा-वादित्र-निस्वनैः । प्रभोर् नीराजनं कुर्यान् मङ्गलाख्यं जगद्-धितम् ॥ १५० ॥

3.151

श्लोक

नीराजनं त्व् इदं सर्वैः कर्तव्यं शुचि-विग्रहैः । परम-श्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः ॥ १५१ ॥

3.152

श्लोक

स्त्रीणां पुंसां च सर्वेषाम् एतत् सर्वेष्ट-पूरकम् । समस्त-दैन्य-दारिद्र्य-दुरिताद्य्-उपशान्ति-कृत् ॥ १५२ ॥

3.153

श्लोक

ततोऽरुणोदयस्यान्ते स्नानार्थं निःसरेद् बहिः । कीर्तयन् कृष्ण-नामानि तीर्थं गच्छेद् अनन्तरम् ॥ १५३ ॥

3.154

श्लोक

ब्राह्मे मुहूर्ते चोत्थाय शुचिर् भूत्वा समाहितः । स्वस्तिकाद्य्-आसनं बद्ध्वा ध्यात्वा कृष्ण-पादाम्बुजम् ॥ १५४ ॥

3.155

श्लोक

ततो निर्गत्य निलयान्नामानीमानि कीर्तयेत् । श्री-वासुदेवानिरुद्ध-प्रद्युम्नाधोक्षजाच्युत । श्री-कृष्णानन्त गोविन्द सङ्कर्षण नमोऽस्तु ते ॥ १५५ ॥

3.156

श्लोक

गत्वा तीर्थादिकं तत्र निक्षिप्य स्नान-साधनम् । विधिनाचर्य मैत्र्य्-आदि-कृत्यं शौचं विधाय च । आचम्य खानि संमार्ज्य स्नानं कुर्यात् यथोचितम् ॥ १५६ ॥

3.157

श्लोक

ततः कल्ये समुत्थाय कुर्यान् मैत्रं नरेश्वर । नैरृत्याम् इषु-विक्षेपम् अतीत्याधिकं गृहात् ॥ १५७ ॥

3.158

श्लोक

दूराद् आवसथान् मूत्रं पुरीषं च समुत्सृजेत् । पादाव् असेचनोच्छिष्टे प्रक्षिपेन् न गृहाङ्गणे ॥ १५८ ॥

3.159

श्लोक

आत्म-च्छायां तरोश् छायां गो-सूर्याग्न्य्-अनिलांस् तथा । गुरुं द्विजादींश् च बुधो न मेहेत कदाचन ॥ १५९ ॥

3.160

श्लोक

न कृष्टे शस्य-मध्ये वा गो-व्रजे जन-संसदि । न वर्त्मनि न नद्य्-आदि-तीर्थेषु पुरुषर्षभ ॥ १६० ॥

3.161

श्लोक

नाप्सु नैवाम्भसस् तीरे न श्मशाने समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥ १६१ ॥

3.162

श्लोक

उदङ्मुखो दिवोत्सर्गं विपरीत-मुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥ १६२ ॥

3.163

श्लोक

तृणैर् आच्छाद्य वसुधां वस्त्र-प्रावृत-मस्तकः । तिष्ठेन् नातिचिरं तत्र नैव किञ्चिद् उदीरयेत् ॥ १६३ ॥

3.164

श्लोक

निधाय दक्षिणे कर्णे ब्रह्म-सूत्रम् उदङ्मुखः । अन्तर्धाप्य महीं काष्ठैः पत्रैर् लोष्ट्रैस् तृणेन वा ॥ १६४ ॥

3.165

श्लोक

प्रावृत्य तु शिरः कुर्याद् विन्-मूत्रस्य विसर्जनम् । न चैवाभिमुखः स्त्रीणां गुरु-ब्राह्मणयोर् गवाम् । न देव-देवालयोर् नापाम् अपि कदाचन ॥ १६५ ॥

3.166

श्लोक

नदीं ज्योतींषि वीक्षित्वा न वाय्व्-अग्नि-मुखोऽपि वा । प्रयादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥ १६६ ॥

3.167

श्लोक

ततश् चावश्यकं कर्तुं नैरृतीं दिशम् आश्रयेत् । ग्रामाद् धनुः-शतं गच्छेन् नगराच् च चतुर्गुणम् ॥ १६७ ॥

3.168

श्लोक

कर्णोपवीत्य्-उदग्-वक्त्रो दिवसे सन्ध्ययोर् अपि । विन्-मूत्रे विसृजेन् मौनी निशायां दक्षिणा-मुखः ॥ १६८ ॥

3.169

श्लोक

नालोकयेद् दिशो भागान् ज्योतिश् चक्रं नभोऽमलम् । वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत् प्रयत्नवान् ॥ १६९ ॥

3.170

श्लोक

न मूत्रं गो-व्रजे कुर्यान् न वल्मीके न भस्मनि । न गर्तेषु स-सत्त्वेषु न तिष्ठन् न व्रजन्न् अपि ॥ १७० ॥

3.171

श्लोक

यथा-सुख-मुखो रात्रौ दिवा छायान्धकारयोः । भीतिषु प्राण-बाधायां कुर्यान् मल-विसर्जनम् ॥ १७१ ॥

3.172

श्लोक

वल्मीक-मूषिकोत्खातां मृदं नान्तर्-जलात् तथा । शौचावशिष्टां गेहाच् च न दद्याल् लेप-सम्भवाम् ॥ १७२ ॥

3.173

श्लोक

अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव । परित्यजेन् मृदश् चैताः सकलाः शौच-साधने ॥ १७३ ॥

3.174

श्लोक

एका लिङ्गे गुदे तिस्रस् दश वाम-करे नृप । हस्त-द्वये सप्तान्या मृदः शौचोपपादिकाः ॥ १७४ ॥

3.175

श्लोक

तिस्रस् तु पादयोर् देयाः शुद्धि-कामेन नित्यशः ॥ १७५ ॥

3.176

श्लोक

तिस्रस् तु मृत्तिका देयाः कृत्वा तु नख-शोधनम् ॥ १७६ ॥

3.177

श्लोक

गुह्ये दद्यान् मृदं चैकां पायौ पञ्चाम्बु-सान्तराः । दश वाम-करे चापि सप्त पाणि-द्वये मृदः ॥ १७७ ॥

3.178

श्लोक

एकैकां पादयोर् दद्यात् तिस्रः पाण्योर् मृदः स्मृताः । इत्थं शौचं गृही कुर्याद् गन्ध-लेप-क्षयावधि ॥ १७८ ॥

3.179

श्लोक

क्रमाद् द्विगुणम् एतत् तु ब्रह्मचर्यादिषु त्रिषु । दिवा विहित-शौचाच् च रात्राव् अर्धं समाचरेत् ॥ १७९ ॥

3.180

श्लोक

रुजार्धं च तद्-अर्धं च पथि चौरादि-पीडिते । तद्-अर्ध-योषितां चापि स्वास्थ्ये न्यूनं न कारयेत् । आर्द्र-धात्री-फलोन्माना मृदः शौचे प्रकीर्तिताः ॥ १८० ॥

3.181

श्लोक

मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया ॥ १८१ ॥

3.182

श्लोक

अर्ध-प्रसृति-मात्रा तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तद्-अर्धं परिकीर्तिता ॥ १८२ ॥

3.183

श्लोक

एका लिङ्गे तु सव्ये त्रिर् उभयोर् मृद्-द्वयं स्मृतम् ॥ १८३ ॥

3.184

श्लोक

पादयोर् द्वे गृहीत्वा च सुप्रक्षालित-पाणिना । आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥ १८४ ॥

3.185

श्लोक

अच्छेनागन्ध-फेनेन जलेनाबुद्बुदेन च । आचामेत मृदं भूयस् तथा दद्यात् समाहितः ॥ १८५ ॥

3.186

श्लोक

निष्पादिताङ्घ्रि-शौचस् तु पादाव् अभ्युक्ष्य वै पुनः । त्रिः पिबेत् सलिलं तेन तथा द्विः परिमार्जयेत् ॥ १८६ ॥

3.187

श्लोक

शीर्षण्यानि ततः खानि मूर्धानं च मृदा लभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ १८७ ॥

3.188

श्लोक

प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेद् अम्बु वीक्षितम् । संवृत्ताङ्गुष्ठ-मूलेन द्विः प्रमृज्यात् ततो मुखम् ॥ १८८ ॥

3.189

श्लोक

संहत्य तिसृभिः पूर्वम् आस्यम् एवम् उपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम् ॥ १८९ ॥

3.190

श्लोक

अङ्गुष्ठानामिकाभ्यां तु चक्षुः-श्रोत्रे पुनः पुनः । कनिष्ठाङ्गुष्ठयोर् नाभिं हृदयं तु तलेन वै । सर्वाभिस् तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत् ॥ १९० ॥

3.191

श्लोक

प्राग् आस्य उदगास्यो वा सूपविष्टः शुचौ भुवि । उपस्पृशेद् विहीनायां तुषाङ्गारास्थि-भस्मभिः ॥ १९१ ॥

3.192

श्लोक

अनुष्णाभिर् अफेनाभिर् अद्भिर् हृद्गाभिर् अत्वरः । ब्राह्मणो ब्रह्म-तीर्थेन दृष्टि-पूतनाभिर् आचमेत् ॥ १९२ ॥

3.193

श्लोक

कण्ठ-गाभिर् नृपः शुध्येत् तालुगाभिस् तथोरुजः । स्त्री-शूद्रावास्यसंस्पर्श-मात्रेणापि विसुध्यतः ॥ १९३ ॥

3.194

श्लोक

पाद-क्षालन-शेषेण नाचामेत् वारिणा द्विजः । यद्य् आचमेत् स्रावयित्वा भूमौ बौधायनोऽब्रवीत् ॥ १९४ ॥

3.195

श्लोक

पाणिना दक्षिणेनैव संहताङ्गुलिनाचमेत् । मुक्ताङ्गुष्ठक-निष्ठेन नक-स्पृष्टा अपस् त्यजेत् ॥ १९५ ॥

3.196

श्लोक

भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । औष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥ १९६ ॥

3.197

श्लोक

रेतो-मूत्र-पुरीषाणाम् उत्सर्गेऽनृत-भाषणे । ष्थीवित्वाध्ययनारम्भे काश-श्वासागमे तथा ॥ १९७ ॥

3.198

श्लोक

चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः । सन्ध्योर् उभयोस् तद्वद् आचान्तोऽप्य् आचमेत् पुनः ॥ १९८ ॥

3.199

श्लोक

शिरः प्रावृत्य कण्ठं वा मुक्तकच्छ-शिखोऽपि वा । अकृत्वा पादयोः शौचम् आचान्तोऽप्य् अशुचिर् भवेत् ॥ १९९ ॥

3.200

श्लोक

सोपानत्कौ जलस्थो वा नोष्णीषी चाचमेद् बुधः । न चैव वर्ष-धाराभिर् हस्तोच्छिष्टे तथा बुधः ॥ २०० ॥