Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ३

शौचीयः

3.301

श्लोक

गङ्गा-प्रयाग-गय-नैमिष-पुष्कराणि पुण्यानि यानि कुरु-जाङ्गल-यामुनानि । कालेन तीर्थ-सलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः ॥ ३०१ ॥

3.302

श्लोक

त्रि-रात्रि-फलदा नद्यो याः काश्चिद् असमुद्रगाः । समुद्रगाश् च पक्षस्य मासस्य सरितां पतिः ॥ ३०२ ॥

3.303

श्लोक

षण्-मास-फलदा गोदा वत्सरस्य तु जाह्नवी । पादोदकं भगवतो द्वादशाब्द-फल-प्रदम् ॥ ३०३ ॥

3.304

श्लोक

जलं च येषां तुलसी-विमिश्रितं पादोदकं चक्र-शिला-समुद्भवम् । नित्यं त्रि-सन्ध्यं प्लवते न गात्रं खगेन्द्र ते धर्म-बहिष्कृता नराः ॥ ३०४ ॥

3.305

श्लोक

ततो जलाञ्जलीन् क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भ-मुद्रया । मूलेनाथाविशेषेण कुर्याद् देवादि-तर्पणम् ॥ ३०५ ॥

3.306

श्लोक

ब्रह्मादयो ये देवास् तान् देवान् तर्पयामि । भूर्-देवांस् तर्पयामि । भुवर्-देवांस् तर्पयामि । स्वर्-देवांस् तर्पयामि । भूर्-भुवः-स्वर्-देवांस् तर्पयामि ॥ ३०६ ॥

3.307

श्लोक

आचाम्याङ्गानि संमार्ज्य स्नान-वस्त्राण्य-वाससा । परिधायांशुके शुक्ले निविश्याचमनं चरेत् ॥ ३०७ ॥

3.308

श्लोक

विधिवत् तिलकं कृत्वा पुनश् चाचम्य वैष्णवः । विधाय वैदिकीं सन्ध्याम् अथोपासीत तान्त्रिकीम् ॥ ३०८ ॥

3.309

श्लोक

प्राक्-कुलेषु ततः स्थित्वा दर्भेषु सुसमाहितः । प्राणायाम-त्रयं कृत्वा ध्यायेत् सन्ध्याम् इति श्रुतिः ॥ ३०९ ॥

3.310

श्लोक

ब्राह्मणाः शाक्तिकाः सर्वे न शैवा न च वैष्णवाः । यत उपासते देवीं गायत्रीं वेद-मातरम् ॥ ३१० ॥

3.311

श्लोक

या च सन्ध्या जगत्-सूतिर् मायातीता हि निष्कला । ऐश्वरी केवला शक्तिस् तत्त्व-त्रय-समुद्भवा ॥ ३११ ॥

3.312

श्लोक

ध्यात्वार्क-मण्डल-गतां सावित्रीं तां जपेद् बुधः । प्राङ्-मुखः सततं विप्रः सन्ध्योपासनम् आचरेत् ॥ ३१२ ॥

3.313

श्लोक

सहस्र-परमां नित्यं शत-मध्यां दशावराम् । सावित्रीं वै जपेद् विद्वान् प्राङ्-मुखः प्रयतः स्थितः ॥ ३१३ ॥

3.314

श्लोक

सन्ध्या-हीनोऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु । यद् अन्यत् कुरुते किञ्चिन् न तस्य फलम् अप्नुयात् ॥ ३१४ ॥

3.315

श्लोक

योऽन्यत्र कुरुते यत्नं धर्म-कार्ये द्विजोत्तमः । विहाय सन्ध्या-प्रणतिं स याति नरकायुतम् ॥ ३१५ ॥

3.316

श्लोक

अनन्य-चेतसः शान्ता ब्राह्मणा वेद-पारगाः । उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वे परां गतिम् ॥ ३१६ ॥

3.317

श्लोक

ततः सम्पूज्य सलिले निजां श्री-मन्त्र-देवताम् । तर्पयेद् विधिना तस्य तथैवावरणानि च ॥ ३१७ ॥

3.318

श्लोक

हविषाग्नौ जले पुष्पैर् ध्यानेन हृदये हरिम् । अर्चन्ति सूरयो नित्यं जपेन रवि-मण्डले ॥ ३१८ ॥

3.319

श्लोक

सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः ॥ ३१९ ॥

3.320

श्लोक

मूल-मन्त्रम् अथोच्चार्य ध्यायन् कृष्णाङ्घ्रि-पङ्कजे । श्री-कृष्णं तर्पयामीति त्रिः सम्यक् तर्पयेत् कृती ॥ ३२० ॥

3.321

श्लोक

ध्यानोद्दिष्ट-स्वरूपाय सूर्य-मण्डल-वर्तिने । कृष्णाय काम-गायत्र्या दद्याद् अर्घ्यम् अनन्तरम् ॥ ३२१ ॥

3.322

श्लोक

आदौ मन्मथम् उद्धृत्य काम-देव-पदं वदेत् । आयान्ते विद्महे पुष्प-बाणायेति पदं वदेत् । धीमहीति तथोक्त्वाथ तन् नोऽनङ्गः प्रचोदयात् ॥ ३२२ ॥

3.323

श्लोक

अथार्क-मण्डले कृष्णं ध्यात्वैतां दशधा जपेत् । क्षमस्वेति तम् उद्वास्य दद्याद् अर्घ्यं विवस्वते ॥ ३२३ ॥

3.324

श्लोक

विधिस् तान्त्रिक-सन्ध्याया जलेऽर्चायाश् च कश्चन । योऽन्यो मन्येत सोऽप्य् अत्र तद्-विशेषाय लिख्यते ॥ ३२४ ॥

3.325

श्लोक

आदौ दक्षिण-हस्तेन गृह्णीयाद् वारि वैष्णवः । ततो हृदय-मन्त्रेण वाम-पाणि-तलेऽर्पयेत् ॥ ३२५ ॥

3.326

श्लोक

तद्-अङ्गुली-विनिर्याताम्भः-कणैर् दक्ष-पाणिना । मस्तके नेत्र-मन्त्रेण कुर्यात् सम्प्रोक्षणं ततः ॥ ३२६ ॥

3.327

श्लोक

शिष्टं तच् चास्त्र-मन्त्रेणादायाम्भो दक्ष-पाणिना । अधः क्षिपेत् पुनश् चैवम् इति वार-चतुष्टयम् ॥ ३२७ ॥

3.328

श्लोक

पुनर् हृदय-मन्त्रेणादायाम्भो दक्ष-पाणिना । नासा-पुटेन वामेनाघ्रायान्येन विसर्जयेत् ॥ ३२८ ॥

3.329

श्लोक

अथाम्भोऽञ्जलिम् आदाय सूर्य-मण्डल-वर्तिने । अर्घ्यं गोपाल-गायत्र्या कृष्णाय त्रिर् निवेदयेत् ॥ ३२९ ॥

3.330

श्लोक

ब्रूयाद् गोपी-जनं ङेऽन्तं विद्महे इत्य् अतः परम् । पुनर् गोपी-जनं तद्वद् धीमहीति ततः परम् । तन् नः कृष्ण इति प्रान्ते प्र-पूर्वं चोदयाद् इति ॥ ३३० ॥

3.331

श्लोक

मूर्ध्नि न्यसेत् तद्-अङ्गानि ललाटे नेत्रयोर् द्वयोः । भुजयोः पादयोश् चैव सर्वाङ्गेषु तथा क्रमात् ॥ ३३१ ॥

3.332

श्लोक

पञ्चभिश् च त्रिभिश् चैव पञ्चभिश् च त्रिभिः पुनः । चतुर्भिश् च चतुर्भिश् च कुर्याद् अङ्गानि वर्णकैः ॥ ३३२ ॥

3.333

श्लोक

रास-क्रीडा-रतं कृष्णं ध्यात्वा चादित्य-मण्डले । तत्-सम्मुखोत्क्षिप्त-भुजो गायत्रीं तां जपेत् क्षणम् ॥ ३३३ ॥

3.334

श्लोक

अङ्ग-न्यासं स्व-मन्त्रेण कृत्वाथाब्जं जलान्तरे । सञ्चिन्त्य पीठ-मन्त्रेण तर्पयेच् च सकृत् सकृत् ॥ ३३४ ॥

3.335

श्लोक

तस्मिंश् च कृष्णम् आवाह्य सकली-कृत्य मानसान् । पञ्चोपचारात् दत्त्वाप्सु धेनु-मुद्रां प्रदर्शयेत् ॥ ३३५ ॥

3.336

श्लोक

तज्-जलं चामृतं ध्यात्वा स्व-मन्त्रेणाभिमन्त्र्य च । अष्टोत्तर-शतं कृष्णोत्तमाङ्गे तर्पयेत् कृती ॥ ३३६ ॥

3.337

श्लोक

ततश् च मूल-मन्त्रेण वारान् वै पञ्च-विंशतिम् । अभिजप्तेनोदकेनाचमनं विधिना चरेत् ॥ ३३७ ॥

3.338

श्लोक

ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतीन् । देवा यक्षास् तथा नागा गन्धर्वाप्सरसां गणाः ॥ ३३८ ॥

3.339

श्लोक

क्रूराः सर्पाः सुपर्णाश् च तरवो जम्भकादयः । विद्याधरा जलधरास् तथैवाकाश-गामिनः ॥ ३३९ ॥

3.340

श्लोक

निराधाराश् च ये जीवा पाप-धर्म-रताश् च ये । तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥ ३४० ॥

3.341

श्लोक

कृतोपवीतो देवेभ्यो निवीती च भवेत् ततः । मनुष्यांस् तर्पयेद् भक्त्या ऋषि-पुत्रान् ऋषींस् तथा ॥ ३४१ ॥

3.342

श्लोक

सनकश् च सनन्दश् च तृतीयश् च सनातनः । कपिलश् चासुरिश् चैव वोढुः पञ्च-शिखस् तथा । सर्वे ते तृप्तिम् आयान्तु मद्-दत्तेनाम्बुना सदा ॥ ३४२ ॥

3.343

श्लोक

मरीचिम् अत्र्य्-अङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च । देव-ब्रह्म-ऋषीन् सर्वांस् तर्पयेत् साक्षतोदकैः ॥ ३४३ ॥

3.344

श्लोक

अपसव्यं ततः कृत्वासव्यं जानु च भूतले । अग्निष्व् आत्तास् तथा सौम्या बहिष्मन्तस् तथोष्मपाः ॥ ३४४ ॥

3.345

श्लोक

कव्यानलौ बर्हिषदस् तथा चैवाज्यपाः पुनः । तर्पयेत् पितृ-भक्त्या च स-तिलोदक-चन्दनैः ॥ ३४५ ॥

3.346

श्लोक

यमाय धर्म-राजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व-भूताक्षयाय च ॥ ३४६ ॥

3.347

श्लोक

औडुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्र-गुप्ताय वै नमः ॥ ३४७ ॥

3.348

श्लोक

दर्भ-पाणिः सुप्रयतः पितॄन् स्वान् तर्पयेत् ततः ॥ ३४८ ॥

3.349

श्लोक

पित्रादीन् नाम-गोत्रेण तथा माता-महान् अपि । सन्तर्प्य विधिना सर्वान् इमं मन्त्रम् उदीरयेत् ॥ ३४९ ॥

3.350

श्लोक

येऽबान्धवा बान्धवा वा येऽन्य-जन्मनि बान्धवाः । ते तृप्तिम् अखिलां यान्तु ये चास्मत्-तोय-काङ्क्षिणः ॥ ३५० ॥

3.351

श्लोक

सन्ध्योपासनतः पूर्वं केचिद् देवादि-तर्पणम् । मन्यन्ते सकृद् एवेदं पुराणोक्तानुसारतः ॥ ३५१ ॥

3.352

श्लोक

एवं स्नात्वा ततः पश्चाद् आचम्य सुविधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै । ततस् तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ॥ ३५२ ॥

3.353

श्लोक

निष्पीडयित्वा वस्त्रं तु पश्चात् सन्ध्यां समाचरेत् । अन्यथा कुरुते यस् तु स्नानं तस्याफलं भवेत् ॥ ३५३ ॥

3.354

श्लोक

वस्त्रं त्रिगुणितं यस् तु निष्पीडयति मूढ-धीः । वृथा स्नानं भवेत् तस्य निष्पीडयति चाम्बुनि ॥ ३५४ ॥

3.355

श्लोक

अपि सर्व-नदी-तोयैर् मृत्-कूटैश् चाथ गो-रसैः । आपातम् आचरेच् छौचं भाव-दुष्टो न शुद्धि-भाक् ॥ ३५५ ॥

3.356

श्लोक

नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किम् उ पावनाः । शतशोऽपि तथा स्नाता न शुद्धा भाव-दूषिताः ॥ ३५६ ॥

3.357

श्लोक

पुण्येन गाङ्गेन जलेन काले देशेऽपि यः स्नान-परोऽपि भूप । आजन्मतो भाव-हतोऽपि दाता न शुद्ध्यतीत्य् एव मतं ममैतत् ॥ ३५७ ॥

3.358

श्लोक

प्रज्वाल्य वह्निं घृत-तैल-सिक्तं प्रदक्षिणावर्त-शिखं स्व-काले । प्रविश्य दग्धः किल भाव-दुष्टो न स्वर्गम् आप्नोति फलं न चान्यत् ॥ ३५८ ॥

3.359

श्लोक

यस्य हस्तौ च पादौ च वाङ् मनश् च सुसंयतम् । विद्या-तपश् च कीर्तिश् च स तीर्थ-फलम् आप्नुयात् ॥ ३५९ ॥

3.360

श्लोक

अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्न-संशयः । हेतु-निष्ठश् च पञ्चैते न तीर्थ-फल-भागिनः ॥ ३६० ॥