Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास २०

प्रासादिकः

20.201

श्लोक

तदा वर्णं परीक्षेत वेदाद्येनाक्षतं क्षिपेत् । शुभं स्याद् दक्षिणावर्तेऽशुभं वामे भवेत् ततः ॥ २०१ ॥

20.202

श्लोक

बीजैः शालियवादीनां तं गर्तं पूरयेद् बुधः । क्षेत्रजाभिः पवित्राभिर् मृद्भिर् गर्तं प्रपूरयेत् ॥ २०२ ॥

20.203

श्लोक

एवं निष्पाद्य विधिना चार्घ्य-दानं सुरोत्तम । सुवर्णं गां वस्त्र-युग्मम् आचार्याय निवेदयेत् ॥ २०३ ॥

20.204

श्लोक

कालज्ञ-स्थ-पती पूज्यौ वैष्णवान् शक्तितोऽर्चयेत् । ब्राह्मणान् भोजयित्वा च गेय-नृत्यादि कारयेत् ॥ २०४ ॥

20.205

श्लोक

ततस् तं खातयेद् यत्नाजलान्तं यावदेव तु ॥ २०५ ॥

20.206

श्लोक

पुरुषाधः-स्थितं शल्यं न गृहे दोष-दं भवेत् । प्रासादे दोष-दं शल्यं भवेद् यावज्-जलान्तिकम् ॥ २०६ ॥

20.207

श्लोक

तस्मात् प्रासादिकी भूमिः शोध्या यावज्-जलान्तिकम् । शिलान्तं कर्करान्तं वा यावद् वा भूः कुमारिका । आकोट्य तां समीकृत्य ततो यागं समापयेत् ॥ २०७ ॥

20.208

श्लोक

पूरयेत् खातकं यत्नात् पादं पादं यथाक्रमम् । अष्टाङ्गुलं मृत्तिकया स्वस्तिकं चेष्टकादिभिः । सिक्त्वा सिक्त्वा तु तोयेन कलसैः काञ्चनादिभिः ॥ २०८ ॥

20.209

श्लोक

आकोटनं ततः कुर्यान् मुद्गरैर् ब्रह्म-वृक्षजैः । पादोनं पूरयेत् खातं सुसमं चैव कारयेत् ॥ २०९ ॥

20.210

श्लोक

देशिकः पञ्च-गव्येन तां भूमिं प्रोक्षयेद् बुध । सु-वर्ण-व्रीहि-गर्भेण चूतपल्लव-शोभिना । तीर्थ-तोयसुपूर्णेन स्वर्णताम्रमयेन वा ॥ २१० ॥

20.211

श्लोक

सेचयेद् अभिजप्तेन वारिणा कलसेन तु । ततः शुद्धा भवेद् भुमिर् दोष-युक्तापि या भवेत् ॥ २११ ॥

20.212

श्लोक

आदावेव समासेन शिला-लक्षणम् उत्तमम् । शिलान्यास-विधानं च प्रोच्यते तद्-अनन्तरम् ॥ २१२ ॥

20.213

श्लोक

शिला वाथेष्टका वापि चतस्रो लक्षणान्विताः । प्रासादादौ विधानेन न्यस्तव्याः सुमनोहराः । चतुरस्राः समाः कृत्वा समन्ताद् अथ वेष्टकाः ॥ २१३ ॥

20.214

श्लोक

शिला-रूपाः स्मृता विद्या नन्दाद्याश् चेष्टकान्विताः । सम्पूर्णाः सुतलाः स्निग्धाः सुषमा लक्षणान्विताः । कुश-दूर्वाङ्किता धन्याः स-ध्वज-च्छत्र-चामराः ॥ २१४ ॥

20.215

श्लोक

साङ्कुशास् तोरणोपेताः कूर्म-मत्स्य-फलान्विताः । दर्पण-हस्ति-वज्राङ्काः प्रशस्त-द्रव्यलाञ्छिताः । शस्त-पक्षि-मृगाङ्काश् च वृषाङ्काः सर्वदा हिताः ॥ २१५ ॥

20.216

श्लोक

स्वस्तिका वेदिकाः शुक्ला नन्द्यावर्तकालाञ्छित्ः । पद्मादि-लक्षणोपेताः शिलाः सर्वार्थ-सिद्धिदाः । तथा गो-वाजि-पादाङ्काः शिला धन्याः सुखावहाः ॥ २१६ ॥

20.217

श्लोक

क्रव्यादमृग-पादाङ्का न शस्ताः पक्षिणस् तथा ॥ २१७ ॥

20.218

श्लोक

दिङ्मूढा दिग्-विहीनाश्च दीर्घ-ह्रस्वाः क्षताविताः । विवर्णाः स्फुटिता भग्नाः सन्त्यज्या लक्षणच्युताः ॥ २१८ ॥

20.219

श्लोक

प्रशस्त-प्राणि-रूपाङ्काः प्रशस्त-द्रव्यलाञ्छिताः । यथोक्त-लक्षणोपेताः शिला नित्यं हितावहाः ॥ २१९ ॥

20.220

श्लोक

इष्टकानां समासेन लक्षणं शृणु साम्प्रतम् ॥ २२० ॥

20.221

श्लोक

एकवर्णाः सुपक्वाश्च सुप्रमाणा मनोरमाः । नन्द्याद्याश् चेष्टकाः कार्याश् चतुरस्राः सु-सम्मिताः ॥ २२१ ॥

20.222

श्लोक

अस्थ्य्-अङ्गारान्विता नेष्टाः कृष्ण-वर्णा स-शर्कराः । मन्दपक्वा विपक्वाश्च बहु-दिन्याश् च वर्जिताः । भग्नाश्च विषमा हीना वर्जनीयाः प्रयत्नतः ॥ २२२ ॥

20.223

श्लोक

इष्टकानां प्रमाणं च लक्षणं साम्प्रतं शृणु । सुतला लक्षणोपेता द्वादशाङ्गुल-सम्मिताः ॥ २२३ ॥

20.224

श्लोक

सुविस्तार-विभागेन नैपुण्येन च सम्मिताः ॥ २२४ ॥

20.225

श्लोक

सुपक्वाः सुप्रमाणाश्च एक-वर्णा मनोहराः । विमला इष्टकाः कार्याश् चतुरस्राः सुसम्मिताः । छिन्न-कर्णाश् चाप्रशस्ताः पाणि-पाद-विवर्जिताः ॥ २२५ ॥

20.226

श्लोक

सशर्कराः कृष्ण-वर्णा अस्थ्य्-अङ्गारचिताश्च याः । विवर्णा मन्द-गन्धाश्च याः पीन-पिण्डिकास् तथा । हीनाश्च विषमा भग्ना जर्जराश्च विवर्जिताः ॥ २२६ ॥

20.227

श्लोक

शिला-न्यासस् तु कर्तव्यः प्रासादे तु शिलामये । इष्टकानां तु विन्यासः प्रासादे चेष्टकामये ॥ २२७ ॥

20.228

श्लोक

शैलजे शैलजः पीठ ऐष्ट के चेष्टकः स्मृतः । शिला-न्यासादिको भद्रे मूल-पादे विधीयते ॥ २२८ ॥

20.229

श्लोक

कर्तव्यश् चेष्टकान्यासः प्रासादे चेष्टकामये । शैले शिलानां विन्यासः कार्करे कर्करं न्यसेत् ॥ २२९ ॥

20.230

श्लोक

कृत्वा शिला-दिन्यासं च प्राक् शिलाभ्यधिवासनम् । इष्टकानां प्रतिष्ठाश्च गर्भाधानं च कारयेत् ॥ २३० ॥

20.231

श्लोक

गुरुवे दक्षिणां दत्त्वा पीठ-बन्धं च साधयेत् । स्वयं श्री-हयशीर्ष्णैव प्रोक्तस् तत्-तद्-विधिः स्फुटम् ॥ २३१ ॥

20.232

श्लोक

पीठ-बन्धं ततः कुर्यान् महाप्रासादमानतः । पीठोत्तमं चोच्छ्रयेण प्रासादस्योर्ध्वमानतः ॥ २३२ ॥

20.233

श्लोक

पाद-हीनं मध्यमं स्यात् कन्यसं चार्ध-मानतः । उत्तमं वासुदेवस्य कुर्यात् पीठं विचक्षणः ॥ २३३ ॥

20.234

श्लोक

एवं वास्तुवलिं कृत्वा भजेत् षोडश-भागिकम् । तस्य मध्ये चतुर्भिस् तु भागैर् गर्भं च कारयेत् ॥ २३४ ॥

20.235

श्लोक

द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायात् प्रमाणतः ॥ २३५ ॥

20.236

श्लोक

शिखरार्द्धस्य चार्धेन विधेया तु प्रदक्षिणा । चतुर्दिक्षु तदा ज्ञेयो निर्गमस् तु तथा बुधैः ॥ २३६ ॥

20.237

श्लोक

गर्भ-सूत्र-द्वयं भागो विस्तारो मण्डपस्य तु । आयतः स्यात् त्रिभिर् भागैर् भद्र-युक्तः सुशोभनः ॥ २३७ ॥

20.238

श्लोक

पञ्च-भागेन संभज्य गर्भमानं विचक्षणः । भागम् एकं गृहीत्वा तु प्राग् ग्रीवं कल्पयेद् बुधः ॥ २३८ ॥

20.239

श्लोक

गर्भ-सूत्र-समो भागाद् अग्रतो मुख-मण्डपः । एतत् सामान्यम् उद्दिष्टं प्रासादस्येह लक्षणम् ॥ २३९ ॥

20.240

श्लोक

मेरु-मन्दर-कैलास-कुम्भसिंहमृगास् तथा । विमान-च्छन्दकस् तद्वच् छ्री-वृक्षोऽथ मृगाधिपः ॥ २४० ॥

20.241

श्लोक

बलभीच्छन्दकस् तद्वद् वर्तुलः सर्व-भद्रकः । गजश्च नन्दनश्चैव नन्दिवर्धन एव च ॥ २४१ ॥

20.242

श्लोक

हंसो वृषः सुपर्णश्च पद्मकोऽथ समुद्गकः । प्रासादा नामतः प्रोक्ता विभागं शृणुत द्विजाः ॥ २४२ ॥

20.243

श्लोक

शत-शृङ्गश् चतुर्द्वारो भूमिका-षोडशोच्छ्रितः । नानाविचित्र-शिखरो मेरु-प्रासाद उच्यते ॥ २४३ ॥

20.244

श्लोक

मन्दरो द्वादश प्रोक्तः कैलासो दश-भूमिकः । विमान-च्छन्दकस् तद्वद् अनेक-शिखराननः ॥ २४४ ॥

20.245

श्लोक

स चाष्ट-भूमिकस् तद्वत् सप्त-भिर् नन्दि-वर्धनः । विंशाण्डक-समायुक्तो नन्दनः समुदाहृतः ॥ २४५ ॥

20.246

श्लोक

षोडशाण्डक-संयुक्तो नानारूप-समन्वितः । अनेक-शिखरस् तद्वत् सर्वतोभद्र उच्यते ॥ २४६ ॥

20.247

श्लोक

चन्द्रशाला-समोपेतो विज्ञेयः पञ्च-भूमिकः । बलभीच्छन्दकस् तद्वच्छुकनासात्रयान्वितः ॥ २४७ ॥

20.248

श्लोक

वृषस्योच्छ्रायतस् तुल्यो वर्तुलश् चास्र-वर्जितः । सिंहः सिंहाकृतिर् ज्ञेयो मृगो मृग-समस् तथा । कुम्भः कुम्भाकृतिस् तद्वद् भूमिकान-बकोच्छ्रयः ॥ २४८ ॥

20.249

श्लोक

अङ्गुलीपुट-संस्थान-पञ्चाण्डक-विभूषितः । षोडशास्रः समन्तात् तु विज्ञेयः स समुद्गकः । पार्श्वयोश् चन्द्र-शालास्य उच्छ्रायो भूमिका-द्वयम् ॥ २४९ ॥

20.250

श्लोक

हंसो हंस-समाकारो नातिदीर्घो न चोच्छ्रितः । षोडशास्रः स विज्ञेयो विचित्र-शिखरः शुभः ॥ २५० ॥

20.251

श्लोक

मृग-राजस्तु विख्यातश् चन्द्र-शाला-विभूषितः । प्राग् ग्रीवेण विशालेन भूमिकासु षड्-उन्नत्तः ॥ २५१ ॥

20.252

श्लोक

अनेक-चन्द्रशालस् तु गज-प्रासाद उच्यते । पर्यस्त-गृहराजो वै गरुडो नाम नामतः ॥ २५२ ॥

20.253

श्लोक

सप्तभूम्य्-उच्छ्रायस् तद्वच् चन्द्रशालात्रयान्वितः । भूमिकाषडशीतिस्तु बाह्यतः सर्वतो भवेत् ॥ २५३ ॥

20.254

श्लोक

तथान्यो गरुडे तद्वद् उच्छ्रायो दश-भूमिकः । पद्मकः षोडशास्रस् तु भूमि-द्वय-समन्वितः । पद्म-तुल्य-प्रमाणेन श्री-वृक्षक इति स्मृतः ॥ २५४ ॥

20.255

श्लोक

पञ्चाण्डकस् त्रिभूमिस् तु गर्भे हस्त-चतुष्टयम् । वृषो भवति नाम्ना यः प्रासादः सार्वकामिकः ॥ २५५ ॥

20.256

श्लोक

सप्ताष्टौ पञ्चधा चैव प्रासादा ये मयोदिताः । सिंहस्य ते समा ज्ञेया ये चान्ये तत्-प्रमाणतः ॥ २५६ ॥

20.257

श्लोक

चन्द्रशालैः समोपेताः सर्वे प्राग् ग्रीव-संयुताः । ऐष्टिका दारवाश्चैव शैला वा स्युः सतोरणाः ॥ २५७ ॥

20.258

श्लोक

मेरुः पञ्चाशद्धस्तः स्यान् मन्दरः पञ्च-हीनकः । चत्वारिंशत् तु कैलासश् चतुस्त्रिंशद् विमानकः ॥ २५८ ॥

20.259

श्लोक

नन्दि-वर्धनकस् तद्वद् द्वात्रिंशत् समुदाहृतः । त्रिंशता नन्दनः प्रोक्तः सर्वतोभद्रकस् तथा । वर्तुलः पद्मकश्चैव विंशद्धस्त उदाहृतः ॥ २५९ ॥

20.260

श्लोक

मृगः सिंहश्च कुम्भश्च बलभीच्छन्दकस् तथा । एते षोडशहस्ताः स्युश् चत्वारो देववल्लभाः ॥ २६० ॥

20.261

श्लोक

श्री-वृक्षौ मृग-राजश्च समुद्गकगजौ तथा । एते द्वादश-हस्ताः स्युर् एतेषां हंसकः समः ॥ २६१ ॥

20.262

श्लोक

गरुडोऽष्टकरो ज्ञेयो वृषा दश उदाहृताः । एवम् एते प्रमाणेन कर्तव्याः शुभ-लक्षणाः ॥ २६२ ॥

20.263

श्लोक

यक्ष-राक्षस-नागानां मातृ-हस्तः प्रशस्यते । तथा मेर्वादयः सप्त ज्येष्ठ-लिङ्गे सुखावहाः ॥ २६३ ॥

20.264

श्लोक

श्री-वृक्षकादयश्चाष्टौ मध्यमस्य उदाहृताः । तथा हंसादयः पञ्च कन्यसे शुभदा मताः ॥ २६४ ॥

20.265

श्लोक

प्रासादं सम्प्रवक्ष्यामि सर्व-साधारणं शृणु ॥ २६५ ॥

20.266

श्लोक

चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा पुनः । मध्ये तस्य चतुर्भिस् तु कुर्याद् द्वार-समन्वितम् । द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥ २६६ ॥

20.267

श्लोक

जङ्घोच्छ्रायं तु कुर्वीत चतुर्भागेन चायतम् । जङ्घयोर् द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद् बुधः ॥ २६७ ॥

20.268

श्लोक

चतुर्भागेन मञ्जर्याः कार्या सम्यक् प्रदक्षिणा । तन्-मानं निर्गमं कार्यम् उभयोः पार्श्वयोः समम् ॥ २६८ ॥

20.269

श्लोक

शिखरेण समं कार्यम् अग्रे जगति विस्तरम् । त्रिगुणेनापि कर्तव्यं यथा शोभानुरूपतः ॥ २६९ ॥

20.270

श्लोक

विस्तारं मण्डपस्याग्रे गर्भ-सूत्र-द्वयेन तु । दैर्घ्यात् पादाधिकं कुर्यान् मध्ये स्तम्भैर् विभूषितम् ॥ २७० ॥

20.271

श्लोक

प्रासाद-गर्भमानं वा कुर्वीत मुख-मण्डपम् । एकाशीतिपदैर् वास्तुम् इष्ट्वा मण्डपम् आरभेत् ॥ २७१ ॥

20.272

श्लोक

शुकाढ्य-द्वारि विन्यासे पदान्तस्थान् यजेत् सुरान् ॥ तथा प्राकार-विन्यासे यजेद् द्वात्रिंशद् अन्तगान् ॥ २७२ ॥

20.273

श्लोक

सर्व-साधारणं चैतत् प्रासादस्य तु लक्षणम् । मानेन प्रतिमा या वा प्रासादम् अपरं शृणु ॥ २७३ ॥

20.274

श्लोक

प्रतिमायाः प्रमाणेन कर्तव्या पिण्डिका शुभा । गर्भस्तु पिण्डिकार्धेन गर्भमानात् तु भित्तयः ॥ २७४ ॥

20.275

श्लोक

भित्तेर् आयाममानेन उच्छ्रायं तु प्रकल्पयेत् । भित्त्य्-उच्छ्रायात् तु द्विगुणं शिखरं कल्पयेद् गुरुः ॥ २७५ ॥

20.276

श्लोक

शिखरस्य तु तूर्येण भ्रमणं परिकल्पयेत् । शिखरस्य चतुर्थेन अग्रतो मुख-मण्डपम् ॥ २७६ ॥

20.277

श्लोक

अष्टकांशेन गर्भस्य रथकानां तु निर्गमः । परिधेर् गुण-भागेन रथकांस् तत्र कल्पयेत् ॥ २७७ ॥

20.278

श्लोक

तत्-तृतीयेन वा कुर्याद् रथकानां तु निर्गमम् । राम-त्रयं स्थापनीयं रथक-त्रितये सदा ॥ २७८ ॥

20.279

श्लोक

शिखरार्थं च सूत्राणि रत्नानि विनिपातयेत् । शिखरस्यार्ध-भाग-स्थं सिंहं तत्र च कारयेत् ॥ २७९ ॥

20.280

श्लोक

शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् । अपरे च तथा पार्श्वे तत्-तत् सूत्रं विधारयेत् ॥ २८० ॥

20.281

श्लोक

तद्-ऊर्ध्वं तु भवेद् अंशः कण्ठः श्यामल-सारवान् । स्कन्ध-भुग्नं तु कर्तव्यं विकरालं तथैव च । उद्धतं वेदिकामानात् कलसं परिकल्पयेत् ॥ २८१ ॥

20.282

श्लोक

गरुत्मन्तं तथा कुर्याद् उपरिष्टाच् चतुर्गुणम् । कुर्याद् दिक्-प्रतिमायामान् दिक्षु चाटसु चोपरि ॥ २८२ ॥

20.283

श्लोक

महावराहम् ऐन्द्र्यां तु नरसिंहं तु दक्षिणे । प्रतीच्यां श्री-धरं देवम् उदीच्यां हयशीर्षकम् ॥ २८३ ॥

20.284

श्लोक

आग्नेय्यां जामदग्न्यं च नैरृते रामम् एव च । वामनं चैव वायव्यां वासुदेव-मथापरे ॥ २८४ ॥

20.285

श्लोक

पूर्व-भूमौ तु शयनं द्वितीये चासनं भवेत् । स्थानमेव तृतीये तु चतुर्थे यानमेव च ॥ २८५ ॥

20.286

श्लोक

पञ्चमे योग-निद्रा च षष्ठे योगासनं भवेत् । स्थानं योग-समायुक्तं सप्तमे परिकल्पयेत् ॥ २८६ ॥

20.287

श्लोक

नानागवाक्षकैर् यत्नात् पत्र-वल्ल्यादि-भूषितम् । नानाप्रकार-पुष्पाद्यैर् यथा शोभं प्रकल्पयेत् ॥ २८७ ॥

20.288

श्लोक

कनिष्ठ-मध्य-ज्येष्ठानां प्रासादानां यथा क्रमम् । वसुभार्गव-ऋत्विग्भिः प्रदेयाचरणा बुधैः ॥ २८८ ॥

20.289

श्लोक

द्वारस्य चाष्टमे युक्ते नवमे दशमे तथा । ललाटवेधो नैवं स्याद् आयामं शृणु साम्प्रतम् ॥ २८९ ॥

20.290

श्लोक

यावद्धस्तैर् अभिप्रेतः प्रासादः कर्तृणानघ । तावद्भिर् अङ्गुलैर् आपो वसुभागेन वा भवेत् ॥ २९० ॥

20.291

श्लोक

एक-स्तम्भो ध्वजो ज्ञेयो द्वि-स्तम्भा वेदिका मता । दश-भूम्य्-अन्तरे नित्यं चतुःस्तम्भं प्रकल्पयेत् ॥ २९१ ॥

20.292

श्लोक

अथातः सम्प्रवक्ष्यामि मण्डपानां तु लक्षणम् । मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ॥ २९२ ॥

20.293

श्लोक

विविधा मण्डपाः कार्या ज्येष्ठ-मध्य-कनीयसः । नामतस्तान् प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ॥ २९३ ॥

20.294

श्लोक

पुष्पकः पुष्प-भद्रश्च सुवृत्तौऽमृत-नन्दनः । कौशल्यो बुद्धि-सङ्कीर्णो राजभद्रो जयावहः ॥ २९४ ॥

20.295

श्लोक

श्री-वृक्षो विजयश् चैव वास्तु-कीर्णः श्रुतिन्धरः । यज्ञ-भद्रो विशालश्च संम्लिष्टः शक्रु-मर्दनः ॥ २९५ ॥

20.296

श्लोक

भाग-पञ्चो नन्दनश्च मानवो मान-भद्रकः । सुग्रीवो हर्षणश् चैव कर्णिकारः पदार्धकः ॥ २९६ ॥

20.297

श्लोक

सिंहश्च श्याम-भद्रश्च सुभद्रश्च तथैव च । सप्त-विंशतिर् विख्याता लक्षणं शृणुत द्विजाः ॥ २९७ ॥

20.298

श्लोक

स्तम्भा यत्र चतुःषष्टिः पुष्पकः स उदाहृतः । द्वाषष्टिः पुष्प-भद्रस् तु षष्टिः सुवृत्त उच्यते ॥ २९८ ॥

20.299

श्लोक

अष्ट-पञ्चाशकः स्तम्भः कथ्यतेऽमृत-नन्दनः । कौशल्यः षट् च पञ्चाशच्-चतुःपञ्चाशता पुनः । नाम्ना तु बुद्धि-सङ्कीर्णो द्विहीनो राज-भद्रकः ॥ २९९ ॥

20.300

श्लोक

जयावहस् तु पञ्चाशत् श्री-वृक्षस् तु द्विहीनकः । विजयस् तु द्विहीनः स्याद् वास्तु-सङ्कीर्णकस् तथा । द्वाभ्याम् एव प्रहीयेत ततः श्रुतिन्धरः परः ॥ ३०० ॥