Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास २०

प्रासादिकः

20.101

श्लोक

एते वंशाः समाख्याताः क्वचिद् ऋजव एव तु ॥ १०१ ॥

20.102

श्लोक

एतेषां यस् तु सम्पातः पद-मध्यं समं तथा । मर्म चैतत् समाख्यातं त्रिशूलं कोणगञ्च यत् ॥ १०२ ॥

20.103

श्लोक

स्तम्ब-न्यासेषु वर्ज्यानि तुला वेधेषु सर्वदा । कीलोत्सृष्टोपघातादि वर्जयेद् यत्नतो नरः । सर्वत्र वास्तु-निर्दिष्टः पितृ-वंशोत्तरायतः ॥ १०३ ॥

20.104

श्लोक

मूर्धन्यग्निः समाविष्टो मुखे चापः समास्थितः । पृथ्वी-धरोऽर्यमा चैव स्तनयोस् ताव् अधिष्ठितौ ॥ १०४ ॥

20.105

श्लोक

वक्षःस्थले चापवत्सः पूजनीयः सदा बुधैः । नेत्रयोर् दिति-पर्जन्यौ श्रोत्रेऽदिति-जयन्तकौ ॥ १०५ ॥

20.106

श्लोक

सर्पेन्द्रावंश-संस्थौ तु पूजनीयौ प्रयत्नतः । सूर्य-सोमादयस् तद्वद् बाह्वोः पञ्च च पञ्च च ॥ १०६ ॥

20.107

श्लोक

रुद्रश्च राज-यक्ष्मा च वाम-हस्तं समाश्रितौ । सावित्रः सविता तद्वद् धस्तं दक्षिणम् आश्रितौ ॥ १०७ ॥

20.108

श्लोक

विवस्वान् अथ मित्रश्च जठरे संव्य-वस्थितौ । पूषा च पाप-यक्ष्मा च हस्तयोर् मणिबन्धने ॥ १०८ ॥

20.109

श्लोक

तथैवासुर-शोषौ च वामं पार्श्वं समाश्रितौ । पार्श्वे तु दक्षिणे तद्वद् वितथः सगृह-क्षतः ॥ १०९ ॥

20.110

श्लोक

ऊवोर् यमाम् बुपौ ज्ञेयौ जान्वोर् गन्धर्व-पुष्पकौ । जङ्घयोर् भृङ्ग-सुग्रीवौ स्फिक्-स्थौ दौवारिको मृगः ॥ ११० ॥

20.111

श्लोक

जयः शक्रस् तथा मेढ्रे पादयोः पितरस् तथा । मध्ये नव-पदो ब्रह्मा हृदये तु स पूज्यते ॥ १११ ॥

20.112

श्लोक

चतुः-षष्टि-पदो वास्तुः प्रासादे ब्रह्मणः स्मृतः । ब्रह्मा चतुष्-पदस् तद्वत् कोणेष्व् एकपदास् तथा ॥ ११२ ॥

20.113

श्लोक

बहिष्कोणेषु चाष्टौ तु सार्धाश् चोभयतः स्मृताः । विंशति-द्विपदास् तेषां चतुःषष्टि-पदे स्मृताः ॥ ११३ ॥

20.114

श्लोक

वास्त्वङ्गं सूत्रयेत् प्राज्ञः श्वेताम्बर-धरः शुचिः । श्वेत-गन्धानुलिप्ताङ्गः सर्वालङ्कार-भूषितः । चतुःषष्टिं तु प्रासादे एकाशीतिं गृहे सदा ॥ ११४ ॥

20.115

श्लोक

चतुरस्रीकृते क्षेत्रे ह्य् अष्टधोभय-भाजिते । कोण-रेखां ततो दत्त्वा सुरभागांस् तु कल्पयेत् ॥ ११५ ॥

20.116

श्लोक

शिरः कोणार्धतो ज्ञेयः पर्जन्यः पद-संस्थितः । द्विपद-स्थो जयो ज्ञेयः सुरेशश् चैकपादिकः ॥ ११६ ॥

20.117

श्लोक

भास्करस् तु पदे ज्ञेयो द्विपदः सत्य इष्यते । भृशः पदस्थो विज्ञेयो व्योम चैव पदार्धगः ॥ ११७ ॥

20.118

श्लोक

हुताशनः पदार्धश् च पूषा च पद-संस्थितः । वितथो द्विपदश् चैव पदैकश्च गृहक्षतः ॥ ११८ ॥

20.119

श्लोक

वैवस्वतः पदैकस्थो गन्धर्वो द्विपद-स्थितः । भृङ्गश् चैकपदो ज्ञेयो मृगश् चार्धपदे स्थितः ॥ ११९ ॥

20.120

श्लोक

पितरश् चार्धतो ज्ञेयाः पदे दौवारिकस् तथा । सुग्रीवश्च पदौ ज्ञेयौ ह्य् एकस्थः पुष्प-दन्तकः ॥ १२० ॥

20.121

श्लोक

यादसां पतिर् एकस्थो ह्य् असुरस् तु द्विसंस्थितः । शोषश् चैकपदे ज्ञेयो ह्य् अर्धगः पाप इष्यते ॥ १२१ ॥

20.122

श्लोक

रोगश् चार्धपदे ज्ञेयो नागश्चापि पदे स्थितः । मुख्यश्च द्विपदे ज्ञेयो भल्लाटः पद-संस्थितः ॥ १२२ ॥

20.123

श्लोक

यज्ञेश्वरः पदे ज्ञेयो नागराड् द्विपदे स्थितः । पदस्था श्री-महादेवी अदितिश् चार्ध-संस्थिता ॥ १२३ ॥

20.124

श्लोक

आपो ज्ञेयास् तु पदगापवली द्विपदा-स्थिता । चतुष्पदस्थो विज्ञेयस् त्व् अर्यमा पूर्वमध्य-गः ॥ १२४ ॥

20.125

श्लोक

सविता तु पदे ज्ञेयः सावित्री च पदे स्थिता । ततो विवस्वान विज्ञेयश् चतुष्टय-पदे स्थितः ॥ १२५ ॥

20.126

श्लोक

इन्द्रश् चन्द्रो जयश् चैव एकैके संव्यव-स्थितौ । मित्रश् चतुष्पद-स्थश् च पश्चिमे तु व्यवस्थितः ॥ १२६ ॥

20.127

श्लोक

रुद्रः पदैकसंस्थो वै यक्ष्मा चैकपदे स्थितः । धराधरश्च विज्ञेयो ह्य् उत्तरे च चतुष्पदः । चतुर्मुखश् चतुष्कस्थो मध्ये ज्ञेयः प्रजापतिः ॥ १२७ ॥

20.128

श्लोक

अथातः सम्प्रवक्ष्यामि प्रासाद-विधि-निर्णयम् । वास्तौ परीक्षिते सम्यक् वास्तु-देह-विचक्षणाः । वास्तूपशमनं कुर्यात् पूर्वमेव विचक्षणः ॥ १२८ ॥

20.129

श्लोक

एकाशीतिपदं लिख्य वास्तु-मध्ये तु पिष्टकैः । होमस् त्रिमेखले कार्यः कुण्डे हस्त-प्रमाणके ॥ १२९ ॥

20.130

श्लोक

यवैः कृष्ण-तिलस् तद्वत् समिद्भिः क्षीर-वृक्षजैः । पालाशैः खादिरैर्वापामार्गोडुम्बर-सम्भवैः ॥ १३० ॥

20.131

श्लोक

कुश-दूर्वामयैश् चापि मधु-सर्पिःसमन्वितैः । कार्यस् तु पञ्चभिर् बिल्वैर् बिल्व-बीजैर् अथापि वा । होमान्ते भक्ष्यभोज्यैश् च वास्तु-देवे बलिं हरेत् ॥ १३१ ॥

20.132

श्लोक

तद्वद् विशेष-नैवेद्यम् इदं दद्यात् क्रमेण तु ॥ १३२ ॥

20.133

श्लोक

ईशकोणे घृतान्नं तु शिखिने विनिवेदयेत् । ओदनं सोत्पलं दद्यात् पर्जन्याय घृतान्वितम् ॥ १३३ ॥

20.134

श्लोक

जयन्ताय ध्वजं पीतं पैष्टं कूर्मं च सन्त्यजेत् । इन्द्राय पञ्च-रत्नानि पैष्टं च कुलिशं तथा ॥ १३४ ॥

20.135

श्लोक

वितानकञ्च सूर्याय धूम्र-रक्तं तथैव च । सत्याय घृत-गोधूमं मत्स्यान् दद्याद् भृशाय च ॥ १३५ ॥

20.136

श्लोक

शष्कुलीञ्चान्तरीक्षाय दद्याच्छक्तूंश्च वायवे । पूष्णे लाजास् तु दातव्या वितथे चणकौदनम् ॥ १३६ ॥

20.137

श्लोक

गृहक्षताय मध्वन्नं यमाय पिशितौदनम् । गन्धौदनञ्च गन्धर्वे भृङ्ग मेषस्य शृङ्गकम् ॥ १३७ ॥

20.138

श्लोक

मृगाय यावकं देयं पितृभ्यः कृशरा मता । दौवारिके दन्तकाष्ठं पैष्टं कृष्णं बलिं तथा ॥ १३८ ॥

20.139

श्लोक

सुग्रीवे पूपकं दद्यात् पुष्प-दन्ताय पायसम् । कुशस्तम् वेन सहितं दद्यात् पद्मश्च वारुणे ॥ १३९ ॥

20.140

श्लोक

पैष्टं हिरण्मयं दद्याद् असुराय सुरा मता । घृतौदनं च शोषाय गोधां वै पाप-यक्ष्मणे ॥ १४० ॥

20.141

श्लोक

घृत-लड्डूंश् च रोगाय नागे पुष्प-फलान्वितम् । सर्पिर् मुख्याय दातव्यं मुद्गौदन-मतः परम् ॥ १४१ ॥

20.142

श्लोक

भल्लाटाय ततो दद्यात् सोमाय घृतपायसम् । सर्पाय पैष्टं शालूकम् अदित्यै लोचिकास् तथा । दित्यै तु पूरिकां दद्याद् इत्य् एवं बाह्यतो बलिः ॥ १४२ ॥

20.143

श्लोक

क्षीरमापाय दातव्यम् आपवत्साय वै दधि । सावित्रे लड्डुकान् दद्यात् समरीचान् कुशौदनम् ॥ १४३ ॥

20.144

श्लोक

सवितुर् गुड-पूपांश्च जयाय धृत-चन्दनम् । विवस्वते तथा दद्याद् रक्त-चन्दन-पायसम् ॥ १४४ ॥

20.145

श्लोक

हरितालौदनं दद्याद् इन्द्राय घृत-संयुतम् । घृतौदनं च मित्राय रुद्राय घृत-पायसम् ॥ १४५ ॥

20.146

श्लोक

आमं पक्वं तथा मांसं देयं स्याद् राज-यक्ष्मणे । पृथ्वी-धराय मांसानि कुष्माण्डाय च दापयेत् ॥ १४६ ॥

20.147

श्लोक

शकारा-पायसं दद्याद् अर्य̍म्ने सर्वशः क्रमात् । नमस्कारान्त-युक्तेन पायसं पुनर् एव च ॥ १४७ ॥

20.148

श्लोक

पञ्च-गव्यं यवांश्चैव तिलाक्षत-हविश्चरून् । भक्ष्यं भोज्यं च विविधं ब्रह्मणे विनिवेदयेत् ॥ १४८ ॥

20.149

श्लोक

एवं सम्पूजिता देवाः शान्ति कुर्वन्ति ते सदा । सर्वेभ्यः काञ्चनं दद्यात् ब्रह्मणे गां पयस्विनीम् ॥ १४९ ॥

20.150

श्लोक

राक्षसीनां बलिर् यो अपि यादृक् तथा शृणु ॥ १५० ॥

20.151

श्लोक

मांसौदनं घृतं पद्म-केशरं हविषान्वितम् । ईशान-भागम् आश्रित्य चरक्यै विनिवेदयेत् ॥ १५१ ॥

20.152

श्लोक

मांसौदनं सरुधिरं हरिद्रौदनम् एव च । आग्नेयीं दिशम् आश्रित्य विदार्यै विनिवेदयेत् ॥ १५२ ॥

20.153

श्लोक

दध्योदनं सरुधिरम् अस्थि-खण्डेश्च संयुतम् । पीत-रक्त-बलिं दद्यात् पूतना या तु राक्षसी । वायव्ये पाप-राक्षस्यै मत्स्य-मांस-सुरासवम् ॥ १५३ ॥

20.154

श्लोक

पायसं वापि दातव्यं स्वनाम्ना सर्वतः क्रमात् । नमस्कारान्त-युक्तेन प्रणवाद्येन सर्वतः ॥ १५४ ॥

20.155

श्लोक

ततः सर्वौषधिस्नानं यजमानस्य कारयेत् । द्विजांस् तु पूजयेद् भक्तया ये चान्ये गृहम् आगताः ॥ १५५ ॥

20.156

श्लोक

एतद् वास्तूपशमनं कृत्वा कर्म समारभेत् ॥ १५६ ॥

20.157

श्लोक

प्रासाद-भवनोद्यान-प्रारम्भे परिवर्तने । परवेश्म-प्रवेशेषु सर्व-दोषापनुत्तये ॥ १५७ ॥

20.158

श्लोक

रक्षोघ्न-पवमानेन सूक्तेन भवनादिकम् । नृत्य-मङ्गल-वाद्येन कुर्याद् ब्राह्मण-वाचनम् ॥ १५८ ॥

20.159

श्लोक

अनेन विधिना यस् तु प्रतिसंवत्सरं बुधः । गृहे वायतने कुर्यान् न स दुःखम् अवाप्नुयात् ॥ १५९ ॥

20.160

श्लोक

न च व्याधिभयं तस्य न च बन्धु-धन-क्षयः । जीवेद् वर्ष-शतं स्वर्गे कल्पम् एकं वसेन् नरः ॥ १६० ॥

20.161

श्लोक

एवं प्रगृह्य कोष्ठानि रजसापूर्य देशिकः । एतेषाम् एव देवानां बलिं दद्यात् तु कामिकः ॥ १६१ ॥

20.162

श्लोक

ईशानाय प्रदातव्यं पायसं मधुना सह । पर्जन्याय जलं देयं पुष्प-गन्धाधिवासितम् ॥ १६२ ॥

20.163

श्लोक

जयन्ताय प्रदातव्या पताका पीतवार्णका । सुरेश्वराय रत्नानि भास्कराय घृतं तथा ॥ १६३ ॥

20.164

श्लोक

धूम्रकं पीत-वर्णं वा सत्ये दद्याद् वितानकम् । दद्यान् मांसं भृशेऽपूपं व्योमाय श्रुवम् अग्नये ॥ १६४ ॥

20.165

श्लोक

पूष्णे धानाः सलाजास् तु सुवर्णं वितथे तथा । गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ॥ १६५ ॥

20.166

श्लोक

गन्धं गन्धर्व-देवाय भृङ्गे दद्यात् तु शाकुनम् । मृगे तिल-यवांश्चैव पितृभ्यः कृशरं तथा ॥ १६६ ॥

20.167

श्लोक

दौवारिके दन्तकाष्ठं सुग्रीवे यावकं तथा । पुष्प-दन्ते कुशा देया वरुणे पद्मम् उत्पलम् ॥ १६७ ॥

20.168

श्लोक

असुरायैक्षवं देयं रसं शोषे घृतौदनम् । यवास् तु देयाः पापाय रोगाय घृत-मण्डकम् ॥ १६८ ॥

20.169

श्लोक

नागाय नाग-पुष्पाणि भक्ष्यान् मुख्याय दापयेत् । चित्रौदनं च भल्लाटे सोमाय मधु-पायसम् ॥ १६९ ॥

20.170

श्लोक

सर्पाय चापि शालूकं श्रिये सरस-पायसम् । अदित्यै पूरिका देया क्षीराञ्चाद्भ्यो ददेद् बलिम् ॥ १७० ॥

20.171

श्लोक

दधि क्षीरं चापबल्यै अर्यम्ने लड्डुकं बलिम् । कुशोदकं सवित्रे च सावित्रे गुडपूपकम् ॥ १७१ ॥

20.172

श्लोक

विवस्वते रक्त-पुष्पं रक्त-चन्दनम् एव च । हरिद्रान्नं तथेन्द्राय साज्यम् इन्द्र-जयाय च ॥ १७२ ॥

20.173

श्लोक

घृत-पूरं तु मित्राय रुद्राय गुड-पायसम् । आम-पक्वानि मांसानि प्रदद्याद् राज-यक्ष्मणे ॥ १७३ ॥

20.174

श्लोक

पृथ्वी-धरायाम-मांसं खड्गी-मांसं बलिं हरेत् । साक्षतं सतिलं चैव पञ्च-गव्यं तथा चरुम् । कुशान् गन्धं तथा पुष्पं ब्रह्म-स्थाने निवेशयेत् ॥ १७४ ॥

20.175

श्लोक

आम-मांसं पूर्व-भागे सर्व-स्कन्दे तु मोदकम् । सित-पद्मं घृतं मांसं विदार्यै चाग्निकोणके ॥ १७५ ॥

20.176

श्लोक

कृशरापूपकं मांसमर्य̍म्नायै च दक्षिणे । पिण्डञ्चैव तथा रक्तं पूतन्यै नैरृते तथा ॥ १७६ ॥

20.177

श्लोक

सासृङ्-मांसं प्रदातव्यं जम्भकायै च पश्चिमे । अस्थि-खण्डैश्च सहितं रक्त-पिण्डेन मिश्रितम् ॥ १७७ ॥

20.178

श्लोक

प्रदेयं पाप-राक्षस्यै वायव्यां मांसम् एव च । उत्तरे पिलि-पिच्छायै सान्द्रं रक्तं बलिं हरेत् । वाराह्यै छाग-मांसानि ऐशान्यां दिशि दापयेत् ॥ १७८ ॥

20.179

श्लोक

ततो भूत-गणानां तु राक्षसानां सुरोत्तम । पिशाचानां गणानां तु बलिर् देयस् तु कामिकः । एतान् वा पूजयेत् सर्वान् कुश-पुष्पाक्षतैर् बुधः ॥ १७९ ॥

20.180

श्लोक

एवं सम्पूजिता देवाः शान्ति-पुष्टि-प्रदा नृणाम् । अपूजिता विहिंसन्ति कारकं स्थापकं तथा ॥ १८० ॥

20.181

श्लोक

तस्माद् एतांस् तु सम्पूज्य गन्ध-पुष्पैर् मनोहरैः । प्रासादं कारयेद् विद्वान् गृहं वा सुरसत्तम ॥ १८१ ॥

20.182

श्लोक

ब्रह्म-स्थाने ततः कुर्याद् वासुदेवस्य पूजनम् । श्रियः सम्पूजनं कुर्यात् हृषीकेश-गणस्य च ॥ १८२ ॥

20.183

श्लोक

पूजनं तु ततः कुर्याद् वासुदेव-गणस्य च । गन्धार्घ्या-पुष्प-नैवेद्य-धूप-दीपैः सुरोत्तम ॥ १८३ ॥

20.184

श्लोक

ततः सम्पूजयेत् तस्मिन् सर्व-लोक-धरां महीम् । सुरूपां प्रमदारूपां दिव्याभरण-भूषिताम् ॥ १८४ ॥

20.185

श्लोक

ध्यात्वा समर्चयेद् देवीं परितुष्टां स्मिताननाम् । ततः प्रणम्य विज्ञाप्य तन्-मयत्वेन चिन्तयेत् ॥ १८५ ॥

20.186

श्लोक

ततः स्व-नाम-मन्त्रेण सर्वामरमयं परम् । ध्यात्वा समर्चयेत् तत्र यत् तद् वास्तुमयं नरः ॥ १८६ ॥

20.187

श्लोक

ब्रह्म-स्थाने ततो विद्वान् कुर्याद् आधारम् अक्षतैः । तस्मिन् संस्थापयेत् कुम्भं वर्धन्या सह पूजितम् ॥ १८७ ॥

20.188

श्लोक

हैमं वा राजतं वापि मृन्-मयं वा दृढं नवम् । सर्व-बीजौषधी-युक्तं सुवर्ण-रजतान्वितम् ॥ १८८ ॥

20.189

श्लोक

रत्न-गर्भं सुसम्पूर्णं वस्त्र-पूतेन वारिणा । प्रशस्त-पल्लवोपेतं श्वेत-चन्दन-चर्चितम् ॥ १८९ ॥

20.190

श्लोक

पुष्पैः सुमानितं कृत्वा गन्ध-पुष्पैर् विधूपितम् । आहतेन तु शुक्लेन वस्त्र-युग्मेन वेष्टितम् ॥ १९० ॥

20.191

श्लोक

ब्रह्म-स्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् । तस्मिंश् चतुर्मुखं देवं प्रजेशं मन्त्र-विग्रहम् । गन्ध-पुष्पैश्च धूपैश्च नैवेद्यैः सुमनोहरैः ॥ १९१ ॥

20.192

श्लोक

ततो मण्डल-बाह्ये तु प्राच्यां वा प्राङ्-मुखः स्थितः । आचार्यो गृह्य सम्भारान् ग्रहादींस् तर्पयेत् सुरान् ॥ १९२ ॥

20.193

श्लोक

घृतैस् तिलैर् यवैर् मन्त्री ब्रह्मादीस् तर्पयेत् ततः । प्रजेशं तर्पयेद् विद्वान् आहुतीनां शतेन च ॥ १९३ ॥

20.194

श्लोक

इतरान् दशभिर् देवान् आहुतिभिः प्रतर्पयेत् । दद्यात् पूर्णाहुतिं पश्चाद् वौषडतेन मन्त्र-वित् ॥ १९४ ॥

20.195

श्लोक

ततः प्रणम्य विज्ञाप्य कृत्वा वै स्वस्ति-वाचनम् । प्रगृह्य कर्करीं सम्यग् मण्डलं तु प्रदक्षिणम् । सूत्र-मार्गेण दिव्येन तोयधारां तु भ्रामयेत् ॥ १९५ ॥

20.196

श्लोक

पूर्ववत् तेन मार्गेण सप्त-बीजानि भ्रामयेत् । सुशोभनं शुभं स्थानं तथा खातस्य कारयेत् ॥ १९६ ॥

20.197

श्लोक

ततो गर्तं खनेन् मध्ये हस्त-मात्र-प्रमाणतः । चतुरङ्गुल-मात्रं तद्-अधः खन्यात् सु-सम्मितम् । गोमयेनोपलिप्याथ चन्दनेन विभूषयेत् ॥ १९७ ॥

20.198

श्लोक

मध्ये दत्त्वा तु पुष्पाणि शुक्लान्य् अक्षतमेव च । आचार्यः प्राङ्-मुखो भूत्वा ध्यायेद् देवं चतुर्भुजम् ॥ १९८ ॥

20.199

श्लोक

तूर्य-मङ्गल-घोषेण ब्रह्म-घोष-रवेण वा । अर्घ्यं दद्यात् सुर-श्रेष्ठ कुम्भ-तोयेन मन्त्र-वित् ॥ १९९ ॥

20.200

श्लोक

प्रगृह्य कर्करीं तावत् तच्छ्वभ्रं पूरयेज् जलैः । सर्व-रत्न-समाकीर्णैर् विमलैः ससुगन्धिभिः । तस्मिन् शुक्लानि पुष्पाणि प्रक्षिपेदोमिति स्मरन् ॥ २०० ॥