Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास २०

प्रासादिकः

20.301

श्लोक

चत्वारिंशद् यज्ञ-भद्रो द्विहीनोऽथ विशालकः । षट्-त्रिंशच्चैव संम्लिष्टो द्विहीनः शक्रु-मर्दनः ॥ ३०१ ॥

20.302

श्लोक

द्वात्रिंशद्-भाग-पञ्चस् तु त्रिंशता नन्दनः स्मृतः । अष्टाविंशो मानवस्तु मानभद्रो द्विहीनकः ॥ ३०२ ॥

20.303

श्लोक

चतुर्विंशस्तु सुग्रीवो द्वाविंशद्धर्षणो मतः । विंशतिः कर्णिकारः स्याद् अष्टादश-पदार्धकः ॥ ३०३ ॥

20.304

श्लोक

सिंहो भवेद् द्विहीनश्च श्याम-भद्रो द्विहीनकः । सुभद्रस् तु तथा प्रोक्तो द्वादश-स्तम्भ-संयुतः । मण्डपाः कथिता ह्य् एते यथावल्-लक्षणान्विताः ॥ ३०४ ॥

20.305

श्लोक

त्रिकोणं वृत्त-मध्यस्थम् अष्टकोणं द्विरष्टकम् । चतुष्कोणं च कर्तव्यं संस्थानं मण्डपस्य तु ॥ ३०५ ॥

20.306

श्लोक

राज्यञ्च विजयश्चैव आयुर्वर्धनमेव च । पुत्र-लाभः श्रियः पुष्टिस्त्र्यस्रादिषु भवेत् क्रमात् । एवं तु शुभदाः प्रोक्ता अन्यथा तु भयावहाः ॥ ३०६ ॥

20.307

श्लोक

ग्राम-मध्ये च पूर्वे च प्रत्यग् द्वारं प्रकल्पयेत् । विदिशासु च सर्वासु तथा प्रत्यङ्मुखं भवेत् । दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखं भवेत् ॥ ३०७ ॥

20.308

श्लोक

विस्ताराद् द्विगुणं द्वारं कर्तव्यं तु सुशोभनम् । जातरूपं सरजतं तद्वद् औडम्बरैर् वृतम् ॥ ३०८ ॥

20.309

श्लोक

उडुम्बरोर्ध्वतः स्वर्णं द्वादशाख्यं न्यसेद् बुधः । तूर्य-मङ्गल-घोषेण ब्राह्मणान् स्वस्ति वाच्य च ॥ ३०९ ॥

20.310

श्लोक

द्वारस्य तु चतुर्थांशे कार्यौ चण्ड-प्रचण्डकौ । दण्ड-हस्तौ च कर्तव्यो विष्वक्सेनोपमाव् उभौ ॥ ३१० ॥

20.311

श्लोक

शाखोर्ध्वं न्यस्य रत्नानि न्यसेद् ऊर्ध्वम् उडम्बरम् । तस्य मध्ये स्थिता देवी साक्षाल् लक्ष्मीः सुरेश्वरी ॥ ३११ ॥

20.312

श्लोक

कर्तव्या दिग्-गजैः सा तु स्नाप्यमाना घटेन तु । शाखोडुम्बरको कार्यौ पत्र-वल्ल्यादि-भूषितौ ॥ ३१२ ॥

20.313

श्लोक

एकशाखं त्रिशाखं वा षट्-शाखं द्वारम् इष्यते । नव-शाखं च कुर्वीत अत्र ऊर्ध्वं न कारयेत् । विष्ण्व्-अवतार-रूपाद्यैः शाखां यत्नाद् विभूषयेत् ॥ ३१३ ॥

20.314

श्लोक

चतुःषष्टि-पदं कृत्वा मध्ये द्वार प्रकल्पयेत् ॥ ३१४ ॥

20.315

श्लोक

विस्ताराद् द्विगुणोच्छ्रायस् तन्त्रिभागा कटिर् भवेत् । विस्तारार्धाद् भवेद् गर्भो भित्तयोऽन्याः समन्ततः ॥ ३१५ ॥

20.316

श्लोक

गर्भपादेन विस्तीर्णं द्वारं द्विगुणमायतम् । उच्छ्रायात् पादविस्तीर्णा शाखा तद्वद् उडुम्बरः ॥ ३१६ ॥

20.317

श्लोक

विस्तार-पाद-प्रतिमं बाहुल्यं शाखयोः स्मृतम् । त्रि-पञ्च-सप्त-नवभिः शाखाभिर् द्वारम् इष्यते ॥ ३१७ ॥

20.318

श्लोक

कनिष्ठं मध्यमं ज्येष्ठं यथायोगं प्रकल्पयेत् ॥ ३१८ ॥

20.319

श्लोक

अङ्गुलीनां शतं सार्धं चत्वारिंशद्भिर् उत्तमम् । धन्यम् उत्तमम् आयुष्यं धन-धान्यदम् एव च ॥ ३१९ ॥

20.320

श्लोक

शतं चाशीति-सहितं वात-निर्गमनं भवेत् । अधिकं दशभिस् तद्वन् मध्यं षोडशभिः शतम् । विज्ञेयं वै तृतीयं तु भवत्यशीतिभिस् तथा ॥ ३२० ॥

20.321

श्लोक

शुभ-द्वाराणि चैतानि कमेणोक्तानि सर्वदा । अन्यानि वर्जनीयानि मानसोद्वेगदानि तु ॥ ३२१ ॥

20.322

श्लोक

द्वारवेधं तु यत्नेन सर्ववास्तषु वर्जयेत् ॥ ३२२ ॥

20.323

श्लोक

वृक्षकोणाच्च भूहारात् स्तम्भ-कूप-ध्वजाद् अपि । कुल्याश्वभ्रेण वा विद्धं न द्वारं शुभदं भवेत् ॥ ३२३ ॥

20.324

श्लोक

क्षयश्च दुर्गतिश्चैव प्रवासः क्षुद्भयं तथा । दौभाग्यं बन्धनं रोगो दारिद्रयं कलहं तथा । विरोधश् चार्थनाशश् च सर्व-वेधे भवेत् क्रमात् ॥ ३२४ ॥

20.325

श्लोक

प्रासादस्य चतुर्भागः प्राकारस्योच्छ्रयो भवेत् । पञ्च-हस्तस्य देवस्य एक-हस्ता तु पीटिका ॥ ३२५ ॥

20.326

श्लोक

तस्मात् तु द्विगुणः प्रोक्तस् तथा गरुड-मण्डपः । एक-हस्तादि कुर्वीत त्रिंशद्धस्तान्तमेव च ॥ ३२६ ॥

20.327

श्लोक

पूर्वेण फलिनो वृक्षाः क्षीर-वृक्षास् तु दक्षिणे । पश्चिमेन जलं श्रेष्ठं पद्मोत्पल-विभूषितम् । उत्तरेण नलैस् तालैः शुभा स्यात् पुष्प-वटिका ॥ ३२७ ॥

20.328

श्लोक

सर्वतस् तु जलं श्रेष्ठं स्थिरम् अस्थिरम् एव च । सर्वतश्चापि कर्तव्यं परिखावलयादिकम् ॥ ३२८ ॥

20.329

श्लोक

याम्ये तपोवन-स्थानम् उत्तरे मातृका-गृहम् । महानसं तथाग्नेये नैरृते तु विनायकः ॥ ३२९ ॥

20.330

श्लोक

वारुणे श्रीनिवासश्च वायव्ये गृहमालिका । उत्तरे यज्ञशाला तु निर्माल्यस्थानमेव च ॥ ३३० ॥

20.331

श्लोक

वारुणे सोम-दैवत्ये बलि-निर्वपणं स्मृतम् । पुरतो गरुड-स्थानं तथान्येषां यथोचितम् । एवम् आयतनं कुर्याच् छुभ-मण्डप-संयुतम् ॥ ३३१ ॥

20.332

श्लोक

घण्टावितानक-सतोरणचित्र-युक्तं, नित्योत्सव-प्रमुदितेन जनेन सार्धम् । यः कारयेत् सुर-गृहं विविध-ध्वजाढ्यं, श्रीस्तं न मुञ्चति सदा दिवि पूज्यते च ॥ ३३२ ॥

20.333

श्लोक

यस्य राज्ञस् तु विषये देव-वेश्म विशीर्यते । तस्य सीदति तद्-राज्यं देव-वेश्म यथा तथा ॥ ३३३ ॥

20.334

श्लोक

कृत्वा शीर्णस्य संस्कारं तथा देवेश-वेश्मनि । द्विगुणं फलम् आप्नोति नात्र कार्या विचारणा ॥ ३३४ ॥

20.335

श्लोक

पतितस्य च यः कर्ता पतमानस्य रक्षिता । विष्णोरायतनस्येह स नरो विष्णु-लोक-भाक् ॥ ३३५ ॥

20.336

श्लोक

पतितं पतमानं तु तथार्ध-स्फुटितं नरः । समुद्धृत्य हरेर् धाम द्विगुणं फलम् आप्नुयात् ॥ ३३६ ॥

20.337

श्लोक

मूलाच्छत-गुणं पुण्यं प्राप्नुयाज् जीर्ण-कारकः । तस्मात् सर्व-प्रयत्नेन जीर्णस्योद्धारम् आचरेत् ॥ ३३७ ॥

20.338

श्लोक

वापी-कूप-तडागानां सुरधाम्नां तथानघ । प्रतिमानां सभानां च संस्कर्ता यो नरो भुवि । पुण्यं शत-गुणं तस्य भवेन् मूलान् न संशयः ॥ ३३८ ॥

20.339

श्लोक

प्रतिष्ठाया विधिः कार्यस् तथा मन्दिर-निर्मिते । प्रायः श्री-हयशीर्षोक्तरनुसारेण वैष्णवैः ॥ ३३९ ॥

20.340

श्लोक

देवालय-प्रतिष्ठा च ख्याता तल्-लिखनेन किम् ? श्री-मूर्ति-स्थापनेनैव सम्पूर्णा सा विशेषतः ॥ ३४० ॥

20.341

श्लोक

देव-गृहं देवतायाः प्रतिष्ठा-विधिना सदा । संस्कार्यं मनुजानां तु समुदायोक्त-कर्मणा ॥ ३४१ ॥

20.342

श्लोक

सम्प्रतिष्ठापयेच्छक्त्या वैष्णवः कृष्ण-तुष्टि-कृत् ॥ ३४२ ॥

20.343

श्लोक

विवाहं सम्प्रवक्ष्यामि तुलस्यास् तु यथा-विधि । यथोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा ॥ ३४३ ॥

20.344

श्लोक

आदाव् एव वने वाप्य तुलसीं स्वगृहेऽपि वा । वर्ष-त्रयेण पूर्णेन ततो यजनम् आरभेत् ॥ ३४४ ॥

20.345

श्लोक

सौम्यायने प्रकर्तव्यं गुरु-शुक्रोदये तथा । अथवा कार्तिके मासि भीष्म-पञ्च-दिनेषु च । वैवाहिकेषु ऋक्षेषु पूर्णिमायां विशेषतः ॥ ३४५ ॥

20.346

श्लोक

मण्डपं कारयेत् तत्र कुण्ड-वेदीं यथा पुनः । शान्तिकं च प्रकर्तव्यं मातॄणां स्थापनं तथा । मातृ-श्राद्धादिकं सर्वं विवाहवत् समाचरेत् ॥ ३४६ ॥

20.347

श्लोक

ब्राह्मणांश्च शुचि-स्नातान् वेद-वेदाङ्गपारगान् । ब्रह्मा वा देशिकश्चैव चत्वारश्च तथर्त्विजः ॥ ३४७ ॥

20.348

श्लोक

वैष्णवेन विधानेन वर्धनीकलसं यजेत् । मण्डपं कारयेत् तत्र लक्ष्मी-नारायणं शुभम् ॥ ३४८ ॥

20.349

श्लोक

गृह-यज्ञं पुरः कृत्वा मातॄणां यजनं तथा । कृत्वा नान्दी-मुखं श्राद्धं सौवर्णं स्थापयेद् धरिम् ॥ ३४९ ॥

20.350

श्लोक

कृत्वारोप्यां च तुलसीं लग्ने त्व् अस्तमिते रवौ । वासःशतेन मन्त्रेण वस्त्र-युग्मेन वेष्टयेत् ॥ ३५० ॥

20.351

श्लोक

यदाबध्नेति मन्त्रेण कङ्कणं पाणि-पल्लवे । कोऽदादिति च मन्त्रेण करग्राहो विधीयते ॥ ३५१ ॥

20.352

श्लोक

ततः कुण्डे समागत्य आचार्यः सह ऋत्विजैः । आचार्यो वेदिका-कुण्डे जुहुयाच् च नवाहुतीः ॥ ३५२ ॥

20.353

श्लोक

विवाह-कर्मवत् सर्वं वैष्ण्वं देशिकोत्तमैः । कर्तव्यश्च ततो होमो विशेषाद् विधि-पूर्वकम् ॥ ३५३ ॥

20.354

श्लोक

ॐ नमो भगवते केशवाय नमः स्वाहा, नारायणाय स्वाहा । माधवाय गोविन्दाय विष्णवे मधुसूदनाय त्रिविक्रमाय वामनाय श्रीधराय हृषीकेशाय पद्मनाभाय दामोदराय उपेन्द्राय प्रद्युम्नाय अनिरुद्धाय अच्युताय अनन्ताय गदिने चक्रिणे विष्वक्सेनाय वैकुण्ठाय जनार्दनाय मुकुन्दायाधोक्षजाय स्वाहा । इति होमः ॥ ३५४ ॥

20.355

श्लोक

यजमानः सपत्नीको अन्ये ये गोत्र-बान्धवाः । प्रदक्षिणाश् च कर्तव्याश्चत्वारो विष्णुना सह ॥ ३५५ ॥

20.356

श्लोक

तुलस्याः पाणि-ग्रहणे वेदिकायां विभाव् असौ । शतं कुम्भं जपेत् सूक्तं पावमानीं विशेषतः ॥ ३५६ ॥

20.357

श्लोक

तथैव शान्तिकाध्यायं नव-सूक्तं तथैव च । जीव-सूक्तं पुनर् जप्त्वा तथा वैष्णव-संहिताम् ॥ ३५७ ॥

20.358

श्लोक

शङ्ख-झल्लरि-निर्घोषैर् भेरी-तूर्यस्य निस्वनैः । गायन्ते मङ्गला नार्यो माङ्गल्यं विधिनाचरेत् । दद्यात् पूर्णाहुति पश्चाद् अभिषेक-विधिं ततः ॥ ३५८ ॥

20.359

श्लोक

ब्रह्मणे वृषभं दद्याद् आचार्य परिधाप्य च । गां पटं च तथा शय्याम् आचार्याय प्रदापयेत् । ऋत्विग्भ्यो दापयेद् वस्त्राण्येषां दद्याच् च दक्षिणाम् ॥ ३५९ ॥

20.360

श्लोक

एवं प्रतिष्ठितां देवीं विष्णुना च समर्चयेत् । आजन्मोपार्जितं पापं दर्शनेन प्रणश्यति ॥ ३६० ॥

20.361

श्लोक

रोपयेत् तुलसीं यस्तु सेचयेच् च प्रयत्नतः । प्रतिष्ठाप्य यथोक्तेन विष्णुना सह मानवः ॥ ३६१ ॥

20.362

श्लोक

स मोक्षं लभते जन्तुर् विष्णुलोकं तथाक्षयम् । प्राप्नोति विपुलान् भोगान् विष्णुना सह मोदते ॥ ३६२ ॥

20.363

श्लोक

प्रतिष्ठा श्री-तुलस्यास् तु लिखिता विष्णु-यामले ॥ ३६३ ॥

20.364

श्लोक

यो यो विशेषोऽपेक्ष्यः स्याद् अन्योऽपि लिखितेष्व् इह । तत्-तच्-छास्त्रात् स स ज्ञेयो नितरां च गुरोर् मुखात् ॥ ३६४ ॥

20.365

श्लोक

सन्त्यन्येऽपि सदाचारा बहवः शास्त्र-दर्शिताः । न लिख्यन्तेऽत्र ते सर्वे ग्राहकाभावतोऽधुना ॥ ३६५ ॥

20.366

श्लोक

कृत्यान्येतानि तु प्रायो गृहिणां धनिनां सताम् । लिखितानि न तु त्यक्त-परिग्रह-महात्मनाम् ॥ ३६६ ॥

20.367

श्लोक

अवश्यं तानि सर्वाणि तेषां तादृक्त्व-सिद्धये । प्राग्-अपेक्ष्याणि भक्तिर् हि सदाचारैकसाधना ॥ ३६७ ॥

20.368

श्लोक

तेषां च पूर्व-लिखितात् कृत्यान्येकान्ति-लक्षणात् । व्यक्तिं यातान्यथाप्यन्ते लिख्यन्तेऽल्पानि कानिचित् ॥ ३६८ ॥

20.369

श्लोक

प्राक्-प्रेम-भक्ति-सम्पत्तेश् चिह्नानि लिखितानि हि । तान्येवैकान्तिनां प्रायो ज्ञापकानि विदुर् बुधाः ॥ ३६९ ॥

20.370

श्लोक

सर्व-त्यागेऽप्यहेयायाः सर्वानर्थ-भुवश्च ते । कुर्युः प्रतिष्ठाविष्ठाया यत्नम् अस्पर्शने वरम् ॥ ३७० ॥

20.371

श्लोक

अत एवोक्तम् एकादशे श्री-भगवता (१८।२८)— ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानप्रेक्षकः । स-लिङ्गानाश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः ॥ ३७१ ॥

20.372

श्लोक

एकान्तितां गतानां तु श्री-कृष्ण-चरणाब्जयोः । भक्तिः स्वतः प्रवर्तेत तद्-विघ्नः किं व्रतादिभिः ? ॥ ३७२ ॥

20.373

श्लोक

(भा.पु. ११।२०।४६) न मय्येकान्त-भक्तानां गुण-दोषोद्भवा गुणाः । साधूनां समचित्तानां बुद्धेः परम् उपेयुषाम् ॥ ३७३ ॥

20.374

श्लोक

यथा कथम् अपि श्रीमान् श्री-कान्तं समुपाश्रितः । कुरुतेऽखिल-पापानां प्रलयं किं पुनर् व्रतैः ? ॥ ३७४ ॥

20.375

श्लोक

इन्द्रियार्थेष्व् असक्तानां सदैव विमला मतिः । परितोषयतो विष्णु नोपवासो जितात्मनः ॥ ३७५ ॥

20.376

श्लोक

किं तस्य बहुभिस् तीर्थैः स्नान-होम-जप-व्रतैः ? येनेन्द्रियगणो घोरो निर्जितोऽदुष्ट-चेतसा ? ॥ ३७६ ॥

20.377

श्लोक

जितेन्द्रियः सदा शान्तः सर्व-भूतहिते रतः । वासुदेव-परो नित्यं न क्लेशं कर्तुम् अर्हति ॥ ३७७ ॥

20.378

श्लोक

ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना । ते प्रयान्ति भयं त्यक्त्वा विष्णु-लोकमनामयम् ॥ ३७८ ॥

20.379

श्लोक

प्रभाते चार्ध-रात्रे च मध्याह्ने दिवसक्षये । कीर्तयन्ति हरिं ये वै ते तरन्ति भवार्णवम् ॥ ३७९ ॥

20.380

श्लोक

आनन्दितोऽथवा चार्तः क्रुद्धः शान्तोऽथवा हरिम् । योऽनुकीर्तयते भक्त्या स गच्छेद् वैष्णवीं पुरीम् ॥ ३८० ॥

20.381

श्लोक

गर्भ-जन्म-जरा-रोग-दुःख-संसार-बन्धनैः । न बाध्यते नरो नित्यं वासुदेवम् अनुस्मरन् ॥ ३८१ ॥

20.382

श्लोक

एवम् एकान्तिनां प्रायः कीर्तनं स्मरणं प्रभोः । कुर्वतां परम-प्रीत्या कृत्यम् अन्यन् न रोचते ॥ ३८२ ॥

20.383

श्लोक

भावेन केनचित् प्रेष्ठ-श्री-मूर्तेर् अङ्घ्रि-सेवने । स्याद् इच्छैषां स्वमन्त्रेण स्वरसेनैव तद्-विधिः ॥ ३८३ ॥

20.384

श्लोक

विहितेष्वेव नित्येषु प्रवर्तन्ते स्वयं हि ते। इत्याद्येकान्तिनां भाति माहात्म्यं लिखितं हि तत् ॥ ३८४ ॥

20.385

श्लोक

सदा सद्-आचार-परास् तु ये नरा, भवन्ति दामोदर-भक्त्यपेक्षया । तदीय-पादाम्बूज-धूलि-धूसरं, कदा भवेद् अस्य शिरोऽधमस्य मे ? ॥ ३८५ ॥

20.386

श्लोक

श्री-नन्द-सुन्दर-मुकुन्द-पदारविन्द- प्रेमामृताब्धि-रस-तुन्दिल-मानसा ये । नानार्थ-वृन्दम् अनुसन्दधते न च स्वं तेषां पदाब्ज-मकरन्द-मधुव्रतः स्याम् ॥ ३८६ ॥