Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.801

श्लोक

तन्मध्ये चिन्तयेद्देवं नृसिंहं दैत्यनिर्दलम् । स्फूरत्सौदामिनीजिह्वं ज्वलज्ज्वलनकेसरम् ॥ ८०१ ॥

19.802

श्लोक

दीप्ताकनयनं चन्द्रकोटिभास्वरदंष्ट्रिणम् । तप्तस्य तपनीयस्य सदृशं पुरुषाननम् । सर्वदुष्टहरं देवं दुष्प्रेक्ष्यं देवदानवैः ॥ ८०२ ॥

19.803

श्लोक

सर्ववर्णान्तवीजेन चतुर्दशयुतेन च । बिन्दुनालङ्कृतेनादौ प्रणवेनाप्लुतेन च । अन्ते प्रणतियुक्तेन स्थापयेद्दुष्टनाशनम् ॥ ८०३ ॥

19.804

श्लोक

ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः । प्रदक्षिणं तु कुर्वीत तूर्यमङ्गलनिस्वनैः ॥ ८०४ ॥

19.805

श्लोक

ततो निवेशयेद्दण्डं मन्त्रेणाष्टाक्षरेण तु । मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥ ८०५ ॥

19.806

श्लोक

दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् । ध्रुवाद्येन फडन्तेन ध्वज मन्त्रेण पूजयेत् ॥ ८०६ ॥

19.807

श्लोक

शिरस्याधाय तत् पात्रं नारायणमनुस्मरन् । मुक्तमात्रे ध्वजे दद्याज्जीवमाचार्यसत्तमः ॥ ८०७ ॥

19.808

श्लोक

प्रभिन्नं कुञ्जरं दद्यावश्वं वा लक्षणान्वितम् । दासं वा पेशलं वापि दासीं बालसवर्जिताम् । महाशृङ्गीं प्रदद्यात्तु ग्रामञ्च गुरुतुष्टये ॥ ८०८ ॥

19.809

श्लोक

आचार्यं भोजयित्वा तु मूर्तिपान् पूजयेद्बुधः । सुवर्णवस्त्रदानेन वैष्णवानपि पूजयेत् ॥ ८०९ ॥

19.810

श्लोक

अनिवारितमन्नादं सर्ववणेषु कारयेत् । ततो नृत्यञ्च वाद्यञ्च बलिं दद्यात्तथा पुनः ॥ ८१० ॥

19.811

श्लोक

कुर्याद्यो देवसदने ध्वजं विधिविधानतः । तस्य स्यादक्षयो लोको वैष्णवो नात्र संशय ॥ ८११ ॥

19.812

श्लोक

कदाचिद्यदि मानुष्यलोकमायाति स्वेच्छया । तथा सर्वेषु भूतेषु ध्वजीभूतः प्रकाशते ॥ ८१२ ॥

19.813

श्लोक

आधारभूतं सर्वेषां बन्धूनां धनिनां तथा । तस्मात् सर्वप्रयत्नेन ध्वजं कुर्यात् सुरालये ॥ ८१३ ॥

19.814

श्लोक

ध्वजे यष्टिप्रदानेन वपुष्मान् जायते नरः । ध्वजमानेन चाप्नोति लोकं शक्रस्य दुर्लभम् ॥ ८१४ ॥

19.815

श्लोक

प्रतिष्ठां हयशीर्षोक्तसुव्यक्तविधिनाचरेत् ॥ ८१५ ॥

19.816

श्लोक

सर्वामेतां प्रतिष्ठाञ्च विप्रेण विदुषा सता । गृहिणा वैष्णवेनैव कारयेन्नेतरेण तु ॥ ८१६ ॥

19.817

श्लोक

नैतद्विशीलेन न दाम्भिकेन न लिङ्गिना स्थापनमत्र कार्याम् । विप्रेण कार्यं श्रुतिपारगेण गृहस्थधर्माभिरतेन नित्यम् ॥ ८१७ ॥

19.818

श्लोक

पाषण्डिनं यस्तु करोतु बुद्ध्या विहाय विप्रान् श्रुतिधर्मयुक्तान् । गुरुं प्रतिष्ठादिषु तच्च नूनं कुलक्षयः स्यादचिराय पूर्वम् ॥ ८१८ ॥

19.819

श्लोक

स्थानं पिशाचैः परिगृह्यते तदपूज्यतां यात्यचिरेण लोके । विप्रैः कृतं यच्छुभदं कुले स्थात्तत पूज्यतां याति चिरञ्च कालम् ॥ ८१९ ॥

19.820

श्लोक

चलमूर्तेश्च विविधाः प्रतिष्ठाविधयः स्मृताः । तेष्वादौ श्रीहयग्रीवदेवोक्तो लिख्यते विधि ॥ ८२० ॥

19.821

श्लोक

अचलश्च चलश्चैव द्विविधो विष्णुरुच्यते । अचलो ह्यादिपुरुषः प्रादुर्भावगतञ्चलः ॥ ८२१ ॥

19.822

श्लोक

प्रासादे ह्यचलस्तद्वद्गृहेषु च चलाचलः । सभामठस्थो ह्यचलो गृहस्थानां मठे चलः ॥ ८२२ ॥

19.823

श्लोक

चले रत्नादिविन्यासः पिण्डिकायोजनादिकम् । यतो न विद्यते तस्मात् पिण्डिका तस्य नेदृशी । अतो विशेषाद्वक्ष्यामि चलानां यादृशो विधिः ॥ ८२३ ॥

19.824

श्लोक

प्रतिविम्बाहतं शस्त्रैरुत्कीर्णं पाकजं तथा । त्रिविधञ्च समुद्दिष्टं विष्णुरूपं विचक्षणैः ॥ ८२४ ॥

19.825

श्लोक

प्रतिविम्बाहतं पूज्यं तावत्कालं तु पार्थिवम् । न तत्र कश्चित् संस्कारः केवलं तत्त्वयोजनम् । पूजनान्ते विसर्गश्च पुनर्नेष्टं तदर्चनम् ॥ ८२५ ॥

19.826

श्लोक

शस्त्रोत्कीर्णं बहुविधं शिलारत्नादिभेदतः । दारवं शैलजं रूपं प्रासादे स्थापयेत् परम् ॥ ८२६ ॥

19.827

श्लोक

रत्नजं निर्मितं शस्त्रैः पिण्डिकासहितं शुभम् । पिण्डिकारहितं वापि तदेवं द्विविधं पुनः ॥ ८२७ ॥

19.828

श्लोक

रत्नजस्य तु रूपस्य पिण्डिका धातवी स्मृता । शैली तु शैलजस्येष्टा रत्नजस्य तु नेष्यते ॥ ८२८ ॥

19.829

श्लोक

पिण्डिकासहितं कार्यं चलं रत्नादिनिर्मितम् । पाकजं धातुजं विम्बं पिण्डिकासहितं तु तत् ॥ ८२९ ॥

19.830

श्लोक

तेषां प्रतिष्ठां वक्ष्यामि संक्षेपाद्वेदनिर्मिताम् ॥ ८३० ॥

19.831

श्लोक

दशहस्तपरीमाणं मण्डपं कारयेच्छुभम् । कुर्यात् पञ्चकरां वेदीं तद्वत् कुण्डानि कारयेत् ॥ ८३१ ॥

19.832

श्लोक

तोरणध्वजकुम्भानाई स्थापनं पूर्ववत् स्मृतम् । विष्णुकुम्भं तथा स्थाप्य लोकपान् पूर्ववद्यजेत् ॥ ८३२ ॥

19.833

श्लोक

सर्वतोभद्रकं वेद्यां लिखेदुज्ज्वलवर्णकैः । वैष्णवाग्निं तथा कुर्याद्याम्ये शय्यां तु पातयेत् ॥ ८३३ ॥

19.834

श्लोक

ऐशान्यां भद्रपीठं तु न्यस्य कुम्भं तु विन्यसेत् । सर्वौषधियुतान् सर्वानष्टाशीतिपदे तथा ॥ ८३४ ॥

19.835

श्लोक

अथोत्तरे मण्डपस्य स्नानवेद्यां तु पश्चिमे । भूमिं प्रलिप्य तत्रादौ तण्डुलैः पञ्चवर्णकैः ॥ ८३५ ॥

19.836

श्लोक

चतुरस्रं विलिख्यादौ स्वस्तिकं कल्पयेद्गुरुः । तन्मध्ये पीठकं न्यस्य प्रतिमां तत्र विन्यसेत् ॥ ८३६ ॥

19.837

श्लोक

शङ्खतूर्यरवैस्तद्वत् पञ्चगव्यादिना स्नपेत् । पुष्पगन्धादिभिः पूज्य च्छादयेच्छुक्लवाससा ॥ ८३७ ॥

19.838

श्लोक

उत्थाप्य त्वभिषेकार्थं निनयेत् स्नानमण्डपम् । शङ्खपुण्याहघोषेण स्नानपीठे निवेशयेत् ॥ ८३८ ॥

19.839

श्लोक

अवधार्य जगच्छान्तिं तोषयेत् कर्मिणस्तथा । देशिकस्य तदा दद्यात् पूर्ववत्तरुणीं शुभाम् । सपुत्रां वस्त्रसंयुक्तां हेमशृङ्गीं सदक्षिणाम् ॥ ८३९ ॥

19.840

श्लोक

ततो वेदादिमन्त्रैस्तामालभेद्देशिकोत्तमः । पौरुषेण तु सूक्तेन मूलबीजेन चालयेत् ॥ ८४० ॥

19.841

श्लोक

कौतुकं मूलबीजेन तत्करे त्वधिरोपयेत् । चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेद्गुरुः ॥ ८४१ ॥

19.842

श्लोक

हैमयाभ्यञ्जयेन्नेत्रे श्लक्ष्णया तु शलाकया । घृतेन मधुना तन्मधुवातेति देशिकः ॥ ८४२ ॥

19.843

श्लोक

ततः शुद्धेन तोयेन स्नाप्य मन्त्रैः समालभेत् । वेदाद्येन च सूक्तेन चतुर्भिर्मूर्तिपैः सह ॥ ८४३ ॥

19.844

श्लोक

अतो देवेति चावाह्य वासुदेवं जगद्गुरुम् । विशुद्धस्फटिकाभासं हिमकुन्देन्दुसन्निभम् ॥ ८४४ ॥

19.845

श्लोक

किरणैः शीतलैः सौम्यैः प्रीणयन्तञ्चराचरम् । लावण्यामृततोयेन सिञ्चन्तमिव सर्वतः ॥ ८४५ ॥

19.846

श्लोक

सुनाभं वारिजं पद्मं धारयन्तं गदां शुभाम् । भूषितं मालया तद्वद्दीपितं मणिकाञ्चनैः । श्री-पुष्टि-गरुडाद्यैस्तु समन्तात् परिवारितम् ॥ ८४६ ॥

19.847

श्लोक

एवं ध्यात्वा ततः कुम्भैरभिषिञ्चेत् समन्ततः । आपो हिष्ठेति मन्त्रेण कुम्भेनासेचयेद्गुरुः ॥ ८४७ ॥

19.848

श्लोक

समुद्रं गच्छ मन्त्रेण दक्षिणेनाभिषेचयेत् । सोमराजेति मन्त्रेण उत्तरेणाभिषेचयेत् ॥ ८४८ ॥

19.849

श्लोक

घृतेनाभ्यञ्जयेद्देवं तेजोऽसीति ततो गुरुः । द्रुपदेति समुद्वर्त्य दद्यादामलकं शुभम् ॥ ८४९ ॥

19.850

श्लोक

याः फणिनीति मन्त्रेण फलैर्नीराजयेत् प्रभुम् । काण्डात् काण्डेति मन्त्रेण हरिं निर्माञ्छयेत् पुनः ॥ ८५० ॥

19.851

श्लोक

फलतोयेन सिञ्चेत गायत्र्या देशिकोत्तमः । तद्विष्णोरिति मन्त्रेण पञ्चगव्येन सेचयेत् ॥ ८५१ ॥

19.852

श्लोक

काषायेण तु तोयेन वरुणस्येति सेचयेत् । सुमङ्गलीति मन्त्रेण विद्वानोषधिवारिणा ॥ ८५२ ॥

19.853

श्लोक

मूर्धानं दिवमन्त्रेण वल्मीकेनाभिषेचयेत् । इमं मेति च मन्त्रेण स्नापयेत् सिकताजलैः ॥ ८५३ ॥

19.854

श्लोक

देवो वराह मन्त्रेण मृत्तोयेनाभिषेचयेत् । सेचयेत् पद्ममृत्तोयैः शन्नो देवीति देशिकः ॥ ८५४ ॥

19.855

श्लोक

ऋतं चेत्यादि-सूक्तेन तीर्थमृत्कुम्भवारिणा । नागकेशरतोयेन श्रीश्च तेत्यभिषेचयेत् ॥ ८५५ ॥

19.856

श्लोक

चन्दनोदककुम्भेन पावमान्याभिषेचयेत् । प्लवसाम्ना ततः पञ्चरत्नतौयेन सेचयेत् ॥ ८५६ ॥

19.857

श्लोक

पञ्च नद्येत्युचा देवं नदीनदतडागजैः । यासां राजेति मन्त्रेण एकाशीतिघटैर्हरिम् । स्नापयेदर्चयेद्धक्त्या प्रतिद्रव्यं समाहितः ॥ ८५७ ॥

19.858

श्लोक

अग्न आयेति मन्त्रेण देवमुञ्चोदकेन तु । शुद्धतोयेन देवेशं शुद्धवत्याभिषेचयेत् ॥ ८५८ ॥

19.859

श्लोक

अतोऽर्चयेत् सुरेशानं जितन्त इति देशिकः ॥ ८५९ ॥

19.860

श्लोक

पाद्यन्तु मूलमन्त्रेण मधुपर्कन्तथैव च । स्नानीयमथवाचामं गायत्र्या विनिवेदयेत् ॥ ८६० ॥

19.861

श्लोक

सुरासुरेति युग्मं तु दद्यात्तद्वत् पवित्रकम् । वेदाहमित्युत्तरीयं रोचनां प्रणवेन तु ॥ ८६१ ॥

19.862

श्लोक

अञ्जनमञ्जतेत्येवं गन्धं गन्धवतीति च । पुष्पवत्या तथा पुष्पं धूपं धूरसि चेत्यूचा ॥ ८६२ ॥

19.863

श्लोक

तेजोऽसीति तथा दीपमग्निर्मूर्धेति प्रापणम् । इन्द्रच्छत्रेति वै च्छत्रं विकर्णेन तु चामरम् ॥ ८६३ ॥

19.864

श्लोक

आज्यदोहेन चादर्शं बात आवेति वीजयेत् । त्वमिन्द्रेति ध्वजं दद्यात् पताकामोमिति स्मरन् ॥ ८६४ ॥

19.865

श्लोक

देवव्रतेन साम्ना तु दद्यादाभरणादिकम् । स्तूयात् पुरुषसूक्तेन साकल्येन जनार्दनम् ॥ ८६५ ॥

19.866

श्लोक

दीर्घायुष्येति सम्पूज्य किरेद्दूर्वाक्षतं बुधः । वा ओषधीति मन्त्रेण पुष्पाणि विकिरेद्गुरुः ॥ ८६६ ॥

19.867

श्लोक

पुनर्बृहद्रथैः स्तुत्वा चक्रसाम्ना जनार्दनम् । शिवसङ्कल्पसूक्तेन शाकुनेन जनार्दनम् । उत्तिष्ठेति समुत्थाप्य शय्यायां विनिवेशयेत् ॥ ८६७ ॥

19.868

श्लोक

अपराजित-मन्त्रेण ध्यायेत् सकलनिष्कलम् । व्यापिनन्तु पुनर्घ्यात्वा तत्त्वानि विनियोजयेत् ॥ ८६८ ॥

19.869

श्लोक

सकलीकरणं कृत्वा पूर्वोक्तविधिना हरेः । ततः सहस्रशीर्षेति प्रत्यूचं पूजयेद्बुधः ॥ ८६९ ॥

19.870

श्लोक

गन्धपुष्पादिभिः सम्यङ्नैवेद्यादि निवेदयेत् । अतो देवेति सूक्तेन गृहोपकरणानि च ॥ ८७० ॥

19.871

श्लोक

निद्राकलसविन्यासं कृत्वा पूज्यस्तु मण्डले । सर्वतोभद्रके देवो गन्धपुष्पादिभिः क्रमात् ॥ ८७१ ॥

19.872

श्लोक

प्रभूतैर्याज्ञिकैर्द्रव्यैर्हेमपुष्पैः समुज्ज्वलैः । वैष्णवे मण्डले पश्चाज्ज्वालयेद्वैष्णवानलम् ॥ ८७२ ॥

19.873

श्लोक

नयन्मन्त्रैस्तु तं पश्चात् कुम्भेषु द्विजसत्तमः । जुहुयाच्च शतं साष्टं पलाशसमिधा द्विज ॥ ८७३ ॥

19.874

श्लोक

तिलांश्च जुहुयादाज्यैर्वैष्णवं प्रपचेच्चरुम् । तिलतण्डुलदुग्धैस्तु घृतेनाघार्य साधयेत् ॥ ८७४ ॥

19.875

श्लोक

अवतार्याभिघार्यव मन्त्रैरेभिस्तु होमयेत् ॥ ८७५ ॥

19.876

श्लोक

विष्णवे शिपिविष्ठाय विष्णवे निर्गुणेति च । इदं विष्ण्विति मन्त्रेण तद्विष्णोरिति देशिकः ॥ ८७६ ॥

19.877

श्लोक

इरावतीति मन्त्रेण त्वं विष्णोरिति चैव हि । प्रतद्विष्ण्विति मन्त्रेण विष्णोर्नुकेति चैव हि ॥ ८७७ ॥

19.878

श्लोक

तथा पुरुषसूक्तेन सम्यक् षोडश आहुतीः । चरुं हुत्वा पुनः पश्चान्मन्त्रैरेभिस्तु होमयेत् ॥ ८७८ ॥

19.879

श्लोक

ॐ विष्णवे स्वाहा । ॐ पुरुषोत्तमाय स्वाहा । ॐ त्रैलोक्यमोहनाय स्वाहा । ॐ वैकुण्ठाय स्वाहा । ॐ लक्ष्मीपतये स्वाहा । ॐ लक्ष्मीनिवासाय स्वाहा । ॐ हृषीकेशाय स्वाहा । ॐ नमो नारायणाय स्वाहा । ॐ ब्रह्मणे स्वाहा ॥ ८७९ ॥

19.880

श्लोक

हुत्वा व्याहृतिभिः पूर्वं गायत्र्या होमयेद्गुरुः । एवं हुत्वा तु जुहुयाच्चक्रादीनां यथाक्रमम् ॥ ८८० ॥

19.881

श्लोक

लक्ष्म्यादीनां ततो हुत्वा ग्रहाणां होमयेत्ततः । लोकेशानां तु नागानां होमयेत्तदनन्तरम् ॥ ८८१ ॥

19.882

श्लोक

नारायणाय हुत्वा तु दद्यात् पूर्णहुतिं बुधः । ततो विभज्य विद्वांस्तु दद्यात् कनकदक्षिणाम् ॥ ८८२ ॥

19.883

श्लोक

ब्रह्मघोषादिना देवं समुत्थाप्य विचक्षणः । ततो मण्डलमध्ये तु स्थापयित्वार्चयेत् पुनः । प्रत्यूचं निजसूक्तेन गन्धपुष्पादिभिः क्रमात् ॥ ८८३ ॥

19.884

श्लोक

सान्निध्यं पूर्ववत् कृत्वा सजीवकरणं गुरुः । प्रणवेन निरुध्याथ ध्यायेत् सकल-निष्कलम् ॥ ८८४ ॥

19.885

श्लोक

पिण्डिकायोजनीयादि मनसैव विचिन्तयेत् । न्यासं कृत्वार्चयेत् पश्चात् पूर्ववद्विधिना गुरुः ॥ ८८५ ॥

19.886

श्लोक

बलिं दद्यात्तु भूतेभ्यः पार्षदेभ्यञ्च देशिकः । प्रणिपत्य ततो दद्याद्दक्षिणां गुरुवे सुधीः ॥ ८८६ ॥

19.887

श्लोक

सुवर्णसहितं पात्रं तिलैः पूर्णं सयुग्मकम् । धेनुं स्वलङ्कृतां दद्याद्धेमशृङ्गीं तु दक्षिणाम् । ब्रह्मणे कनकं दद्यान्मूर्तिपेभ्यस्तथैव च ॥ ८८७ ॥

19.888

श्लोक

अश्वत्थपत्रे कृत्वा तु देशिकं कारुकन्तथा । चरुं सम्प्राशयेद्दन्तैरस्पृशन् प्रणवेन तु ॥ ८८८ ॥

19.889

श्लोक

तां रात्रिं वैष्णवैः सार्द्धं जाग्रत्तिष्ठेदतन्द्रितः ॥ ८८९ ॥

19.890

श्लोक

प्रभातसमये स्नात्वा देवमुत्थाप्य यत्नतः । भद्रपीठे समारोप्य स्नापयेदच्छवारिणा ॥ ८९० ॥

19.891

श्लोक

एकाशीतिघटैर्देवं मूलमन्त्रेण सेचयेत् । वैष्णवेन तु कुम्भेन ऐन्द्रादिकलसैस्तथा ॥ ८९१ ॥

19.892

श्लोक

सेचयेत् फलतोयेन पञ्चगव्यादिना तथा । सुगन्धेन तथाज्येन स्नाप्य गन्धादिनार्चयेत् । पौरुषेण तु सूक्तेन प्रत्यूचं चन्दनादिभिः ॥ ८९२ ॥

19.893

श्लोक

सितयुग्मेन संवेष्ट्य धूपयित्वा गृहं नयेत् । ब्रह्मघोषादिना सम्यग्विनिवेश्यार्चयेत् सुधीः ॥ ८९३ ॥

19.894

श्लोक

दक्षिणां देशिके दद्यात् कनक्रं छत्रमेव च । ब्राह्मणान् भोजयित्वाथ स्वयं भुञ्जीत वाग्यतः ॥ ८९४ ॥

19.895

श्लोक

सभृत्यबन्धुवर्गं तु दीनानाथांस्तु भोजयेत् ॥ ८९५ ॥

19.896

श्लोक

यस्य गेहे सदा तिष्ठेत् मूर्तिर्देवस्य चक्रिणणः । न तत्र मारी दौर्भाग्यं न वालक्ष्मीर्न दुष्कृतम् ॥ ८९६ ॥

19.897

श्लोक

अनेनैव विधानेन संस्कृत्य प्रतिमां हरेः । विष्णुलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ॥ ८९७ ॥

19.898

श्लोक

अधुना चलमूर्तेर्हि प्रतिष्ठायाः परो विधिः । लिख्यते पद्धतिश्रेणी-दृष्टितः सम्मतः सताम् ॥ ८९८ ॥

19.899

श्लोक

स्थिरमूर्तिप्रतिष्ठानुसारेणात्रापि वैष्णवैः । प्रतिष्ठाविधिरुन्नेयो विंशेषोऽन्यश्च लिख्यते ॥ ८९९ ॥

19.900

श्लोक

प्रासादतो दिशि प्राच्यामुदीच्यां वाथ मण्डपम् । ऐशान्यां वाचरेत् स्थानेऽदूरेऽङ्गारादिवर्जिते ॥ ९०० ॥