Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.901

श्लोक

दशहस्तं चतुर्द्वारं चतुरस्रं समं शुभम् । चतुस्तोरणसंयुक्तं सपताकञ्च पूर्ववत् ॥ ९०१ ॥

19.902

श्लोक

तस्मिंश्च विधिवत् कुर्यात् सयोन्यास्यस्त्रिमेखलम् । आग्नेयां कुण्डमाशायां चतुरस्रं करोन्मितम् ॥ ९०२ ॥

19.903

श्लोक

प्राच्यां वेदीं करोच्छायविस्तारां चतुरस्रिकाम् । ऐशान्यां स्थानमेकञ्च देवस्य स्नपनोचितम् ॥ ९०३ ॥

19.904

श्लोक

मण्डपस्य च नैरृत्यां विधिवद्वास्तु मण्डलम् । मध्ये च देवतार्चार्थं सर्वतोभद्रमालिखेत् ॥ ९०४ ॥

19.905

श्लोक

सकर्णिकञ्च तन्मध्ये पद्मं विरचयेत्तथा । स्वस्तिकं चोत्तरे कृत्वा तत्र शय्यां निवेशयेत् ॥ ९०५ ॥

19.906

श्लोक

यजमानश्च पूर्वेद्युः प्रतिष्ठायाः समाचरेत् । पुण्याहवाचनं विप्रैमण्डपस्थापनं तथा ॥ ९०६ ॥

19.907

श्लोक

मण्डपस्य च वायव्यां मातृर्गन्धादिनार्चयेत् । प्रणवादिनमोऽन्तैश्च नामभिर्विधिवद्बुधः ॥ ९०७ ॥

19.908

श्लोक

नान्दीश्राद्धं ततः कृत्वा सद्विप्रं वृणुयाद्गुरुम् । मधुपर्कादिनाभ्यर्च्यं दत्त्वा वस्त्रादि शक्तितः ॥ ९०८ ॥

19.909

श्लोक

तदर्द्धदानाद्ब्रह्माणं पुराणस्तुतिपाठकम् । सूक्तजापकमप्येवं त्रीन् विप्रान् वृणुयात् परान् ॥ ९०९ ॥

19.910

श्लोक

तोरणानि ततोऽभ्यर्च्य द्वाराण्युत्तरतस्तथा । पूर्ववद्वृप्रांश्चतुरो द्वारजापकान् ॥ ९१० ॥

19.911

श्लोक

आचार्यो मण्डपेऽभ्येत्य प्राणायामान् विधाय च । आपोहिष्ठेति दर्भोदैर्यागस्याभ्युक्षयेद्भुवम् ॥ ९११ ॥

19.912

श्लोक

विकीर्य सर्षपान् शुक्लान् रक्षां कृत्वा च मन्त्रतः । विधिवत् पूजयेद्वास्तुदेवता वास्तुमण्डले ॥ ९१२ ॥

19.913

श्लोक

देवा आयान्तु जातुधानास्त्वपयान्तु विष्णो देवयजनं रक्षस्व ॥ ९१३ ॥

19.914

श्लोक

ईशानादिक्रमेणाथ कुशपुष्पयुताक्षतैः । शिख्यादिदेवताभ्यश्च विशेषवलिमर्पयेत् ॥ ९१४ ॥

19.915

श्लोक

आगत्य कुण्डपार्श्वे तु होमं कुर्याद्यथाविधि । तत्रावश्यं प्रतिद्रव्यं होमान्ते प्रतिमां स्पृशेत् ॥ ९१५ ॥

19.916

श्लोक

आचार्याय वरं दत्त्वा निजशक्त्यनुसारतः । विप्रान् गन्धादिनाभ्यर्च्य पुण्याहं वाचयेत् पुनः ॥ ९१६ ॥

19.917

श्लोक

ततश्च यजमानानुमोदितोऽर्चां विशोधयन् । आचार्यः प्रणिपत्यादौ देवं सम्प्रार्थयेदिदम् ॥ ९१७ ॥

19.918

श्लोक

स्वागतं देवदेवेश विश्वरूप नमोऽस्तु ते । शुद्धेऽपि त्वदधिष्ठाने शुद्धिं कुर्मः क्षमस्व माम् ॥ ९१८ ॥

19.919

श्लोक

ततश्च नवपीठोपवेशितां प्रतिमां गुरुः । मृद्भिर्द्वादशकृत्वस्तां संशोध्य क्षालयेज्जलैः ॥ ९१९ ॥

19.920

श्लोक

पञ्चगव्यैस्तथा पञ्चामृतैस्तन्मन्त्रतो बुधः । संस्नाप्य हविषाभ्यज्य चूर्णैरुद्वर्तयेच्छुभैः ॥ ९२० ॥

19.921

श्लोक

पञ्चगव्यस्नपने पयः पृथिव्यामिति क्षीरादिचतुःस्नपने पूर्वदेव शर्करास्नपने च आयं गौरिति ॥ ९२१ ॥

19.922

श्लोक

कोष्णोदकेन प्रक्षाल्य सुगन्धेनानुलिप्य च । ततः संस्रवकुम्भाद्भिः संस्नाप्य प्रणमेच्च ताम् ॥ ९२२ ॥

19.923

श्लोक

अभिषिञ्चेदर्चितैस्तु चतुष्कुम्भैः सपल्लवैः । समुद्रज्येष्ठा इत्यादि चतुर्मन्त्रैः परैरपि ॥ ९२३ ॥

19.924

श्लोक

पद्मान्तः स्वस्तिकप्रान्ते पीठे चोडुम्बरे शुभे । अन्यक्षीरद्रुमीये वा श्रीमूर्तिमुपवेशयेत् ॥ ९२४ ॥

19.925

श्लोक

अथाष्टौ स्थापयेत् कुम्भान् अष्टदिक्ष्वम्बुपूरितान् ॥ ९२५ ॥

19.926

श्लोक

तेष्वाद्ये सङ्गमक्रोडोत्खातवल्मीकमृत्तिकाम् । अश्वहस्तिनदीतीरद्वयमृत्स्नाञ्च निक्षिपेत् ॥ ९२६ ॥

19.927

श्लोक

द्वितीयेऽश्वत्थचूतादिपल्लवाश्मन्तकत्वचम् । अन्येषु च क्रमात् षट्सु परित्रान् प्रस्त्रवोदकम् । शान्तिवार्यथ गन्धोदमक्षतान् कुसुमानि च ॥ ९२७ ॥

19.928

श्लोक

स्थापयेत् सर्त्विगाचार्यस्तैः कुम्भैरष्टमन्त्रतः । आपो हिष्ठेति त्रितयं हिरण्येति चतुष्टयम् । तथैव पवमानेत्याद्यनुवाकं परो मनुः ॥ ९२८ ॥

19.929

श्लोक

अभिवस्त्रेति वस्त्रे द्वे आहते परिधाप्य च । दत्त्वोपवीतं गन्धाद्यैरुपचारैश्च पूजयेत् ॥ ९२९ ॥

19.930

श्लोक

हिरण्यगर्भ इत्यादीनष्टौ मन्त्रान् जपन् शुभैः । कुर्यान्नीराजनं पिष्टमयैर्दीपैरथाष्टभिः ॥ ९३० ॥

19.931

श्लोक

गन्धेन चित्रं देवानामित्यर्द्धर्चेन लोचने । देवस्योन्मीलयेत् पार्श्वे स्थित्वा स्वर्णशलाकया । देवस्य पुरतस्तिष्ठेत्तदानीञ्च न कश्चन ॥ ९३१ ॥

19.932

श्लोक

अञ्जनेनाञ्जयेन्नेत्रे अञ्जन्ति त्वामिति स्फुटम् । देवस्य त्वेति मध्वाज्यसिताभिः पुनरञ्जयेत् । अथादर्शं प्रदर्श्याथ विविधं भोज्यमर्पयेत् ॥ ९३२ ॥

19.933

श्लोक

अथाचार्यः कुशासीनः संस्तूयाद्धारयन् कुशान् । देवं पुरुषसूक्तेन प्रत्युचं प्रणवं पठन् ॥ ९३३ ॥

19.934

श्लोक

पञ्चवर्णकधान्यान्नं पात्रे संस्थाप्य वैणवे । तेन नीराजयेद्देवं विगताचारविप्रतः ॥ ९३४ ॥

19.935

श्लोक

तद्धस्तेन बलिं दद्याद्रुद्राय च चतुष्पथे । नमो रुद्रायेति मन्त्रं सघ्रुवञ्च स्वयं जपेत् ॥ ९३५ ॥

19.936

श्लोक

ब्रह्माणञ्च प्रतिष्ठाध्य तन्मन्त्रेण तदादिकाः । उपचारैः षोडशभिर्यजे मण्डलदेवताः ॥ ९३६ ॥

19.937

श्लोक

स्थाप्यदेवमथावाह्यार्चायां तल्लिङ्गमन्त्रतः । कर्णिकायां मण्डलस्य तामर्चामुपवेशयेत् ॥ ९३७ ॥

19.938

श्लोक

सुप्रतिष्ठो भवेत्येतां सम्प्रतिष्ठाप्य तत्र च । पुनः समर्चयेद्गन्धाद्युपचारैस्तु पञ्चभिः ॥ ९३८ ॥

19.939

श्लोक

कुण्डातिकमथायत्य तिलाज्यैर्जुहुयात् कृती । तद्देवतानां प्रत्येक नासमन्त्रैर्दशाहुतीः ॥ ९३९ ॥

19.940

श्लोक

श्रीमूर्तिं प्राङ्मुखं दिव्यास्तरणेषु निवेशयेत् ॥ ९४० ॥

19.941

श्लोक

ततः पुरुषसूक्तेनोत्तरनारायणेन च । उपस्थाप्य ततोऽर्चायां न्यसेत्तत्त्वानि तत्त्वतः ॥ ९४१ ॥

19.942

श्लोक

न्यसेत् पुरुषसूक्तञ्च गन्धाद्यैरर्चयेत्ततः । शय्यायां स्वापयेद्देव सुखशायी भवेति तम् ॥ ९४२ ॥

19.943

श्लोक

अन्तराले न गन्तव्यं कैश्चिन्मण्डलशय्ययोः ॥ निषिध्यैर्व देवताभ्यो बलिं विधिवदर्षयेत् ॥ ९४३ ॥

19.944

श्लोक

नैवारिकचरुस्थालीमानीय शयनस्थले । दिग्बलिं चरुशेषेण वितरेद्विधिवद्बुधः ॥ ९४४ ॥

19.945

श्लोक

कृत्वाधिवासनं त्वेवं गीतवाद्यादिभिः शुभैः । सोत्साहं सोत्सवन्ताञ्च रजनीमतिवाहायेत् ॥ ९४५ ॥

19.946

श्लोक

अरुणोदयकाले सत्युत्तिष्ठ ब्रह्मणस्पते । मन्त्रेणानेन वाद्याद्यैर्देवमुत्थापयेत्ततः ॥ ९४६ ॥

19.947

श्लोक

स्तुत्वा पुरुषसूक्तेनोत्तरनारायणेन च । सधृतब्रीहिणा कुण्डे विधिवच्छ्रपयेच्चरुम् ॥ ९४७ ॥

19.948

श्लोक

ततश्चाज्येनाभिघार्य जुहुयान्नाममन्त्रतः । दशाहुतीः स्थाप्यदेवमन्त्रतो हविषा दश ॥ ९४८ ॥

19.949

श्लोक

अवदानानि हुत्वा च चरुशेषेण मन्त्रतः । पूर्णाहुतिञ्च जुहुयात्तन्मन्त्रद्वयतो बुधः ॥ ९४९ ॥

19.950

श्लोक

ततो दत्त्वा धेनुमुख्यां शक्त्याचार्य य दक्षिणाम् । मेरोरभिमुखं वेद्यां देवं कुर्याद्दिनोदये ॥ ९५० ॥

19.951

श्लोक

ओषधीरिति मन्त्रेण ततो देवाय दर्शयेत् । सर्वौषधिपुष्पमुलफलानि विविधानि च ॥ ९५१ ॥

19.952

श्लोक

ताम्रपात्रेऽथ मूलेन शतवाराभिमन्त्रितम् । शान्त्यम्बु गुरुरादाय सिञ्चेद्देवस्य मस्तके ॥ ९५२ ॥

19.953

श्लोक

विश्वतश्चक्षुरित्येतमुपस्थाप्य प्रकल्पयेत् । देवाधो ध्यानतो ब्रह्मशिलां रत्नाष्टकान्विताम् ॥ ९५३ ॥

19.954

श्लोक

ब्रह्मणे नम इत्यादि मन्त्रं सप्रणवं जपेत् ॥ ९५४ ॥

19.955

श्लोक

ततोऽम्भापूरितं कुम्भं क्षिप्तसर्वौषधिं नवम् । अभ्यर्च्य यजमानस्य पुरतः स्थापयेद्गुरुः ॥ ९५५ ॥

19.956

श्लोक

हस्तं कुम्भमुखे न्यस्य वारानष्टो च विंशतिम् । तत्तोयमभिमन्त्र्यास्मिंस्तीर्थान्यावाहयेत्ततः ॥ ९५६ ॥

19.957

श्लोक

तेनाभिषिञ्चेद्देवाग्रे यजमानं सहर्त्विजैः । इमा आपः शिवतमा इत्यादि मनुभिर्गुरुः ॥ ९५७ ॥

19.958

श्लोक

सुमुहूर्ते कृतन्यासो जप्त्वा मूलमनुं ततः । भगवन् प्रतितिष्ठेति मनस्युच्चारयन् मुहुः ॥ ९५८ ॥

19.959

श्लोक

कुसुमाञ्जलिना गीतवाद्यमङ्गलघोषतः । देवं मूर्तीं प्रतिष्ठाप्य तां च स्पृष्ट्वा जपेदृचम् ॥ ९५९ ॥

19.960

श्लोक

ध्रुवा दौरिति तं चोपतिष्ठेत् पुरुषसूक्ततः । यजमानः सभार्योऽथ वितरेत् कुसुमाञ्जलिम् ॥ ९६० ॥

19.961

श्लोक

स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः । प्राकृतत्वगद्र्ष्ट्वा मां बालवत् प्रतिपालय ॥ ९६१ ॥

19.962

श्लोक

शान्तिकुम्भाम्भसा देवं गुरुः पञ्चामृतैरपि । अभिषिच्य स्नापयेत्तं रत्नपुष्पकुशाम्बुना ॥ ९६२ ॥

19.963

श्लोक

सच्चिदानन्दमित्यादि-मत्रेण कुसुमाञ्जलौ । परिभाव्यागतं देवं न्यसेत् प्रतिकृतौ ततः ॥ ९६३ ॥

19.964

श्लोक

निरुध्य प्रणवेनाथ प्रादुर्भूतं विचिन्त्य तम् । स्पृष्ट्वाङ्घ्रिनाभिमस्तेषु इहैवैषीति त्रिजपेत् ॥ ९६४ ॥

19.965

श्लोक

स्वस्वमन्त्रैः परीवारदेवताः पूर्ववद्बुधः । प्रतिष्ठापर्येदर्चासु श्रीमूर्ती वा विचिन्तयेत् ॥ ९६५ ॥

19.966

श्लोक

सकलोकृत्य देवञ्च मूलमन्त्रेण पूजयेत् । उपचारैः षोडशभिः परिवारान्वितं ततः ॥ ९६६ ॥

19.967

श्लोक

अष्टोत्तरशतं मूलमन्त्रमावर्त्य शक्तितः । प्रणम्य दण्डवद्देवं ब्राह्मणान् स्वस्ति वाचयेत् ॥ ९६७ ॥

19.968

श्लोक

यजमानस्ततो दद्यादाचार्याय तु दक्षिणाम् । गवां शतं तदर्द्धं वा गामेकां वात्यशक्तितः ॥ ९६८ ॥

19.969

श्लोक

दद्यात्तदर्द्धमृत्विग्भ्यो जापिभ्यश्च तदर्द्धकम् । अन्येभ्यश्च यथाशक्ति विविधं दानमाचरेत् ॥ ९६९ ॥

19.970

श्लोक

ततो गुरुर्हृष्टमनाः सर्वकामितलब्धये । सुक्षणे यजमानाङ्के श्रीमूर्तिं तां समर्पयेत् ॥ ९७० ॥

19.971

श्लोक

ततः सर्वं पताकादि-मण्डपस्थं समर्प्य च । आचार्याय नमस्कृत्य शक्त्या विप्रांश्च भोजयेत् ॥ ९७१ ॥

19.972

श्लोक

एवं कुर्वन् प्रतिष्ठाञ्च यज्ञानां फलमाप्नुयात् । दीर्घायुर्लब्धलक्ष्मीको वसेत् स्वर्गे चिरं सुखी ॥ ९७२ ॥

19.973

श्लोक

मर्त्यलोके च जायेत सर्वकामसमृद्धिमान् । ततोऽक्षयसुखे लोके वैकुण्ठे रमते सदा ॥ ९७३ ॥

19.974

श्लोक

अथैकाध्वरमार्गेण चलार्चास्थापने विधिः । संक्षिप्तो लिख्यते बौधायनाद्युक्तानुसारतः ॥ ९७४ ॥

19.975

श्लोक

कूण्डमण्डपवेदीनां नात्रापेक्षास्ति तादृशी ॥ ९७५ ॥

19.976

श्लोक

यजमानः पुण्यकाले पुण्यदेशे कृतक्रियः । स्वस्तिवाचनपूर्वन्तु नान्दीश्राद्धं समाचरेत् ॥ ९७६ ॥

19.977

श्लोक

आचार्यमेकं वृणुयान्नर्त्विगादींश्च काश्चन । विदध्यात् सर्वमाचार्य इत्येकाध्वरिको विधिः ॥ ९७७ ॥

19.978

श्लोक

आचार्यो यजमानानुज्ञया सङ्कल्पमाचरेत् । स्थण्डिलेऽग्निं प्रतिष्ठाप्य ब्रीहिना श्रपयेच्चरुम् ॥ ९७८ ॥

19.979

श्लोक

आज्यभागान्तमाचार्यो मूर्तिं वाराष्टकं मृदा । स्नापयेत् पूर्ववत् पञ्चगव्यैः पञ्चामृतैरपि ॥ ९७९ ॥

19.980

श्लोक

अष्टभिश्चाभिषिञ्चेत्तामापो हिष्ठेति मन्त्रतः । कुम्भैः सदूर्वासिद्धार्थपञ्चपल्लवतोयकैः ॥ ९८० ॥

19.981

श्लोक

अभ्यर्च्य वस्त्रगन्धाद्यैरर्चान्तां नाममन्त्रतः । सर्वतोभद्रमध्यस्थ-भद्रपीठे निवेशयेत् ॥ ९८१ ॥

19.982

श्लोक

तत्प्रागाद्यष्टदिक्ष्वष्टौ सगन्धाक्षतपल्लवान् । कुम्भान् जलभृतान्न्यसेद्दीपान् प्रज्वालयेत्तथा ॥ ९८२ ॥

19.983

श्लोक

नेत्रे च प्राग्वदुन्मील्य मधुनाक्तं प्रदाय च । चित्रान्नवलिमात्मेष्टदेवमाहात्म्यकं स्मरेत् ॥ ९८३ ॥

19.984

श्लोक

स्तुत्वा पुरुषसूक्तेन परिपूज्याङ्गदेवताः । प्रत्येकं जुहुयात् साष्टशतन्तु समिदादिभिः ॥ ९८४ ॥

19.985

श्लोक

एकैकद्रव्यहोमान्ते स्पृशेद्देवञ्च पूर्ववत् । क्षिपेदाहुतिसङ्घातं न्यस्तेऽग्न्युत्तरतो घटे ॥ ९८५ ॥

19.986

श्लोक

ततः पूर्णाहुतिं हुत्वा होमशेषं समापयेत् । ततः कृताङ्गन्यासः सन् देवं हृदि विचिन्तयेत् ॥ ९८६ ॥

19.987

श्लोक

मूलमुच्चारयन्मन्त्रं देवं हृत्स्थञ्च सुक्षणे । कुसुमेन प्रतिष्ठाप्य श्रीमूर्तीं स्थापयेदथ ॥ ९८७ ॥

19.988

श्लोक

ध्रुववसूक्तैः प्रतिष्ठाप्य सुप्रतिष्ठो भवेति तम् । प्रणवेन निरुध्येष्टं सम्प्रार्थ्य स्तुतिमाचररेत् ॥ ९८८ ॥

19.989

श्लोक

अथाग्रोदककुम्भस्याभिमन्त्रणपुरःसरम् । मूलेनाचमनीयान्तानासनादीन् समर्पयेत् ॥ ९८९ ॥

19.990

श्लोक

संस्नाप्याथ कृतन्यासं देवं पञ्चामृतैः सुखम् । सम्पातकलसोदेन विशुद्धान्नोदकेन च ॥ ९९० ॥

19.991

श्लोक

शङ्खार्पितेन संस्नाप्य तन्मन्त्रैर्वारसप्तकम् । वस्त्रालङ्कारगन्धादीनुपचारान् प्रकल्पयेत् ॥ ९९१ ॥

19.992

श्लोक

नैवेद्यानि विचित्राणि पुरुषाहारसम्मितम् । सघृतं शर्करोपेतं पायसं वा निवेदयेत् ॥ ९९२ ॥

19.993

श्लोक

महानीराजनं कृत्वा प्रक्षिप्य कुसुमाञ्जलिम् । आचार्यो यजमानाढ्यः शक्त्या वन्देत दण्डवत् ॥ ९९३ ॥

19.994

श्लोक

दत्त्वा पुष्पाञ्जलिं कृत्वा न्यासं प्रार्थ्याप्यनेकशः । पुनः पुष्पाञ्जलिं दत्त्वा स्वस्मिन्न्यासं समाचरेत् ॥ ९९४ ॥

19.995

श्लोक

देवपार्श्वस्थकलसैरद्भिः सेचनमन्त्रतः । कुर्वीत यजमानस्य विप्रोपेतोऽभिषेचनम् ॥ ९९५ ॥

19.996

श्लोक

आचार्याय ततो दद्याद्यजमानस्तु दक्षिणाम् । वस्त्रालङ्कारगोभूमि-स्वर्णाद्यां निजशक्तितः ॥ ९९६ ॥

19.997

श्लोक

यदि वा यजमानः स्यादाचार्यः स्वयमेव सः । तदा चाचार्यावरणं दक्षिणादानमस्ति न ॥ ९९७ ॥

19.998

श्लोक

यजमानः समं विप्रैः पुण्याहं वाचयेत् स्वयम् । अभिषेकञ्च कुर्वीत तांस्तु सम्पूज्य भोजयेत् ॥ ९९८ ॥

19.999

श्लोक

इत्यनेन विधानेन प्रतिष्ठां विदधाति यः । तस्य पुण्यफलावाप्तिः सुखं चात्यन्तिकं क्रमात् ॥ ९९९ ॥

19.1000

श्लोक

कदाचिच्च कथञ्चिच्चेत् किञ्चिद्वैगुण्यमापयेत् । संस्कारादि पुनः कुर्यात् सच्छास्त्रोक्तानुसारतः ॥ १००० ॥