Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.701

श्लोक

कृष्णजिनं तिलांस्तद्वत् पञ्चमेऽह्नि निवेदयेत् । षष्ठे तु सघृतं दद्याच्चन्दनं पद्मकेशरम् ॥ ७०१ ॥

19.702

श्लोक

रोचनां नागपुष्पञ्च सप्तमेऽहनि दापयेत् । यत्र सद्योऽधिवासश्च तत्र सर्वं निवेदयेत् ॥ ७०२ ॥

19.703

श्लोक

मधूवातेति मधुना अभ्यङ्गं प्रथमेऽहनि । पुण्यदं सर्वरोगाणां सर्वनाशाय तत् प्रभोः ॥ ७०३ ॥

19.704

श्लोक

हरिद्रासर्षपैश्चैव द्वितीयेऽहनि लेपयेत् । पित्तरोगभयञ्चैव न भवेत्तु कदाचन ॥ ७०४ ॥

19.705

श्लोक

तण्डुलेन यवैश्चैव तृतीयेऽहनि लेपयेत् । शिरोऽर्तिमक्षिरोगञ्च कर्णशूलञ्च नाशयेत् ॥ ७०५ ॥

19.706

श्लोक

मनःशिलां प्रियङ्गुञ्च चतुर्थेऽहनि लेपयेत् । सौभाग्यं येन सततं यजमानस्य वर्धते ॥ ७०६ ॥

19.707

श्लोक

कृष्णाजिनं तिलांश्चैव पञ्चमेऽहनि दापयेत् । पितरस्तस्य तृप्यन्ति यावज्जीवं सुखप्रदाः ॥ ७०७ ॥

19.708

श्लोक

सुरभिं चन्दनञ्चैव सघृतं पद्मकेशरम् । षष्ठेऽहनि च दातव्यं शत्रुदोषविनाशनम् ॥ ७०८ ॥

19.709

श्लोक

रोचनां नागपुष्पञ्च सप्तमेऽहनि दापयेत् । क्षेमं गोबहुलं चापि धनधान्यं विवर्धते ॥ ७०९ ॥

19.710

श्लोक

एवं सप्ताहमभ्यङ्गं कापिलेन घृतेन तु । दद्याद्विभवतः शक्त्या यदीच्छेच्छ्रियमात्मनः ॥ ७१० ॥

19.711

श्लोक

दीपा घृतेन दातव्याश्चत्वारश्च प्रदक्षिणाः । सप्ताहं मन्त्रयुक्ताश्च विभवेन ततः परम् ॥ ७११ ॥

19.712

श्लोक

चतुर्थे च दिने प्राप्ते चतुर्थीकर्म कारयन् । अर्घ्यं समर्प्य देवेशं प्राग्वत् स्नपनमाचरेत् ॥ ७१२ ॥

19.713

श्लोक

पुनश्च दत्त्वाष्टाङ्गार्घ्यं गोमयस्वस्तिकादिभिः । देवं नीराज्य गन्धादिभर्दद्यादाचमनं बुधः ॥ ७१३ ॥

19.714

श्लोक

ततो वस्त्रयुषं दत्त्वा दिव्यं दत्त्वानुलेपनम् । पुष्पादि धूपदीपादि तत्तन्मन्त्रेण चार्पयेत् ॥ ७१४ ॥

19.715

श्लोक

इत्थं सम्पूज्य विधिवद्दण्डवत्तं प्रणम्य च । विज्ञापयन् मुहुर्भक्त्या तत्तत् पद्यं प्रकीर्तयेत् ॥ ७१५ ॥

19.716

श्लोक

चतुर्थऽह्नि महास्नानं चतुर्थीकर्म कारयेत् । दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः ॥ ७१६ ॥

19.717

श्लोक

स्वस्तिकं पद्मकं शङ्कमुत्पलं कमलं तथा । श्रीवत्सं दर्पणं तद्वन्नन्द्यावर्तमथाष्टकम् । एतानि गोमयैः कुर्यन्मृदा वा शुभया ततः ॥ ७१७ ॥

19.718

श्लोक

पञ्चवर्णौदनं तद्वत् पञ्चवर्णरजस्तथा । दूर्वा कृष्णतिलं तद्वन्नीराजनविधिर्मतः ॥ ७१८ ॥

19.719

श्लोक

एवं नीराजनं कृत्वा दद्यादाचमनं बुधः । मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ॥ ७१९ ॥

19.720

श्लोक

ततो वस्त्रयुगं दद्यान्मन्त्रेणानेन यत्नतः । देवसूत्रसमायुक्ते यजमानसमन्विते । सर्ववर्णैः शुभे देव वाससी नवनिर्मिते ॥ ७२० ॥

19.721

श्लोक

ततश्च चन्दनं दद्यात् समं कर्पूरकुङ्कुमैः । इममुच्चारयेन्मन्त्रं दर्भपाणिः प्रयत्नतः ॥ ७२१ ॥

19.722

श्लोक

शरीरन्ते न जानामि चेष्टां नैव च नैव च । मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम् ॥ ७२२ ॥

19.723

श्लोक

चत्वारिंशत्ततो दीपान् दद्याच्चैव प्रदक्षिणाम् । त्वं सूर्यचन्द्रज्योतीष विद्युदग्निस्तथैव च । त्वमेव सर्वज्योतीषि दीपोऽयं प्रतिगृह्यताम् ॥ ७२३ ॥

19.724

श्लोक

अतःपरं प्रवक्ष्यामि देवस्यावभृथं तव ॥ ७२४ ॥

19.725

श्लोक

शोधयेद्गोमयैर्विप्र यागस्थानं तु सर्वतः । सिक्त्वा गन्धोदकेनाथ पञ्चगव्येन शोधयेत् ॥ ७२५ ॥

19.726

श्लोक

विकिरैः शोध्येद्भूमिं वितानेन विभूषयेत् । पुष्पदामैरधश्चोर्द्ध्वं पार्श्वतश्चापि शोधयेत् ॥ ७२६ ॥

19.727

श्लोक

जुहुयाद्वैष्णवे वह्नौ घृतमष्टोत्तर शतम् । विष्णोर्नुकेति मन्त्रेण समिधौऽष्ठशतं तथा ॥ ७२७ ॥

19.728

श्लोक

विद्यामालिख्य विधिना एकाशीतिपदं बुधः । वैष्णवं कलसं मध्ये आजिघ्रेति निवेशयेत् ॥ ७२८ ॥

19.729

श्लोक

एकाशीतिपदे कुम्भान् श्रीसूक्तेन निवेशयेत् । शन्नो देवीति मन्त्रेण कलसानभिमन्त्रयेत् ॥ ७२९ ॥

19.730

श्लोक

कलसे विन्यसेत् पञ्चगव्यं मन्त्रर्विशेषतः । फलं पुष्पं न्यसेत्तत्र द्रावितं कदलीजलम् । मन्त्रयीत द्वयं चैतद्याः फलिनीति सत्तमः ॥ ७३० ॥

19.731

श्लोक

ऐक्षवञ्च रसं विद्वान् या दिव्यति निवेशयेत् । मन्त्रतोयं न्यसेन्मध्ये नवकानां सुरोत्तम ॥ ७३१ ॥

19.732

श्लोक

तरत् स इत्युचा विद्वान् वस्त्रपूत समाहितः । नदीनदतडागोत्थैः शेषस्तोयैः प्रपूरयेत् ॥ ७३२ ॥

19.733

श्लोक

अपराजितेन मन्त्रेण सर्वानेवाभिमन्त्रयेत् । नवेन शुक्लवस्त्रेण सर्वानेवाभिमन्त्रयेत् ॥ ७३३ ॥

19.734

श्लोक

गायत्रीं वैष्णवीं जप्त्वा मूलमन्त्रं शतं जपेत् । जप्त्वा ध्यायन् हरि सम्यक् प्रविश्याभ्यन्तरं शुचिः । कृष्णोऽसीति च निर्माल्यं विष्ववसेनाय निक्षिपेत् ॥ ७३४ ॥

19.735

श्लोक

अर्घ्यं दत्त्वा शुद्धवत्या शुद्धतोयेन सेचयेत् । अग्निर्मूर्धेत्युष्णजलैः स्नाप्य स्नानं समाचरेत् ॥ ७३५ ॥

19.736

श्लोक

गोमूत्रेण हरिं क्षाल्य गोमयेन विलेपयेत् । क्षीरेण स्नापयेत् पश्चाद्दधिना तदनन्तरम् ॥ ७३६ ॥

19.737

श्लोक

घृतेन स्नाप्य विधिना धूपं दद्यात् स गुग्गुलम् । प्रक्षाल्य कोष्णतोयेन फलतोयेन सेचयेत् ॥ ७३७ ॥

19.738

श्लोक

स्नापयेत् कदलीतोयैस्ततस्त्विक्षुरसेन च । यैर्मन्त्रैर्मन्त्र्येत्तोयं तैर्मन्त्रैः स्नापयेद्धरिम् ॥ ७३८ ॥

19.739

श्लोक

पञ्चनद्येत्यूचा पश्चान्नदीनदतडागजैः । स्नापयित्वा विधानेन वस्त्रयुग्ममुपाहरेत् ॥ ७३९ ॥

19.740

श्लोक

कार्पासं पट्टसूत्रं वा कौशेयं वाथ भूषितम् । बृहस्पतेति मन्त्रेण परिधाप्यार्चयेत् क्रमात् ॥ ७४० ॥

19.741

श्लोक

गन्धादिभिः समभ्यर्च्य पार्षदान् पूजयेत्ततः । निवेदयीत नैवेद्यं भक्ष्यभोज्यं सुपुष्कलम् ॥ ७४१ ॥

19.742

श्लोक

पेयं चूष्य तथा लेह्यं प्रभूतं द्विजसत्तम । बलिं विनिक्षिपेत् पश्चाद्दिशासु विदिशासु च ॥ ७४२ ॥

19.743

श्लोक

ॐ नमः पार्षदेभ्योऽथ बलिं पीठे विनिक्षिपेत् ॥ ७४३ ॥

19.744

श्लोक

ततः प्रदक्षिणीकृत्य मण्डलं ब्राह्मणेन तु । प्रविश्य भवनं भूयः सर्वमावश्यकं पठेत् ॥ ७४४ ॥

19.745

श्लोक

पौराणैश्च स्तवैः स्तुत्वा महापुरुषपूर्वकैः । दण्डवत् प्रणमेत् पश्चान्नृत्यगीतादि कारयेत् ॥ ७४५ ॥

19.746

श्लोक

दद्यात् सुवर्णं गां वस्त्रं दक्षिणां देशिकाय तु । वैष्णवान् पूज्य शक्त्या तु ब्राह्मणेभ्यश्च दक्षिणाम् । आचार्यं तोष्य यत्नेन सन्ध्यायां बलिमाहरेत् ॥ ७४६ ॥

19.747

श्लोक

बलिकर्मविधिश्चायं हयशीर्षे च विस्तरात् । उक्तोऽतिव्यक्तमेकत्र ज्ञेयस्तत् पञ्चरात्रतः ॥ ७४७ ॥

19.748

श्लोक

स्वस्वगृह्योक्तविधिना समुपाधाय पावकम् । पर्युक्ष्य त्रियाहृतिभिर्दद्यादाहुतिकं बुधः ॥ ७४८ ॥

19.749

श्लोक

तारेणाथाग्निमभ्युक्ष्य गायत्र्याहुतिपञ्चकम् । हुत्वैकवैष्णवेनैव जुहुयाद्वारपञ्चकम् ॥ ७४९ ॥

19.750

श्लोक

ततो व्याहृतिभिर्हुत्वा द्वादशाक्षरमन्त्रतः । हुत्वा पूर्ण हुतिं विद्वान् कुशकुण्डीं समापयेत् ॥ ७५० ॥

19.751

श्लोक

आभिषेचनिकैर्मन्त्रैः शान्तिकुम्भाम्भसा ततः । आचार्य द्या द्विजाः कुर्युर्यजमानाभिषेचनम् ॥ ७५१ ॥

19.752

श्लोक

अनेन विधिना कृत्वा सप्तरात्रमहोत्सवम् । देवकुम्भैस्ततः कुर्याद्यजमानाभिषेचनम् ॥ ७५२ ॥

19.753

श्लोक

चतुर्भिरष्टभिर्वापि द्वाभ्यामेकेन वा पुनः । सपञ्चरत्नकनकैः सितवस्त्राववेष्टितैः ॥ ७५३ ॥

19.754

श्लोक

देवस्य त्वेति मन्त्रेण साम्ना चाथर्वणेन च । अभिषेके इमे मन्त्रा नवग्रहमखे स्मृताः ॥ ७५४ ॥

19.755

श्लोक

प्राङ्मुखं यजमानन्तु स्नापयित्वा यथाविधि । फलं समर्पयेत्तस्मै परितुष्टमना गुरुः ॥ ७५५ ॥

19.756

श्लोक

यजमानोऽभिषिक्तः सन् देवमभ्यर्च्य शक्तितः । आचार्यं पूजयित्वास्मै प्रतिष्ठाद्रव्यमर्पयेत् ॥ ७५६ ॥

19.757

श्लोक

सिताम्बरधरः स्नात्वा देवं सम्पूज्य यत्नतः । स्थापकं पूजयेद्भक्त्या वस्त्रालङ्कारभूषणैः ॥ ७५७ ॥

19.758

श्लोक

यज्ञभाण्डानि सर्वाणि मण्डपोपस्करादिकम् । यच्चास्य दयितं गेहे तदाचार्याय दापयेत् । सुप्रसन्ने गुरौ यस्मात्तृप्यन्ति सर्वदेवताः ॥ ७५८ ॥

19.759

श्लोक

यागोपयोगिद्रव्याणि सर्वाण्यस्मै निवेदयेत् । स्नानीयमण्डपोपेतं सर्वोपस्करणादिकम् । मूलयज्ञगृहं दद्यादाचार्याय तथापरम् ॥ ७५९ ॥

19.760

श्लोक

ततः प्रतिष्ठां कुर्वीत द्वारप्रासादयोर्बुधः । विज्ञाय श्रीहयग्रीवपञ्चरात्राच्च तद्विधिम् ॥ ७६० ॥

19.761

श्लोक

अतःपरं प्रवक्ष्यामि ध्वजारोपणमुत्तमम् । यत् कृत्वा पुरुषः सम्यक् समग्रं फलमाप्नुयात् ॥ ७६१ ॥

19.762

श्लोक

यातुधाना गुह्यकाश्च कुष्माण्डाः खेचरास्तथा । विघ्नयन्त्यमरश्रेष्ठ ध्वजहीनं सुरालयम् ॥ ७६२ ॥

19.763

श्लोक

ध्वजेन रहिते विप्रे प्रासादे तु वृथा भवेत् । पूजाहोमादिकं सर्वं जपाद्यं यत् कृतं बुधैः ॥ ७६३ ॥

19.764

श्लोक

रक्षणेन विना यद्वत् क्षेत्रं नश्येत क्षेत्रिणाम् । ध्वजं विना देवगृह तथा नश्येत सर्वथा ॥ ७६४ ॥

19.765

श्लोक

रुद्रस्य पार्षदाः क्रूराः कुष्माण्डाद्याश्च ये स्मृताः । पूजादिकन्तु गृह्णन्ति दैवं दृष्ट्वा न रक्षितम् ॥ ७६५ ॥

19.766

श्लोक

दृष्ट्वा ध्वजं तु देवस्य ज्वलज्ज्वलनवर्चसम् । नश्यन्ति तद्भियैवार्करश्मिक्षिप्तं तमो यथा ॥ ७६६ ॥

19.767

श्लोक

प्रासादविम्बद्रव्याणां यावन्तः परमाणवः । तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् । एतत् पुण्यं कोटिगुणं भवेदारोपिते ध्वजे ॥ ७६७ ॥

19.768

श्लोक

कूष्माण्डवेदीविम्बानां भ्रमणाद्वायुनानघ । कण्ठस्य वेष्टनाज्ज्ञेयं फलं कोटिगुणं भवेत् ॥ ७६८ ॥

19.769

श्लोक

ध्वजं निवेशयेद्दण्डे दिशासु विदिशासु च । सूत्रात्मानं विजानीहि ध्वजदण्डं व्यवस्थितम् । चिच्छक्तिं विद्धि तस्यैव ध्वजरूपां चलाननाम् ॥ ७६९ ॥

19.770

श्लोक

पताकां प्रकृतिं विद्धि दण्डं पुरुषविग्रहम् । प्रासादं वासुदेवस्य मूर्तिभूतं निबोध मे ॥ ७७० ॥

19.771

श्लोक

धारणाद्धरणीं विद्धि आकाशं शुषिरात्मकम् । तेजस्तत्पादनं विद्धि वायुस्पर्शगतं तथा ॥ ७७१ ॥

19.772

श्लोक

पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणम् । प्रतिशब्दोत्तरं शब्दं स्पर्श स्यात् कर्कशात्मकम् ॥ ७७२ ॥

19.773

श्लोक

शुक्लादिकं भवेद्रूपं रसमात्मनिदर्शनम् । धूपादिगन्धो गन्धस्तु वाग्गीतादिषु संस्थिता ॥ ७७३ ॥

19.774

श्लोक

शुकनासा स्मृता नासा बाहू भद्रकरौ स्मृतौ । शिरस्त्वण्डं निगदितं कलसं मूर्धजं स्मृतम् ॥ ७७४ ॥

19.775

श्लोक

कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्यते । पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्तिता ॥ ७७५ ॥

19.776

श्लोक

मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते । तच्छक्तिं पिण्डिकां विद्धि प्रकृतिञ्च तदाकृतिम् ॥ ७७६ ॥

19.777

श्लोक

निश्चलत्वं तु गर्भोऽस्य अधिष्ठातास्य केशवः । एवमेष हरिः साक्षात् प्रासादत्वेन संस्थितः ॥ ७७७ ॥

19.778

श्लोक

जङ्घान्तेऽस्य शिवो ज्ञेयस्त्वं स्कन्धान्ते व्यवस्थितः । ऊर्द्ध्वभागे स्थितो विष्णुरेवमेतदवस्थितम् ॥ ७७८ ॥

19.779

श्लोक

एवं स्थितस्य चैतस्य प्रासादस्य यथाविधि । प्रतिष्ठां ध्वजरूपेण शृणु मे साम्प्रतं स्फुटम् ॥ ७७९ ॥

19.780

श्लोक

पूर्वे देवासुरे युद्धे विजयार्थं तदामरैः । कृत्वा लक्ष्माणि ह्युपरि वाहनान्यायुधानि च । जितं दैत्यबलं सर्वं तदादौ ध्वजसंस्थितिः ॥ ७८० ॥

19.781

श्लोक

अण्डोर्द्ध्वं कलसं न्यस्य तदूर्द्ध्वं विन्यसेद्ध्वजम् । विम्बार्द्धमानं चक्रं तु त्रिभागेनाथ कारयेत् ॥ ७८१ ॥

19.782

श्लोक

द्वात्रिंशदङ्गुलं ज्येष्ठं कनिष्ठं त्वष्टहानितः । प्रतिमातुर्यभागेन कारयेद्वा सुदर्शनम् ॥ ७८२ ॥

19.783

श्लोक

लोहजं शैलजं वापि कारयेच्चिह्नपूर्वकम् । अष्टारं द्वादशारं वा मध्ये मूर्तिसमन्वितम् । नारसिंहेन रौद्रेण विश्वरूपेण वा पुनः ॥ ७८३ ॥

19.784

श्लोक

द्वारस्य दैर्घ्याद्विगुणं दण्डं वा परिकल्पयेत् ॥ ७८४ ॥

19.785

श्लोक

ध्वजयष्टिर्देवगृहे ऐशान्यां दिशि देशिकैः । वायव्ये स्थापनीया वा साम्प्रतं ध्वज उच्यते ॥ ७८५ ॥

19.786

श्लोक

पट्टकार्पासक्षौमाद्यैर्ध्वज कुर्यात् सुशोभनम् । एकवर्णं विचित्रं वा घण्टाचामरभूषितम् ॥ ७८६ ॥

19.787

श्लोक

किङ्किणीजालिकोपेतं वर्हिपत्रविभूषितम् । शुक्लादिवर्णैर्विप्रादिः क्रमाद्वा कारयेद्ध्वजम् ॥ ७८७ ॥

19.788

श्लोक

दण्डाग्रात् धरणीं यावद्धस्तैकं विस्तरेण तु । महाध्वजन्तु विख्यातं सर्वकामप्रदं शुभम् ॥ ७८८ ॥

19.789

श्लोक

तूर्यांशहीना विख्याता ध्वजासुरगणार्चिता । ध्वजिकार्द्धेन विज्ञया पताका मानवर्जिता ॥ ७८९ ॥

19.790

श्लोक

विस्तारेण ध्वजा कार्या विशत्यङ्गुलसम्मिता । षोडशाङ्गुलमानेन ध्वजिका विस्तरात् स्मृता ॥ ७९० ॥

19.791

श्लोक

अधिवास्य विधानेन चक्रं दण्डं ध्वजं तथा । देववत् सकलं कृत्वा मण्डपस्नपनादिकम् ॥ ७९१ ॥

19.792

श्लोक

नेत्रोन्मीलनकं कृत्वा पूर्वोक्तं सर्वमाचरेत् । अधिवासयेत विधिना शय्यायां स्थाप्य देशिकः ॥ ७९२ ॥

19.793

श्लोक

ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद्बुधः । तथा सौदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥ ७९३ ॥

19.794

श्लोक

मनोऽनुरूपेणास्यैव सजीवकरणं स्मृतम् । अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥ ७९४ ॥

19.795

श्लोक

नाभ्यक्ष-प्रधिनेमीषु न्यसेत्तत्त्वानि देशिकः । नारसिंह विश्वरूपमक्षमध्ये निवेशयेत् ॥ ७९५ ॥

19.796

श्लोक

सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकम् । निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिम् । तच्छक्तिव्यापिनीं ध्यायेद्ध्वजारूपाञ्चलाननाम् ॥ ७९६ ॥

19.797

श्लोक

ततो मण्डपमध्ये तु स्नाप्य पुज्य यथाविधि । पूर्वोक्तेन विधानेन होमं कुण्डेषु कारयेत् ॥ ७९७ ॥

19.798

श्लोक

ततः प्रभातसमये मूर्तिपैः सह देशिकः । कलसे स्वर्णसकलं न्यस्त्वा रत्नानि पञ्च च ॥ ७९८ ॥

19.799

श्लोक

स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः । पारदेन तु संप्लाव्य नेत्रपट्टेन स्थापयेत् ॥ ७९९ ॥

19.800

श्लोक

ततो निवेशयेच्चक्रं द्वादशारं सुदर्शनम् । दुर्निरीक्ष्यं सुरैर्दैत्यैर्भ्रमद्वाह्निस्फुलिङ्गकम् ॥ ८०० ॥