Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.601

श्लोक

ततः स्वार्णादिना देवं संस्थाप्यार्घ्यं प्रदाय च । धूपादि दत्त्वावहितो महामन्त्रं जपेद्गुरुः ॥ ६०१ ॥

19.602

श्लोक

स्थितमात्रं सुवर्णेन स्नापयेदथ सर्पिषा । तस्यान्ते स्नापयेत्तेन सम्पाताहुतिवारिणा ॥ ६०२ ॥

19.603

श्लोक

अर्घ्यं दत्त्वा नमस्कृत्य अर्चयित्वा यथाविधि । सकृतं गुग्गुलं दद्यान्निःशब्दं कारयेत्ततः ॥ ६०३ ॥

19.604

श्लोक

ऐशाने तु दिशाभागे स्थितस्तूष्णीं सुसंयतः । उच्चारयेन्महामन्त्रं द्वादशाक्षरमद्रुतम् । तेन वै जप्यमानेन विधेरच्छिद्रता भवेत् ॥ ६०४ ॥

19.605

श्लोक

मन्त्रहीनो विधिर्यश्च अङ्गहीनश्च यो भवेत् । हीनो वै दक्षिणाभिश्च न प्रशस्तः कदाचन । एष गुह्यविधिः प्रोक्तः संहितोक्तो मया तव ॥ ६०५ ॥

19.606

श्लोक

ॐ यज्जाग्रत इत्याद्यैर्मन्त्रैः षड्भिः क्रमात् स्पृशेत् । देवस्य दक्षिणं पार्स्वं वामं पृष्ठं शिरः पदौ ॥ ६०६ ॥

19.607

श्लोक

अधुना वैदिकं वक्ष्ये विधिं सामान्ययोगतः । एताभिरृग्भिः षड्भिश्च विष्णुं सर्वत्र संस्पृशेत् ॥ ६०७ ॥

19.608

श्लोक

दक्षिणं पश्चिमं चैव उत्तरं पूर्वमेव च । मूर्ध्नि मुले च यत्नेन संस्पृशेत् प्रयतो बुधः ॥ ६०८ ॥

19.609

श्लोक

ॐ यज्जाग्रतो दूरमुदैति दैवम् ॥ ६०९ ॥

19.610

श्लोक

ॐ येन कर्मण्यपसो मनीषिणे यज्ञ ॥ ६१० ॥

19.611

श्लोक

ॐ यत् प्रज्ञानामृतचेतो धृतिश्च ॥ ६११ ॥

19.612

श्लोक

ॐ येनेदम्भूतं भुवनं भविष्यत् ॥ ६१२ ॥

19.613

श्लोक

ॐ यस्मिन्नृचः सामयजुंषि यस्मिन् ॥ ६१३ ॥

19.614

श्लोक

ॐ सुखारथिरश्चातिवयन्मनुष्यान् ॥ ६१४ ॥

19.615

श्लोक

देवध्यानैकचेतास्तु मन्त्रानेतानुदीरयेत् ॥ ६१५ ॥

19.616

श्लोक

ॐ यज्जाग्रतो दूरमुदैति इति ततो विराडजायत इति सहस्रशीर्षा पुरुष इति अभि त्वाशूर नो नुम इति । ॐ पुरुष एवेदं सर्वमिति ॐ येनेदं भूतं भुवनमिति ॐ न त्वा वा अन्य इति ॥ ६१६ ॥

19.617

श्लोक

सर्वस्वेनान् प्रतिष्ठासु जप्त्वा मन्त्रान् पुनः पुनः । चतुष्कृत्वः स्पृशेदद्भिर्मूले मध्ये शिरस्यपि ॥ ६१७ ॥

19.618

श्लोक

देवमूर्ध्नि करं न्यस्य देवं ध्यायन् जपेद्गुरुः । सूक्तान्यथात्मतत्त्वञ्च भावयित्वा पठेन्मनून् ॥ ६१८ ॥

19.619

श्लोक

ततः स्थिरीकृतस्यास्य हस्तं दत्त्वा तु मस्तके । ध्यात्वा परमसद्भावं देवदेवन्तु निष्कलम् ॥ ६१९ ॥

19.620

श्लोक

देवव्रतं तथा साम रुद्रसूक्तं तथा पठेत् । आत्मानमीश्वरं ध्यात्वा नानाभरणभूषितम् । यस्य देवस्य यद्रुपं तद्ध्याने संस्मरेत् सदा ॥ ६२० ॥

19.621

श्लोक

अतसीपुष्पसङ्काशं शङ्खचक्रगदाधरं । संस्थापयामि देवेशं देवो भूत्वा जनार्दनम् ॥ ६२१ ॥

19.622

श्लोक

वेदमन्त्रांस्तथा मन्त्रान् रुद्रस्य स्थापने जपेत् । विष्णोस्तु वैष्णवांस्तद्वद्ब्राह्मांश्च ब्राह्मणो बुधः ॥ ६२२ ॥

19.623

श्लोक

सौराः सूर्यस्य जप्तव्यास्तथान्येषु तदाश्रयाः । वेदमन्त्रप्रतिष्ठा तु यस्मादानन्ददायिनी ॥ ६२३ ॥

19.624

श्लोक

स्थापयेद्यस्तु देवेशं प्रधानन्तं प्रकल्पयेत् । तस्य पार्श्वे स्थितानन्यान् स्मरेत्तत्परिवारवत् ॥ ६२४ ॥

19.625

श्लोक

पञ्चगव्येन तं स्नाप्य क्षाल्य गन्धोदकेन तु । पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिम् ॥ ६२५ ॥

19.626

श्लोक

ध्यायेत्त परमात्मानं निष्कलं निर्मलं विभुम् ॥ ६२६ ॥

19.627

श्लोक

गगनं तस्य मूर्तिस्तु पृथिवी तस्य पिण्डिका । कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः ॥ ६२७ ॥

19.628

श्लोक

तेजोमयं ततो ध्यायेच्छङ्खचक्रगदाधरम् । मन्त्रमूर्तिं ततः कुर्यान्मूलमन्त्रेण वै हरिम् ॥ ६२८ ॥

19.629

श्लोक

स्थिते सति स्थितिन्यासमासीने सृष्टिसंज्ञितम् । शयिते संहृतिन्यासं यानस्थे सर्वमेव च ॥ ६२९ ॥

19.630

श्लोक

एवं न्यासविधिं कृत्वा ध्यायेद्विष्णुं सुरेश्वरम् । हृत्तामरस-मध्यस्थं सर्वकर्मैर्कसाक्षिणम् । क्षेत्रज्ञं चित्स्वभावन्तमणीयांसमणोरपि ॥ ६३० ॥

19.631

श्लोक

अदोषपरमर्ष्यादीन् प्रतिमायां निवेशयेत् । सजीवकरणं कृत्वा प्रणवेन निरोधयेत् ॥ ६३१ ॥

19.632

श्लोक

सान्निध्यकरणार्थाय हृदयं स्पृश्य देशिकः । पौरुषन्तु जपेत् सूक्तं ध्यायेद्देवं सुरेश्वरम् ॥ ६३२ ॥

19.633

श्लोक

जपेत्तथापरं मन्त्रमिमं गुह्यं सनातनम् ॥ ६३३ ॥

19.634

श्लोक

ॐ नमस्तुभ्यं सुरेशाय सन्तोषविभवात्मने । ज्ञानविज्ञानरूपाय ब्रह्मातेजोऽनुशालिने ॥ ६३४ ॥

19.635

श्लोक

गुणानुक्रान्तवेशाय पुरुषाय महात्मने । अक्षयाय पुराणाय विष्णो सन्निहितो भव ॥ ६३५ ॥

19.636

श्लोक

यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः । तत् सर्वमेकतो लीनमस्मिन् देहे विबुध्यताम् ॥ ६३६ ॥

19.637

श्लोक

अनेन सन्निधोकृत्य देवं देवारिसूदनम् । ब्रह्मादिपरिवारांस्तु स्वनाम्ना स्थापयेत्ततः ॥ ६३७ ॥

19.638

श्लोक

आयुधान्यस्य मन्त्रैस्तु नमोऽन्तैः स्थापयेद्बुधः । ततः सन्दर्शयेत् पश्चात् स्वकां मुद्रां पृथक् पृथक् । सान्निध्यन्तु पृथक् कुर्यात् प्रणवेन प्लुतेन तु ॥ ६३८ ॥

19.639

श्लोक

कृष्णे न्यस्य गुरुश्चित्तं मन्त्रैरावाहनादिकम् । कृत्वा तु स्नापयेद्गीतादिना पञ्चामृतादिभिः ॥ ६३९ ॥

19.640

श्लोक

पश्चादावाहनं कुर्याद्देवदेवस्ण शार्ङ्गिणः । ध्यात्वा परमसद्भावं चतुर्बृहं चतुर्भुजम् ॥ ६४० ॥

19.641

श्लोक

तत्र सन्धाय चित्तं तु निश्चलं कुरुनन्दन । आवाहनं ततः कुर्यान्मुनिभिर्मन्त्रसंयुतैः ॥ ६४१ ॥

19.642

श्लोक

ॐ आगच्छागच्छ भगवन्ननुग्राहय जनार्दन । शाश्वतः पुरुषः पूजां प्रतिगृह्णातु नमो नमः ॥ ६४२ ॥

19.643

श्लोक

ॐ स्वागतं भगवते सगणाय सपरिवाराय । प्रतिगृह्णातु भगवान् मन्त्रपूतमिदमर्घ्यं पाद्यमाचमनीयं चैतदासनं ब्रह्मणा विहितं स्वयम् ॥ ६४३ ॥

19.644

श्लोक

ततः पुण्याहघोषेण ब्रह्मघोषैश्च पुष्कलैः । स्नापयीत ततो देवं दधिक्षीरघृतेन च । मधुशर्करया तद्वत् पुण्यगन्धोदकेन तु ॥ ६४४ ॥

19.645

श्लोक

कृत्वाथोद्वर्तनं दत्त्वा वस्त्रादि विधिवद्बुधः । नत्वा प्रदक्षिणीकृत्य स्तुत्वा चाभ्यर्थयेत् प्रभुम् ॥ ६४५ ॥

19.646

श्लोक

ततः पूजां प्रकुर्वीत संहितोक्तान्तु मन्त्रवित् । चन्दनागुरुकर्पूरकुङ्कुमाद्यैश्च लेपयेद् ॥ ६४६ ॥

19.647

श्लोक

नारायणेति मन्त्रेण वस्त्रैर्धूपैश्च योजयेत् । एवं सुपूजितं कृत्वा देवदेवं जनार्दनम् । प्रणम्य दण्डवद्भूमौ शनैर्गच्छेत् प्रदक्षिणम् ॥ ६४७ ॥

19.648

श्लोक

पुनरागत्य पुरतो विज्ञप्तव्यो जनार्दनः । सुकृतं दुष्कृतं वापि ज्ञानतोऽज्ञानतोऽपि वा । तत् सर्वमात्मना सार्द्धं मया तुभ्यं निवेदितम् ॥ ६४८ ॥

19.649

श्लोक

शान्तिं भवन् कुर्वथ लोकनाथो राज्ञश्च राष्ट्रस्य च ब्राह्मणानाम् । सबालवृद्धस्य गवाञ्च शान्तिं कन्यासु सर्वासु पतिव्रतासु ॥ ६४९ ॥

19.650

श्लोक

नश्यन्तु रोगा अथ ईतयश्च भवन्तु सर्वे सुखिताश्च भूताः । शाकेषु ब्रीहिष्वथ कर्षकाणां सुभिक्षकालं कुरु पद्मनाभ ॥ ६५० ॥

19.651

श्लोक

कृत्वाष्टाङ्ग-नमस्कारं प्रणम्याञ्जलिमुद्रया । सान्निध्यकरणाच्चाथ ऋत्विग्भिः सहितो गुरुः ॥ ६५१ ॥

19.652

श्लोक

स्तूयादुपनिषन्मन्त्रैरृग्यजुःसामसम्भवैः । आवश्यकं पठेत् सर्वं पञ्चोपनिषदस्तथा । स्तुत्वा स्तोत्रैश्च पौराणैर्जपेदष्टाक्षरं ततः ॥ ६५२ ॥

19.653

श्लोक

जप्त्वाष्टाक्षरमन्त्रं तु निर्गत्य द्वारसस्थितौ । चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः ॥ ६५३ ॥

19.654

श्लोक

अग्रमण्डपमासाद्य गरुड स्थाप्य पूजयेत् । दिगीशानथ दिग्देवान् स्थाप्य सम्पूज्य देशिकः ॥ ६५४ ॥

19.655

श्लोक

विष्वक्सेनन्तु संस्थाप्य मूलमन्त्रेण पूजयेत । तथा शङ्खञ्च चक्रञ्च पूजयेन्मन्त्रवित्तमः । विष्णुपार्षददेवांश्च सर्वेभ्यो बलि हिरेत् ॥ ६५५ ॥

19.656

श्लोक

एवं कृत्वा गुरुः सम्यक् शुक्लाम्बरधरः शुचिः । शतमष्टोत्तरं जप्त्वा देवं तमभिवादयेत् ॥ ६५६ ॥

19.657

श्लोक

प्रणाममुद्रया पश्चादष्टाङ्गं प्रणिपत्य च । नृत्यं गीतञ्च वाद्यञ्च नाट्यञ्चापि प्रकारयेत् ॥ ६५७ ॥

19.658

श्लोक

यद्वा स्थापनतः पश्चाद्वर्णादिस्नपन प्रभोः । ध्यानं जपाङ्गालभनं पूजाथावरणार्चनम् ॥ ६५८ ॥

19.659

श्लोक

यद्वाऽङ्गालभनात् पश्चात् सकलीकरणादिकम् । कुर्याच्छीहयशीर्षोक्तं परिवारार्चनं ततः ॥ ६५९ ॥

19.660

श्लोक

तस्मिन्नेव मुहूर्ते तु हर्षो वाभयमेव च । चक्षुर्भ्रमो विभ्रमो वा त्रासो वा जायते यदि ॥ ६६० ॥

19.661

श्लोक

व्यामोहः परमोहो वा स्तनितं परमं तथा । अश्रतानां श्रुतिर्वा स्याद्गात्राणां वाथ वेपथुः ॥ ६६१ ॥

19.662

श्लोक

वैराग्यं नेत्रयोर्वा स्याद्दर्पः कन्दर्प एव वा । परमो विस्मयो वाथ दिव्यो वा श्रूयते ध्वनिः ॥ ६६२ ॥

19.663

श्लोक

दिव्यवादित्रघोषो वा गन्धर्वनगरस्य वा । दर्शनं जायते काले तस्मिन् सुरगणार्चिते ॥ ६६३ ॥

19.664

श्लोक

नरा नायर्योऽथ दृश्यन्ते गायन्त्योऽप्यथ हर्षिताः । नन्दितूर्यरवो वापि श्रूयते छन्दसां ध्वनिः ॥ ६६४ ॥

19.665

श्लोक

दिव्यगन्धा रसा वापि एकस्यापि भवन्ति हि । लिङ्गैरेतैर्विजानीयात्तत्र सन्निहितं हरिम् ॥ ६६५ ॥

19.666

श्लोक

प्रभावैरविशेषेण ज्वलन्तीव च दृश्यते । स्फूरन्तीव च दृश्येत प्रतिमा च विशेषतः ॥ ६६६ ॥

19.667

श्लोक

स्फुरन्निव जनः कश्चित् स्मयमान इव क्वचित् । वीक्ष्यमाणो जनस्तत्र प्रहृष्ट इव लक्ष्यते । एतैस्तु लक्षणैर्ज्ञेयस्तत्र सन्निहितो हरिः ॥ ६६७ ॥

19.668

श्लोक

विशेषादथवा पश्येच्चक्रचापोपमं क्वचित् । छविं वज्रप्रभां पश्येत् पद्मरागप्रभां तथा ॥ ६६८ ॥

19.669

श्लोक

सौदामिनीप्रभां पश्येत् प्रतिमायां क्वचिद्यदि । एतैर्ल्ङ्गैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥ ६६९ ॥

19.670

श्लोक

बधिरा इव केचित्तु मूका इव तथापरे । विभ्रान्ता इव केचिच्च जडा इव तथापरे ॥ ६७० ॥

19.671

श्लोक

धावन्त इव केचित्तु पतन्त इव चापरे । नृत्यन्त इव चाप्यन्ये मत्ता इव तथा यदि ॥ ६७१ ॥

19.672

श्लोक

चित्रस्था इव केचित्तु विवशा इव केचन । भवन्ति तत्र चोन्मत्ताः प्रमत्ता इव चापरे । लिङ्गैरेतैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥ ६७२ ॥

19.673

श्लोक

सन्मानयेदथाचार्यं शक्त्या वस्त्रादिना ततः । मूर्तिपंश्चापरान् विप्रान् वैष्णवांश्चापरानपि ॥ ६७३ ॥

19.674

श्लोक

स्थापिते तु ततो देवे यजमानः समूर्तिपम् । आचार्यं पूजयेद्भक्त्या वस्त्रालङ्कारभूषणैः । दीनान्धकृपणांस्तद्वद्ये चान्ये समुपस्थिताः ॥ ६७४ ॥

19.675

श्लोक

ततः सम्पूजयेद्भक्त्या स्थापकं विधिवन्नृप । भूमिदानादिभिर्दानैर्गोदानैश्च महीपते । यथा स तुष्यते राजंस्तथा कार्यं प्रयत्नतः ॥ ६७५ ॥

19.676

श्लोक

यथाशक्त्यानुसारेण पूज्याश्चापि द्विजातयः । दीनान्धकृपणानाञ्च पूजा कार्या प्रयत्नतः । गणांश्च नर्तकांश्चैव यथाशक्ति प्रपूजयेत् ॥ ६७६ ॥

19.677

श्लोक

मण्डले कमले वापि स्थापयित्वा गुरुं यजेत् । प्रियप्राश्नैः क्षमाप्यैनं विष्णुवत् पूजयेद्बुधः । पादयोः प्रणिपत्याथ दक्षिणाञ्च निवेदयेत् ॥ ६७७ ॥

19.678

श्लोक

आचार्य-दक्षिणां दद्यान्नगरं ग्राममेव च । सुवर्णं रजतं वस्त्रं गाञ्चैव समलङ्कृताम् । दक्षिणां विधिवद्दत्त्वा दद्यादाभरणादिकम् ॥ ६७८ ॥

19.679

श्लोक

आचार्यदक्षिणार्द्धन्तु प्रदद्याद्ब्रह्मदक्षिणाम् । मूर्तिपान् पूजयेत् पश्चाद्गोवस्त्राभरणैर्द्विज ॥ ६७९ ॥

19.680

श्लोक

सर्वांस्तु पूजयेत्तत्र वैष्णवानागतान् द्विजान् । भोजयेद्ब्राह्मणान् भक्त्या अत्यादरमतन्द्रितः ॥ ६८० ॥

19.681

श्लोक

यज्ञः सुपुष्कलः सर्वः कर्तव्यो धर्मलिप्सया । मन्त्रहीनो गुरुं हन्याद्राष्टमन्येन वर्जितः । धर्मञ्च यजमानञ्च हन्याद्दक्षिणया विना ॥ ६८१ ॥

19.682

श्लोक

अथवा स्थापनात् पश्चाद्ध्यानाद्यावाहनादि च । पञ्चामृतादिना स्वार्णादिनान्यस्नपनं ततः ॥ ६८२ ॥

19.683

श्लोक

वस्त्रादिदानैर्विधिवत् पूजा-मन्त्रजपादिकम् । नतिः प्रदक्षिणा याच्ञा गुर्वाद्यर्चेत्ययं क्रमः ॥ ६८३ ॥

19.684

श्लोक

मूर्तिं च चालयेज्जातु यत्नात् सुस्थिरतां नयेत् । तस्यां प्रचलितायाञ्च कुर्यात् स्वस्त्यनादिकम् ॥ ६८४ ॥

19.685

श्लोक

स्थिरं न चालयेद्देवमन्यथा पापभाग्भवेत् । पूजयेत् सिकताभिश्च निश्छिद्रं सर्वतो भवेत् ॥ ६८५ ॥

19.686

श्लोक

लोकपालस्य दिग्भागे यस्य सञ्चलते विभुः । तस्य लोकपतेः शान्तिर्देयाश्चेमाश्च दक्षिणाः ॥ ६८६ ॥

19.687

श्लोक

इन्द्राय वारणं दद्यात् काञ्चनं वाल्पवित्तवान् । अग्नेः सुवर्णमेषञ्च यमस्य महिषं तथा ॥ ६८७ ॥

19.688

श्लोक

अजं सकाञ्चनं दद्यान्निरृतिं राक्षसं प्रति । वरणं प्रति मुक्तानि सशुक्तीनि प्रदापयेत् ॥ ६८८ ॥

19.689

श्लोक

रीतिकां वायवे दद्याद्वस्त्रयुग्मेन संयुताम् । सोमाय धेनुर्दातव्या राजतस्तु वृषः शिवे ॥ ६८९ ॥

19.690

श्लोक

यस्यां यस्यान्तु चलते शान्तिः स्यात्तत्र तत्र तु । अन्यथा तु भवेद्घोरं भयं कुलविनाशनम् । अचलं कारयेत्तस्मात् सिकताभिः सुरेश्वरम् ॥ ६९० ॥

19.691

श्लोक

स्थिरं न चालयेद्देवं कदाचिदपि पिण्डतः । हन्याद्विचालितोऽज्ञानात्तस्मात्तं न विचालयेत् ॥ ६९१ ॥

19.692

श्लोक

यां यां दिशं चलेद्देवस्तां तां शान्तिन्तु कारयेत् । अन्यथा तु भवेद्घोरं भयं कुलविनाशनम् ॥ ६९२ ॥

19.693

श्लोक

यथा न चलते देवस्तथा वध्नीत पिण्डिकाम् । शीघ्रमेव तु कर्तव्यं न विलम्बेत् कदाचन । प्रतिमां सुस्थिरां कुर्यान्नोर्द्ध्वदृष्टिं कदाचन ॥ ६९३ ॥

19.694

श्लोक

रात्रौ गीतादिकं कुर्वन् दिवसे च महार्चनम् । महोत्सवेनाहरेकं शक्त्या वा कतिचिन्नयेत् ॥ ६९४ ॥

19.695

श्लोक

त्रिरात्रं सप्तरात्रं वा दशरात्रमथापि वा । पुण्याह-जयघोषैश्च कुर्याद्देवमहोत्सवम् ॥ ६९५ ॥

19.696

श्लोक

रात्रौ महोत्सवं कुर्याच्छङ्खभेर्यादिनिस्वनैः । एकरात्रं त्रिरात्रं वा सप्तरात्रमथापि वा । तस्माद्विष्णुः सदायाति इत्येषा फलसम्प्रदा ॥ ६९६ ॥

19.697

श्लोक

रात्रौ दिने च गीताद्यैः पुण्याह-जयमङ्गलैः । त्रि पञ्च सप्त दश वा दिनानि स्थानमहोत्सवः ॥ ६९७ ॥

19.698

श्लोक

ततस्तु मधुना देवं प्रथमेऽहनि स्नपयेत् । हरिद्रयाथ सिद्धार्थैर्द्वितीयेऽहनि तत्त्वतः ॥ ६९८ ॥

19.699

श्लोक

चन्दनेन यवैस्तद्वत् तृतीयेऽहनि लेपयेत् । मनःशिलाप्रियङ्गुभ्यां चतुर्थेऽहनि लेपयेत् ॥ ६९९ ॥

19.700

श्लोक

सौभाग्यं शुभदं यस्मात् लेपनं व्याधिनाशनम् । मनःप्रीतिकरं नृणामेतद्वेदविदो विदुः ॥ ७०० ॥