Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.501

श्लोक

सर्वबीजानि धातुंश्च रत्नान्योषधयस्तथा । ब्रह्मस्थाने तु दातव्याः संहताः स्युः परस्परम् ॥ ५०१ ॥

19.502

श्लोक

काञ्चनं पद्मरागञ्च पारदं पद्ममेव च । कूर्मं धरां वृषं तद्वन्यस्येत् पूर्वादितः क्रमात् ॥ ५०२ ॥

19.503

श्लोक

मूलकं विद्रुमं ताम्रं कांस्यं चैवारकूटकम् । रजतं विमलं पुष्पं लोहं चानुक्रमेण तु ॥ ५०३ ॥

19.504

श्लोक

काञ्चनं हरितालञ्च सर्वाभावे विनिक्षिपेत् । दद्याद्वीजौषधिस्थाने सहदेवीं यवानपि ॥ ५०४ ॥

19.505

श्लोक

नपुंसकशिलायान्तु रत्नन्यासं समाचरेत् । वस्त्राभरणगन्धाद्यैः पूर्ववद्भूषितो गुरुः ॥ ५०५ ॥

19.506

श्लोक

हुत्वाहुतिशतं विप्र नारसिंहेन वा पुनः । तेनैवामन्त्र्य रत्नादीन् पिण्डिकां श्वभ्रके न्यसेत् । गुग्गुलं द्रावयित्वाथ गर्भे तु विनिवेशयेत् ॥ ५०६ ॥

19.507

श्लोक

रत्नादीनां तु न्यस्तानां निश्चलीकरणाय तु । ततो निवेशयेत्तांस्तु दिशासु विदिशासु च ॥ ५०७ ॥

19.508

श्लोक

प्रथमावरणे ब्रीहीन् रत्नान्यपि द्वितीयके । तृतीये विन्यसेद्धातून् लोहञ्चापि चतुर्थके ॥ ५०८ ॥

19.509

श्लोक

प्रत्यावरणगर्भे तु पञ्चमावरणे द्विज । चन्दनादींश्च विप्रेन्द्रश्चाष्टदिक्षु निवेशयेत् । एकैकं दिक्षु विन्यस्य मध्ये चैवापरं न्यसेत् ॥ ५०९ ॥

19.510

श्लोक

ऐन्द्र्याञ्च चन्दनं न्यस्यमाग्नेयां रक्तचन्दनम् । कृत्णागुरुं दक्षिणस्यां निरृत्यामपरागुरुम् ॥ ५१० ॥

19.511

श्लोक

उशीरं पश्चिमे भागे विष्णुक्रान्तामथापरे । सहदेवीमूदीच्यां तु लक्षणामीशगोचरे । ब्राह्मीं सुवर्चलां मध्ये वृद्धिं ब्राह्मे निवेशयैत् ॥ ५११ ॥

19.512

श्लोक

धान्यमैन्द्र्यां निवेश्याथ आग्नेयां तु कुलत्थकम् । यवान् दक्षिणभागे तु गोधूमं नैरृते न्यसेत् ॥ ५१२ ॥

19.513

श्लोक

तिलांस्तु पश्चिमे दद्यान्नीवारं वायुगोचरे । मुद्गमुत्तरतो दद्यान्निष्पावमीशगोचरे । मध्ये सिद्धार्थकं दद्याद्रत्नन्यासं समाचरेत् ॥ ५१३ ॥

19.514

श्लोक

वज्रं तु पूर्वतो दद्यादाग्नेयां मौक्तिकं तथा । वैदूर्यं दक्षिणे दद्याच्छङ्खं निरृतिगोचरे ॥ ५१४ ॥

19.515

श्लोक

स्फटिकं वारुणे दद्यात् पद्मरागं तु वायवे । उत्तरे चन्द्रकान्तं तु ऐशान्यामिन्द्रनीलकम् । पद्मरागं न्यसेन्मध्ये यथावद्द्विजसत्तम ॥ ५१५ ॥

19.516

श्लोक

हरितालं न्यसेत् पूर्वे आग्नेयां तु मनःशिलाम् । अञ्जनं दक्षिणे दद्यान्माक्षिकं ब्रह्मगोचरे ॥ ५१६ ॥

19.517

श्लोक

सौराष्ट्रीं वारुणे द्रद्याद्वायव्या गैरिकं तथा । सीसं चैवोत्तरे दद्यादेशान्यां गन्धकं तथा । पारदं तु न्यसेन्मध्ये यथावत्त्रिदशेश्वर ॥ ५१७ ॥

19.518

श्लोक

हिरण्यं पूर्वतो दद्यादाग्नेयां तारमुत्तमम् । आयसं दक्षिणे न्यस्य नैरृत्यां त्रपुषं तथा ॥ ५१८ ॥

19.519

श्लोक

पश्चिमे विन्यसेद्घोषं नारं वायव्यगोचरे । सिह्लकं चोत्तरे न्यस्य शुल्वमीशानगोचरे ॥ ५१९ ॥

19.520

श्लोक

पद्मं कूर्मं तथानन्तं पृथ्वीं मध्ये निवेशयेत् । सुमेरुञ्च सुरश्रेष्ठ सर्वमेतद्धिरण्मयम् ॥ ५२० ॥

19.521

श्लोक

एषामेकतमं मध्ये न्यसेत् सर्वाण्यथापि वा । नमो हिरण्यमन्त्रेण ब्रह्मस्थाने निवेशयेत् ॥ ५२१ ॥

19.522

श्लोक

ओषधीनामलाभे तु विष्णुक्रान्तां विशाम्पते । बीजानामप्यलाभे तु यवं सर्वत्र दापयेत् ॥ ५२२ ॥

19.523

श्लोक

अलाभे सर्वरत्नानां मुक्ता सर्वत्र शस्यते । अलाभे सर्वधातुनां हरितालं विनिक्षिपेत् । अलाभे सर्वलोहानां काञ्चनानि प्रदापयेत् ॥ ५२३ ॥

19.524

श्लोक

इन्द्रस्तु महसा दीप्तः सर्वदेवाधिपो महान् । दम्भोलिहस्तः सत्त्वाट्यस्तस्मै नित्यं नमो नमः ॥ ५२४ ॥

19.525

श्लोक

आग्नेयः पुरुषो दीप्तः सर्वदेवमन्योऽव्ययः । धूमकेतुरनाधृष्यस्तस्मै नित्यं नमो नमः ॥ ५२५ ॥

19.526

श्लोक

यमश्चोत्पलवर्णाभः पुरुषो दण्डधृङ्महान् । धर्मसाक्षी विशुद्धात्मा तस्मै नित्यं नमो नमः ॥ ५२६ ॥

19.527

श्लोक

नैरृतः पुरुषः कृष्णः सर्वरक्षोऽधिपो महान् । खड्गहस्तो महासत्त्वस्तस्मै नित्यं नमो नमः ॥ ५२७ ॥

19.528

श्लोक

वरुणः सबल धीमान् पुरुषो निम्नगाधिपः । पाशहस्तो महाबाहुस्तस्मै नित्यं नमो नमः ॥ ५२८ ॥

19.529

श्लोक

वायुर्वै श्यामवर्णोऽयं सर्वगन्धवहः शुचिः । पुरुषो ध्वजहस्तश्च तस्मै नित्यं नमो नमः ॥ ५२९ ॥

19.530

श्लोक

आत्रेयः पुरुषः सौम्यः सर्वौषधिसमन्वितः । नक्षत्राधिपतिः सोमस्तस्मै नित्यं नमो नमः ॥ ५३० ॥

19.531

श्लोक

ईशानः पुरुषः शुक्रः सर्वविद्याधिपस्तथा । शूलहस्तो विरूपाक्षस्तस्मै नित्यं नमो नमः ॥ ५३१ ॥

19.532

श्लोक

पद्मयोनिश्च तन्मूर्तिर्वेदव्यासः पितामहः । यज्ञाध्यक्षश्च सततं तस्मै नित्यं नमो नमः ॥ ५३२ ॥

19.533

श्लोक

योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् । पुष्पवद्धारयेन्मूर्धिन् तस्मै नित्यं नमो नमः ॥ ५३३ ॥

19.534

श्लोक

ओंकारपूर्विका ह्येते न्यासे बलिनिवेदने । मन्त्राः स्युः सर्वदेवानां वृद्धिपुत्रफलप्रदाः ॥ ५३४ ॥

19.535

श्लोक

दिगीशानां तु मन्त्रेण रत्नादीन् विनिवेशयेत् ॥ ५३५ ॥

19.536

श्लोक

ॐ शक्रः सुरपतिः श्रीमान् सहस्रनयनोज्ज्वलः । यष्टा यः क्रतुमुख्यानां नमस्तस्मै महात्मने । ॐ त्रातारमिति मन्त्रेण सान्निध्यं तत्र कारयेत् ॥ ५३६ ॥

19.537

श्लोक

ॐ अजः सर्वगतः शक्तिर्यस्य छायेव राजते । हव्यकव्यवहो यो वै नमस्तस्मै महात्मने । ॐ अग्न आयाहि मन्त्रेण सान्निध्यं तस्य कारयेत् ॥ ५३७ ॥

19.538

श्लोक

ॐ कृष्णाञ्जननिभो रौद्रा दण्डपाणिः स्रगुज्ज्वलः । सर्वप्रेताधिपो देवो नमस्तस्मै महात्मने । सान्निध्यकरणे तस्य मन्त्रस्त्वसि यमः स्मृतः ॥ ५३८ ॥

19.539

श्लोक

ॐ घोरदंष्ट्राकरालस्तु खड्गपाणिः सुभैरवः । राक्षसाधिपतिर्देवो नमस्तस्मै महात्मने । सान्निध्यार्थं तस्य मन्त्र एष ते निरृते स्मृतः ॥ ५३९ ॥

19.540

श्लोक

ॐ सप्तसागरदेहस्तु पाशपाणिर्भहाद्युतिः । यादसां पतिरेको यो नमस्तस्मै महात्मने । तस्यालभनमन्त्रस्तु पद्मनद्यः सरस्वती ॥ ५४० ॥

19.541

श्लोक

ॐ सप्तसुरानुगा यस्य योनिर्गीता मनीषिभिः । अशरीरेति विख्यातो नमस्तस्मै महात्मने । मन्त्रस्तस्यापि सान्निध्ये वात आवातु भेषजम् ॥ ५४१ ॥

19.542

श्लोक

ॐ धनाधिपो ह्रस्वमूर्तिर्गदाहस्तो नृवाहनः । उत्तराशाधिपः श्रीमान् नमस्तस्मै महात्मने । सोमं राजेति मन्त्रोऽयं तस्य सान्निध्यकारकः ॥ ५४२ ॥

19.543

श्लोक

ॐ विद्याधिपो वृषारूढ शूलपाणिर्महाबलः । त्रैलोक्यवन्दितः श्रीमान् नमस्तस्मै महात्मने । ईशावास्येति मन्त्रेण तत्सान्निध्यं प्रकल्पयेत् ॥ ५४३ ॥

19.544

श्लोक

ॐ य इमां सकलां पृथ्वीं सप्तसागरभूषिताम् । विभर्ति माला-प्रतिमां नमस्तस्मै महात्मने । नमोऽस्तु सर्पमन्त्रेण सान्निध्यं तस्य कल्पयेत् ॥ ५४४ ॥

19.545

श्लोक

ॐ ब्रह्मा चतुर्मुखः स्वामी सर्वलोकपितामहः । कमण्डलुधरः श्रीमान्नमस्तस्मै महात्मने । ब्रह्मा देवेति मन्त्रेण सान्निध्यं तस्य कल्पयेत् ॥ ५४५ ॥

19.546

श्लोक

क्षीरवृक्षत्वचं पुष्पमष्टमङ्गलसंयुतम् । श्रीकामस्तु न्यसेत् सम्यग्देशवृद्धिकरं शुभम् ॥ ५४६ ॥

19.547

श्लोक

पारदं घृतगोधूमान् दूर्वां रोचनया सह । गोशृङ्गमृत्तिकाञ्चैव कूर्चेन सह निक्षिपेत् । स्थितस्य तस्य देवस्य श्रियो वृद्धिः सदा भवेत् ॥ ५४७ ॥

19.548

श्लोक

कृशरं काञ्चनं चैव पद्मेन सह विन्यसेत् । स्थितस्य तस्य देवस्य चातुर्वर्ण्यहितं भवेत् । चतुष्पादाश्च वर्धन्ते दौभाग्यञ्च प्रणश्यति ॥ ५४८ ॥

19.549

श्लोक

लाक्षा मधु घृतञ्चैव शमी चाश्वत्थमेव च । वेद्या सह च दातव्या यज्ञोत्सवकरास्तथा ॥ ५४९ ॥

19.550

श्लोक

मृत्तिका पर्वतस्याथ ह्रदादादाय मृत्तथा । यथाक्रमेण दातव्या राष्ट्रवृद्धिकरी नृप ॥ ५५० ॥

19.551

श्लोक

काञ्चनं सर्वबीजानि मेदिन्या सह विन्यसेत् । स्थितस्य तस्य कृष्णस्य राजा प्रजा च वर्धते ॥ ५५१ ॥

19.552

श्लोक

ब्रह्मस्थाने च विन्यस्य सर्वकामार्थदं शुभम् । न भयं न च दुर्भिक्षं तत्तद्द्रव्ये व्यवस्थिते ॥ ५५२ ॥

19.553

श्लोक

वृत्ते शान्त्यम्बुसेके तु प्रासादे विजयो मतः ॥ ५५३ ॥

19.554

श्लोक

रत्नान्यासविधिं कृत्वा प्रतिष्ठामारभेद्गुरुः ॥ ५५४ ॥

19.555

श्लोक

सशलाकैर्दर्भपिञ्जैः सहदेवीसमन्वितैः । महाक्षतैस्तु सत्कृत्य पञ्चगव्येन शोधयेत् । प्रोक्षयेद्गन्धतोयेन नदीतीर्थोदकेन च ॥ ५५५ ॥

19.556

श्लोक

होमार्थे स्थण्डिलं कुर्यात् सिकताभिः समन्ततः । सार्द्धं हस्तप्रमाणन्तु चतुरस्रं सुशोभनम् ॥ ५५६ ॥

19.557

श्लोक

अष्टदिक्षु यथान्यायं कलसानपि पूजयेत् । मन्त्रेणाष्टाक्षरेणैव पूजादिक्रमयोगतः ॥ ५५७ ॥

19.558

श्लोक

आनीय संस्कृतं वह्निं त्वमग्ने प्रयतेत्युचा । पलाशसमिधानां तु घृताक्तानां सुरेश्वर ॥ ५५८ ॥

19.559

श्लोक

शतं वाथ सहस्रां वा गायत्र्या विष्णुसंज्ञया । जुहुयाच्च शतं दद्यादाज्यमष्टाक्षरेण तु ॥ ५५९ ॥

19.560

श्लोक

पूर्णाहुतिं शान्तितोयं कुर्यात्तत्र विचक्षणः । कलसेषूदकं गृह्य ताम्रपात्रे निवेशयेत् ॥ ५६० ॥

19.561

श्लोक

मन्त्रयेच्छतवारांस्तु मूलमन्त्रेण देशिकः । सेचयेद्देचतामूर्ध्नि श्रीश्च तेत्यनयाऽनघ ॥ ५६१ ॥

19.562

श्लोक

ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते । त्वं विष्णोरितिमन्त्रेण प्रासादाभिमुखं नयेत् ॥ ५६२ ॥

19.563

श्लोक

शिविकायां हरिं स्थाप्य रथे वाथ सुयन्त्रितम् । भ्रामयीत पुरं सर्वमथवायतनं स्वकम् ॥ ५६३ ॥

19.564

श्लोक

प्रदक्षिशेन देवेशं सर्वशोभासमन्वितम् । ततो मङ्गलघोषैश्च गीतैर्मधुरनिस्वनैः ॥ ५६४ ॥

19.565

श्लोक

स्तुवद्भिर्मागधैः सूतैर्वाद्यैर्नानाविधैः शुभैः । गायद्भ्र्ब्राह्मणैः साम शङ्खाकारेण सर्वशः ॥ ५६५ ॥

19.566

श्लोक

पताकाभिर्विचित्राभिर्ध्वजैर्नानाविधैः शुभैः । देवदेवं महादेवं हरिं सर्वजगद्गुरुम् ॥ ५६६ ॥

19.567

श्लोक

संसारार्णवसन्तारपोतभूतं सुरेश्वरम् । कर्तृणां स्थपतीनाञ्च शिल्पिनां पुरवासिनाम् ॥ ५६७ ॥

19.568

श्लोक

स्थापकानाञ्च भृत्यानां पावकं पुण्यवर्द्धकम् । भ्राम्य प्रासादाभिमुखं कृत्वा देवं निवेशयेत् ॥ ५६८ ॥

19.569

श्लोक

एरकायां तु संस्थाप्य स्नपयेन्मङ्गलान्वितम् ॥ ५६९ ॥

19.570

श्लोक

चतस्रोऽविधवास्तत्र दिव्यमन्त्राभिमन्त्रिताः । सव्यापसव्यसूत्रेण वेष्ट्य स्पृश्य कुशेन तु ॥ ५७० ॥

19.571

श्लोक

आचार्येणाभ्यनुज्ञाता घटैर्मलयभूषितः । स्नपयन्ति हरिं भक्त्या अष्टमङ्गलसंयुतम् ॥ ५७१ ॥

19.572

श्लोक

ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः । शुक्लवस्त्रेण संछाद्य अष्टाङ्गार्घ्यां निवेदयेत् ॥ ५७२ ॥

19.573

श्लोक

एवं क्रमो बहुविधः कृत्यञ्च विविधं भवेत् । प्रतिमायां बुधैश्चात्र कार्यं स्वगुरुसम्मतम् ॥ ५७३ ॥

19.574

श्लोक

पायसेनोपलिप्यादौ गर्तमाच्छाद्य वाससा । अग्न्यादिभ्यस्तु जुहुयात् सिद्ध्यर्थं तस्य दक्षिणे ॥ ५७४ ॥

19.575

श्लोक

न्यासं कृत्वा तु रत्नानां पायसेनानुलेपितम् । पटेनाच्छादयेच्छ्वभ्रां शुबलेनोपरि धारयन् ॥ ५७५ ॥

19.576

श्लोक

रत्नन्यासे कृते पश्चात् पायसेनोपलेपयेत् । पटेन महता पश्चाच्छ्क्लेनोपरि छादयेत् ॥ ५७६ ॥

19.577

श्लोक

श्वभ्रस्य दक्षिणे पार्श्वे सर्षपान् जुहुयाद्बुधः । अग्नये ब्रह्मणे चैव रुद्राय चैव विष्णवे । स्कन्दाय गणराजाय गणमातृभ्य एव च ॥ ५७७ ॥

19.578

श्लोक

दद्यात् श्रीमूर्तिमुत्थाप्य शक्रादिभ्यो बलिं बुधः । तत्तन्नाम्ना चतुर्थ्यन्तनमोऽन्तप्रणवादिना ॥ ५७८ ॥

19.579

श्लोक

इन्द्रादीन् लोकपालांश्च आदित्यांश्च वसुंस्तथा । विश्वेदेवांस्तथा सर्वान् स्वनाम्ना चोपलक्षितान् । ओंकाराद्यान्नमोऽन्तांश्च कृत्वोत्थाप्य बलिं हरेत् ॥ ५७९ ॥

19.580

श्लोक

देवं गोबालरज्वाऽभिवेष्ट्य स्वस्त्यभिवाचयेत् । आचार्यो विधिवत्तञ्च प्रासादान्तः प्रवेशयेत् ॥ ५८० ॥

19.581

श्लोक

उत्थितं तत्र देवेशं बालरज्वा हि दण्डवत् । ततः सुयन्त्रितं कृत्वा ब्राह्मणान् स्वस्ति वाच्य च । जीवदानं ततः कृत्वा देवदेवं समुत्क्षिपेत् ॥ ५८१ ॥

19.582

श्लोक

स्थापकः स्थापयेद्देवं मूर्तिपैर्बलवत्तरैः । पुण्याह-जयशब्दैश्च ब्रह्मघोषैश्च पुष्कलैः ॥ ५८२ ॥

19.583

श्लोक

आचार्यस्त्वग्रतो गच्छेदर्घ्यहस्तः समाहितः । पृष्ठतो यजमानस्तु भक्त्या देवन्तु संस्पृशन् । पुत्रभ्रातृकलत्रैश्च बन्धुभिः परिवेष्टितः ॥ ५८३ ॥

19.584

श्लोक

सर्वेऽन्योऽन्यमसंलग्ना ध्यायमाना जनार्दनम् । द्वारदेशे समानीय अर्घ्यं तस्मै निवेदयेत् ॥ ५८४ ॥

19.585

श्लोक

ततः प्रवेशयेद्देवं न द्रुतं न विलम्बितम् । तिर्यगूर्द्ध्वमधश्चैवमस्पृशन्तं प्रवेशयेत् ॥ ५८५ ॥

19.586

श्लोक

पाशेन यन्त्रितं कृत्वा ततो देवेति चालयेत् । अद्वारबन्धे प्रासादे द्वारेणैव प्रवेशयेत् ॥ ५८६ ॥

19.587

श्लोक

द्वारबन्धे कृते देवमाकाशेन प्रवेशयेत् । द्वारबन्धे कृते चापि अस्पृशन्तं प्रवेशयेत् । देवस्य त्वेति मन्त्रेण तिर्यगूर्द्ध्वमधस्तथा ॥ ५८७ ॥

19.588

श्लोक

पाद्यं दत्त्वा पिण्डिकाञ्च विन्यस्य विधिना च ताम् । प्रक्षाल्याभ्यर्च्य तद्गर्तं पायसेनोपलेपयेत् ॥ ५८८ ॥

19.589

श्लोक

विष्णुपीठं न्यसेत् पश्चादर्घ्यं दत्त्वा समाहितः । कपिलाक्षीरसंस्निग्धं परमान्नं तु संस्कृतम् । कपिलाज्येन संमिश्रं तैः श्वभ्रमुपलेपयेत् ॥ ५८९ ॥

19.590

श्लोक

रत्नन्यासमिमं कृत्वा नपुंसकशिलातले । न्यसेत् पादशिलां तत्र स्त्रीलिङ्गैरुपलक्षिताम् ॥ ५९० ॥

19.591

श्लोक

तत्र सम्पूजयेद्विद्वान् पिण्डिकां शक्तिरूपिणीम् । सह रङ्गेण वस्त्रेणाच्छाद्य गन्धादिनार्चयेत् ॥ ५९१ ॥

19.592

श्लोक

पुष्पैर्मूलैः फलैर्हृद्यैः सितया चार्द्रकेण च । अभ्यर्च्य विन्यसेद्विद्वान् लक्ष्मीबीजं समाहितः ॥ ५९२ ॥

19.593

श्लोक

कृत्वैव पिण्डिकाकर्म तदुर्द्ध्वं प्रतिमां न्यसेत् । प्रासादानां तु सर्वेषां प्रतिमाबीज उच्यते ॥ ५९३ ॥

19.594

श्लोक

प्रतिमानां तु सर्वासां पादपीठः शिलामयः । तस्मात् सर्वप्रयत्नेन पीठोर्द्ध्वं प्रतिमां न्यसेत् ॥ ५९४ ॥

19.595

श्लोक

गन्धपुष्पादिनाभ्यर्च्य विविधैर्मङ्गलस्वनैः । गीतादिभिश्च तां मूर्ति स्थापयेत् पिण्डिकोपरि ॥ ५९५ ॥

19.596

श्लोक

तत उत्थाप्य देवेशमिष्टांशे तु शुभाजने । ध्रुवा द्यौरिति मन्त्रेण श्वभ्रोपरि निवेशयेत् ॥ ५९६ ॥

19.597

श्लोक

स्थापयेत्तमसंलग्नमद्रुतञ्चाविलम्बितम् । पुण्याह-जयशब्दैश्च ब्रह्मघोषैश्च पुष्कलैः ।शङ्खभेरीनिनादैश्च गीतवादित्रनिस्वनैः ॥ ५९७ ॥

19.598

श्लोक

पिण्डिकोर्द्ध्वं ततो देवं यन्त्रितो धारयेत् क्षणम् । ततः शङ्खघटीतोयैर्देवज्ञान् लग्नमादिशेत् ॥ ५९८ ॥

19.599

श्लोक

ज्ञात्वा सम्यक्स्थिरं लग्नमलग्नं वा निवेशयेत् । पिण्डिकायां सुरश्रेष्ठ मन्त्रेणानेन देशिकः । ॐ त्रैलोक्यविक्रान्ताय त्रिविक्रमाय नमो नमः ॥ ५९९ ॥

19.600

श्लोक

संस्थाप्य पिण्डिकायान्तु स्थिरं कुर्याद्विचक्षणः । ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि ॥ ६०० ॥