Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.1001

श्लोक

चालितोत्पाटिता ह्यर्चा केनचित् पापकर्मणा । चण्डालमद्यसंस्पर्शदूषिता वह्निना च या ॥ १००१ ॥

19.1002

श्लोक

स्वयं वा पतिता जीर्णा नदीवेगादिपातिता । अपुण्यजनसंस्पृष्टाऽविप्रक्षतजदूषिता ॥ १००२ ॥

19.1003

श्लोक

अचलां दूषितामेवं स्थापयेद्विधिनोद्धृताम् । पूर्वपीठं परित्यज्य यदन्यदपि तद्गतम् । ततो यथोक्तविधिना प्रासादे सन्निवेशयेत् ॥ १००३ ॥

19.1004

श्लोक

अतिजीर्णां तथा व्यङ्गां दारवीं शैलजां तथा । परित्यज्य न्यसेदन्यां पूर्वोक्तविधिना गुरुः ॥ १००४ ॥

19.1005

श्लोक

संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः । सहस्रं नारसिंहेन हुत्वा तामुद्धरेद्बुधः ॥ १००५ ॥

19.1006

श्लोक

वृषभं योजयित्वा तु मन्त्रेणोत्पाट्य देशिकः । दारवीं वाहयेद्वह्नौ शैलजां प्रक्षिपेज्जले ॥ १००६ ॥

19.1007

श्लोक

धातुजां रत्नजां वापि प्रक्षिपेन्मकरालये । अगाधे चान्यत्तोये वा क्षिपेन्नद्यां महावने ॥ १००७ ॥

19.1008

श्लोक

यानमारोप्य जीर्णार्चीं छाद्य वस्त्रादिना गुरुः । शङ्खदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥ १००८ ॥

19.1009

श्लोक

नीत्वागाधजलं रम्यं भागीरथ्यां महार्णवे । विष्वक्सेनात्मवीजेन प्रक्षिपेत्तां तदा गुरुः ॥ १००९ ॥

19.1010

श्लोक

रत्नानि क्षिप्तान्यादाय स्वयं दद्यात्तु दक्षिणाम् ॥ १०१० ॥

19.1011

श्लोक

धेनवो दश वा पञ्च स्वर्णवस्त्राद्यलङ्कृताः । जीर्णोद्धारे प्रदातव्या गुरवे विष्णुतुष्टये ॥ १०११ ॥

19.1012

श्लोक

भोजनीया विष्णुभक्ता देयमन्नमवारितम् । त्रिरात्रमुत्सव कार्यं पञ्च वा सप्त वा तथा । बलिश्च विधिना देयो यथोक्तेन सूरोत्तम ॥ १०१२ ॥

19.1013

श्लोक

ततो निवेशयेदन्यां प्रतिमां लक्षणान्विताम् । तत्क्षणादेव राजेन्द्र तस्य दोषप्रशान्तये ॥ १०१३ ॥

19.1014

श्लोक

सम्पत्तिर्वा विपत्तिर्वा नोपेक्षां तत्र कारयेत् । अपास्य पिण्डिकां पूर्वामन्यां तत्र निवेशयेत् ॥ १०१४ ॥

19.1015

श्लोक

यद्द्रव्या यत्प्रमाणा वा या मूर्तिश्चोद्घृता हरेः । तद्द्रव्या तत्प्रमाणा च सा मूर्तिस्तत्र कीर्त्यते ॥ १०१५ ॥

19.1016

श्लोक

यत्प्रमाणं यदाकारं यन्मयं विम्बमुद्धरेत् । तत्प्रमाणं तदाकारं तन्मयं तत्र विन्यसेत् ॥ १०१६ ॥

19.1017

श्लोक

विहाय पिण्डिकां पूर्वांई तद्दिने चापरां न्यसेत् । द्वितीये वा तृतीये वा दिवसे स्थापयेद्धरिम् । अत ऊर्द्ध्वं भवेद्दोषो विधिनापि निवेशिते ॥ १०१७ ॥

19.1018

श्लोक

अनेनैव विधानेन लेप्यादीश्च विसर्जयेत् । अन्यां प्रकल्पयेत्तत्र तत्प्रमाणां तदाकृतिम् ॥ १०१८ ॥

19.1019

श्लोक

भ्रष्टायां तु हृतायां तु नष्टायां तु प्रमादतः । सकूटं नारसिंहं वा लक्षं गुह्यं जपेद्बुधः ॥ १०१९ ॥

19.1020

श्लोक

पतितायां तथा भूमौ यत्र कुत्रापि वा तथा । कुर्यादयुतजप्यन्तु गुरुञ्चापि प्रपूजयेत् ॥ १०२० ॥

19.1021

श्लोक

हस्तमात्रच्युतायां तु जपेत् सार्द्धायुतद्वयम् ॥ १०२१ ॥

19.1022

श्लोक

द्विहस्तमात्रपातस्तु प्रमादाद्यदि जायते । तदा लक्षं जपेन्मन्त्रं वैष्णवानपि पूजयेत् ॥ १०२२ ॥

19.1023

श्लोक

पुरुषप्रमाणपातेन व्यङ्गा तु प्रतिमा यदा । पूर्ववत् सर्वकर्माणि कुर्यान्नास्त्यत्र संशयः ॥ १०२३ ॥

19.1024

श्लोक

यावन्मन्त्रस्य जप्यन्तु कृतं तस्य चतुर्थकम् । आज्याक्तैश्च तिलैर्होमः कार्यो न्यूनादिपूरणे ॥ १०२४ ॥

19.1025

श्लोक

खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते । यागहीने पशुस्पृष्टे पतिते दुष्टभूमिषु । अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते ॥ १०२५ ॥

19.1026

श्लोक

दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः । इति सर्वगतो विष्णुः परिभाषाञ्चकारह ॥ १०२६ ॥

19.1027

श्लोक

खण्डिता स्फुटिता भग्ना यस्मादर्चा भयावहा । तस्मात् समुद्धरेत्ताञ्च पूर्वोक्तविधिना बुधः ॥ १०२७ ॥

19.1028

श्लोक

देवताप्रतिमापूजा स्वतन्त्रैरेव चोदितैः । विज्ञाप्य देवतां मन्त्री पूर्ववत् मन्त्रमुच्चरन् ॥ १०२८ ॥

19.1029

श्लोक

स्वस्थानादुधरेदर्चां किन्तु तां वृषभादिना । चालयेच्छिल्पिभिः सार्द्धं सहायैर्बलवत्तरैः ॥ १०२९ ॥

19.1030

श्लोक

चालितोत्पाटिता वार्चा केनचित् पापकारिणा । स्वस्थानपतिता भ्रष्टा निर्व्रणा लक्षणान्विता ॥ १०३० ॥

19.1031

श्लोक

मन्त्रतन्त्रप्रदेशज्ञः प्रतिष्ठातन्त्रनिर्मलः । स्थापयेत्तां प्रयत्नेन पूर्ववद्विधिना गुरुः ॥ १०३१ ॥

19.1032

श्लोक

अर्चां समुद्धृता यत्र निर्व्रणा लक्ष्मणान्विता । तत्र तां स्थापयेन्मन्त्री पूर्ववद्ब्रह्मणः शिलाम् ॥ १०३२ ॥

19.1033

श्लोक

संशोध्य मन्त्रसंस्कारैः कृत्वा चैवाधिवासनम् । पूर्वोक्तेन विधानेन स्थापयेच्छास्त्रवित्तमः ॥ १०३३ ॥

19.1034

श्लोक

खण्डितां स्फुटितां जीर्णामवलीढाञ्च वह्निना । प्रतिमां वर्जयेद्यत्नाद्भग्नां स्वैर्लक्षणैर्युताम् ॥ १०३४ ॥

19.1035

श्लोक

विधिवत् पाटितामर्चां दारुजां शैलजादिकाम् । निक्षिपेद्दारुजामग्नौ तथान्यामप्सु निक्षिपेत् ॥ १०३५ ॥

19.1036

श्लोक

यद्रूपा यत्प्रमाणा च यस्मिन्नर्चा समुद्धृता । तद्रूपां तत्प्रमाणाञ्च तस्मिन्नर्चां निवेशयेत् ॥ १०३६ ॥

19.1037

श्लोक

प्रतिमा यस्य देवस्य स्व-शास्त्रे सम्प्रकीर्तिता । तस्य देवस्य तैर्मन्त्रैरर्चां सस्थापयेत्बुधः ॥ १०३७ ॥

19.1038

श्लोक

एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् । विरात्रे तु महापूजां संप्रोक्षणमतःपरम् ॥ १०३८ ॥

19.1039

श्लोक

मासादूर्द्ध्वमनेकाहं पूजा यदि विहन्यते । प्रतिष्ठवेष्यते कैश्चित् कैश्चित् संप्रोक्षणक्रमः ॥ १०३९ ॥

19.1040

श्लोक

संप्रोक्षणन्तु देवस्य देवमुद्वास्य पूर्ववत् । अष्टपञ्चक्रमेणैव स्नापयित्वा मृदम्भसा ॥ १०४० ॥

19.1041

श्लोक

गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च । प्रोक्षयेत् प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥ १०४१ ॥

19.1042

श्लोक

सपुष्पं सकुशं पाणिं न्यस्य देवस्य मस्तके । पञ्चावरं जपेन्मूलमष्टोत्तरशतोत्तरम् ॥ १०४२ ॥

19.1043

श्लोक

ततो मूलेन मूर्धादि पीठान्त संस्पृशेदपि । पूजाञ्च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥ १०४३ ॥

19.1044

श्लोक

देवार्चा नैव सञ्चाल्या मृन्मयपि भयावहा । हैमादिर्दोषदा वत्स पूर्वामुद्धृत्य स्थापिता ॥ १०४४ ॥

19.1045

श्लोक

महादुर्भिक्षजननी मरकारिष्टदा भवेत् । कर्तुर्गोत्रस्य भयदा रिपुवंशविवर्द्धिनी ॥ १०४५ ॥

19.1046

श्लोक

शीर्णो देवोऽथ प्रासादो यैः पुनः संस्कृतो द्विज । अशोच्यास्ते महात्मानो धूतपापा महाधियः ॥ १०४६ ॥

19.1047

श्लोक

यो जीर्णं विधिना देवं संस्कुर्यान्मनवो भुवि । फलं दशगुणं तस्य मूलान्नास्त्यत्र संशयः ॥ १०४७ ॥

19.1048

श्लोक

मूलाद्दशगुणं पुण्यं कूपादेः परिकीर्तितम् । प्रतिमादौ शतगुणं जीर्णसंस्करणाद्भवेत् ॥ १०४८ ॥