Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १८

श्रीमूर्तिप्रादुर्भावः

18.301

श्लोक

नागहस्तोपमौ बाहु ऊरू रम्भासमौ शुभौ । नानारत्नोज्ज्वलं पट्टं देव्याः शिरसि दापयेत् ॥ ३०१ ॥

18.302

श्लोक

नानारत्नोज्ज्वला देव्या मेखला श्रोणीसंयुता । युक्ता दिव्येन हारेण केयूरमुकुटोज्ज्वला ॥ ३०२ ॥

18.303

श्लोक

पद्मासना प्रकर्तव्या पद्मश्रीफलपाणिका । दक्षिणे पुण्डरीकन्तु वामहस्ते तु श्रीफलम् ॥ ३०३ ॥

18.304

श्लोक

स्थिता वा त्रिबलीभङ्गशोभिता च प्रशस्यते । स्त्रियौ पार्श्वद्वये कार्य समे चामरहस्तिके ॥ ३०४ ॥

18.305

श्लोक

भृङ्गारहस्तौ द्वौ नागौ स्नपयन्तौ श्रियं स्थितौ । श्रीरियं लक्षणोपेता स्थापिता सर्वकामदा ॥ ३०५ ॥

18.306

श्लोक

खगेशस्य प्रवक्ष्यामि तव रूपं सुशोभनन् । नरतुल्यं भवेद्गात्रं नासिका कञ्चुकान्विता ॥ ३०६ ॥

18.307

श्लोक

षडङ्गुलोच्छ्रया सम्यक् चञ्चुरूपेण कल्पिता । मस्तके सुन्दरं केशं नेत्रे चैवास्य वर्तुले ॥ ३०७ ॥

18.308

श्लोक

आपतौ द्विभुजौ चास्य पक्षौ कार्यौ सुशोभनौ । स्कन्धप्रदेशसंलग्न-जलदग्नि-समप्रभौ ॥ ३०८ ॥

18.309

श्लोक

पादयोर्नखराः कार्यो सर्पमण्डलमण्डिताः । नूपुरौ तस्य द्वौ नागौ केयूरौ पद्मकम्बलौ ॥ ३०९ ॥

18.310

श्लोक

कटिदेशेऽस्य कुलिकः परिधानस्य वेष्ठनः । वृश्चिकैः कर्णिका कार्या गरुडस्य महात्मनः ॥ ३१० ॥

18.311

श्लोक

देवस्य पुरतः स्याप्यो यष्ट्यां वा मण्डपेऽथवा । प्रासादस्य प्रमाणेन कार्यो गरुडमण्डपः । यष्ट्याः समुच्छ्रयः कार्यः प्रासादायामतोऽद्धतः ॥ ३११ ॥

18.312

श्लोक

सर्वेषामेव देवानां विष्णुक्तं मानमुच्यते । देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते । किङ्कराद्याश्च कर्तव्याः सप्तसंस्थानसंयुताः ॥ ३१२ ॥

18.313

श्लोक

नाधिकाङ्गी न हीनाङ्गी कर्तव्या देवता क्वचित् । स्वामिनं घातयत्युना करालवदना तथा ॥ ३१३ ॥

18.314

श्लोक

अधिका शिल्पिनं हन्यात् कृशा चैवार्थनाशिनी । कृशोदरी तु दुर्भिक्षं निर्मांसा धननाशिनी ॥ ३१४ ॥

18.315

श्लोक

वक्रनासा तु दुःखाय संक्षिप्तानी भयङ्करी चिपिटा दुःखशोकाय अनेत्रा नेत्रनाशिनी ॥ ३१५ ॥

18.316

श्लोक

दुःखदा हीनवक्त्रा तु पाणिपादकृशा तथा । हीनांशा हीनजङ्घा च भ्रमोन्मादकरी नृणाम् ॥ ३१६ ॥

18.317

श्लोक

शुष्कवक्त्रा तु राजानं कटिहीना च या भवेत् । पाणिपादविहीनाघां जायते नरको महान् ॥ ३१७ ॥

18.318

श्लोक

जङ्घाहीना तु या त्वर्चा शत्रुकल्याणकारिणी । पुत्रमित्रविनाशाय हीना वक्षःस्थले तु या । सम्पूर्णावयवा या तु आयर्लक्ष्मीप्रदा सदा ॥ ३१८ ॥

18.319

श्लोक

नृपभयमत्यङ्गायां हीनाङ्गायामल्पकता कर्तुः । शातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् । मरणं तु क्षतायां शस्त्र-निपातेन निर्दिशेत् कर्तुः ॥ ३१९ ॥

18.320

श्लोक

वामे विनता पत्नीं दक्षिणविनता हिनस्त्यायुः । अन्धत्वमूर्द्ध्वदृष्ट्यां करोति चिन्तामधोमुख दृष्टिः ॥ ३२० ॥

18.321

श्लोक

सुरार्चां लक्षणैर्हीनां यस्तु पूजयते नरः । तस्यान्नं नाभिगृह्णन्ति तस्मात्तां परिवर्जयेत् ॥ ३२१ ॥

18.322

श्लोक

चित्रजा चैव लेप्या च शस्त्रोत्कीर्णा च पाकजा । पटे कुड्ये च पात्रे च चित्रजा प्रतिमा स्मृता ॥ ३२२ ॥

18.323

श्लोक

लेप्या तु पार्थिवी ज्ञेया लोहजा पाकजा मता । शैलजा वृक्षजा चैव शस्त्रोत्कीर्णा च कीर्तिता ॥ ३२३ ॥

18.324

श्लोक

चतुर्द्धा द्रव्यभेदेन प्रतिमा परिकीर्तिता ॥ ३२४ ॥

18.325

श्लोक

मृन्मयी दारुघटिता लोहजा रत्नजा तथा । शैलजा गन्धजा चैव कौसुमी सप्तमी स्मृता ॥ ३२५ ॥

18.326

श्लोक

कौसुमी रत्नजा चैव मृन्मयी प्रतिमा हिता । तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः ॥ ३२६ ॥

18.327

श्लोक

भाग्यदा शैलजा स्याच्च स्वर्णजा पुष्टिदा भवेत् । सुखप्रदा स्यान्मणिजा राजती कीर्तिदा भवेत् ॥ ३२७ ॥

18.328

श्लोक

ताम्रजा धनदा प्रोक्ता श्रीप्रदा वृक्षजा मता । कौसुमी सुखदा प्रोक्ता गन्धजा भोगदा मता ॥ ३२८ ॥

18.329

श्लोक

प्रत्यग्रस्थापिता वापि मृन्मयी सर्वसिद्धिदा ॥ ३२९ ॥

18.330

श्लोक

यावन्ति विष्णुरूपाणि सुरूपाणीह लेखयेत् । तावद्युगसहस्राणि विष्णुलोके महीयते ॥ ३३० ॥

18.331

श्लोक

लेप्ये चित्रे हरिर्नित्यं सन्निधानमुपैति हि । तस्मात् सर्वप्रयत्नेन लेप्यचित्रगतं यजेत् ॥ ३३१ ॥

18.332

श्लोक

कान्तिभूषणभावाद्याश्चित्रे यस्मात् स्फूटं स्थिताः । अतः सान्निध्यमायाति चित्रजासु जनार्दनः । तस्माच्चित्रार्चने पुण्यं स्मृतं शतगुणं बुधैः ॥ ३३२ ॥

18.333

श्लोक

चित्रस्थं पुण्डरीकाक्षं सविलासं सविभ्रमम् । दृष्ट्वा विमुच्यते पापर्जन्मकोटिसुसञ्चितैः ॥ ३३३ ॥

18.334

श्लोक

तस्माच्छुभार्थिभिर्धोरैर्महापूण्यजिगीषया । पटस्थः पूजनीयस्तु वो नारायणः प्रभुः ॥ ३३४ ॥

18.335

श्लोक

त्रिकूटाद्रिषु गृह्णीयात् किंवा श्रीपर्वतादिषु । शिलां भूमिगतां वाथ ज्ञात्वा तल्लक्षणं बुधः ॥ ३३५ ॥

18.336

श्लोक

सुवारे सुतिथौ योगे स्वर्के सुकरणान्विते । आपूर्यमाणपक्षो तु सुग्रहे चोत्तरायणे ॥ ३३६ ॥

18.337

श्लोक

यजमानानुकूले तु प्रतिमार्थं व्रजेद्गुरुः । श्वेतवस्त्रपरीधानः श्वेतचन्दनचर्चितः ॥ ३३७ ॥

18.338

श्लोक

श्वेतपुष्पकृतापीडः शिल्पिभिः सहितो गुरुः । निपुणैः शिल्पिभिः सर्द्धं सहायैर्बलवत्तरैः ॥ ३३८ ॥

18.339

श्लोक

नृसिंहं पूज्य विज्ञाप्य पूज्य टङ्कादिकं ततः । ध्यात्वा हरिं हविः प्राश्य मन्त्राङ्गन्यस्तविग्रहः ॥ ३३९ ॥

18.340

श्लोक

ब्राह्मणान् वाचयित्वा तु भक्त्या मङ्गलदर्शनम् । दधिदूर्वा रोचनां वा आदर्शं कुसुमं सितम् ॥ ३४० ॥

18.341

श्लोक

फल;च पूर्णकुम्भञ्च वन्दयित्वा वनं व्रजेत् । विध्यान्तरीक्षभौमानि निमित्तान्युपलक्षयेत् ॥ ३४१ ॥

18.342

श्लोक

यायाच्छुभनिमित्तेषु विपरीते निवर्तयेत् । त्रिराचम्य ततः प्राणान् ध्यायेत् सिंहतनुं हरिम् ॥ ३४२ ॥

18.343

श्लोक

पुनश्चाष्टोत्तरं जप्त्वा पातालमुषलं जपेत् । गीतवाद्यारवोद्घुष्टा यात्रा स्यात् सिद्धिदा नृणाम् ॥ ३४३ ॥

18.344

श्लोक

लक्ष्मीं ध्यायन् वनं यायात् सहायैः शिल्पिभिः सह । शङ्खकाहलशब्दैश्च पुण्याहजयमिश्रितैः ॥ ३४४ ॥

18.345

श्लोक

ऋग्यजुःसामसङ्घैश्च ध्यायन् सिंहं वनं व्रजेत् । प्राचीं दिशमथोदीचीमैशानीं वा व्रजेद्गुरुः ॥ ३४५ ॥

18.346

श्लोक

भूधराद्यास्तु ये पूर्वं संस्थाना कथिता मया । तत्र गत्वा समीपे त कृतरक्षो वनं विशेत् ॥ ३४६ ॥

18.347

श्लोक

प्रविशेत्तत्र यत्नेन शिल्पिभिः सहितो गुरुः । निरूपयेत् समन्तात्तु वृक्ष वाप्यथवा शिलाम् ॥ ३४७ ॥

18.348

श्लोक

लक्षणेन तु मन्त्रज्ञो यत् पूर्वं कथित मया । एकवर्णां शिलां दृष्ट्वा वाह्यदोषविवर्जिताम् ॥ ३४८ ॥

18.349

श्लोक

चतुर्दिक्षु समं कृत्वा भूमिभागं विशोधयेत् । प्लाव्य तोयेन पूतेन गोमयेन विलेपयेत् ॥ ३४९ ॥

18.350

श्लोक

तत्रैव मण्डपं कृत्वा वासुदेवं ततो जपेत् । पताकैस्तोरणैश्चित्रर्मण्डपं त विभूषयेत् ॥ ३५० ॥

18.351

श्लोक

पूजयेदथ दिग्देवान् भूतक्रूरर्बालिं हरेत् । माषं हरिद्राचूर्णञ्च दधिशक्तुसमन्वितम् ॥ ३५१ ॥

18.352

श्लोक

सलाजमाषभक्तञ्च दद्यात् क्रूरबलिं बुधः । विष्णुं पूज्य विधानेन क्रमशस्तान् प्रपूजयेत् ॥ ३५२ ॥

18.353

श्लोक

वायव्यामस्त्रमन्त्रेण गन्धपुष्पैः प्रपूजयेत् । वह्निं प्रज्वाल्य विधिना मन्त्रान् सन्तर्प्य पूजयेत् ॥ ३५३ ॥

18.354

श्लोक

हुत्वा यथोक्तविधिना शान्तितोयं समारभेत् । शान्तितोयं ततो गृह्य अस्त्रेण प्रोक्षयेच्छिलाम् ॥ ३५४ ॥

18.355

श्लोक

दर्भैरुल्लेखयेत् पश्चादस्त्रमन्त्रेण तां शिलाम् । मन्त्रैरालभ्य तां यत्नात् शुक्लवस्त्रेण वेष्टयेत् ॥ ३५५ ॥

18.356

श्लोक

रक्षां कृत्वा नृसिंहेन दर्भैराच्छाद्य पूजयेत् । गन्धैः पुष्पैश्च नैवेद्यैर्धूपैः सम्पूज्य तां शिलाम् ॥ ३५६ ॥

18.357

श्लोक

ततस्तु मूलमन्त्रेण आज्यमष्टोत्तरं हुनेत् । ततः पूर्णाहुतिं दद्यान्मन्त्रराजेन वै गुरुः ॥ ३५७ ॥

18.358

श्लोक

एवं सन्तर्प्य सम्पूज्य विज्ञाप्य च बलिं हरेत् । गन्धैः पुष्पैस्तथा धूपैर्दद्याद्भूतबलिं बुधः ॥ ३५८ ॥

18.359

श्लोक

अत्र येऽवस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः । सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् ॥ ३५९ ॥

18.360

श्लोक

विष्णुविम्वार्थमस्माकं यात्रैषा केशवाज्ञया । विष्ण्वर्थं यद्भवेत् कार्यं युष्माकमपि तद्भवेत् ॥ ३६० ॥

18.361

श्लोक

अनेन बलिदानेन प्रीता भवथ सर्वथा । क्षेमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं पुनः ॥ ३६१ ॥

18.362

श्लोक

एवं प्रबोधिताः सत्त्वाः परितुष्टा यथासुखम् । आचम्य संविस्व ततः कृतरक्षापुरःसरः ॥ ३६२ ॥

18.363

श्लोक

चरुं प्राश्य निराहारः शिल्पिभिः सह देशिकः । हरिं विज्ञाप्य विधिवद्देवीञ्च कमलोद्भवाम् ॥ ३६३ ॥

18.364

श्लोक

पश्चिमे दर्भशयायां वसेत्तां रजनीं गुरुः । निराहारः स्थितो भूत्वा प्राणायामारम्भकं जपन् ॥ ३६४ ॥

18.365

श्लोक

ॐ नमः पर्वलोकपित्रे विष्णवे प्रभविष्णवे । विश्वाय विश्वरूपाय स्वर्गाधिपतये नमः ॥ ३६५ ॥

18.366

श्लोक

आगच्छ देवदेवेश प्रपन्नोऽस्मि तवान्तिकम् । स्वप्ने सर्वाणि कार्याणि हृदिस्थितानि यानि मे । ॐ ह्रीं फट् विष्णवे स्वाहा ॥ ३६६ ॥

18.367

श्लोक

यदा स पश्यते वृक्षं ज्वलन्तं धूमवर्जितम् । फलितं पुष्पितं चैव तदा सिद्धिर्न दूरतः ॥ ३६७ ॥

18.368

श्लोक

प्रज्वलन्ती शिलां पश्येच्छ्रया वाधिष्ठितां शिलाम् । ब्रह्मणाधिष्ठितां वापि सा तदा सर्वकामदा ॥ ३६८ ॥

18.369

श्लोक

श्रिया जुष्टं प्रज्वयन्तमथ पश्यति पर्वतम् । ततः प्रवृद्धशिखरं काञ्चनद्रुममण्डितम् ॥ ३६९ ॥

18.370

श्लोक

युतं सर्वोद्भवैवृक्षैः फलपुष्पसमन्वितः । एवम्भूतेष दृष्टेष स्वप्ने अर्चा सुशोभना ॥ ३७० ॥

18.371

श्लोक

अपरेऽहनि सम्प्राप्ते कृतरक्षः कृताह्निक । शस्त्रादि विधिवत् पूज्य शिलां पूज्य विधानतः ॥ ३७१ ॥

18.372

श्लोक

अर्घ्यं दत्त्वा शिलायान्तु शस्त्रमन्त्रेण पूजयेत् । मन्त्रयित्वा स्वमन्त्रेण प्रज्वलन्तं विभावयेत् ॥ ३७२ ॥

18.373

श्लोक

मध्वाज्याक्तमुखं कृत्वा आत्मानं चिन्तयेद्धरिम् । शिल्पिनं विश्वकर्माणं ध्यात्वोदवप्राङ्मुखोऽपि वा ॥ ३७३ ॥

18.374

श्लोक

शस्त्रं विष्ण्वात्मकं ध्यात्वा प्रदद्याच्छिल्पने गुरुः । मुखं पृष्ठं सलाङ्गुलं शिल्पिने दर्शयेद्गुरुः ॥ ३७४ ॥

18.375

श्लोक

शुक्लगन्धानुलिप्ताङ्गः शुक्लपुष्पाद्यलङ्कृतः । उदङ्मुखः प्राङ्मुखो वा स्थपतिः संयतः शुचिः ॥ ३७५ ॥

18.376

श्लोक

ध्यात्वात्मदेवतां शिल्पी टङ्कहस्तो जितेन्द्रियः । यथेष्टं शातयेत् पश्चाद्यच्छिलान्तच्छृणुष्व मे ॥ ३७६ ॥

18.377

श्लोक

उदक्शिरां प्राक्शिरां वा तथैवेशानदिग्गताम् । ऊर्द्ध्वभागं भवेत् पृष्ठमधोभागं भवेन्मुखम् ॥ ३७७ ॥

18.378

श्लोक

किञ्चिन्मानाधिकां कृत्वा कल्पयेत् प्रतिमाशिलाम् । किञ्चिन्मानाधिका त्याज्या विविधा या च पिण्डिका । छेदयित्वा समुद्धृत्य चतुरस्रां तु कारयेत् ॥ ३७८ ॥

18.379

श्लोक

अनेनैव विधानेन परोक्ष्य गुणदोषतः । वृक्षं यत्नेन गृह्णीयाद्विधिज्ञो देशिकोत्तमः ॥ ३७९ ॥

18.380

श्लोक

समानीय रथं श्रेष्ठं सुशीलैर्वृषभैर्युतम् । रथे स्थाप्य शिलां यत्नाच्छादयित्वा तु वाससा । हरिं ध्यात्वा स्मरम्मन्त्रमध्यं दद्यात्ततो गुरुः ॥ ३८० ॥

18.381

श्लोक

आनीयमाने तु रथे रथाङ्गपरिचारकैः । वृषभे वा समुत्पन्ने अनिमित्ते च साधकः ॥ ३८१ ॥

18.382

श्लोक

वैष्णवाग्नौ नृसिंहेन तिलैर्घृतविमिश्रितैः । हुत्वा चाष्टशतं सम्यक् तद्दोषेण विमुच्यते ॥ ३८२ ॥

18.383

श्लोक

आनीय शङ्खनिर्घोषर्गीतमङ्गल-निस्वनैः । प्रासादस्योत्तरे भागे कृत्वा कर्मकुटीं गुरुः ॥ ३८३ ॥

18.384

श्लोक

शिलां संस्थाप्य तस्मिंस्तु अर्चयित्वा बलिं हरेत् । ततः प्रवर्तयेत् कर्म विद्वान् विज्ञैस्तु शिल्पिभिः ॥ ३८४ ॥

18.385

श्लोक

यथोक्तायां दिशायां तु न लभ्येत यदा शिला । तदा विदिक्स्थिता ग्राह्या विधिना येन तच्छृणु ॥ ३८५ ॥

18.386

श्लोक

समानीय शिलां सम्यक् पूर्वोक्तलक्षणैर्युताम् । प्रासादस्योत्तरे भागे खात्वा भूमिं विधानवित् ॥ ३८६ ॥

18.387

श्लोक

शिलां संस्थाप्य तत्खाते मृदा सम्पूरयेद्गुरुः । समीकृत्याथ तां भूमिं मण्डपं तत्र कारयेत् ॥ ३८७ ॥

18.388

श्लोक

पताकाध्वजपत्र द्यैर्भूषयीत समन्ततः । तोरणैः कदलीस्तम्भैर्वितानेन च भूषयेत् ॥ ३८८ ॥

18.389

श्लोक

प्राच्यां तु भद्रकं लिख्य तत्र विष्णुं यजेद्गुरुः । प्रबालमुक्ताफलकैर्हेमपुष्पैः समुज्ज्वलैः ॥ ३८९ ॥

18.390

श्लोक

पूर्वोक्तं सकलं वापि विधानं समुपाचरेत् । भूतक्रूरबलिं दद्यात् पूर्वोक्तविधिनैव तु ॥ ३९० ॥

18.391

श्लोक

प्रतीच्यां पूर्वविधिना होमं कुर्याद्यथोदितम् । दिग्दोषपरिशुद्ध्यर्थं विशेषाद्धोममाचरेत् ॥ ३९१ ॥

18.392

श्लोक

पातालनरसिंहेन सहस्रं वैष्णवानले । दिग्देवानामथाङ्गानां हुत्वा पूर्णां यजेद्गुरुः ॥ ३९२ ॥

18.393

श्लोक

तर्पिते मन्त्रराजे तु दिग्दोषैर्मुच्यते शिला । ततः पूर्वोक्तविधिना कृत्वा पुष्पादिकं गुरुः ॥ ३९३ ॥

18.394

श्लोक

पूर्वोक्तेन विधानेन शिरःपृष्ठादि कल्पयेत् । मन्त्रोदकेन संप्रोक्ष्य शिलां तां प्रोक्षयेद्गुरुः ॥ ३९४ ॥

18.395

श्लोक

दिग्दोषप्रशमनार्थं गृष्टिं भव्यां स्वलङ्कृताम् । सुवर्णशृङ्गसंयुक्तां कांस्यदोहां पयस्विनीम् । ताम्रपृष्ठीं सोपवीतां दद्याद्रौप्यखरां गुरोः ॥ ३९५ ॥

18.396

श्लोक

तोषयीत गुरुं यत्नाद्वस्त्रालङ्कारणादिभिः । शिल्पिनं तोषयेद्यत्नाद्वस्त्रालङ्कारचन्दनैः ॥ ३९६ ॥

18.397

श्लोक

आचार्ये तोषिते विष्णुस्तोषितः स्यान्न सशयः ॥ ३९७ ॥

18.398

श्लोक

शिल्पिनं तोषयेदेवं विश्वकमाथ पूजितः । ततः कर्माणि युञ्जीत सर्वकामप्रदो भवेत् ॥ ३९८ ॥

18.399

श्लोक

क्षाराम्लसेविता या च नदीतोरसमुद्भवा । पुरमध्ये स्थिता या च तथा पितृवने स्थिता ॥ ३९९ ॥

18.400

श्लोक

चतुष्पथे स्थिता या च मृच्छिला पक्वणे च या । ऊषरे च तथा मध्ये वल्मीके वापि या स्थिता ॥ ४०० ॥