Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १८

श्रीमूर्तिप्रादुर्भावः

18.201

श्लोक

नृरूपधारीणि भुजङ्गमध्ये कार्याण्यथास्त्राणि तथा समीपे ॥ २०१ ॥

18.202

श्लोक

ताक्ष्योर्मरकतप्रख्यः कौशिकाकारनासिकः । चतुर्भुजश्च कर्तव्यो वृत्तनेत्रमुखस्तथा ॥ २०२ ॥

18.203

श्लोक

ग्रीवोरुजानुचरणपक्षद्वयविभूषितः । प्रभासंस्थानसौवर्णकलायेन विराजितः ॥ २०३ ॥

18.204

श्लोक

छत्रञ्च पूर्णकुम्भञ्च करयोस्तस्य कारयेत् । करद्वयञ्च कर्तव्यं तथा विरचिताञ्जलि ॥ २०४ ॥

18.205

श्लोक

यदास्य भगवान् पृष्ठे छत्रकुम्भधरौ करौ । न कर्तव्यौ तु कर्तव्यौ देवपादधरावुभौ ॥ २०५ ॥

18.206

श्लोक

किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः ॥ २०६ ॥

18.207

श्लोक

लक्ष्मीनारायणौ कार्यौ संयुतौ दिव्यरूपिणौ । दक्षिणस्था विभोर्मूर्तिर्लक्ष्मीर्मूर्तिस्तु वामगा ॥ २०७ ॥

18.208

श्लोक

दक्षिणः कण्ठलग्नोऽस्य वामहस्तसरोजधृक् । विभोर्वामकरो लक्ष्म्याः कूक्षिभागे स्थितः सदा ॥ २०८ ॥

18.209

श्लोक

सर्वावयवसम्पूर्णा सर्वालङ्कारभूषिता । सुष्ठुनेत्रकपोलास्य-रूपयौवनसंयुता ॥ २०९ ॥

18.210

श्लोक

सिद्धिः कार्या समीपस्था चामरग्राहिणो शुभा । कर्तव्यं वामनं सर्वं देवाधोभागगं सदा ॥ २१० ॥

18.211

श्लोक

शङ्खचक्रधरौ तस्य द्वौ कार्यौ पुरुषौ पूरः । वामनौ हारकेयूरकिरीटमणिभूषितौ ॥ २११ ॥

18.212

श्लोक

उपासकौ समीपस्थौ प्रभोर्ब्रह्मशिवात्मकौ । रसनां योगपट्टञ्च शिखाञ्जलिमास्थितौ ॥ २१२ ॥

18.213

श्लोक

पद्मासन-समासीनः किञ्चिन्मीलितलोचनः । घ्राणाग्रे दत्तदृष्टिश्च श्वेतपद्मोपरि स्थितः ॥ २१३ ॥

18.214

श्लोक

वामदक्षिणगौ हस्तावुभावुत्सङ्गभागगौ । तत्करद्वयपार्श्वस्थे पङ्केरुह-महागदे ॥ २१४ ॥

18.215

श्लोक

ऊर्द्ध्व करद्वये चास्य शङ्खश्चापि सूदर्शनम् । योगस्वामी स विज्ञेयः पूज्यो मोदार्थयोगिभिः ॥ २१५ ॥

18.216

श्लोक

अतःपरं प्रवक्ष्यामि मत्स्यादीनान्तु लक्षणम् । षट्त्रिंशदङ्गुलायामं तदर्द्धेन तु विस्तृतम् ॥ २१६ ॥

18.217

श्लोक

दैर्घ्याष्टमांशसंयुक्तं पुच्छवक्त्रं तु कारयत् । रोहितं विवृतास्यन्तु द्वादशाङ्गुलमानतः । कलैकं पृष्ठरोमन्तु तुच्छार्द्धं क्रोडगं तथा ॥ २१७ ॥

18.218

श्लोक

कृतस्यैवंविधस्येह रोहितस्य मुखोद्गतम् । नारायणन्तु कुर्वीत आगुल्फं तान्मुखोद्गतम् ॥ २१८ ॥

18.219

श्लोक

एवं नृमत्स्यं मत्स्यं वा स्थापयेद्यस्तु मानवः । सर्वज्ञत्वं भवेत्तस्य सर्वोपन्मुक्तिरेव च ॥ २१९ ॥

18.220

श्लोक

दैर्घ्यात्रितालसंयुक्तं तदर्द्धं परिमण्डलम् । चतुश्चरणसंश्लिष्टं चतुरङ्गुलमात्रया ॥ २२० ॥

18.221

श्लोक

कपालद्वयमध्ये तु गोविन्दं तु समृद्गतम् । कृत्वा वा गुल्फपर्यन्तमुद्गच्छन्तं सुरोत्तमा ॥ २२१ ॥

18.222

श्लोक

नुकूर्मं कारयित्वैनं कूर्म वा स्थापयीत यः । स्ववंशोद्धरणं तस्य जायते मुक्तिरेव च ॥ २२२ ॥

18.223

श्लोक

वक्त्रं कलाष्टकायामं श्रोत्रमस्य द्विगोलकम् । हनू सप्ताङ्गुले तस्य सृक्कणी द्व्यङ्गुले मते ॥ २२३ ॥

18.224

श्लोक

सप्ताङ्गुलं मुखं प्रोक्तं रदौ सार्द्धकलो द्विज । नासारन्ध्र भवेन्नेत्रं यवहीनेऽक्षिणी मते ॥ २२४ ॥

18.225

श्लोक

किञ्चिद्वक्त्रे स्मिते श्रोत्रे द्विगोलकसमायते । चतुष्कलं कर्णमध्यं तदर्द्धेन तदुच्छ्रितम् ॥ २२५ ॥

18.226

श्लोक

वस्वङ्गुला भवेद्ग्रीवा नेत्रैकं चोन्नता तु सा । शेष नृसिंहवत् कार्यं वराहस्य तु विग्रहम् ॥ २२६ ॥

18.227

श्लोक

शेषाहि-विधृतं पादं बाहुना धारयन् धराम् । शङ्खं वामे तथा पद्मं पदाचक्रे तु दक्षिणे ॥ २२७ ॥

18.228

श्लोक

एवं नरवराहञ्च कृत्वा यः स्थापयेन्नरः । भवोदधिसमुत्तारं राज्यञ्च हतकण्टकम् । प्राप्नुयान्नात्र सन्देहो ह्यमुत्रेहैव वा भुवि ॥ २२८ ॥

18.229

श्लोक

तिर्यङ्नृसिंहदेवस्य तथा विपुलमाननम् । वर्तुलेऽस्य तथा नेत्रे स्कन्धौ तालमितौ शुभौ ॥ २२९ ॥

18.230

श्लोक

व्याकुञ्चिते भ्रुवौ वक्त्रं विवृतं चोग्रदंष्ट्रकम् । लेलिहाना तथा जिह्वा समुद्गतशटं शिरः ॥ २३० ॥

18.231

श्लोक

दंष्ट्रे द्व्यङ्गुलनिर्याते वक्राग्रे तु सिते तथा । त्रिकलाभ्यधिकं वक्षः पञ्चनेत्राधिका कटिः ॥ २३१ ॥

18.232

श्लोक

द्विकलाभ्यधिकौ चोरू जानू चापि कलाधिकौ । जङ्घे सार्द्धकले मध्ये विस्तृताग्रे विभागतः ॥ २३२ ॥

18.233

श्लोक

उर्द्ध्वौ किञ्चित् स्मृतौ पादौ बाहुमूले कलाधिके । किञ्चित् किञ्चित् तथा हीनौ पर्यन्ते चोपबाहुकौ । वपुरिस्थं नृसिंहस्य कुर्याद्देशिकसत्तमः ॥ २३३ ॥

18.234

श्लोक

जान्वंशे तस्य संस्थाप्य विदारितमहासुरम् । भूषितं वैजयन्त्या तु मालया श्रीसमन्वितम् ॥ २३४ ॥

18.235

श्लोक

खड्गचक्रधरं देवं नृसिंहं कारयेद्बुधः । स्थापयेत् पापनाशाय जयाय नरकेशरीम् ॥ २३५ ॥

18.236

श्लोक

भुजं त्रिगोलकायामं वक्षोविस्तारशोभितम् । पाणीपादं तुरीयांश प्रवृद्धशिरसं तथा ॥ २३६ ॥

18.237

श्लोक

ऊर्वङ्घ्रिद्वितयायामविहीनमुखयुग्मकम् । कटिस्फिक्पार्श्वनाभीषु तद्वृद्धं वामनं बुधः । कृत्वा संस्थापयेद्देवं मोहनार्थाय सर्वथा ॥ २३७ ॥

18.238

श्लोक

जामदग्न्यन्तु कुर्वीत जटामुकुटमण्डितम् । चतुर्बाहुं महाभागं सर्वक्षत्रान्तकं विभूम् ॥ २३८ ॥

18.239

श्लोक

दक्षिणे परशुं हस्ते वामे दद्यात्तथा धनुः । खड्गं दक्षिणहरते तु वामहस्ते तु खेटकम् ॥ २३९ ॥

18.240

श्लोक

कुठारहस्त द्विभुजं कुर्याद्वा रेणुकासुतम् । कृत्वैवं जामदग्न्यन्तु स्थापयेद्यस्तु मानवः । स वित्तं प्राप्नुयात् शीघ्रं कामांश्च मनसेप्सितान् ॥ २४० ॥

18.241

श्लोक

कुर्याद्दाशरथिं रामं सप्ततालं चतुर्भुजम् । शरकार्मुकहस्तं तु शङ्खचक्रधरं शुभम् ॥ २४१ ॥

18.242

श्लोक

दक्षिणोर्द्ध्वं भवेच्चक्रं वामोर्द्ध्वं शङ्खमेव च । दक्षिणाधो भवेद्वाणो वामाधो धनुरेव च । द्विभुज शरहस्तं वा राम कुर्यात् सकार्मुकम् ॥ २४२ ॥

18.243

श्लोक

कृत्वैवं राघवं रामं सर्वलक्षणसंयुतम् । क्रूरशत्रुविनाशाय स्थापयेत् सर्वकामदम् ॥ २४३ ॥

18.244

श्लोक

तृतीयं तु यथा रामं चतुर्बाहुं शृणुष्व मे । वामोर्द्ध्वं लाङ्गलं दद्यादधः शङ्खं सुशोभनम् । गदां कृपाणं वा दद्यात् संस्थाने शक्तिचक्रयोः ॥ २४४ ॥

18.245

श्लोक

कृत्वैवं बलदेवं तु यो नरः स्थापयेत् प्रभुन् । पुत्रं ददाति तस्याथ विपक्षांश्च जयत्यसौ ॥ २४५ ॥

18.246

श्लोक

वशतालं तथा बुद्धं पद्मासनगतं हरिम् । प्रलम्बश्रवणं कुर्याच्चीवरालङ्कृतं तथा ॥ २४६ ॥

18.247

श्लोक

मणिनाभं समाधिस्थं पद्मास्यं पद्मलोचनम् । समाधिस्थोत्तानपाणिं योगदृष्टिं समन्वितम् । स्थापयेद्रूपकामस्तु पितेव जगतः स्थितम् ॥ २४७ ॥

18.248

श्लोक

कल्किनं तु चतुर्बाहुं बद्धतूणं धनुर्द्धरम् । शङ्खचक्रधरं कुर्यात्तथा खड्गधरं प्रभुम् ॥ २४८ ॥

18.249

श्लोक

द्विभुजं वा हयारूढं खड्गपाणिं सुरेश्वरम् । कल्किनं स्थापयित्वैवं शत्रुस्थानं लभेन्नरः ॥ २४९ ॥

18.250

श्लोक

आदिमूर्तिर्वासुदेवः पूर्वमेवोदित्तो मया । दक्षिणोर्द्ध्वे गदा यस्य वामोर्द्ध्वे चक्रमुल्वणम् । ब्रह्मेशौ पार्श्वगो नित्यं शेषमन्यच्च पूर्ववत् ॥ २५० ॥

18.251

श्लोक

द्वितीयो वासुदेवोऽयं द्वापरादौ स उच्यते । द्विभुजो वाथ कर्तव्यो वामे शङ्खधरः प्रभुः ॥ वरदो दक्षिणेनाथ वासुदेवो द्विधोदितः ॥ २५१ ॥

18.252

श्लोक

बलदेवश्चतुर्बाहुः कुण्डलैकविभूषितः । लाङ्गली मुषली देवो गदापद्मधरो विभुः । शङ्खचक्रगदापाणिः कर्तव्यो वरदोऽथवा ॥ २५२ ॥

18.253

श्लोक

प्राद्युम्नस्तु चतुर्बाहुः शङ्खचक्रधरः शुभः । चक्रं दक्षिणहस्ते च वामहरते धनुस्तथा ॥ २५३ ॥

18.254

श्लोक

शङ्खश्च दक्षिणे दद्याद्गदां वामे प्रदर्शयेत् । प्रद्युम्नं कारयेद्देव सर्वलक्षणसंयुतम् ॥ २५४ ॥

18.255

श्लोक

स्त्रियौ चैवास्य कर्तव्ये खड्गचर्मधरे शुभे । रतिप्रीत्योर्मध्यगत कम्बुग्रीवं सकार्मुकम् । द्विभुजं शरहस्तं वा प्रद्युम्नं कारयेद्बुधः ॥ २५५ ॥

18.256

श्लोक

अनिरुद्धः कम्बुग्रीवश्चतुर्बाहुः प्रभूषितः । दक्षिणेऽस्य गदा देया चक्रशङ्खौ तु वामतः । दक्षिणे च तथा पद्मनिरुद्धस्य दापयेत् ॥ २५६ ॥

18.257

श्लोक

नारायणश्चतुर्बाहुः कार्यस्तल्लक्षणं मया । मूर्तिद्वादशके सर्वं कीर्तितं ब्रह्मणः शृणु ॥ २५७ ॥

18.258

श्लोक

चतुर्मुखश्चतुर्बाहुबृहज्जठरमण्डलः । ऊर्ध्वमूर्ध्वं जटाजूटः सधूमसममेखलः ॥ २५८ ॥

18.259

श्लोक

शोभनं दक्षिणे हस्ते दद्यादस्याक्षसूत्रकम् । स्रुवञ्च दक्षिणे दद्याद्वामहस्ते तु कुण्डिकाम् ॥ २५९ ॥

18.260

श्लोक

आज्यस्थाल्श्ं कुशोपेतां वामहस्ते नियोजयेत् । शङ्खचक्रगदापाणिः कार्यो वाथ चतुर्मुखः ॥ २६० ॥

18.261

श्लोक

सरस्वती च सावित्री वामदक्षिणसंस्थिते । कर्तव्या मुनयो वाथ परिवार्य व्यवस्थिताः ॥ २६१ ॥

18.262

श्लोक

विनिविष्टः सदा ब्रह्मा कार्यो ह्यन्यस्ततोऽन्यथा । नृसिंहवत् स्वमात्रा तु किञ्चिदभ्यधिकः स्मृतः ॥ २६२ ॥

18.263

श्लोक

विष्णुरष्टभुजः कार्यश्चतुर्बाहुरथापि वा । वैनतेयगतः सौम्यः संदष्टोष्टपुटोऽपि वा ॥ २६३ ॥

18.264

श्लोक

खड्गं गदां शरं दद्यादृक्षिणे वरदोऽपरः । कार्मकं खेटकं चक्रं वामेऽस्य दापयेत् ॥ २६४ ॥

18.265

श्लोक

चतुर्भुजे गदा देया दक्षिणे वरदोऽवरः । वामे शङ्खञ्च चक्रञ्च विष्णुरेवंविधो मतः ॥ २६५ ॥

18.266

श्लोक

नरसिंहश्चतुर्बाहुः शङ्खचक्रगदाधरः । शङ्खचक्नधरो वापि विदारितमहासुरः ॥ २६६ ॥

18.267

श्लोक

चतुर्बाहुर्वराहस्तु शेषः पाणिपदे धृतः । धारयन् बाहुना पृथ्वीं व मेन कमलामथ ॥ २६७ ॥

18.268

श्लोक

पादलग्ना धरा कार्या यदा लक्ष्मीर्भुजस्थिता । वराह कामयेद्देवं शङ्खचक्रगदाधरम् ॥ २६८ ॥

18.269

श्लोक

सप्तालौ प्रशस्येते वराह नरकेशरी । नवतालावभ्यधिकौ पुरस्तात् कथितौ तव ॥ २६९ ॥

18.270

श्लोक

अष्टबाहुं बुधः कुर्यद्देव त्रैलोक्यमोहनम् । गरुडासनगं देवं प्रथमे वयसि स्थितम् ॥ २७० ॥

18.271

श्लोक

चक्रं खड्गञ्च मुसलं साङ्कुशं दक्षिणे न्यसेत् । शङ्खं शार्ङ्गं गदां पाशं वामहस्तेषु विन्यसेत् । लक्ष्मीसरस्वती कार्ये पद्मवीणासमन्विते ॥ २७१ ॥

18.272

श्लोक

अष्टबाहुः पूर्वमेव कथितः पुरुषोत्तमः । चतुर्बाहुं द्विबाहुञ्च संक्षेपात् कथयामि ते ॥ २७२ ॥

18.273

श्लोक

दक्षिणं शान्तिदं हस्त कुर्यादयं दयान्वितम् । वामोर्द्ध्वं कारयेच्चक्रं पाञ्चजन्यं तथा ह्यधः ॥ २७३ ॥

18.274

श्लोक

श्रीपुष्टिसहितं कुर्याच्चतुर्बाहुं सुरोत्तमम् । प्रसादे स्थापयेन्नित्यं गृहे वा मण्डपेऽपि वा ॥ २७४ ॥

18.275

श्लोक

एकं शान्तिकरं हस्तमपरं चक्रभूषितम् । श्रीसरस्वतीसंयुतमेकमायतने न्यसेत् ॥ २७५ ॥

18.276

श्लोक

गदाचक्रधरं वापि द्विभुजं पुरुषोत्तमम् । सीरपाणिसमोपेतमेकानंशान्वितं विभुम् । चतुरस्रायते धाम्नि स्थापयेत् सर्वकामदम् ॥ २७६ ॥

18.277

श्लोक

अतसीपुष्पसङ्काशं पीनवक्षःस्थलोरसम् । लावण्याम्बुजतोयेन सिञ्चन्तमिव सर्वतः ॥ २७७ ॥

18.278

श्लोक

त्रैलोक्ये यस्य रूपेण न भूतो न भविष्यति । तं देवं कारयेत् सौम्यं पुरुषोत्तममुत्तमम् ॥ २७८ ॥

18.279

श्लोक

बलदेवं द्विदोर्दण्डं मदविभ्रान्तलोचनम् । लाङ्गलासक्तपाणिन्त मुषलोद्यतदक्षिणम् ॥ २७९ ॥

18.280

श्लोक

कुर्याद्वा तस्य बाह्वोस्तु शङ्खचक्रौ सुशोभनौ । शरचापधरौ वापि वरशान्तिप्रदौ तथा ॥ २८० ॥

18.281

श्लोक

कार्यौ भुजौ महाभाग बलदेवस्य सत्तम । भोगान् पञ्चायवा सप्त कुर्यादस्य त्वनन्तवत् ॥ २८१ ॥

18.282

श्लोक

एकानंशान्तयोर्मध्ये कारयेत् सौम्यरूपिणीम् । वरदां पद्महस्तां वा दक्षिणेन भुजेन तु ॥ २८२ ॥

18.283

श्लोक

श्रोणिस्थ-वामहस्तां तु कुर्याद्भद्रां सुरेश्वरीम् । एवं ते द्विभुजो विष्णुः कथितः सर्वकामदः ॥ २८३ ॥

18.284

श्लोक

बलदेवेन सहितो भद्रया च समन्वितः । देवस्य दक्षिणे पार्श्व सुभद्रां विनिवेशयेत् । ततः परे मदाक्रान्तलोचनं स्थापयेद्बलम् ॥ २८४ ॥

18.285

श्लोक

विंशद्बाहुं विश्वरूपं कुर्यात्तल्लक्षणं शृणु । चक्रं खड्गञ्च मुषलमङ्कुशं पट्टिशं तथा ॥ २८५ ॥

18.286

श्लोक

मुद्गरञ्च तथा पाशं शक्तिं शूलं शरं तथा । दक्षिणेषु प्रदद्याद्वै वामेषु शृणु साम्प्रतम् ॥ २८६ ॥

18.287

श्लोक

शङ्ख शार्ङ्गं गदां पाशं तामर लाङ्गलं तथा । परशुं छुरिकां दण्डं चर्मप्रक्षेपणं तथा ॥ २८७ ॥

18.288

श्लोक

नृसिंहोक्तं परं मानं विश्वरूपस्य कीर्तितम् । चतुर्मुखं दक्षिणेऽस्य त्रिनेत्रं वामतो न्यसेत् । स्तुवन्तो मुनयः कार्या विद्रवन्तो निशाचराः ॥ २८८ ॥

18.289

श्लोक

वामपार्श्वेन शयितं कारयेज्जलशायिनम् । शेषपर्यङ्कगं देवं चतुर्बाहुं जनार्दनम् ॥ २८९ ॥

18.290

श्लोक

श्रिया धृतैकचरणं सर्वालङ्कारभूषितम् । देवीभिर्विमलाद्यभिः सेव्यमानमियस्ततः । नाभ्युत्थपङ्कजारूढपितामहसमन्वितम् ॥ २९० ॥

18.291

श्लोक

अष्टताला तु कर्तव्या देवी लक्ष्मीः सुरेश्वरी । तत्क्रमं सौरकाण्डे तु कथयिष्ये तवानघ ॥ २९१ ॥

18.292

श्लोक

नवतालिकक्षेत्रां तु कथ्यमानामितः शृणु । भ्रुवौ यवाधिके कार्य यवहीना तु नासिका ॥ २९२ ॥

18.293

श्लोक

गोलोकेनाधिकं वक्त्रमूर्द्ध्वतिर्यग्विवर्जितम् । आयते नयने कार्य त्रिभागोनैर्यवैस्त्रिभिः ॥ २९३ ॥

18.294

श्लोक

तदर्द्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् । कर्णपाशोऽधिकः कार्यः सृक्कण्या समसूत्रतः ॥ २९४ ॥

18.295

श्लोक

नम्रं कलाविहीनं तु कुर्यादंसद्वयं सदा । ग्रीवा सार्द्धकला कार्या तद्विस्तारोपशोभिता ॥ २९५ ॥

18.296

श्लोक

नेत्र विना तु विस्तारे ऊरू जानू च पिण्डिके । अङ्घ्रिपृष्ठे स्फिचे कट्यां यथायोग्यं प्रकल्पयेत् ॥ २९६ ॥

18.297

श्लोक

सप्तांशोनास्तथाङ्गुल्यो दैर्घ्यं विष्कम्भनाहतम् । नेत्रैकर्वर्जितायामा जङ्घोरू च तथा कटिः ॥ २९७ ॥

18.298

श्लोक

मध्यं पार्श्वं न तद्वृत्तं घनपीनं कुचद्वयम् । तालमात्रौ स्तनौ कार्यो कटिः सार्द्धकलाधिका । शेषमन्यद्यथोद्दिष्टं लक्ष्मीश्चेयं प्रकीर्तिता ॥ २९८ ॥

18.299

श्लोक

सर्वाभरणसम्पन्ना मध्ये क्षामा स्तनोन्नता । श्रोणीतटसुविरतीर्णा कार्या देवी सुरेश्वरी ॥ २९९ ॥

18.300

श्लोक

द्विभुजा कम्बुग्रीवा च विशालाक्षी सुलक्षणा । स्तनौ समुन्नती कार्यो कञ्चुकेनावगुण्ठितौ ॥ ३०० ॥