Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १८

श्रीमूर्तिप्रादुर्भावः

18.401

श्लोक

सूर्यरश्मिप्रतप्ता या या च दग्धा दवाग्निना । अन्यकर्मोपयुक्ता या अन्यदेवार्थनिर्मिता ॥ ४०१ ॥

18.402

श्लोक

क्रव्यादाद्यैरुपहता वज्यो यत्नेन वै शिला । येन केनचिदानीता वर्जनीया तथा शिला ॥ ४०२ ॥

18.403

श्लोक

पुण्यसेतुद्भवा ग्राह्या पुण्यतीर्थोद्भवा तु या । नदीपर्वतसंलग्ना वृक्षच्छायाद्यनावृता ॥ ४०३ ॥

18.404

श्लोक

निमग्ना भूतले या च याऽस्पृष्टा सूर्यरश्मिभिः । अन्तर्जलोषिता नद्यामेकवर्णा मनोरमा ॥ ४०४ ॥

18.405

श्लोक

पाण्डुरा चारुणा पीता कृष्णा शस्ता च वर्णिनाम् । न यदा लभ्यते सम्यग्वर्णिनां वर्णतः शिला ॥ ४०५ ॥

18.406

श्लोक

वर्णस्यापादने तत्र जुहुयात् सिंहविद्यया । कृते वर्णस्य जनने तस्य वर्णस्य सा शुभा ॥ ४०६ ॥

18.407

श्लोक

श्रेष्ठवर्णा सुवर्णा च रेखा सर्वस्य शस्यते । अपरस्य तु वर्णस्य श्रेष्ठस्य न प्रशस्यते ॥ ४०७ ॥

18.408

श्लोक

वणिनामिह सर्वेषां कृष्णरेखा विधीयते । शिलानामिह सर्वासां शुक्लरेखा प्रशस्यते ॥ ४०८ ॥

18.409

श्लोक

रेखाणामिह सर्वासां व्यत्यये होममाचरेत् । पातालनरसिंहेन सहस्रं देशिकोत्तमः ॥ ४०९ ॥

18.410

श्लोक

तापते मन्त्रराजे तु ततः सा शुभदा नृणाम् । विपरीते तु विमले विन्दुके हीरके तथा ॥ ४१० ॥

18.411

श्लोक

इममेव विधिं कुर्यादन्यस्मिन्नापि गर्हिते । युवा मध्या भवेद्ग्राह्या बाला वृद्धा च गर्हिता ॥ ४११ ॥

18.412

श्लोक

सुगन्धा निविडा स्निग्धा तथा गम्भीरनिस्वना । शीतला या च तेजाढ्या युवेति प्रोच्यते शिला ॥ ४१२ ॥

18.413

श्लोक

तद्रूपा शोच्यते मध्या किन्तु सा कठिना भवेत् । अतिमृद्वी भवेद्वाला वृद्धातिकठिना मता ॥ ४१३ ॥

18.414

श्लोक

टङ्काघाता मता बाला वृद्धा लोकक्षयङ्करी । स्त्रीपुंनपुंसकञ्चैव लक्षणेनैव लक्षयेत् ॥ ४१४ ॥

18.415

श्लोक

उत्पाट्यमाने दृश्येत तिन्दुकालातवत् ज्वलन् । स्फुलिङ्गः श्रूयते नादः कांस्यघण्टानिनादवत् ॥ ४१५ ॥

18.416

श्लोक

मुले मध्ये तथाग्रे च पुंलिङ्गेति तु सा स्मृता । तदेव लक्षणं यद्वन्मन्दं मन्दं प्रतीयते ॥ ४१६ ॥

18.417

श्लोक

स्त्रीलिङ्गेति तदा सा च भिन्नकांस्यध्वनिस्तु या । नपुंसकेति सा ज्ञेया न यत्रैतद्वयं भवेत् ॥ ४१७ ॥

18.418

श्लोक

पुंलिङ्गैः प्रतिमा कार्या स्त्रीलिङ्गैः पादपीठिका । पिण्डिकार्थं तु सा ग्राह्या दृष्टा या षण्डलक्षणा ॥ ४१८ ॥

18.419

श्लोक

लिङ्गानां तु विपर्यासे पूर्वोक्तं होममाचरेत् । छेदने भेदने वापि शिलागर्भः समीक्ष्यते ॥ ४१९ ॥

18.420

श्लोक

दृश्यते मण्डलं यस्यां सगर्भां तां विनिर्दिशेत् । मण्डूको मण्डले तस्या लोहिते नात्र संशयः ॥ ४२० ॥

18.421

श्लोक

हरिद्राभे भवेद्गोधा कृष्णसर्पस्तथा सिते । निस्त्रिंशसदृशे तोयं गृहगोधा तु कर्कशे ॥ ४२१ ॥

18.422

श्लोक

आखुर्हरिद्रावर्णे स्यादरुणे सरटस्तथा । पिङ्गवर्णे तु पाषाणः पद्माभे सिकता भवेत् ॥ ४२२ ॥

18.423

श्लोक

वृश्चिकः स्थाद्विचित्रे तु पोतनीले पतङ्गकः । पारावताभे खद्योतं मण्डले तु विनिर्दिशेत् ॥ ४२३ ॥

18.424

श्लोक

अकल्पना तु मण्डूके दौर्भाग्यं गोधया भवेत् । सर्प विषेण मरणमतिवृष्टिस्तथा जले ॥ ४२४ ॥

18.425

श्लोक

धनहानिस्तु गोधायाम खुनानिष्ठमुद्भवेत् । अल्पायुष्ट्वं तु सरटे पाषाणे विद्युतो बधः ॥ ४२५ ॥

18.426

श्लोक

बालुकायामनावृष्टिः कलहो वृश्चिके भवेत् । रष्ट्रोच्छित्तिस्तु शलभे खद्योते गात्रसंक्षयः ॥ ४२६ ॥

18.427

श्लोक

तस्मात् परीक्ष्य यत्नेन शिलां गृह्णीत देशिकः । सगर्भया तु शिलया रूपकः क्रियते यदि ॥ ४२७ ॥

18.428

श्लोक

तद्देशे म्रियते राजा यजमानोऽथ देशिकः । शिलायामपि वृक्षेषु यत्नाद्गर्भं समीक्षयेत् ॥ ४२८ ॥

18.429

श्लोक

विविक्ते संवृते स्थाने स्थपतिः संयतेन्द्रियः । पूर्ववत् कालदेशज्ञः शास्त्रज्ञः शुक्लभूषणः ॥ ४२९ ॥

18.430

श्लोक

प्रयतो नियताहारो देवताध्यानतत्परः । यजमानानुकूल्येन विद्वान् कर्म समाचरेत् ॥ ४३० ॥

18.431

श्लोक

धृत्वा पूर्वमुखं द्रव्यमथवा चोत्तरामुखम् । दधिदूर्वाक्षतैः पूज्य तदारम्भे बलिं हरेत् ॥ ४३१ ॥

18.432

श्लोक

पूर्ववद्ब्रह्मघोषाद्यैः स्थापयेद्द्रव्यमाचरेत् ॥ ४३२ ॥

18.433

श्लोक

शुक्लैर्गन्धैश्च पुष्पैश्च द्रव्यं सम्पूज्य भक्तितः । स्वस्तिवाचनकं कृत्वा प्रतिमां संविभाजयेत् ॥ ४३३ ॥

18.434

श्लोक

अतःपरं प्रवक्ष्यामि पिण्डिकालक्षणं तव ॥ ४३४ ॥

18.435

श्लोक

उच्छ्राय प्रतिमार्द्धञ्च दैर्घ्येण प्रतिमा समा । चतुःषष्टिं पुटान् कृत्वा पिण्डिकां तन्त्र कल्पयेत् ॥ ४३५ ॥

18.436

श्लोक

त्यक्त्वा पङ्क्तिद्वय चाधस्तदूर्द्ध्वं यत्तु कोष्ठकम् । समस्तमुभयोः पार्श्वं अन्तस्थं परिमार्जयेत् ॥ ४३६ ॥

18.437

श्लोक

ऊर्द्ध्वपङ्क्तिद्वयं कृत्वा अवस्ताद्वर्णकोष्टकम् । अन्तः थं मार्जयेद्यत्नात् पार्श्वयं रुभयोः समम् । तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः ॥ ४३७ ॥

18.438

श्लोक

चतुर्धा भाजयित्वा तु ऊर्द्ध्वपङ्क्तिद्वयं बुधः । मेखलाभागमात्रं स्यात् खातं तस्यार्द्धमानतः ॥ ४३८ ॥

18.439

श्लोक

भागं भागं परित्यज्य पार्श्वयोरुभयोः समम् । दत्त्वा चैकं पदं बाह्ये प्रमाणं कारयेद्बुधः ॥ ४३९ ॥

18.440

श्लोक

त्रिभागेन च भागः स्यादग्रे स्यात्तोयदिगगतः । नानाप्रकारभेदेन भद्रेयं पिण्डिका शुभा ॥ ४४० ॥

18.441

श्लोक

दैर्घ्येण प्रतिमा तुल्या तदर्द्धेन तु विस्तृता । उच्छ्रितायामतोऽर्द्धेन सुविस्तरार्द्धभागतः ॥ ४४१ ॥

18.442

श्लोक

त्रिभागेन तु बाहुल्यं तस्त्रिभागेन मेखला । खातं च तत् प्रमाणं तु किञ्चिदुत्तरतोन्नतम् ॥ ४४२ ॥

18.443

श्लोक

विस्तारस्य चतुर्थेन प्रमाणस्य विनिर्णयः । समं मूलस्य विस्तारमग्रे कुर्यात्तदर्द्धतः ॥ ४४३ ॥

18.444

श्लोक

विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् । पिण्डिकार्द्धेन वा तुल्यं दैर्घ्यं कुशस्य कीर्तितम् ॥ ४४४ ॥

18.445

श्लोक

कुशबाहुल्यदैर्घ्येण ज्ञात्वा सूत्र प्रकल्पयेत् । उच्छ्रायं पूर्ववत् कुर्याद्भागशेषेण संख्यया ॥ ४४५ ॥

18.446

श्लोक

अधस्तस्य द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् । शेषा ह्येकैकशः कार्याःप्रतिष्ठा निर्गतास्तथा ॥ ४४६ ॥

18.447

श्लोक

षष्टिका पिण्डिका चेयं सामान्यप्रतिमासु च । प्रासाद-द्वारमानेन प्रतिमा-द्रव्यमुच्यते ॥ ४४७ ॥

18.448

श्लोक

गजबालकसयुक्ता प्रभा स्यात् प्रतिमासु च । पिण्डिकासु यथाशोभं कर्तव्या सततं हरेः ॥ ४४८ ॥

18.449

श्लोक

पिण्डिकालक्षणं वक्ष्ये यथावदनुपूर्वशः । पीठोच्छ्रायं यथावच्च भागान् षोडशकारयेत् ॥ ४४९ ॥

18.450

श्लोक

भूमावेकः प्रतिष्ठः स्याच्चतुर्भिजंगती मता । वृत्तो भागस्तथैकः स्याद्वृत्तपट्टस्तु भागतः ॥ ४५० ॥

18.451

श्लोक

भागैस्त्रिभिस्तथा कण्ठः कण्ठपट्टस्त्रिभागतः । भागाभ्यामूर्द्ध्वपट्टस्तु शेषभागेन पट्टिका ॥ ४५१ ॥

18.452

श्लोक

प्रविष्टं भागमेकैक जगती यावदेव तु । निर्गमस्तु पुनस्तस्माद्यावद्वै शेषपट्टिकाः ॥ ४५२ ॥

18.453

श्लोक

वारिनिर्गमनार्थन्तु तत्र कार्यः प्रणालकः । पोठिकानां तु सर्वासामेतत् सामान्यलक्षणम् ॥ ४५३ ॥

18.454

श्लोक

विशेषाद्देवताभेदात् शृणुध्वं द्विजसत्तमाः । स्थण्डिला वाथ वापी च यक्षी वेदी च मण्डला ॥ ४५४ ॥

18.455

श्लोक

पूर्णचन्द्रा च वज्रा च पद्मा चार्द्धशशीस्तथा । त्रिकोणा दशमी तासां संस्थानञ्च निबोधत ॥ ४५५ ॥

18.456

श्लोक

स्थण्डिला चतुरस्त्रा तु वर्जिता मेखलादिभिः । वापी द्विमेखला ज्ञेया यक्षी चैव त्रिमेखला ॥ ४५६ ॥

18.457

श्लोक

चतुरस्रायता वेदी न तां लिङ्गेषु योजयेत् । मण्डला वर्तुला या तु मेखला त्रिगुणा प्रिया ॥ ४५७ ॥

18.458

श्लोक

रक्ता द्विमेखला मध्ये पूर्णचन्द्रा प्रकीर्तिता । मेखलात्रयसंयुक्ता षडस्रा वज्रिका भवेत् ॥ ४५८ ॥

18.459

श्लोक

षोडशास्त्रा भवेत् पद्मा किञ्चित् ह्रस्वा च मूलतः । तथैव धनुराकारा सार्द्धचन्द्रा प्रशस्यते ॥ ४५९ ॥

18.460

श्लोक

त्रिशूलसदृशो तद्वत् त्रिकोणा ऊर्द्ध्वतो मता । प्रागुदक्प्रवणा तद्वत् प्रशस्ता लक्षणान्विता ॥ ४६० ॥

18.461

श्लोक

परिवेषास्त्रिभागेन निर्देशं तत्र कारयेत् । विस्तार तत्प्रमाणं तु मूले चाग्रे तथोर्द्ध्वतः ॥ ४६१ ॥

18.462

श्लोक

जलमार्गस्तु कर्तव्यस्त्रिभागेन सुशोभनः । लिङ्गस्यार्द्धत्रिभागेन स्थौल्येन समधिष्ठितः ॥ ४६२ ॥

18.463

श्लोक

मेखला तु त्रिभागेन खातं वै तत्प्रमाणतः । अथवा पादहीनं तु शोभनं कारयेत् सदा ॥ ४६३ ॥

18.464

श्लोक

उत्तरस्थं प्रमाणन्तु प्रमाणादधिकं भवेत् । स्थण्डिलायामथारोग्यं धन-धान्यञ्च पुष्कलम् ॥ ४६४ ॥

18.465

श्लोक

गोप्रदा तु भवेद्यक्षी वेदी सम्पत्प्रदा भवेत् । मण्डलायां भवेत् कीर्तिर्वरदा पूर्णचन्द्रिका ॥ ४६५ ॥

18.466

श्लोक

अयुप्रदा भवेद्वज्री पद्मा सौभाग्यदायिनी । पुत्रदा त्वर्द्धचन्द्रा स्यात्त्रिकोणा शत्रुनाशिनी ॥ ४६६ ॥

18.467

श्लोक

देवस्य यजनार्थं तु पिण्डिका दश कीर्तिताः । शैले शैलमयीं पिण्डीं पार्थिवे पार्थिवीं तथा ॥ ४६७ ॥

18.468

श्लोक

दारुजे दारुजां कुर्यान्मिश्रे मिश्रां तथैव च । नान्ययोनिस्तु कार्या वै सदा शुभफलेप्सुभिः ॥ ४६८ ॥

18.469

श्लोक

अर्चायाम-समं दैर्घ्यं लिङ्गायाम-समं तथा । यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत् । एवमेव समारख्यातं समासात् पीठलक्षणम् ॥ ४६९ ॥

18.470

श्लोक

द्वारोच्छ्रायस्य यन्मानमष्टधा तत्तु कारयेत् । भागद्वयेन प्रतिमां त्रिभागीकृत्य तत् पुनः । पिण्डिका भागतः कार्या नातिनीचा न चोच्छुरिता ॥ ४७० ॥

18.471

श्लोक

विम्बमानाद्यथा पीठं कुर्याद्देवस्य तच्छृणु । चतुरस्त्रञ्च तद्विद्धि चतुरस्रायतं तु वा ॥ ४७१ ॥

18.472

श्लोक

विम्बोच्छ्राय-समं पीठं परितश्चैव विस्तृतम् । तदर्द्धनोन्नतं कुर्य देतत् सामान्यलक्षणम् ॥ ४७२ ॥

18.473

श्लोक

चतुरस्रस्य पीठस्य कथितं तु महामुने । चतुरस्र यतस्याथ प्रमाणमवधारय ॥ ४७३ ॥

18.474

श्लोक

विम्बाद्धीनन्तु विस्तीर्णं तत्प्रमाणेन चोन्नतम् । समं देवस्य दैर्घ्यं वा चतुरस्रायतं तु तत् ॥ ४७४ ॥

18.475

श्लोक

कार्य तुङ्गालयस्थानां देवतानां महामुने । चलानां वेश्मसंस्थानां विम्बानां पीठमन्यथा ॥ ४७५ ॥

18.476

श्लोक

कुर्याद्विम्बसमं दैर्घ्यं स्वेन मानेन वा पुनः । आपादजानुहुर्यन्त विस्तारेणोच्छ्रयेण च ॥ ४७६ ॥

18.477

श्लोक

ऊर्वर्द्धेनाथवा कुर्यात् सविस्तार द्विजोन्नतिम् । वक्षोऽन्तरे वा विम्बस्य तस्यार्द्धेन च विस्तृतम् ॥ ४७७ ॥

18.478

श्लोक

तच्चतुर्भागहीनं तु त्रिभागं चार्द्धमेव वा । अङ्ग त्वं विद्धि तत् पीठं चलविम्बस्य सर्वदा ॥ ४७८ ॥

18.479

श्लोक

धातुद्रव्यस्य चाभावात् स्थिराणामेकमेव च । कृत्वा तु तदधः कुर्यादुपपीठ प्रमानतः ॥ ४७९ ॥

18.480

श्लोक

त्रिभागेनाथ पीठस्य प्रमाणं मध्यतो भवेत् । तन्मानेन ततो दैर्घ्य स्वमानाग्रतः पुनः ॥ ४८० ॥

18.481

श्लोक

त्र्यंशमानेन विस्तीर्णं तस्यापि त्र्यंशमन्तरा । निखनेदग्रतो मूलात् तत् कुर्यान्मकराननम् ॥ ४८१ ॥