Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १८

श्रीमूर्तिप्रादुर्भावः

18.101

श्लोक

स्त्रियः कार्याश्च विद्वद्भिस्तनोरुजघनाधिकाः । नानाभरणसंयुक्ताः किञ्चिद्ध्रस्वभुजाः शुभाः ॥ १०१ ॥

18.102

श्लोक

ग्रीवावलिश्च कर्तव्या किञ्चिदूर्द्धाङ्गुलोच्छ्रया ॥ १०२ ॥

18.103

श्लोक

एवं नारीषु सर्वासु देवानां प्रतिमासु च । नवतालमिदं प्रोक्तं लक्षणं पापनाशनम् ॥ १०३ ॥

18.104

श्लोक

मृत्तिका वर्ण-पूर्वेण गृह्णीयुः सर्वर्णिनः । नदीतीरेऽथवा क्षेत्रे पुण्यस्थानेऽथवा पुनः ॥ १०४ ॥

18.105

श्लोक

पाषाणकर्करालोहचूर्णानि समभागतः । मृत्तिकायां प्रयोज्याथ कषायेण प्रपीडयेत् ॥ १०५ ॥

18.106

श्लोक

खादिरेणार्जुनेनाथ सर्जश्रीवेष्टकुङ्कुमैः । कोटजैरायसैः स्नेहैर्दधिक्षीरघृत्तादिभिः ॥ १०६ ॥

18.107

श्लोक

आलोड्य मृत्तिका तैस्तैः स्थाने स्थाप्य पुनः पुनः । मासं पर्युषितं कृत्वा प्रतिमां परिकल्पयेत् ॥ १०७ ॥

18.108

श्लोक

स्थापयेत् प्रतिमाशूलं रत्नण्यासस्य चोपरि । शूलञ्च खादिरादीनां यज्ञीयानां प्रकल्पयेत् ॥ १०८ ॥

18.109

श्लोक

विंशोत्तरशतं शूलं कुर्याद्वा पञ्चविंशतिः । प्रतिमाङ्गुलमानेन कृत्वा संस्थापयेद्बुधः ॥ १०९ ॥

18.110

श्लोक

चतुर्दशाङ्गुलं प्रोक्तं सपादं दलमेव वा । सप्तविंशति चाधस्तान्नाभ्युर्द्ध्वोऽर्द्धाङ्गुलं मुखम् ॥ ११० ॥

18.111

श्लोक

पञ्चविंशाङ्गुलौ चोरू सार्द्धत्रिकलमस्तकम् । ऊरू स्मृते समे जङ्घेपादोच्छ्रायं सुसम्मितम् ॥ १११ ॥

18.112

श्लोक

नेत्रद्वयं समुद्दिष्टमर्द्धाङ्गुलसमन्वितम् । द्विगोलोका भवेद्ग्रीवा चार्द्धाङ्गुल समन्विता ॥ ११२ ॥

18.113

श्लोक

भागस्य वृद्धिं वक्ष्यामि पञ्चविंशांशके तथा । अर्द्धार्द्धमङ्गुलं दद्यात् हृदयादिषु भागशः ॥ ११३ ॥

18.114

श्लोक

पञ्चविंशाङ्गुलं वक्षो विस्तारेण प्रकीर्तितम् । कटिर्विस्तारतः कार्या षोडशाष्टदशाङ्गुला ॥ ११४ ॥

18.115

श्लोक

पञ्चविंशाङ्गुलौ बाहू आयामेन प्रकीर्तितौ । तथा सप्तदश प्रोक्ता वायामेन प्रबाहुकौ ॥ ११५ ॥

18.116

श्लोक

मणिबन्धः कलायामस्तस्मात्तं प्रतिमस्तकम् । आयामो मध्यमायास्तु षडङ्गुल इति स्मृतः ॥ ११६ ॥

18.117

श्लोक

एतत् संक्षेपतः प्रोक्तं दशतालस्य लक्षणम् । प्रतिमायाश्चतुर्थेन कूर्मार्चा परिकीर्तिता । तत्त्रिभागेन तत्पीठं कुर्यात् सिद्ध्यर्थमुत्तमम् ॥ ११७ ॥

18.118

श्लोक

अतःपरं प्रवक्ष्यामि देवाकारान् विशेषतः । दशतालः स्मृतो रामो बलिर्वैरोचनिस्तथा ॥ ११८ ॥

18.119

श्लोक

वराहो नरसिंहश्च सप्ततालस्तु वामनः । मत्स्यकूर्मौ तु निर्दिष्टौ यथाशोभ स्वयम्भुवा ॥ ११९ ॥

18.120

श्लोक

महावराहं वक्ष्यामि पद्महस्तं गदाधरम् । तीक्ष्णदंष्ट्राग्रघोरास्यं मेदिनीं वामकूर्परे ॥ १२० ॥

18.121

श्लोक

दंष्ट्राग्रेणोद्धृतां दीप्तां धरणीमुत्पलान्विताम् । विस्मयोत्फुल्लनयनामुपरिष्टात् प्रकल्पयेत् ॥ १२१ ॥

18.122

श्लोक

दक्षिणं कटिसंस्थञ्च करं तस्य प्रकल्पयेत् । कूर्मोपरि तथा पादमेकं नागेन्द्रमूर्द्धनि । संस्तूयमानं लोकेशैः समन्तात् परिकल्पयेत् ॥ १२२ ॥

18.123

श्लोक

नारसिंहन्तु कुर्वीत भुजाष्टकसमन्वितम् । रौद्रं सिंहाननं तद्वद्विदारितमुखेक्षणम् ॥ १२३ ॥

18.124

श्लोक

स्तब्धपानसटाकीर्णं दारयन्तं दितेः सुतम् । विनिर्गतान्त्रजालञ्च दानवं परिकल्पयेत् ॥ १२४ ॥

18.125

श्लोक

वमन्तं रुधिरोद्गारं भ्रूकुटिवदनेक्षणम् । युध्यमानं च कुर्वीत क्वचित् करणबन्धनैः ॥ १२५ ॥

18.126

श्लोक

परिश्रान्तेन दैत्येन तर्ज्यमानं मुहुर्मुहुः । दैत्यान् प्रदर्शयेत्तत्र खड्गखेटकधारिणः । स्तूयमानं तथा विष्णुं दर्शयेदमराधिपैः ॥ १२६ ॥

18.127

श्लोक

तथा त्रिविक्रमं वक्ष्ये ब्रह्माण्डाक्रमणोल्वणम् । पादपार्श्वे तथा बाहुमुपरिष्टात् प्रकल्पयेत् ॥ १२७ ॥

18.128

श्लोक

अधस्ताद्वामनं तद्वत् कल्पयेत् सकमण्डलुम् । दक्षिणे छत्रिकां दद्यान्मुखं दीनं प्रदर्शयेत् ॥ १२८ ॥

18.129

श्लोक

भृङ्गार-धारिणं तद्वद्बलिं तस्य च पार्श्वतः । बन्धनं चास्य कुर्वन्तं गरुडं तस्य दर्शयेत् ॥ १२९ ॥

18.130

श्लोक

मत्स्यरूपं तथा मात्स्यं कौर्मं कूमाकृतिं न्यसेत् । एवंरूपः स भगवान् कार्यो नारायणो हरिः ॥ १३० ॥

18.131

श्लोक

देवदेवं तथा विष्णुं कारयेद्गरुडस्थितम् । कौस्तुभोद्भासितौरस्कं सर्वाभरणधारिणम् ॥ १३१ ॥

18.132

श्लोक

सजलाम्बुद-सच्छायं पीतदिच्याम्बरं तथा । मुखाश्च कार्याश्चत्वारो बाहवो द्विगुणास्तथा ॥ १३२ ॥

18.133

श्लोक

सौम्येन्दुवदनं पूर्वं नारसिंहन्तु दक्षिणम् । कपिलं पश्चिमं वक्त्रं तथा वाराहमुत्तरम् ॥ १३३ ॥

18.134

श्लोक

तस्य दक्षिणहस्तेषु वाणार्कमुषलादयः । चर्मशङ्खधराविन्दुचापे च वनमालिनः । कार्याणि विष्णुधर्मोक्त्या वामहस्तेष्वनुक्रमात् ॥ १३४ ॥

18.135

श्लोक

एकवक्त्रो द्विबाहुश्च गदाचक्रधरः प्रभुः ॥ १३५ ॥

18.136

श्लोक

एकवक्त्रश्चतुर्बाहुः सौम्यरूपी सुदर्शनः । सलिलाध्नातमेघाभः सर्वाभरणभूषितः ॥ १३६ ॥

18.137

श्लोक

कण्ठेन शुभदेशेन कम्बुतुल्येन राजता । वराभरणयुक्तेन कुण्डलोत्तमभूषितः ॥ १३७ ॥

18.138

श्लोक

अङ्गदी बद्धकेयूरो वनमालाविभूषितः । उरसा कौस्तुभं विभ्रत् किरीटं शिरसा तथा ॥ १३८ ॥

18.139

श्लोक

शिरःपद्मस्तथैवास्य कर्तव्यश्वारुकर्णिकः । पुष्टाश्लिष्टायतभुजरतनुताम्रनखाङ्गुलिः ॥ १३९ ॥

18.140

श्लोक

मध्येन त्रिबलीभङ्गशोभितेन सुचारुणा । स्त्रीरूपधारिणी कार्या क्षौणी तत्पदमध्यगा ॥ १४० ॥

18.141

श्लोक

तत्करस्थाङ्घ्रियुगलो देवः कार्यो जनार्दनः । सुचारुपदविन्यासः किञ्चिन्निष्क्रान्तदक्षिणः ॥ १४१ ॥

18.142

श्लोक

अनुदृश्या मही कार्या देवदर्शनविस्मिता । देवश्च कटिवासेन कार्यो जान्ववलम्बिना ॥ १४२ ॥

18.143

श्लोक

वनमाला च कर्तव्या देवजान्ववलम्बिनी । यज्ञोपवीतं वर्तव्यं नाभिदेशमुपागतम् ॥ १४३ ॥

18.144

श्लोक

उत्फुल्लकमलं पाणौ कुर्याद्देवस्य दक्षिणे । वामपाणिगतं शेषं शङ्खाकारं तु कारयेत् ॥ १४४ ॥

18.145

श्लोक

दक्षिणे तु गदा देवी तनुमध्या सुलोचना । स्त्रीरूपधारिणी मुग्धा सर्वाभरणभूषिता ॥ १४५ ॥

18.146

श्लोक

पश्यन्ती देवदेवेशं कार्या चामरधारिणी । कार्यं तन्मूर्धिन विन्यस्तं देवहस्तं तु दक्षिणम् ॥ १४६ ॥

18.147

श्लोक

वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा । सर्वाभरणसंयुक्तो वृत्तविस्फारितेक्षणः ॥ १४७ ॥

18.148

श्लोक

कर्तव्यश्चामरकरो देवचीक्षणतत्परः । कार्यो देवकरो वामो विन्यस्तस्तस्य मूर्धनि ॥ १४८ ॥

18.149

श्लोक

वासुदेवस्वरूपेण कार्यः सङ्कर्षणः प्रभुः । स तु शुक्लवपुः कार्यो नीलवासा यदूत्तमः ॥ १४९ ॥

18.150

श्लोक

गदास्थाने तु मुषलं चक्रस्थाने तु लाङ्गलम् । कर्तव्यौ तनुमध्यौ तौ नृरूपौ रूपसंस्थितौ ॥ १५० ॥

18.151

श्लोक

वासुदेवस्वरूपेण प्रद्युम्नश्च तथा भवेत् । स तु दूर्वाङ्कुरश्यामः श्वेतवासा विधीयते ॥ १५१ ॥

18.152

श्लोक

चक्रस्थाने भवेच्चायं गदास्थाने तथा शरः । तथाविधौ तु कर्तव्यौ यथा मुषल-लाङ्गलौ ॥ १५२ ॥

18.153

श्लोक

अथानिरुद्धमूर्तिः एतदेव तथा रूपमनिरुद्धस्य कारयेत् । पद्मपत्राभ-वपुषो रक्ताम्बरधरस्य तु ॥ १५३ ॥

18.154

श्लोक

चक्रस्थाने भवेच्चर्म यदास्थानेऽसिरेव च । चर्म स्याच्चक्ररूपेण प्रांशुः खड्गो विधीयते ॥ १५४ ॥

18.155

श्लोक

चक्रादीनां स्वरूपाणि किञ्चित पूर्वं प्रदर्शयेत् । रम्याण्यायुधरूपाणि चक्रादीन्येव यादव ॥ १५५ ॥

18.156

श्लोक

वामपार्श्वगताः कार्या देवानां प्रवरा ध्वजाः । सुपताकायुता राजन् यष्टिस्थास्ते यथोचितम् ॥ १५६ ॥

18.157

श्लोक

हंसो मत्स्यस्तथा कूर्मः कार्यास्तद्रूपधारिणः । शृङ्गी मत्स्यस्तु कर्तव्यो देवदेवो जनार्दनः ॥ १५७ ॥

18.158

श्लोक

ऐश्वर्यमनिरुद्धस्तु वराहो भगवान् हरिः । ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः ॥ १५८ ॥

18.159

श्लोक

नृवराहोऽथवा कार्यः शेषोपरि गतः प्रभुः । शेषश्चतुर्भुजः कार्यश्चारुरत्नफणान्वितः ॥ १५९ ॥

18.160

श्लोक

आश्चर्योत्फुल्लनयनो देववीक्षणतत्परः । कर्तव्यो सीरमुषलो करयोस्तस्य यादव ॥ १६० ॥

18.161

श्लोक

सर्पभोगश्च कर्तव्यस्तथैव रचिताङ्गुलिः । आलीढस्थानसंस्थानस्तत्पृष्ठे भगवान् भवेत् ॥ १६१ ॥

18.162

श्लोक

मूर्तिमन्तमनैश्वर्यं हिरण्याक्षं विदुर्बुधाः । ऐश्वर्येणाविशेषेण स निरस्तोऽरिमर्दनः ॥ १६२ ॥

18.163

श्लोक

नृवराहोऽथवा कार्यो ध्याने कपिलवत् स्थितः । द्विभुजस्त्वथवा कार्यः पिण्डनिर्वपणोद्यतः ॥ १६३ ॥

18.164

श्लोक

समग्रक्रोडरूपो वा बहुदानवमध्यगः । नृवराहो वराहो वा कर्तव्यः क्ष्माविदारणः ॥ १६४ ॥

18.165

श्लोक

ज्ञानवद्भिः स एवोक्तो ज्ञानं परमवर्द्धनः । पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः ॥ १६५ ॥

18.166

श्लोक

सिंहाननो नृवेहश्च नीलवासाः प्रभान्वितः । आलीढस्थानसंस्थानः सर्वाभरणभूषितः ॥ १६६ ॥

18.167

श्लोक

ज्वालामालाकुलमुखो ज्वलत्केशरमण्डलः । हिरण्यकशिपोर्वक्षः पाटयन्नखरैः खरैः ॥ १६७ ॥

18.168

श्लोक

नीलोत्पलाभः कर्तव्यो देवजानुगतस्तथा । हिरण्यकशिपुर्दैत्यस्तमज्ञानं विदुर्बुधाः ॥ १६८ ॥

18.169

श्लोक

कर्तव्यो वामनो देवः सङ्कटे भक्तिभावितैः । पीनगात्रश्च कर्तव्यो दण्डी चाध्ययनोद्यतः । दूर्वाश्यामस्तु कर्तव्यः कृष्णाजिनधरस्तथा ॥ १६९ ॥

18.170

श्लोक

सजलाम्बुदसङ्काशस्तथा कार्यस्त्रिविक्रमः । दण्डपाशधरः कार्यः शङ्खचक्रगदाधरः ॥ १७० ॥

18.171

श्लोक

शङ्खचक्रगदापद्माः कार्यास्तस्य स्वरूपिणः । निर्दहारते न कर्तव्याः शेषः कार्यश्च पूर्ववत् । एकोर्द्ध्वदनः कार्यो देवो विस्फारितेक्षणः ॥ १७१ ॥

18.172

श्लोक

कार्यस्तु भार्गवो रामो जटामण्डलदुर्दृशः । हस्तेऽस्य परशुः कार्यः कृष्णाजिनधरस्य तु ॥ १७२ ॥

18.173

श्लोक

रामो दाशरथिः कार्यो राजलक्षणलक्षितः । भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाशयः । तथैव सर्वे कर्तव्याः किन्तु मौलिविवर्जिताः ॥ १७३ ॥

18.174

श्लोक

कृष्णश्चक्रधरः कार्यो नीलोत्पलदलच्छविः । इन्दीवरधरा कार्या तस्य साक्षाच्च रुक्मिणी ॥ १७४ ॥

18.175

श्लोक

सीर-पाणिर्बलः कार्यो मुषली चैककुण्डली । श्वेतोऽतिनीलवसनो मदाधूर्णितलोचनः ॥ १७५ ॥

18.176

श्लोक

चापवाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः । राजन् दूर्वादलश्यामः श्वेतवासा मदोत्कटः ॥ १७६ ॥

18.177

श्लोक

कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि । अष्टबाहुः स कर्तव्यः शङ्खपद्मविभूषणः ॥ १७७ ॥

18.178

श्लोक

चापवाणधरश्चैव मदाकुञ्चितलोचनः । रतिः प्रीतिस्तथा शक्तिर्मन्दशक्तिस्तथोज्ज्वला ॥ १७८ ॥

18.179

श्लोक

चतस्त्रस्तस्य कर्तव्याः पत्न्यो रूपमनोहराः । चत्वारश्च करास्तस्य कार्यो भार्यास्तनोपगाः । केतुश्च मकरः कार्यः पञ्चवाणमुखो महान् ॥ १७९ ॥

18.180

श्लोक

कर्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरः प्रभुः । साम्बः कार्यो महाहस्तस्वरूपोऽसावशेषतः । सम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससौ ॥ १८० ॥

18.181

श्लोक

गोपालप्रतिमां कुर्याद्वेणुवादनतत्पराम् । वर्हापीडां घनश्यामां द्विभुजामूर्द्ध्वसंस्थिताम् ॥ १८१ ॥

18.182

श्लोक

काषारवस्त्रसंवीतः स्कन्धसंसक्तचीवरः । पद्मासनस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः ॥ १८२ ॥

18.183

श्लोक

दूर्वाश्यामो नरः कार्यो द्विभुजश्च महाभुजः । नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ॥ १८३ ॥

18.184

श्लोक

तयोर्मध्ये तु वदरी कार्या फलविभूषणा । नरनारायणौ देवावक्षमालाधरावुभौ ॥ १८४ ॥

18.185

श्लोक

अष्टचक्रे स्थितौ जाले भूतयुक्ते मनोरमे । कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ ॥ १८५ ॥

18.186

श्लोक

पादेन चक्रेन रथस्थितेन पादेन चैकेन च जानुगेन । कार्यो हरिश्चात्र नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः ॥ १८६ ॥

18.187

श्लोक

मूर्तिमत्पृथिवीहस्तन्यस्तपादः सितच्छविः । नीलाम्बरधरः कार्यो देवो हयशिरोधरः ॥ १८७ ॥

18.188

श्लोक

विद्धि सङ्कर्षणांशेन देवं हयशिरोधरम् । कर्तव्योऽष्टभुजो देवस्तत्करेषु चतुर्षु च ॥ १८८ ॥

18.189

श्लोक

शङ्खचक्रगदापद्मान् सकारान् दर्शयेद्बुधः । चत्वारश्च कराः कार्या देवानां देहधारिणाम् । देवेन मूर्ध्नि विन्यस्ताः सर्वाभरणभूषिताः ॥ १८९ ॥

18.190

श्लोक

प्रद्युम्नं विद्धि वैराग्यं कापिलीं तनुमाश्रितम् । मध्ये ऊरुकरः कार्यस्तस्योत्सङ्गतः परः । दोर्युगं चापरं तस्य शङ्खचक्रधरं भवेत् ॥ १९० ॥

18.191

श्लोक

पद्मासनोपविष्टश्च ध्यानसन्मीलितेक्षणः । कर्मण्यः कपिलो देवो जटामण्डलदुर्दृशः ॥ १९१ ॥

18.192

श्लोक

वायुसंरोधपीनाङ्गः पद्माङ्कचरणद्वयः । मृगाजिनधरो राजन् शुभयज्ञोपवीतवान् । विभुर्मन्त्रमहापद्मकर्णिकामध्यमास्थितः ॥ १९२ ॥

18.193

श्लोक

वैराग्यभावेन महानुभावो ध्याने स्थितः स्वं परम पदं तत् । ध्यायंस्तथा वै भुवनस्य गोप्ता साङ्ख्यप्रवक्ता पुरुषः पुराणः ॥ १९३ ॥

18.194

श्लोक

श्यामवर्णस्तनूवासा पिङ्गलाक्षो जटाधरः । सुमन्तुर्जैमिनिः पैलो वैशम्पायन एव च । तस्य शिष्याश्च कर्तव्याश्चत्वारः पारिपार्श्विकाः ॥ १९४ ॥

18.195

श्लोक

गौरस्तु कार्यो वाल्मीकिजटामटामण्डलदुर्दृशः । तपस्यभिरतः शान्तो न कृशो न च पीबरः ॥ १९५ ॥

18.196

श्लोक

वाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत् । जलमध्यगतः कार्यः शेषः पान्नगदर्शनः । फणापुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः ॥ १९६ ॥

18.197

श्लोक

देवदेवस्तु कर्तव्यः शेषभोगाङ्कसंस्थितः । एको भुजोऽस्य कर्तव्यस्तत्र जानौ प्रसारित्तः ॥ १९७ ॥

18.198

श्लोक

कर्तव्यो नाभिदेशे तु तदा तस्य परः करः । तथैवान्यकरः कार्यो देवस्य सुशिरोधरः ॥ १९८ ॥

18.199

श्लोक

स तानमञ्जरीधारी तथैवास्य परो भवेत् । नाभीसरसि सम्भूते कमले तस्य यादव ॥ १९९ ॥

18.200

श्लोक

सर्वपृथ्वीमये देवः प्राग्वत् कार्यः पितामहः । नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ ॥ २०० ॥